सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/सप्तत्रिंशोऽध्यायः

विकिस्रोतः तः
← षड्त्रिंशोऽध्यायः प्रकीर्णाऽधिकारः
सप्तत्रिंशोऽध्यायः
[[लेखकः :|]]

अथ सप्तत्रिंशोऽध्यायः॥
त्रियुगधर्म प्रपंचः॥
अथ वक्ष्ये लघूक्तेन युगधर्मांस्ततः परम्
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम्॥ 1
कृतमेव च कर्तव्यं तस्मिन् काले यदीप्सितम्
न तत्रधर्माःसीदन्ति न च क्षीयन्तिवै प्रजाः 2
ततः कृतयुगं प्रोक्तमन्वर्थेन गुणेन वै
न तस्मिन्‌ युगसंसर्गेव्यवायो नेन्द्रियक्षयः॥ 3
नाऽनूया नाऽपि रुदितं न दर्पो न च पैशुनम्
न विग्रहो न विद्वेषोन मिथ्या नाऽपि वंचनम्॥ 4
न भयं न च सन्तापो न लोभो न च मानिता
तदा ज्योतिःपरं ब्रह्म वैखानसमनामयम्॥ 5
या गति र्योगिनामेका ह्यपुनर्भवकांक्षिणाम्॥
विष्णुस्सर्वात्मको देवः शुक्लो नारायणः स्मृतः 6
अन्तर्यामिणि तस्मिंस्तु सर्वलोकमये हरौ
स्वयं शुक्लत्वमापन्ने सर्वमच्छं भविष्यति 7
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च भगवत्पराः
स्वकर्मनिरतास्सर्वेभवन्ति मनुजाः कृते॥ 8
समाश्रमं समाचारं सत्यभूतं तपोरतम्
विज्ञानभरितं सर्वं जगद्भवति सन्ततम्॥ 9
एक वेदसमायुक्ता एकधर्मविधिक्रियाः
पृथग्धर्मास्त्वेक वेदा धर्ममेकमनुव्रताः॥ 10
चतुराश्रमयुस्तेन कर्मणा कालयोगिना
अकामभलसंयोगाः प्राप्नुवन्ति परां गतिम्॥ 11
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः
एतत्कृतयुगं नाम त्रैगुण्यगुणवर्जितम्॥ 12
ततस्त्रेतायुगं नाम यत्र धर्मस्त्री पाद्भवेत्
रक्ततां तु समभ्येति हरिर्नारायणः प्रभुः 13
सत्यप्रवृत्ताश्च नराः दानधर्मपरायणाः
यजन्ते विविधैर्यज्ञैर्नारायणमनामयम्॥ 14
ब्राह्मणाद्यास्स्वधर्मेषु प्रवर्तन्ते निरन्तरम्
यतो धर्मपदे वृद्धा द्वापरं प्रतिपेदरे॥ 15
युगं संशीनधर्मत्वाद्द्वापरं परिचक्षते
विष्णुः पीतत्वमभ्येति वेदश्चाऽपि विभज्यते॥ 16
द्विपाद्भवति वैधर्मो द्वापरे समुपस्थिते
द्विवेदाश्चैकवेदाश्च निर्वेदाश्च तथा परे॥ 17
विभिन्नशास्त्रनिष्ठाश्च भवन्ति विविधक्रियाः
प्रजा दानपरा भूत्वा दानं शंसन्ति सन्ततम्॥ 18
राजसं भावमाश्रित्य राजसी भवति प्रजा
सत्त्वात्प्रच्यवमानानां व्याधयो भृशदारुणाः॥ 19
अत्याहितानि चान्यानि भवेष्यन्त्यधरोत्तरम्
कालस्य ह्रस्वतायोगाच्चतुर्थं स्याद्युगं कलिः॥ 20
प्रत्यक्षरूपधृग्देवो न कलौ दृश्यते यतः
कृतादिष्विव तेनैव त्रियुगः कलिरुच्यते॥ 21
पदेनैकेन वै धर्मः प्रवर्तेत कलौ युगे
तस्मिंस्तु समनुप्राप्ते न धर्मस्संप्रवर्तते॥ 22
तामसं युगमासाद्य हरिः कृष्णत्वमेति च
यः कश्चिदत्र धर्मात्मा क्रियोयोगरतो भवेत्॥ 23
नरं धर्मपरं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते
वर्णाश्रमाश्रिताचाराः प्रणश्यन्तिन संशयः॥ 24
व्रताचाराः प्रणश्यन्ति ध्यानयज्ञादयस्तथा
उपद्रवा जनिष्यन्ति ह्यधर्मस्य प्रवर्तनात्॥ 25
असूयानिरतास्सर्वे दंभाचारपरायणाः
प्रजाश्चाल्पायुषस्सर्वे भविष्यन्तिकलौ युगे॥ 26
सर्वेधर्माः प्रणश्यन्ति कृष्णे कृष्मत्वमागते
यस्मात्कलिर्महाघोरस्सर्वपापस्य साधकः 27
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा धर्मपराङ्मुखाः
घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः 28
व्याजधर्मपरास्सर्वे वृधाहंकार दूषिताः
सर्वमाक्षिप्यते नित्यं नरैः पंडितमानिभिः 29
अहमेवाधिक इति सर्वो विवदते जनः
अधर्मलोलुपास्सर्वे तथा चैव द्विजातयः 30
अतस्त्वल्पायुषस्सर्वे भविष्यन्ति कलौ युगे
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं भवेत्॥ 31
विद्याग्रहणशून्यत्वादधर्मस्संप्रवर्तते
व्युत्क्रमेण प्रजास्सर्वा म्रियन्ते पापतर्पराः 32
ब्राह्मणाद्यास्तथा वर्णास्संकीर्यन्ते परस्बरम्
कामक्रोधपरा मूढा वृधाहं कारपूरिताः॥ 33
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः
जनास्सर्वे दयाहीना दाक्षिण्य परिवर्जिता॥ 34
शूद्रतुल्या भविष्यन्ति तपस्सत्यविवर्जिताः
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा॥ 35
राजानो द्रव्यनिरता लोभमोहपरायणाः
धर्मकंचुकसंवीता धर्मविध्वंसकारिणः 36
यो योऽश्वरथनागाढ्यस्स स राजा भविष्यति
किंकराश्च भविष्यन्ति शूद्राणां चद्विजातयः॥ 37
म्लेच्छाश्च युनाद्याश्च पालयन्ति वसंधराम्
अनावृष्टिभयात्प्रायो गगनादत्तचक्षुषः 38
भविष्यन्ति नरास्सर्वे सदा क्षुद्भयकातराः
कलौ नराभविष्यन्ति स्वल्पभाग्या बहुप्रजाः॥ 39
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः
दुश्शीला दुष्टशीलेषु करिष्यन्ति स्पृहां स्त्रियः॥ 40
परुषाऽनृतभाषिण्यो देहसंस्कार वर्जिताः
वाचालाश्च भविष्यन्तिकलौ प्राप्ते सदा स्त्रियः॥ 41
नगरेषु च ग्रामेषु प्राकाराट्टादिकान्‌ जनाः
चोरादिभयभीताश्च काष्ठयन्त्राणि कुर्वते॥ 42
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः
गोधूमान्नयवान्नाढ्यान्‌ देशान्‌ प्राप्स्यन्ति दुःखिताः॥ 43
स्वकार्यसिद्धिपर्यन्तं स्निह्यन्त्यन्येषु मानवाः
भिक्षवश्चाऽपि मित्रादिस्नेहसंबंधयन्त्रिताः॥ 44
अन्नोपाधिनिमित्तेन शिष्यान्‌ गृह्णन्ति सर्वतः
उभाभ्यामपि हस्ताभ्यां शिरःकंडूयनं स्त्रियः॥ 45
कुर्वन्त्यो भर्तृमुख्यानामाज्ञां भेत्स्यन्त्यानादृताः
पाषंडालापनिरताः पाषंडिजनसंगिनः॥ 46
भविष्यन्ति यदा विप्रा स्तदा वृद्धिमियात्कलिः
अल्पोदकास्तथा मेघा अल्पसस्या वसुंधरा॥ 47
अल्पक्षीरास्तथा गावः क्षीरात्सर्पिर्न जायते
एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च॥ 48
नाऽस्ति वर्णान्तरं तत्रलयं यास्यन्ति मानवाः
सन्तस्सीदन्त्यसन्तश्च विलसन्तिसमन्ततः॥ 49
मैत्री परजने भूयाद्वैरं च स्वजने भवेत्
पुत्राः पितृषु जीवत्सु म्रियन्ते च तदग्रतः 50
कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः
त्यक्ष्यन्तिहि प्रियान्‌ प्राणान्‌ हनिष्यन्ति स्वबांधवान्‌॥ 51
पाषंडप्रचुरेधर्मे दस्युप्रायेषु राजसु
चौर्यानृतवृधाहिंसानानावृत्तिषु वै नृषु॥ 52
शूद्रप्रायेषु वर्णेषु छागप्रायेषु गोषु च
करिष्यन्ति तथा शूद्राः प्रव्रज्यालिंगिनौऽधमाः॥ 53
काषायपरिनीताश्च जटिला भक्मधूसराः
अशौचावक्रमतयः परपाकान्नजीविनः 54
देवद्विजनिवासेषु पूजामिच्छन्ति पापिनः
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजिता स्तथा॥ 55
उत्कोच जीविनस्तत्र महापापरतास्तथा
भविष्यन्त्यथ पाषंडाः कापाला भिक्षवोधमाः॥ 56
धर्मविध्वंसशीलानां द्विजनां राजवल्लभाः
शूद्रा धर्मान्‌ प्रवक्ष्यन्ति प्रव्रज्यालिंगिनोऽधमाः॥ 57
गीतवाद्यपरा विप्रा वेदवादपराङ्मुखाः
भविष्यन्ति कलौ प्राप्ते शूद्रमार्ग प्रवर्तिनः॥ 58
हर्तारो न च दातारोभविष्यन्ति कलौ युगे
विश्वासहीनाः पिशुना वेददेवद्विजातिषु 59
असंस्कृतो क्तिवक्तारो रागद्वेषपरास्तथा
परमायुश्चतेषां स्यात्तदा वर्षाणि षोडश 60
पंचमे वाऽथःवष्ठे वा वर्षेकन्या प्रसूयते
सर्त्पवर्षाष्टवर्षाश्च प्रसूयन्ते तथा नराः॥ 61
स्वकर्मत्यागिनस्सर्वे कृतघ्ना भिन्नवृत्तयः
याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे॥ 62
परावमाननिरता आत्मस्तुतिपरायणाः
परस्वहरणोपायचिन्तका स्सर्वदा नराः॥ 63
निन्दां कुर्वन्ति सततं पितृमातृकुलेषु तु
वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः॥ 64
छादयन्ति प्रयत्नेन स्वदोषं पापकर्मजम्
अपापे दुष्कृतं सम्यग्विवृण्वन्ति नराधमाः 65
धर्ममार्गप्रवक्तारं तिरस्कुर्वन्ति पापिनः
भविष्यन्ति कलौ प्राप्ति राजानो म्लेच्छजातयः॥ 66
द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्याश्च जातयः
अत्यन्तकामिनस्सर्वे संकीर्यन्ते परस्परम् 67
न शिष्यो न गुरुः कश्चिन्न पुत्रो न तथा पिता
न भार्या न पतिस्तत्र भविता सर्वसंकरः॥ 68
कलौ च ते भविष्यन्ति धनाढ्या अपि याचकाः॥
रसविक्रयिणश्चाऽपि भविष्यन्ति कलौ युगे॥ 69
धर्मपत्नीषु यच्छन्ति पतयो जारलक्षणम्॥
द्विष्यन्ति पितरं पुत्रा गुरुं शिष्याद्विषन्ति च॥ 70
पतिं च वनिता द्वेष्टि कलौ प्राप्तेन संशयः
लोभाभिभूतमनसस्सर्वे दुष्कर्मशालिनः॥ 71
परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः
परस्त्रीनिरतास्सर्वे परद्रव्यपरायणाः॥ 72
मर्त्यामिषेण जीवन्ति दुहन्तश्चाप्यजाऽविकान्‌
सरित्तीरेषु कुद्दालैरोपयिष्यन्ति चौषधीः॥ 73
अत्यल्पानि फलान्यासां भविष्यन्ति कलौ युगे
वेश्यालावण्यशीलेषु स्पृहां कुर्वन्ति योषितः॥ 74
धर्मविघ्ना भविष्यन्ति स्त्रियश्च पुरुषेषु च
न कन्यां याचते कश्चिन्न च कन्याप्रदो नरः 75
कन्या वरांश्च छंदेन ग्रहीष्टन्ति परस्परम्
प्रायशः कृपणानां च बन्धूनां च तधा द्विजाः॥ 76
साधूनां विविधानां च वित्तान्यपहरन्ति च
न यक्ष्यन्ति न होष्यन्तिन तपस्यन्ति वै जनाः॥ 77
नैव दास्यन्ति दानादि नाऽर्चयिष्यन्ति वा हरिम्
न धर्मे निविशिष्यन्ति हेतुवादकथाश्रयाः॥ 78
अपात्रेष्वेव दानानि कुर्वन्ति च तथा नराः
क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते॥ 79
न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः
अकालकर्मनिरताः कूटयुक्तिविशारदाः॥ 80
देवनिन्दापराश्चैव विप्रनिन्दापरास्तथा
त्यक्तपुंड्रशिखासूत्राश्चरिष्यन्तिद्विजातयः॥ 81
विष्णुभक्तिपरं न स्यान्मनः कस्याऽपि जातु चित्
देवपूजापरं दृष्ट्वा सर्वे परिहसन्ति च॥ 82
शास्त्रोदिताश्च ये देवाःपरिवारा मधुद्विषः
तान्‌ परित्यज्य मोहेन नराः कालबलात्कृताः॥ 83
हेतुवादपरान्‌ देवान्‌ करिष्यन्त्यपरां स्तदा
निर्बध्नन्ति द्विजानेव करार्थं राजकिंकराः॥ 84
नाद्रियन्ते द्विजानन्ये कलौ पापसमाकुले
दानयज्ञ जपादीनां विक्रीणन्ते फलं द्विजाः॥ 85
प्रतिग्रहं च कुर्वन्ते चंडालादेरपि द्विजाः
शूद्रस्त्रीमंगनिरता विधवासंगलोलुपाः 86
रजस्स्वलानां वोढारो भविष्यन्ति कलौ युगे
शूद्रान्न पाननिरताः शूद्रप्राया भवन्ति च॥ 87
अट्टशूलाजनपदाः शिवशूलाश्चतुष्पथाः
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे॥ 88
कुहकाश्च जनास्तत्र हेतुवादविशारदाः
पाषंडिनो भविष्यन्ति तिष्टन्त्याश्रमनिन्दकाः 89
न च द्विजातिशुश्रूषां सर्वधर्मनिवर्तिनीम्

  • * *

गृहप्रायेष्वाश्रमेषु योगिप्रायेषु बंधुषु॥ 90
ततश्छाऽनुदिनं धर्मस्सत्यं शौचं दया क्षमा
कालेन बलिना सर्वं नश्यत्यायुर्बलं स्मृतिः॥ 91
वीत्तमेव कलौ नॄणां जन्माचारगुणोदयम्
दांपत्येऽभिरुचिर्हेतुर्मायैव व्यवहारके॥ 92
धर्मन्यायव्यवस्थानां कारणं बलमेव हि
स्त्रीत्वमेवोपभोगे स्वाद्विप्रत्वे सूत्रमेव हि॥ 93
लिंगमेवाश्रमख्यातावन्यायो वृत्तिकारणम्
अवृत्तौ चाऽपि दौर्बल्यं पांडित्ये चाऽफलं वचः॥ 94
स्वीकार एव चोद्वाहे स्नानमेवाऽशुचौ स्मृतम्
उदरंभरिता स्वार्थेसत्यत्वे धार्ष्ट्यमेव हि॥ 95
दाक्ष्ये कुटुंबभरणे यशोर्थे धर्मसेवनम्
इत्थं कलियुगे प्राप्ते धर्मस्सर्वोऽपि जीर्यते॥ 96
यदा मायाऽनृतं तंद्रा निद्रा हिंसा विषायनम्
शोको मोहो भयं दैन्यं स कलिस्तामसःस्मृतः॥ 97
यदायदा सतां हानिर्वैदिकानां द्विजन्मनाम्
तदा तदा कलिंप्राप्तमवबुद्ध्येत पंडितः॥ 98
अहो दुःखमहोदुःखमहोदुःखमहो महत्
स्वरूपमतिभीमस्य संसारस्य सुदुर्भरम्॥ 99
विण्मूत्रपूयकलिते गर्भवासे निपीडनात्
अशुचावतिभीभत्से दुःखमत्यन्तदुस्सहम्॥ 100
दुःखं च जायमानानां गात्रभंगादिपीडने
वातेन प्रेर्यमाणानां मूर्छनायातिभीतिदम्॥ 101
बालके निर्विवेकानां भूतदैवात्मसंभवम्
यौवने वार्धके चैव मरणे चाति दारुणे॥ 102
एकौत्तरं मृत्युशतं देहे ज्ञेयं प्रतिष्ठितम्
तत्रैकः कालसंज्ञः स्याच्छेषास्त्वागन्तुकाःस्मृताः॥ 103
ये चात्राऽगन्तुकाः प्रोक्तास्ते तु शाम्यन्ति भेषजैः
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति॥ 104
विविधा व्याधयश्शस्त्रं सर्पाद्याः प्राणिन स्तथा
विषाणि चाऽभिचाराश्च मृत्योर्द्वाराणि देहिनाम्॥ 105
नौषधं न तपो दानं न मन्त्रान च बान्धवाः
शक्नुवन्ति नरं त्रातुं कालमृत्युप्रपीडितम्॥ 106
रसायनतपोजप्ययोगसिद्धैर्महात्मभिः
कालमृत्युरपि प्राप्तो जीयतेऽनलसैर्नरैः॥ 107
नाऽस्ति मृत्युसमं दुःखं नाऽस्ति मृत्युसमं भयम्
सद्भार्यां पुत्रमित्राणि राज्यैश्वर्यसुखानि च॥ 108
आबद्धानि च वैराणि मृत्युस्सर्वं विनाशयेत्
यद्दुःखं मरणे जन्तोर्न तस्येह समं क्वचित्॥ 109
मंडूक इव सर्पेण ग्रस्यते मृत्युना जगत्
बान्धवैश्च परिष्वक्तः प्रियैश्च परिवारितः॥ 110
निश्श्वपन्‌ दीर्घमुष्णं च मुखेन परिशुष्यता
चतुर्ष्वन्तेषु खट्वायाः परिवृत्य मूहुर्मुहुः॥ 111
सम्मूढः क्षिपतेऽत्यर्धं हस्तपादमितस्ततः
खट्वाया वांछते भूमिं भूमेः खट्वां ततो महीम्॥ 112
विवस्त्रस्त्यक्तलज्जश्च मूत्रविष्ठापरिप्लुतः
याचमानश्च सलिलं शुष्ककंठाऽस्यतालुकः॥ 113
चिन्तयानश्चवित्तानि कस्यैतानिमृतेमयि
नखाऽग्रैश्च स्पृशन्‌ भूमिं कालपाशेन कर्षितः॥ 114
म्रियते पश्यतामेव गले खुरखुरायते
जीवस्तृणजलूकावद्देहाद्देहं विशेदसौ॥ 115
संप्राप्योत्तरवंशे च तनुं त्यजति पौर्विकीम्
देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात्॥ 116
मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः
जायते म्रियते चैवं कर्मभि स्स्वयमार्जितैः॥ 117
शीतोष्णतृष्णाक्षुद्रोग्रज्वरादिपरिवारितः
सर्वदैवपुमानास्ते यावज्जन्मान्त संस्थितिः॥ 118
दुःखाऽतिशयभूतं हि यदन्ते नाऽसुखं नृणाम्
तस्योपमानं नैवाऽस्ति कार्येणैवाऽनु मीयते॥ 119
कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुस्सहम्
दुःखं तत्संस्मृतिं प्राप्तं करोति मम वेपथुम्॥ 120
ततश्चैव पुनस्तस्य योनिसंक्रमणे च यत्
गर्भस्थस्य च यद्दुःखमतिदुस्सहमुल्बणम्॥ 121
पुनश्च जायमानस्य बाल्ययौवनजं च यते
दुःखान्येतान्यनन्तानि संसारान्तरवर्तिभिः॥ 122
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः
न वै सुखकला काचिदत्राऽस्त्यत्यन्तदुःखदे॥ 123
संसारसंकटे संगमुपेतानां कदा चन
विषयासक्तमनसस्सततं पामरा जनाः॥ 124
न मतिं कुर्वते विष्णौ सर्वलोकेश्वरेश्वरे
अथाऽपि नाऽत्र बिभ्यन्ति वैष्णवा भगवत्प्रियाः॥ 125
विष्णुध्यानपरास्सन्तो विष्‌वर्चनपरायणाः
ते विष्णुसदृशा ज्ञेया न हि तान्‌ बाधते कलिः॥ 126
मायेयं वैष्णवी भूयः पातयेत्प्राणिनस्तदा
दुस्तराऽपि भवेत्साध्या यैर्न्यस्तं माधवेमनः॥ 127
असंत्यज्य च गार्हस्थ्यमतप्त्वा चतथा तपः
छिनत्ति वैष्णवीवं मायां केशवाराधने रतः 128
विषयानविरोधेन सेवमानोऽपि माधवम्
अर्चयानस्तरन्त्येनां विष्णुमायां दुरत्ययाम्॥ 129
यत एवमतो लब्ध्वाशरीरं कर्मसाधनम्
शुभं कर्मैव कर्तद्यं तत्प्रसादाय मानवैः, 130
प्रसादितेऽस्मिन्‌ सर्वेषां स्ववर्णाश्रमकर्मभिः
सर्वेहस्तगताः कामा मुक्तिश्चाऽन्ते करस्थिता॥ 131
कार्यार्था मूर्तयस्तस्य लोककल्याणकारकाः
अतस्साकारमेवेष्ट्वा भक्त्येमं सिद्धिमाप्नुयात्॥ 132
इदं च शास्त्रमालंब्य पूजयेद्विष्णुमव्ययम्
यद्ध्यानं केवलं प्रोक्तं शास्त्रे क्वचिदनाश्रयम्॥ 133
न तत्रेन्द्रियदौर्बल्यात्कर्मस्थस्याधिकारिता
यथा गिरितटाग्रस्थवनस्पतिफलेच्छया॥ 134
उपाये वर्ततेऽश्रान्तस्तथाऽसौ यत्नमाचरेत्
सर्वत्र क्रमवान्‌ यत्नःकार्यो नैच्छैव केवला॥ 135
तत्कायवाङ्मनोयोगैःक्रमादिच्छेत्परां गतिम्
निराकारेतु या भक्त्या पूजेष्टा ध्यानमेव वा॥ 136
रमणीयमिवाभाति तदनर्थस्य कारणम्
स्थूलभावप्रसंदीनि जन्मनाऽस्येन्द्रियाणि तु॥ 137
सूक्ष्माच्छ न प्रपद्यन्ते चिराच्च किमुताऽचिरात्
न च रूपं विना दोवो ध्यातुं केनाऽपि शक्यते॥ 138
सर्वरूपनिवृत्ता हि बुद्धिः कुत्राऽस्य तिष्ठति
निवृत्ताग्लायते बुद्धिर्निद्रयाहि परीयते॥ 139
तस्माद्विद्वानुपासीत बुद्ध्या साकालमेव तम्
अस्तितस्य परोक्षं तदिति किंचिदनुस्मरेत्॥ 140
सर्वधाऽकारमुद्दिष्टं न परित्यज्य पंडितः
परं देवमुपासीत मुक्तये वा फलायवा॥ 141
भक्त्याकृतेनार्चनेन तुष्टोदेवः प्रजापतेः
पूजाद्यनुग्रहाया ऽदावाविर्भूतश्चतुर्भुजः॥ 142
तस्मात्तेनैव रूपेण ह्रिया लक्ष्म्या समायुतः
ध्येयस्सेव्योऽर्चनियश्च सदा नारायणो बुधैः॥ 143
साकारेऽस्मिन्‌ कृता पूजा स्तुतिर्वा ध्यानमेव वा
विधिना शास्त्रदृष्टेन तस्मिन्नेव कृता भवेत्॥ 144

  • * *

तदेवाऽराधनं विष्णोरवज्ञातं विशेषतः
ख्यापनार्थं कलौ कश्चिद्भविष्यति महामतिः॥ 145
धर्मग्लानिरधर्मस्य वृद्धिर्यावद्भविष्यति
तावव्भर्ता महाविष्णुः सृजत्यात्मानमात्मना॥ 146
श्रीनिवासे जनावाने श्रीनिवासः स्वयं हरिः
श्रीनिवासस्समाख्यातो भूमाववतरिष्यति॥ 147
उत्पत्स्यमान एवाऽसौ भ्राजमानस्स्वतेजसा
जगदावरणं क्रूरं तमः पुंजं हनिष्यति॥ 148
पंचहायन एवाऽथ प्राप्तसर्वकलाकुलः
संस्कृतोऽखिलसंस्कारै र्ब्रह्मवर्चससेवितः॥ 149
सर्वलोकेश्वरं देवं श्रीनिवाकं श्रियः पतिम्
चतुर्भुजमुदारांगं दिव्याभरणभूषितम्॥ 150
श्रीवत्सांकं महाबाहुं शंखचक्रगदाधरम्
किरीटमुकुटोपेतं वरदाऽभयचिह्नितम्॥ 151
हैमोर्ध्वपुंड्रलावण्यलसद्वदनपंकजम्
वैखानसैर्महाभागैरर्च्यमानं निरन्तरम्॥ 152
कृतास्पदं कलियुगे तदीयं कुलदैवतम्
``अरायि काण इत्याद्यैश्श्रुतिवाक्यैरभिष्टुतम्॥ 153
``रयिः ककुद्मानित्याद्यैर्मन्त्रैर्वैखानसैः परैः
इज्यमानं विशेषेण विविधैः पारमात्मिकैः॥ 154
कल्याणगुणसंपूर्णं दिव्यमङ्गलविग्रहम्
स्वयंव्यक्तं परंज्योतिः परं ब्रह्म परात्परम्॥ 155
विधिना शास्त्रदृष्टेन देवमाराधयिष्यति
प्रसादसुमुखो देवस्स्वात्मभूते शिशौ स्वयम्॥ 156
अवनम्य च मूर्धानं गृहीष्यति गले स्रजम्
दिव्यैःप्रसन्नैर्ग्रथितां कुसुमैस्तुळसीदलैः॥ 157
स्वयं सार्धं कुमारेण हवींषि च भुजिष्यति
संतुष्टेन कुमारेण प्रार्थितः करुणानिधिः॥ 158
वैखानसैर्महाभागैरुपेतै स्सह मन्दिरे
हवींष्यशिष्यत्यध्यक्षं कुमारं सान्त्वयिष्यति॥ 159
अर्चावतारमहात्म्यं लोकेभ्यःख्यापयिष्यति
देवोऽर्चकपराधीनः सर्वं तेभ्यः करिष्यति॥ 160
तथा सम्मानितः प्रेम्णा श्रीनिवासेन सादरम्
यज्ञैर्बहुविधै रन्यैर्यज्ञेशं संयजिष्यति॥ 161
विशाले बहुसंस्कारसंकुले वसुधातले
स्थापयिष्यति विष्ण्वर्चां ग्रामे ग्रामे गृहे गृहे॥ 162
पुराणि च जनावासा गृहाणि गृहिणां तथा
मन्दिरैरिन्दिरेशस्य सुन्दरैर्नतिभन्धुरैः 163
मंडितानि भविष्यन्ति जगत्तत्त्वं भजिष्यति
इत आचार्य निर्देश इतश्शिष्योपसर्पणम्॥ 164
इहैव गृहिणां भूयः प्रसंग इह मन्त्रणम्
अचार्यवरणं चेह शिल्पिनामिह मार्गणम्॥ 165
इह प्रस्तरसंग्राह इह दारुग्रहस्तथा
इह दिक्साथनं चैह वसुधासंपरीक्षणम्॥ 166
इतो मङ्गलघोषश्च इतःपुण्याहवाचनम्
इत आद्येष्टकान्यास इतो मूर्धेष्टकाविधिः 167
इतश्शूलग्रहश्चेत इतो वैरज्जुबन्धनम्
इतश्च मृत्स्नासंस्कार इतो वर्णविलेखनम्॥ 168
इतो मधूच्छिष्टविधिरितोऽलंकारकल्पनम्
इतो ध्वजस्य निर्माणमितो भक्तसमागमः॥ 169
इतःप्रतिष्ठासंकल्प ऩतो नयनमोक्षणम्
इतोऽधिवासनं चेतो प्रभूतबलिदापनम्॥ 170
इतोऽग्निमन्थनं चेतो होम आनन्दवर्धनः
इह गीतं नृत्तमिह वाद्यं श्रुतिमनोहरम्॥ 171
इह प्रतिष्ठा देवस्य इह च द्विजभोजनम्
इह कालोत्सवश्चेह धनुषि प्रातरुत्सवः 172
मुद्गान्नस्य गुडान्नस्य प्रसादस्य निवेदनम्
अद्योत्तिष्ठति वैकुंठः शयितः क्षीरसागरे? 173
अद्य व्रतस्याऽपवर्गो संशितस्स भुवो हरेः
अद्य वैवाहिकं देव्याव्रतान्ते लोकमङ्गलम्॥ 174
अद्य पौषी पूर्णिमाऽहोचाद्य चैकादशी शुभा
अद्य देवस्य कुर्यन्ति स्नपनं कलशैश्शतैः॥ 175
अद्य दाशरथिर्जातो द्वादशी माघसंभवा
अद्य चाता जगन्माता फाल्गुने रेवती तिथौ॥ 176
अद्यकुर्वन्ति देवस्य दमनोत्सवमीश्वराः
चैत्रमासस्त देवस्य महाप्रीतिकरः किल॥ 177
कुर्वन्ति मनुजाधीशा वसन्ते दिव्यमुत्सवम्
जलक्रीडोत्सवो ह्यद्य चैत्रयात्रा हरेःक्वचित्॥ 178
केतकीमालतीजातीमल्लिकादोलिकोत्सवः
गंधोत्सवोऽद्य क्रियते पौर्णमासी कदा दिनम्॥ 179
कदा चैकादशी पुण्या कदा वा द्वादशीतिधिः
कदा नृसिंहस्संजातः स्मृतमद्यत्रयोदशी॥ 180
वैशाखे शुक्लपक्षे तु क्रियते वार्षिकोत्सवः
कदा भवेत्पौर्णमासी क्रियते चंद्रिकोत्सवः॥ 181
कदा ज्येष्ठोत्सवो भूयात्कदा वा पूर्णिमा शुभा
प्रपोत्सवः कदा भूयादाषाढी च भविष्यति॥ 182
कदा च श्रवणं भूयान्नक्षत्रं यत्र मारुतिः
रामसेवाधुरं धृत्वा जातस्साक्षान्महामतिः 183
कदा च श्रावणी भूयाद्यत्र नारायणो हरिः
स्वात्मानं जनयामास लोककल्याणहेतवे॥ 184
वैखानसं विखसं विरिंचमिति यं विदुः
कदा भाद्रपदो मासस्तत्र चैकादशी भवेत्॥ 185
कदा वा द्वादशी भूयात्सर्वपाप प्रणाशिनी
तिलधेनुं प्रदास्यन्ति यत्र देवस्य सन्निधौ 186
कदाऽश्विनो भवेन्मासस्तत्राऽपि दशमी शुभा
अश्वयाऽत्रा हरेर्भूयादनुयास्यामहे हरिम्॥ 187
कदा भवेदमावास्या यस्यां स नरकोहतः
कदा वा कार्तिकोमासो भविष्यति हरिप्रियः॥ 188
दीपारोपो भवेत्तत्र कदा वा कार्तिकी शुभा
कदायुगादय स्तद्वत्पुण्यकाला विशेषतः 189
कदा भविष्यति हरे रथयात्रा महात्मनः
कदा वा गजयात्रा स्यात्कदा वीशाधिरोहणम्॥ 190
कदा भ्रमति देवेशो ग्रामवीथिषु सुन्दरम्
कदा लभिष्टति हरेस्तीर्थं परमपावनम्॥ 191
कदा प्रसादं देवस्य कणस्याऽपि लभिष्यति
कदा शंखरथांगादिदिव्यलांछनलांछिता॥ 192
पादुका देवदेवस्य संस्करिष्यति मे शिरः
कदा वा तुळसीं पुण्यामर्पितां तस्य पादयोः 193
अश्नामि शिरसा चैव धारयिष्यामि वैष्णवीम्
कदा वा पुण्यपुष्पाणामेकं देवसमर्पितम्॥ 194
शिरसा धारयिष्यामि जिघ्रामि भहुगन्धवत्
देवदेवस्य द्रक्ष्यामि कदा सर्वांगसुंदरम्॥ 195
आपादमौळिपर्यन्तं लावण्यमधुरं वपुः
इत्यादिकाः कथास्तत्र भविष्यन्ति प्रजासु च॥ 196
सर्वे धर्मपरास्सर्वे नारायण परायणाः
अर्चने वासुदेवस्य भविष्यन्ति रता नराः॥ 197
इत्येव कालं कालेयं गुरुरुज्जीवयिष्यति
श्रीनिवासं श्रियोवासमर्चिष्यति चिरं भुवि॥ 198
पाषंडोपप्लुतं धर्ममुद्धरिष्यति वैष्णवम्
इदं च भगवच्छास्त्रं चिरस्थायि करिष्यति॥ 199
सर्वतंत्रस्वतंत्रोऽसौ बहून्‌ ग्रन्धान्‌ प्रणेष्यति
असंख्येभ्यश्च शिष्येभ्यस्तत्तार्थमुपदेक्ष्यति॥ 200
धर्मव्यवस्थां कृत्वैवं कलावतिभयंकरे
समेष्यति परं स्थानं तद्विष्णोः परमं पदम्॥ 201
युगान्ते च पुनर्नामहरेर्नैको गृहीष्यति
तदा हरिर्महावीरः कल्की नाम भविष्यति॥ 202
अधर्मनिधनं कृत्वा धर्मं संस्थापयिष्यति
हरेर्दिव्यावताराणामवतारकथामिमाम्॥ 203
यः पठे च्छ्रुणुयाद्वापि सोऽपि यास्यति सद्गतिम्
धन्यास्ते पुरुषश्रेष्ठा दुरन्ते भवसागरे॥ 204
ये नामाऽपि कलौ विष्णोस्स्मरिष्यिन्त्यव्ययात्मवः
ध्यायन्‌ कृतयुगे विष्णुं त्रेतायां दापरे यजन्‌॥ 205
यत्तत्फलमवाप्नोति कलौ स्मरणमात्रतः
हरेर्हरति पापानि नामसंकीर्तितं सकृत्॥ 206
पाषंडबहुले लोके कलावतिभयंकरे
तन्नामकीर्तयेद्यस्तु तं विद्यात्कृतिनां वरम्॥ 207
तस्मात्सर्वप्रयत्नेन भक्त्या परमया युतः
समूर्ताराधनं कुर्यान्नाऽन्यथा मुक्तिमाप्नुयात्॥ 208

  • * *

ऩद्थमाद्यैस्तु नवभिरध्यायैरीड्यते क्रमात्
भूपरीक्षादिकर्माणि विमानानां च कल्पनम्॥ 209
विविधानां च बेराणां निर्माणविधिविस्तरः
दशमे नांऽकुरारोपः पश्चाद्द्वाभ्यामुदीरितः 210
प्रतिष्ठा विधिरत्यन्त फलदो जगतः पतेः
पश्चाद्दशावताराणां चतुर्भिः प्रोच्यते विधिः॥ 211
तथा सप्तदशे चोक्त आदिमूर्ति विधिस्ततः
अष्टादशेऽर्चनं सांगमुक्तं मधुविदारिणः 212
द्वाभ्यामुक्तस्ततो पूजाद्रव्य संग्रहण क्रमः
एकविंशे विशेषार्चाविधिस्सम्यगुदीरितः 213
द्वाविंशेस्नपनं चोक्तं त्रयोविंशे विशेषतः
विधिरुत्सवचक्रस्य प्रोक्तो द्वाभ्यामथोत्सवः॥ 214
ततश्च षड्भिरध्यायैः प्रायश्चित्तस्य विस्तरः
प्रोक्तस्ततश्च द्वात्रिंशे संकीर्णंऽशा उदीरिताः॥ 215
अर्चावतारमहिमा त्रयस्त्रिंशे प्रकीर्तितः
स्वयंव्यक्तादिभेदश्च चतुस्त्रिंशे प्रकाशितः॥ 216
पंचत्रिंशे तु संप्रोक्तं क्रियायोगाश्रितं फलम्
षट्त्रिंशेत्वपचाराश्च कथिता देवकोपनाः॥ 217
कलिधर्माश्च संप्रोक्तास्सप्तत्रिंशे विशेषतः
सप्तत्रिंशद्भिरध्यायैरेवं गुरुकृपाबलात्॥ 218
षड्भिः सहस्रैः श्लोकैस्तु क्रियांगमुपवर्णितम्॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां चतुर्विंशत्सहान्रिकायां
सहितायां प्रकीर्णाऽधिकारे सप्तत्रिंशोऽध्यायः॥
इति श्रीमति प्रकीर्णाऽधिकारे क्रियापादः॥

  • * *

श्री विखनसमहागुरवे नमः
श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितम्
तस्मै समस्तवेदार्थविदे विखनसे नमः॥
जयत्यात्मेश्वरोस्नि द्रध्यान सौधप्रियाऽतिथिः
श्रीमत्पत्रपुरीवासः श्रीरामस्सीतया गृही॥
श्रीरामचन्द्राय नमः॥

  • * *