सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/षोडशोऽध्यायः

विकिस्रोतः तः
← पञ्चदशोऽध्यायः प्रकीर्णाऽधिकारः
षोडशोऽध्यायः
[[लेखकः :|]]
सप्तदशोऽध्यायः →

अथ षोडशोऽध्यायः॥
दशाऽवतारकल्पः(कृष्णः)
अथातस्संप्रवक्ष्यामि कृष्णस्य स्थापनं बुधाः
कृष्णस्यालयमुद्दिष्टं कुंभाकारविमानके॥ 1
कूटे वा गोपुरे वाऽपि पर्वताकृतिकेऽपिवा
कृष्णस्य बालरूपस्य वयसा तालमानकम् 2
एकवर्षं समारभ्य यावत्बंचाब्दमादरात्
तालत्रयक्रमेणैव यथायोगं प्रकल्पयेत्॥ 3
वेदवर्षं समारभ्यषट्तालत्रयमेव वा
सप्तवर्षं समारभ्य सप्ततालत्रयं तथा॥ 4
दशवर्षं समारभ्य अष्टतालत्रयं तथा
त्रयोदश समारभ्य नवतालत्रयं तथा॥ 5
एवं वयःक्रमेणैव तालमानं तथोच्यते

  • * *

तिष्ठन्तमेकपीठस्थं रुक्मिण्या सत्यभामया॥ 6
कृष्णं च बालवपुषं श्यामलं पीतवाससम्
रुक्मिणीं कनकाभां तां सत्यभामां च श्यामलाम्॥ 7

  • * *

वासुदेवं गुडाकेशं सर्वाभरणभूषितम्
क्रीडयष्टिधरं देवं त्रिभंगध्यानसंयुतम्॥ 8
स्वस्तिकं दक्षिणं पादं वामपादं तु कुंचितम्
तिष्ठन्तमंगुलिस्थाने चांऽगुष्ठस्थितिमाचरेत्॥ 9
किंचित्कुंचितजान्वन्तवामपादस्थितिर्भवेत्
वक्त्रं चैव तथा गात्रं कटिभागं तथैव च॥10
त्रिषुमार्गेषु भंगित्वात्त्रिभंगित्वं विधीयते
वक्त्रं दक्षिणतो भागे मध्यभागं तु वामतः॥ 11
कटीर्दक्षिणतो भागे भंगत्रयमुदाहृतम्
दक्षिणं कटिकं हस्तं क्रीडायष्टिसमन्वितम्॥ 12
दक्षिणे यष्टिहस्तन्तु नाभिसूत्रादधोन्नतम्
भूतवेदगुणांगुल्या विधिना सहितालतः? 13
वामं देव्योर्भुजासक्तं वामहस्तमधोमुखम्
हिक्कासूत्रादधो वामं कूर्परं स्याद्दशांगुलम्॥ 14
षट्सप्ताष्टांऽगुलाधिक्योन्नतं वा कालयेत्क्रमात्
वामहस्ततलाग्रन्तु नाभिमात्रन्तु योजयेत्॥ 15
वेणुं च तरवेगं तु हस्ताभ्यां पीडयेत्क्रमात्
ऊर्ध्वकायसमं वेणुं क्रीडायष्टिं तु तत्समम्॥ 16
त्रिणतं श्यामलांगं च द्विभुजं रक्तवाससम्
चतुर्भुजं वा कुर्वीत शंखचक्रधरं परम्॥ 17
सुस्थितं वामपादेन दक्षिणॆनैव बन्धयेत्
सर्वाभरणसंयुक्तं सुन्दरं सौम्यलोचनम्॥ 18
देवीभ्यां सहितं कुर्या द्रहितं वाऽत्र केचन
देवस्य वामे गरुडं प्रांजलीकृत्य नुस्थितम्॥ 19
पक्षद्वययुतं कुर्यात्तालपत्रस्य मूलवत्

  • * *

नवनीतनटं कुर्यात्तथा काळीयमर्दनम्॥ 20
पार्थसारथिरूपं तु देव्योश्च रहितं क्रमात्

  • * *

पीठं च प्रतिमोत्सेथं पंचभागं त्रिभागिकं॥ 21
नवांशात्सप्तभागं चत्रिभागद्वयमुच्यते
लौकिकप्रतिमोत्सेधं मानांऽगुलमिति क्रमात्॥ 22
प्रथमं तु नवांगुल्यं द्वद्व्यंगुलविवर्धनम्
नवसंख्यमिति प्रोक्तं मानमेवं विधीयते॥ 23
एतेन तु त्रिभेदं स्यादुत्तमाधममध्यमम्
मानंप्रमाणमुन्मानं लंबमानोपमानकम्॥ 24
पंचतालमिति प्रोक्तं लंबमानं विधीयते
सात्त्विकं राजसं चैव तामसं तु विवर्जयेत्॥ 25
दक्षिणं मानमुद्धृत्य नाभिसूत्रप्रमाणकम्
कटियोनिसमं वाऽथ दक्षिणं पादमेव हि॥ 26
दंडहस्तन्तु मानेन मूर्ध्नि केशाऽक्षमेव वा
अभयं दक्षिणं हस्तं भ्रूमात्रं कूर्परादयः 27
दक्षिणेन मुखं चैव किंचित्प्रहसिताननम्
केशकंबलमित्युक्तं सूत्रं वामाश्रयं भवेत्॥ 28
उष्णीषस्थपदे मध्ये नासाग्रे पुटवामके
नाभिमध्यगतॆ वापि मुष्कमालोरुदक्षिणे॥ 29
पादे दक्षिणपाण्यन्ते अग्रान्मकुटवामके॥
लंबयेन्मध्यसूत्रं चेदन्यत्सूत्रं न कारयेत् 30
उष्णीषमंगुलार्धं च मुखमष्टांऽगुलं भवेत्
गलमर्थांऽगुलं तस्य ग्रीवान्तं द्व्यंगुलं भवेत्॥ 31
हिक्कान्तं हृदयान्तं च नाभ्यन्तं मेढ्रमूलकम्
अष्टादशांऽगुलं चैव मूर्ध्वकायं विधीयते॥ 32
त्रयोदशांऽगुलं चैव मूरुदीर्ङं विधीयते
जानुस्स्याद्द्व्यंगुलं चैव जंघा चोरुश्च तत्समा॥ 33
चरणं द्व्यंगुलं चैव मानमेव न संशयः
हीक्कासूत्रांततो बाहुर्दशांगुलमिति स्मृतम्॥ 34
प्रकोष्ठमष्टांगुलायामं सप्तांगुलतलायतम्
मुखं मुखविशालं स्यात्कर्णविस्तारमंगुलम्॥ 35
ग्रीवाविस्तारमेवं स्याच्चतुरंगुल चतुर्यवम्
अभयं बाहुमानं चतुर्विंशतिरंगुलम्॥ 36
कक्षयोरन्तरं चैव चतुर्दशांऽगुल विस्तरम्
ऊरुर्दशांऽगुलं चैव श्रोणिरेकादशांऽगुलम्॥ 37
कटिविस्तारमेवं स्यात्त्रयोदशांऽगुलमिष्यते॥
ऊरुमूलसुविस्तारमष्टांऽगुलमिति क्रमात् 38
षडंगुलं जानुतारं जंघातारं च सप्तकम्
त्य्रंगुलार्धं च विज्ञेयं नाळिकाविस्तरं भवेत्॥ 39
पादविस्तारमेवोक्तं सर्वलक्षणसंयुतम्॥

  • * *

कलापकुसुमश्यामं शंखचक्रगदाम्बुजम्॥ 40
अनेकरत्नं स छन्नं कौस्तुभोद्भासि वक्षसम्
तारहारावळीरम्यं गरुडोपरि संस्थितम्॥ 41
देवीभ्यां सहितं कुर्यात्कृष्णं बृन्दावने रतम्

  • * *

आलोल कुंतलोद्भासि मुखचन्द्र विराजितम्॥ 42
अतिरक्ताधरोष्ठं च रक्तपाणिद्वयांऽचितम्
वामपादं समाकुंच्य चोत्तानीकृत्य दक्षिणम्॥ 43
दक्षिणं चाभयं हस्तं नवनीतयुतं तथा
वामं प्रसार्य चोत्तानं सर्वाभरणभूषितम्॥ 44
सांबरं तु प्रकुर्वीत विगतांऽबरमेव वा
एवं तु विधिना कुर्यान्नवनितनटं बुधः 45

  • * *

एवमेव प्रकुर्वीत काळीयाऽहिफणोपरि
नृत्यन्तं परमात्मानमुत्तानाकुंचितांघ्रिकम्॥ 46
दक्षिणे तु करे कुर्यान्नवनीतस्य खंडकम्
अहिपुच्छं करे वाऽपि कुर्यात्कालीयमर्दनम्॥ 47

  • * *

नीलोत्पलदलश्यामं पीतांबरसुशोभितम्
चतुर्भुजं शंखचक्रमूर्ध्वपाणिद्वये धृतम् 48
अधःपाणिद्वये वेणुं वादयन्तं मुदान्वितम्
सर्वालंकारसंयुक्तं गरुडोपरि संस्थितम्॥ 49
देवीभ्यां सहितं देवं मुनिभिः परिवेष्टितम्
कृष्णमेवं प्रकुर्वीत सन्तानार्थी विशेषतः 50

  • * *

कलापकुसुम श्यामं पूर्णचन्द्रनिभानसम्
बर्हिबर्हकृतोत्तंसं सर्वालंकारसंयुतम्॥ 51
युवतीवेषलावण्यं श्रीवत्सांऽकितवक्षसम्
स्मेराऽरुणाऽधरन्यस्तवेणुं त्रैलोक्यमोहनम्॥ 52
अक्षमालां च विद्यां च कुर्यादूर्ध्वकरद्वये
वेणुं करद्वये कुर्याच्चतुर्भुजयुतं हरिम्॥ 53
तपनीयलसत्कान्त्याभ्राजत्कमलहन्तया
निरीक्ष्यमाणचरणं वामपार्श्वस्थया श्रिया॥ 54
हेमसिंहासने रम्ये राज्ञीभिस्तु निषेवितम्
चन्द्रमंडलसंकाशश्वेतछत्रेणशोभितम्॥ 55
नारदाद्यैर्मुनिगणैज्ञान्‌नार्थिभिरुपासितम्
इंद्रादिदेवताबृंधैः प्रणतं परमेश्वरम्॥ 56
एवं कृष्णं प्रकुर्वीत जगन्मोहनविग्रहम्

  • * *

गोपीभिरावृतं गोभिः परमानन्दविग्रहम्॥ 57
व्यत्यस्य दक्षिणं पादं वामे न्यस्य च सुस्थितम्
चतुर्भुजं शंखचक्रधरमूर्ध्वकरद्वये॥ 58
धृत्वा वेदमयं वेणुमन्यहस्तद्वयेन च
अंगुलीभिर्मुदा वेणुसुषिराणि च पूरयन्॥ 59
दिव्यगांधर्वगीतार्तं त्रिभंगेन च संस्थितम्
एवं कृष्णं प्रकुर्वीत वेणुनादनटं बुधः 60

  • * *

सर्वभूषणसंयुक्तं ब्रह्मसूत्रसमन्वितम्
रक्तांबरधरं चैव श्यामलं कमलेक्षणम्॥ 61
रुक्मिणीसत्यभामाभ्यां पार्श्वयोरुपशोभितम्
रुक्मिणीं रुक्मवर्णाभां सत्यां श्यामनिभां तथा॥ 62
वसुदेवं देवकीं च पुरतो दक्षिणे तथा
यशोदां नंदगोपं च देवेशं वीक्ष्य सुस्थितम्॥ 63
प्रद्युम्नं च तथा सांबं वामे कुर्यात्सलक्षणम्
दामं सुमनसं चैव कुर्यादन्यां च गोपिकाम्॥ 64
कर्णाग्रान्तन्तु कृष्णस्य सुमन्तुं वाममाश्रितम्
कक्षबाहुसमं वापि कारयेद्युक्तितः क्रमात्॥ 65
नवतालेन मानेन कुर्यात्तान्‌ समलंकृतान्‌
देवकीं वसुदेवं च कृष्णवर्णौ प्रकल्पयेत्॥ 66
यशोदां गौरवर्णांच कर्बुरं नंदमाचरेत्
प्रद्युम्नं श्यामवर्णं च सांबं कालांजनप्रभम्॥ 67
दामं रक्तनिभं चैव गौरं सुमनसं तथा
सुमन्तुं श्वेतवर्णं च कल्बयेद्विधिना बुधः 68
एवं कृष्णं प्रकुर्वीत लीलामानुषविग्रहम्
चतुर्मूर्तिक्रमश्चैषां वासाऽधिकरणोक्तवत्॥ 69

  • * *

धृत्वा पुष्पमयीं यष्टिं दक्षिणेवतु पाणिना
न्यस्यान्यं चैव भूमिस्थराजदंडस्य मूर्धवि॥ 70
राजार्हाभरणैर्युक्तं रुक्मीण्या सहितं प्रभुम्
एवे कृष्णं प्रकुर्वीत राजगोपालविग्रहम्॥ 71

  • * *

पीतांबरधरं देवं ज्ञानमुद्रालसत्करम्
वेणुमन्यकरे धृत्वा सुखासीनं शुचिस्मितम् 72
उपास्यमानं मुनिभिर्देवीभ्यां रहितं हरिम्
कृष्णमेवं प्रकुर्वीद ज्ञानगोपालविग्रहम्॥ 73

  • * *

स्वर्णप्रभमुदारांगमष्टबाहुं जगत्प्रभुम्
इक्षुचापांऽकुशान्वेणुं शंखारिसुमसायकान्‌॥ 74
बिभ्रन्तं रमया श्लिष्टदिव्यमंगलविग्रहम्
सर्वाभरणसंयुक्तं योगिनाममृतप्रदम्॥ 75
एवं सम्मोहनं कुर्यात्कृष्णं गोपालविग्रहम्
गवां गोपकुमाराणां गोपीनां रक्षणायवै 76
नगं गोवर्धनं नाम दधार भगवान् हरिः॥
वामेनोद्धृतहस्तेन बिभ्रन्तं नगमुत्तमम्॥ 77
कटिन्यस्तान्य हस्तं च पद्महस्तमधाऽपि वा
शंखचक्रधरं देवंकुर्याच्चैव चतुर्भुजम्॥ 78
एवं कृष्णं प्रकुर्वीत गोवर्धनधरं हरिम्॥

  • * *

पुरा महति संग्रामे पार्थं रक्षितवान्‌ हरिः 79
पार्थं रथस्थितं कुर्याच्छरतूणीरसंयुतम्
समीक्षमाणं देवेशं स्यंदनस्थं स्वपार्श्वगम्॥ 80
श्यामवर्णं महाबाहु कृष्णमुद्बद्धकुंतळम्
बिभ्रन्तं दक्षिणे पाशं शंखं वामकरे तधा॥ 81
अर्जुनस्य मुखं वीक्ष्य स्मयमानं महारथम्
एवं कृष्णं प्रकुर्वीत पार्थसारथिविग्रहम्॥ 82

  • * *

वामजानुसमाकुंच्य दीर्घमन्यं प्रसार्य च
तथै वाऽविथ्य सन्न्यस्य भूम्यां वामकरं पुरः॥ 83
आकुंचितान्यपादेव चासनस्थितिशोभिना
अन्यहस्तेन संधार्य नवनीतं नवं नवम्॥ 84
मुहुरालोकयन्तं तद्दर्शनीयं विशेषतः
एवं कृष्णं प्रकुर्वीत बालगौपालविग्रहम्॥ 85
पुरा संदर्तसमये संहृतेषु जगत्सु च
वटपत्रे विनिद्राणो बभूव भगवान्‌ हरिः॥ 86
वटपत्रे शयानं तु बालरूपं परात्परम्
आकृष्य दक्षिणं पादं वामहस्तेन लीलया 87
पादांगुष्ठं मुखे न्यस्य धास्यन्तं हसिताननम्
दक्षिणॆन तु हस्तेन वहन्तं दक्षिणोरुकम् 88
प्रसारितेतरपदं दिव्याऽलंकारशोभितम्
वटपत्रं प्रकुर्वीत विशालं चाऽधराग्रकम् 89
वटपत्रशयानं तु कृष्णमेवं प्रकल्पयेत्॥

  • * *

शंखचक्रगदापद्म पाशांऽकुशलसत्करम्॥ 90
कराभ्यां वेणुमादाय धमन्तं सर्वमोहनम्
सूर्यायुतशताभासं पीतांबरसुशोभितम्॥ 91
नानालंकारसुभगं सूर्यमंडलसंस्थितम्
एवं प्रकल्पयेत्कृष्णं महान्तं सर्वमोहनम्॥ 92

  • * *

कृष्णरूपमसंख्यातंस्वेच्छारूपं तु कारयेत्
कालीयमर्दनादौ तु नागकन्यादिकल्पनम्॥ 93
कल्पनं भोगभेदस्य चैवमादीन्‌ प्रकल्पयेत्
युक्त्या बुद्ध्या च भक्त्या च यथा स्यान्मनसः प्रियम् 94
एवं रूपं च कृत्वा तु तद्रूवं कौतुकं चरेत्
अथवाकौतुकं बिंबं चतुर्भुजसमन्वितम् 95
अभयं वरदं पूर्वं शंखचक्रधरं परम्
एवं चतुर्भुजं कृत्वा स्थापनारंभमाचरेत् 96

  • * *

पूर्वोक्तयागशालायां पंचाऽग्नीन्‌ परिकल्प्य च
पौंडरीके प्रधानाऽग्नौ हौत्रशंसनमाचरेत् 97
`कृष्णं नारायणं पुण्यं त्रिदशाऽधिप'मत्यपि
`रुक्मिणीं सुंदरीं देवीं रमा'मिति च रुक्मिणीम्॥ 98
`सत्यरूपां सतीं चैव सन्नतीं च क्षमा'मिति
इत्येवमुक्त्वा चाऽवाह्य गरुडं पूर्ववत्तधा 99
आवाहनक्रमेणैव निरुप्याऽज्याहुतीर्यजेत्
`सत्यस्सत्यस्थ' इत्युक्त्वा शतमष्टाऽधिकं यजेत् 100
श्रीभूम्योरिव कुर्याच्च रुक्मिणीसत्यभामयोः
पूर्वोक्तेन विधानेन स्थापनादीनि कारयेत्॥ 101
कर्की
युगान्तसमये विष्णुः कर्की नाम भविष्यति
खड्गखेटकहस्तस्तु म्लेच्छादीन्‌ स हनिष्यति॥ 102
कूटे वा गोपुरे वाऽपि पर्वताऽकृतिकेऽपि वा
कल्किरूपं प्रतिष्ठाप्य विमाने तु समर्चयेत्॥ 103
मध्यमं दशतालेन भिन्नांऽजनचयप्रभम्
अश्वाननं मुखं कुर्यादन्यच्चैव नराकृति॥ 104
चतुर्भुजं च हस्तेषु क्रमाच्चैवाऽयुधान्यपि॥
चक्रं शंखं च खड्गं च दधानं खेटकं तथा॥ 105
अथवा कल्पयेद्देवमश्वारूढं द्विबाहुकम्
शुद्धस्फचिकसंकाशं खड्गखेटक धारिणम्॥ 106
अत्रैव कौतुकं कुर्याद्विष्णुरूपं चतुर्भुजम्
पूर्वोक्तयागशालायां पंचाग्नीन्‌ परिकल्प्य च॥ 107
पौंडरीके प्रधानाऽग्नौ हौत्रशंसनमाचरेत्
`कर्किणं कामरूपं च विष्णुं संहारकारणम्'॥ 108
एवमावाह्य विधिना निरुप्याज्याहुतीर्यजेत्
`धूर्नो वहन्ता' मित्युक्त्वा शतमष्टाऽधिकं यजेत्॥ 109
उत्सवस्नपनादीनि विष्णोरिव समाचरेत्
विष्णोर्दशावताराणामेवं प्रोक्तं तु लक्षणम्॥ 110

  • * *

अनादिर्भगवान्‌ कालो नाऽस्य चाऽन्तोऽपि दृश्यते
चक्रवत्परिवर्तन्ते सृष्टिस्थित्यन्तसंयमाः 111
अवताराश्च कीर्त्यन्ते भूयांसः परमात्मनः
धर्मसंरक्षणार्थाय दुष्टसंशिक्षणाय च॥ 112
सद्य आविर्भवेद्विष्णुर्यत्र भक्तानुकंपया
आविर्भावं तु तं विंद्यात्प्रादुर्भावमथेतरत्॥ 113
आविर्भावन्तु मत्स्याद्याः पंच पंचेतरास्स्मृताः
गजेंद्रमोक्षणादीनप्याविर्भावान्‌ प्रचक्षते॥ 114
अन्तराले तथा विष्णोर्दक्षिणोत्तरपार्श्वयोः
कल्पयेद्रामकृष्णौ तु मुखमंडप एव वा॥ 115
अथान्तर्मंडपे वाऽपि तथाऽवरण मंडपे
संस्थाप्य कौतुकं बेरं द्वयमेवेति के च न॥ 116
नारसिंहं वराहं च वामनं च त्रिविक्रमम्
ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितम् 117
स्थापयित्वा तथा विष्णोः पूजयेदग्रमंडपे
मत्स्यकूर्मवराहाणां वामनस्य विशेषतः॥ 118
कौतुकं विष्णुरूपं तु कुर्याच्चैव चतुर्भुजम्
ध्रुवरूपं न कुर्वीत यथेष्टमितरत्रतु॥ 119
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे षोडशोऽध्यायः