प्रकीर्णाऽधिकारः/षष्ठोऽध्यायः
| ← पञ्चमोऽध्यायः | प्रकीर्णाऽधिकारः षष्ठोऽध्यायः [[लेखकः :|]] |
सप्तमोऽध्यायः → |
अथषष्ठोऽध्यायः॥
मूधेन्ष्टकाविधिः॥
अथवक्ष्येविशेषेण क्रमंमूर्धेष्टकाविधेः
प्रमुखेयागशालांच कृत्वाचैवविचक्षण 1
मध्येवेदिंप्रकल्प्यैव स्थूपिकीलप्रमाणतः
सभ्यंप्रकल्प्यचप्राच्या माघारंविधिवद्यजेत्॥ 2
वेदिमध्येन्यसेद्विद्वान् सुस्निग्धानिर्व्रणादृढाः
वैष्णवंचजपित्वैवचतस्रश्चेष्टकाःक्रमात्॥ 3
किंचिदग्रंभवेन्निम्नं मूलेवैकिंचिदुन्नतम्
अधोभागेभवेत्पृष्ट मूर्ध्वभागेमुखंभवेत्॥ 4
शालिपिष्टमयेनाऽथ लेखयेदक्षराणितु
यकारंपूर्वतोलेख्य रकारंदक्षिणेन्यसेत्॥ 5
लकारंपश्चिमेलेख्यवकारे चोत्तरेलिखेत्
लोहजांदारुजांवाथ स्थूपिंतत्रन्यसेद्बुधः॥ 6
पादायामसमंदीघंन् विस्तारंपादसम्मितम्
अग्रमंगुलविस्तार मानुपूर्व्यात्कृशंतथा॥ 7
चतुरश्रंभवेन्मूलं त्रिभागै कंसमंयथा
वृत्तंतदूर्ध्वतःकुर्या च्छीलीपादमधोन्यसेत्॥ 8
विस्तारत्रिगुणायामं विस्तारसमविस्तरं
तद्द्वयेनसमायोज्य नमंशूलंस्थितंयधा॥ 9
पंचगव्यैस्समभ्युक्ष्य पुण्याहमपिवाचयेत्
वास्तुजोमंचहुत्वैव पर्यग्निकरणंचरेत्॥ 10
मूर्धेष्टकाविधानेन होमंकृत्वाविचक्षणः
पुनःप्रभातेधर्मात्मा यजमानयुतोगुरुः 11
शिलादीन् संप्रगृह्यैव विमानेरोपयेत्तधा
पाणिभ्यांसंप्रगृह्यैव प्राङ्मुखोदङ्मुखोऽपिवा 12
चतुर्वेदादिमंत्रैश्च शिलाइंद्रादिषुन्यसेत्
ध्रुवसूक्तंजपित्वातु मथ्येस्थूपिंन्यसेत्तधा॥ 13
कालेशिल्पिनमाहूय पूजयित्वा विशेषतः
शिलाद्युपरिविन्यस्य दृढीकरणमाचरेत्॥ 14
पादबंधेगळेचैव विमाने परितःक्रमात्
विमानदेवाः
प्राच्यां विष्णुं प्रकुर्वीत यस्य गर्भगृहेस्थितिः 15
दक्षिणेसत्यमूर्तेस्तु पश्चिमेचा च्युतस्य च
उत्तरेचाऽनिरुद्धस्य स्थितिमेवं प्रकल्पयेत्॥ 16
गलेपुरुषमूर्तिस्तु दक्षिणे नारसिंहकः
पश्चिमे तु वराहश्च हयग्रीवस्तथोत्तरे॥ 17
सुखसनसमालुक्तं सर्वालंकारसंयुतम्
व्यालोद्ध्वकोणकंचैव वीशं वाथ मृगेश्वरम्॥ 18
वक्रतुंडं च दुर्गां चाप्यग्रमंडपभित्तिषु
स्थितमेवं सुसंस्थाप्य यथालाभं समर्चयेत्॥ 19
द्वारेषु द्पारपालानां स्थितिमेवं प्रकल्पयेत्
प्रासादलक्षणंप्राक्तं मंूपानामथोच्यते॥ 20
स्तंभैष्षोडशभिर्युक्तं मंडपं श्रीप्रतिष्ठितम्
द्वादशस्तंभसंयुक्तं बीजासनमिति स्मृतम्॥ 21
द्वात्रिंशद्गात्रसंयुक्तं जयभद्रेतिकीर्त्यते
षट्त्रिंशद्गात्रसंयुक्तं नन्द्यावर्तं सुशोभनम्॥ 22
चतुर्भिष्षष्टिभिस्त्संभै र्युक्तंश्रीभद्रकं स्मृतम्
स्तंभानां तु शतैर्युक्तं विशालमिति संज्ञितम्॥ 23
प्रासादवत्समाख्यातं प्रस्तारं तत्प्रमाणतः
वाजिनोपरि कर्तव्यं धारकस्तु कलास्तथा॥ 24
स्तंभविष्कंभमुत्सेधं चतुर्भागेनविस्तृतम्
तुलाविस्तारमानेन जयन्तीस्यात्समोन्नता॥ 25
ततो दंडार्धबाहुल्य मनुमार्गं तदूर्ध्वतः
इष्टकाभिस्तदूर्ध्वं तु छादयेद्गळ कान्वितम्॥ 26
पादाधिकमधाध्यर्धं द्विगुणं पादहीनकम्
चतुर्विधमथाऽयामं कर्तव्यं मंडपस्यतु॥ 27
आयामे तु यथायुक्तं स्तंभानां विधिरुच्यते
द्विहस्तं वात्रिहस्तं वा चतुर्हस्तमथाऽपिवा॥ 28
स्तंभान्तरं प्रकर्तव्यं यथायुक्ति विशेषतः
एवंक्रमात्समाख्यातं प्राकारमधुनोच्यते॥ 29
पाकारं परितः कुर्या त्प्रासादस्य प्रमाणतः
प्राकारस्यतुविस्तारं तस्यदंडमिहोच्यते॥ 30
अन्तर्मंडलमित्याहु रध्यर्धं दंडमानतः
अन्तर्भारमितिप्रोस्तं मध्यभारं द्विदंडत॥ 31
चतुर्दंडप्रमाणेन युक्ता मर्यादभित्तिका
महामर्यादभित्तिस्स्यात्सप्तदंडप्रमाणतः॥ 32
अध्यर्धद्विगुणं वापि त्रिगुणं वा चतुर्गुणमे
मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः 33
कपोता न्तंसमुत्सेधं भित्तिहस्तप्रमाणतः
कूटशालायुतं वापि कुर्यात्प्राकारसंयुतम्॥ 34
मूलजं तु तलोत्सेधं हस्तमेवं विधीयते
यथालाभोन्नतं वाऽपि प्रधमावरणं स्मृतम्॥ 35
षडंगुलं क्रमात्कुर्यान्न्यूनप्राकारकंविदुः
जलनिर्याणमार्गं स्यात्पदान्ते तटकेऽपिवा॥ 36
प्रधमावरणद्वारं प्रमुखेकल्पयेत्तथा
द्वितीयावरणद्वारो व्यस्तश्छेन्नास्तिदूषणम्॥ 37
विमानोत्सेधतुर्यं वा पोदोनं चार्थमेव वा
पृधग्गोपुरसंयुक्त मुच्छ्रितं तु समंतुवा॥ 38
पंचप्राकारमित्येवं त्रिप्राकारमथाऽपिवा
त्रिप्राकारेषडंगुल्यं त्रिधाधस्तलनिम्नगम्॥ 39
प्राकारेहुच्छ्रयं विंद्यात्कपोतान्तं तदुत्तमम्
मध्यमं चोत्करान्तेन कलशान्तं तथाधमम्॥ 40
एवं प्राकारसंगेन तूत्सेधं त्रिविधं क्रमात्
उत्सेधात्पंचभागैकं चतुरंशकमेव वा॥ 41
षड्भागैकेन वाकुर्यात्त्रिविधं भित्तिविस्तरम्
अध वा प्रासादभित्तिस्तु तत्समं भित्तिमेव च॥ 42
गर्भेऽष्टांशोच्छ्रयं श्रेष्ठं सप्तभागेद्विमध्यमम्
पंचभागैकमधमं बलिपीठं तथाभवेत्॥ 43
गर्भपंचत्रिभागैकं
नवांशेषट्चतुर्भागं मध्यमाधममुत्तमम्॥ 44
त्रिधा पैशाचिकं पीठाद्धस्तमात्रं क्रमाद्भवेत्
द्विहस्तांतं त्रिहस्तान्तं चतुर्हस्तान्तमुच्यते॥ 45
अधमं मध्यमं श्रेष्ठं त्रिधा पैशाचपीठकम्
सप्तविंशतिभागैश्च सममेवं समुन्नतम्॥ 46
द्व्यंशं च पादुका ज्ञेयं चतुरंशं जनिं विदुः
त्य्रंशं तु कुंभमित्याहु श्चतुर्थंकंठमेव च॥ 47
षड्भागं करणेत्याहुर्द्व्यंशं वळकमेव च
चतुरंशे कपोताश्च अंशेचैवाग्रपट्टिका॥ 48
अध्यर्धं पद्मपुष्पन्तु एकार्धं पद्मपुष्पकम्
एवं सम्यग्विदित्वातु भागेभागे विनिर्दिशेत्॥ 49
इति श्रीवैखानसे भगवच्चास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे षष्ठोऽध्यायः॥