प्रकीर्णाऽधिकारः/षड्विंशोऽध्यायः
| ← पञ्चविंशोऽध्यायः | प्रकीर्णाऽधिकारः षड्विंशोऽध्यायः [[लेखकः :|]] |
सप्तविंशोऽध्यायः → |
अथ षड्विंशोऽध्यायः
प्रायश्चित्तम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिम्
न्यूनेऽतिरिक्ते व्याघाते प्रायश्चित्तं समाचरेत्॥ 1
प्रायोदोषस्समुद्दिष्टश्चित्तं तस्य निवारणम्
प्रायश्चित्तं समाख्यातं कुर्यात्कर्मसमृद्धये॥ 2
प्रायश्चित्तमकुर्वाणस्सति दोषे विनश्यति
तस्मात्सर्मप्रयत्नेन कुर्याद्यत्नेन निष्कृतिम्॥ 3
आलयस्य च निर्माणं पूजाद्यास्तत्र याःक्रियाः
अस्माच्छास्त्रादतिक्रम्य निष्फलाःप्रभवन्तिहि॥ 4
तद्दोषशमनायैव महाशान्तिपुरस्सरम्
सर्वाःक्रियाःक्रमेणैव पुनश्शास्त्रोक्तवच्चरेत्॥ 5
यच्छास्त्रविधिमुत्सृज्य क्रियते कामकारतः
नोक्तं दद्यात्फलं कर्म प्रत्युताऽनर्थदं भवेत्॥ 6
शिल्पं च ज्योतिषं वास्तु तदऽन्ये चाऽगमाः परे
तावता हि प्रमाणं स्याद्यावदेतेन नाऽन्तरम्॥ 7
वैखानसमिदं शास्त्र मन्यशास्त्राऽनपेक्षितम्
प्रणिवायाऽब्जजः पूर्वं सर्वशास्त्रार्थसंग्रहम्॥ 8
मोहादज्ञानतो वाऽपि विचिकित्सापदेषु यः
शास्त्रान्त रानुरोधेन शास्त्रमेतद्विमानयेत्॥ 9
स याति नरकं घोरं यावदाभूतसंप्लवम्
तस्मान्निष्कास्य तं मूढं शास्त्रोक्तं सम्यगाचरेत्॥ 10
- * *
यदागच्छेद्बहिर्द्वारं भूमिं सम्यक् परीक्षितुम्
अपतेदंतरायश्चेत्प्रायश्चित्तं हुनेद्बुधः॥ 11
जपेच्च वैष्णवं वैघ्नं शतशः पुनराचरेत्
दुर्दर्शने जपेत्सौरं हुनेत्पूर्वोक्तवद्बुधः॥ 12
दुर्वाक्ये तु श्रुते ब्राह्मं जपेत्सारस्वतं तथा
तत्काले कलहे चैव शोणितप्रस्रवे तथा॥ 13
अग्निदाहादिके चैव वैष्णवं सौम्यसंयुतम्
वैष्वक्सेनं तथा सौदर्शनं गारुडमेव च॥ 14
लौकिकाऽग्नौ हुनेद्ध्यात्वा देवं पश्चात्समाचरेत्
- * *
भूपरीक्षणकाले तु यदि पांसुक्षयो भवेत्॥ 15
पूर्णाहुतिं च जुहुयात्तथा मिन्दाहुती बुधः
परीक्षिता यदा भूमिः पूर्वमेवाऽन्यवर्त्मना 16
औपासनाग्निमाधाय व्याहृत्यन्तं तु वैष्णवम्
जुहुयाद्दशशः कुर्यात्ततः कर्माणि मन्त्रतः॥ 17
वृषभस्यांगहानौतु कर्षणे दोषशान्तये
रौद्रं ब्राह्मं च जुहुयात्ततोऽन्यं वृषमाहरेत्॥ 18
हलादीनां तु निर्माणे यज्ञवृक्षेतरैः कृते
तथा प्रमाणहीने च जुहुयाद्वैष्णवं तथा॥ 19
सौम्यं चैव तथाऽग्नेयं प्राजापत्यं च देशिकः
रज्जभेदे वारुणं च सीताभेदेश्रियं तथा॥ 20
दात्रभेदे तु जुहुयाज्ज्येष्ठामंत्रं विचक्षणः
ऋषिभेदे तु वायव्यं क्षिणीये वासवं तथा॥ 21
युगे नागं प्रतोदे तु याम्ये व्याहृतिसंयुतम्
कपालाऽस्थितुषांगारकेशवल्मीकखर्पराः॥ 22
दृष्टाःकर्षणकाले चेत्तद्व्यपोह्याऽविलंबितम्
अभ्युक्ष्य पंचगव्येन सौम्याऽग्नेयौ हुनेत्क्रमात्॥ 23
तत्र चेदर्चने हीने शान्तवीशाऽनपायिनाम्
वैष्णपं जुहुयात्तत्तद्दैवत्यं चाऽर्चयेत्पुनः 24
बीजावापनहीने तु जुहुयाद्वैष्णवं तथा
सौम्यं हुत्वा च वायव्यं पुनर्बीजानि वापयेत्॥ 25
गवां निवेदने हीने वैष्णपं चाऽमितं हुनेत्
गारुडं चक्रमंत्रं च दशशस्सुसमाहितः॥ 26
पलालभारानाहृत्य गोगणेभ्यो निवेदयेत्
पददेवबलौ हीने हुनेत्तन्मंत्रपूर्वकम्॥ 27
वैष्णवं ब्राह्ममैंद्रं च याम्यं वारुणमेव च
कौबेरं च क्रमाद्धुत्वा बलिं तत्र समर्पयेत्॥ 28
ब्रह्मपद्मक्रियाहानौ वैष्णवब्राह्मवारुणान्
भूदैवत्यं च जुहुयात्पुनः कार्यं समाचरेत्॥ 29
- * *
दिक्फरिच्छेदहीने तु दिग्दैवत्यं च वैष्णवम्
सौरं चैव पुनर्हुत्वा कुर्याद्दिक्साधनं ततः 30
विमानार्थं यदा भूमिःखन्यते तत्र संभवे
शर्कराशल्यलोष्टादौ वैष्णवं ब्राह्ममेव च॥ 31
पंचभूताऽधिदै वत्यं व्याहृतीश्च हुनेत्क्रमात्
हीनेऽधिके वा माने तु शीलाया इष्टकस्य वा॥ 32
वैष्णवं विष्णुसूक्तं च हुत्वा विधिवदाचरेत्
विपर्यासे तु विन्यासे दिग्दैवत्यं च वैष्णवम् 33
हुत्वा यथोक्तवत्कृत्वाजपेद्वेदादिकान्मनून्
रत्नन्यासविहीने तु हुनेत्तदधिपान्ममान् 34
विष्णुसूक्तंततो हुत्वा रत्नन्यासं समाचरेत्
गर्भन्यासविहीने तु वैष्णवं विष्णुसूक्तकम्॥ 35
हुत्वा श्रीभूमि दैवत्यं गर्भन्यासं पुनश्चरेत्
प्रमाणहीने तु वैष्णवं विष्णुसूक्तकम्॥ 36
सौरं सौम्यमथाऽग्नेयं यजेत्कुर्याद्विधावतः
निर्माणकाले द्रव्याणां स्थापने संकरेणवै 37
विपर्यासे च संप्राप्तॆ वैष्णवं जुहु यात्क्रमात्
तत्तत्थ्सानाधिदैवत्यं हुत्वा विधिवदाचरेत्॥ 38
अनुक्तदेशे न्यासे च विष्णुसूक्तं च पौरुषम्
हुनेच्छ्रीभूमिदैवत्यं तत्तत्थ्साने निवेशयेत्॥ 39
अप्रमाणे शिलायां वा तथा मूर्धेष्टकादिषु
जुहुयान्निष्कृतिं विद्वानाद्येष्टकविधानतः॥ 40
स्थूपिकीले तदाधारे प्रमाणपरिवर्जिते
अलाभे चोक्तदारूणां वैष्णवं सौम्यपावके॥ 41
भूदैवत्यं च हुत्वा तु विधिना कालयेद्बुधः
विमाने निर्मिते पश्चात्सुधाकर्मण्यकल्पिते॥ 42
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च
हुनेच्छ्रीभूमिदैवत्यं विधिना पुनरारभेत्॥ 43
आग्नेयं भूमिदैवत्यं हुत्वा कार्यं समाचरेत्
- * *
हीने धाम्नःकवाटादौ धात्रादीन् जुहुयाच्च षट्॥ 44
वैष्णवं श्रीमहीमंत्रान् हुत्वा निर्मापयेत्पुनः
प्राकारे गोपुरे हिने दोषो भूयान्महत्तरः 45
वंशहानिर्द्विषद्वृद्धिरर्थनाशो महद्भयम्
शान्तेहिने महापत्स्यात्कुलं चोत्सीदति ध्रुवम्॥ 46
भूतपीठविहीने तु धनधान्याऽयुषां क्षयः
कूपारामहविश्शालपुष्पसंचयवाटिकाः॥ 47
स्नानपानीयशाला च तथैवास्थानमंडपम्
नृत्तगीतप्रपाश्चैवं मंडपादावनिर्मिते॥ 48
संपद्येत महान् दोषः कृतं स्यादकृतं पुनः
तस्मात्सर्वप्रयत्नेन कारयेच्छक्तितो बुधः 49
वैष्णवं विष्णुसुक्तं च पौरुषं सूक्तमेव च
हुत्वा श्रीभूमिदैवत्यं तत्तद्दैवत्यमेव च॥ 50
यथोक्तं तु प्रकुर्वीत वित्तशाठ्यंन कारयेत्॥
- * *
प्रथमेष्टकां समारभ्य स्थूपिकीलावसानके॥ 51
आनुक्तानां च दोषाणामियं स्यात्सर्वनिष्कृतिः
आलयात्पुरतोवाऽथ दक्षिणे वा मनोरमे॥ 52
शुचौ देशे प्रतिष्ठाप्य पद्माग्नौ जुहुयात्क्रमात्
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च 53
हुनेच्छ्रीभूमिदै वत्यमंग होमश्चहूयते॥
स्थूप्याद्युपानपर्यंतविमानांगानि नामतः 54
`दद्भ्यस्स्वा'हादि जुहुयाद्ब्राह्मं रौद्रं विनायकम्
आग्नेयं दुर्गासूक्तं च प्राजापत्यं च हावयेत्॥ 55
- * *
समापिते विमाने तु धनलोभादिना पुनः
ध्रुवबेरं विनाकृत्वा कौतुके स्थापिते यदि 56
आभिचारिकमेतत्स्याद्राज राष्ट्रविनाशनम्
तद्दोषपरिहारार्थं महाशान्तिं त्य्रहं चरेत्॥ 57
वैष्णवांश्च सुसंपूज्य भोजयेद्ब्राह्मणान् बहून्
`क्षम'स्वेति नमस्कृत्य देवदेवं तु कौतुकम्॥ 58
बालालये प्रतिष्ठाप्य ध्रुवबेरं समाचरेत्
ध्रुवार्चाबेरमथ वा कृत्वा स्थापनमाचरेत्॥ 59
- * *
विमानस्य समाप्तौ तु मासादूर्ध्वं तु तत्र वै
ध्रुवस्थापनहीने तु वैष्णवं जुहुयात्ततः 60
विष्णुसूक्तं तथा रौद्रमैंद्रमाग्ने यमेव च॥
वारुणं बार्हस्पत्यं च श्रीभूदैवत्यमेव च॥ 61
शान्तिं हुत्वा विधानेन दद्यादाचार्यदक्षिणाम्
ब्राह्मणान् भोजयित्वैव पूजयित्वा तु वैष्णवान् 62
ध्रुवबेरं प्रतिष्ठाप्य विधिना सम्यगर्चयेत्
एवं मासद्वयेऽतीते द्विगुणं निष्कृतिर्भवेत्॥ 63
मासत्रये तु त्रिगुणमेवमावत्सरं भवेत्
संवत्सरे व्यतीते तु दोषो भूयान्महत्तरः॥ 64
सप्ताहं तु महाशान्तिं हुत्वाऽब्जाऽग्नौ विधानतः
ब्राह्मणान् भोजयेत्पश्चाद्विधिना सर्वमाचरेत्॥ 65
सप्तवर्षेषु सप्ताहं प्रथमादिक्रमेण वै
केचिदिच्छन्ति मुनयस्सप्ताहान्तमिदं चरेत्॥ 66
अत ऊर्ध्वं कर्षणादि पुनस्संस्कारमाचरेत्
- * *
जलाधिवासनात्पूर्वमंगहानौ ध्रुवस्यतु 67
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च
हुनेच्छ्रीभूमिदैवत्यं `दद्भ्यस्स्वाहा'दिकं तथा॥ 68
आचार्यदक्षिणां दद्याद्बेरं सम्यक् परीक्षयेत्
संधानयोग्यं संदध्यात्पुनः कार्यं समाचरेत्॥ 69
शक्तश्चेन्नूतनं बेरमाहृत्य तु समाचरेत्
- * *
शिलाग्रहणसंस्कारमकृत्वा शिल्पिना कृतम्॥ 70
बेरमादाय जुहुयाच्छान्तिं वैष्णवमन्त्रतः
भूमौ पिधाय तद्बेरं वास्तुहोमं समाचरेत्॥ 71
पर्यग्निपंचगव्याभ्यां बेरं संशोध्य यत्नतः
परितः पूर्ववद्गत्वा बलिं देवं समर्च्य च॥ 72
पश्चात्समंत्रकं कृत्वाविधिना स्थापयेद्बुधः
- * *
जलाधिवासनादर्वाक्थ्सापनात्पूर्वमेव च॥ 73
देवस्य देव्यादीनां वा अंगहानिर्भवेद्यदि
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च॥ 74
श्रीसूक्तं च महीसूक्तं ब्राह्मं रौद्रं तथैव च
मुन्योर्मंत्रमथान्येषां तत्तन्मत्रं सुहूयताम्॥ 75
संधानयोग्यं संदध्यादयोग्यं विधिवत्त्यजेत्
संधाय वाऽन्यं चाहृत्य पुनस्थ्सापनमाचरेत्॥ 76
- * *
स्थापिते तु महाबेरे मासादूर्ध्वमसंस्कृते
अब्जाऽग्नौ वैष्णवं चैव विष्णुसूक्तं तथैव च॥ 77
सूक्तं तु पौरुषं हुत्वा श्रीभूदैवत्यमेव च
ब्राह्मं रौद्रं पार्षदं च हुत्वा कार्यं समाचरेत्॥ 78
मासद्वये तु द्विगुणं त्रिमासे त्रिगुणं भवेत्
संवत्सरान्तमेवं स्यात्तदन्ते स्थापयेत्पुनः॥ 79
अतीते द्वादशे वर्षे कर्षणादि पुनः क्रियाः
शिलासंग्रहणाद्यन्यत्कृत्वा स्थापनमाचरेत्॥ 80
- * *
अथ वक्ष्ये कर्षणादौ पुनस्संस्कार माचरेत्
तृणगुल्मलतादीनि शोधयेत्पूर्वमालये 81
कुर्याच्छिलेष्टकादारुप्रक्षेपणविधिं क्रमात्
सुधावर्णानुलेपादीन् समाप्य गुरुत्वरः 82
अलयस्योत्तरे कुर्याद्वास्तुहौमं यथाविथि
पुण्याहं वाचयेद्विद्वान् पर्यग्निं चैव कारयेत् 83
पंचगव्यैस्समभ्युक्ष्य ततस्संकर्प्य कर्षणम्
आलयाभिमुखे कृत्वा व्रीहिभिस्थ्संडिलं बुधः 84
शान्ताऽनपायिनौ वीशं चाऽभ्यर्च च निवेदयेत्
सुवर्णेन हलं कृत्वा गर्भागारादि सर्वशः 85
गृहीत्वा दक्षिणे हस्ते मंत्रैर्विष्णोर्नुकादिभिः
कर्षयित्वा यथोक्तानि बीजान्याहृत्य देशिकः 86
अभ्युक्ष्य सोममभ्यर्च्य विष्णुगायत्रिमुच्चरन्
अभिमंत्य्र ततो बीजान् `सोमं राजान'मुच्चरन्॥ 87
सर्वत्र वापनं कुर्याद्दूर्वादींश्चाहरेत्तृणान्
आस्तीर्योपरि ता न्तृर्वान् सूक्तं गौदानिकं पुनः 88
उच्चार्य गोगणेभ्यस्तान्निवेद्य च प्रदापयेत्
आलयं तु सुसंशोध्य ब्रह्मादीनां ददेद्बलिम्॥ 89
द्रोणैस्तदर्धैर्वा पक्त्वा तंडुलैस्सघृतं चरुम्
पूर्वं तोयं ततः पुष्पं बलिं तो यं समर्पयेत्॥ 90
पुनस्संशोधयेद्धाम शान्तिहोमपुरस्सरम्
तत्तत्संस्कारहोमं च हुत्वा कुर्यात्क्रियास्ततः॥ 91
आद्येष्टकार्थमासाद्य कुंडमौपासनं बुधः
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च 92
देग्दैवत्यं च जुहुयाद्देवं ध्यायन् समाहितः
जपेद्वेदादिमंत्रांस्तु संस्पृश्याद्येष्टकास्थलम्॥ 93
कृत्वान्तः परिषेकं च परिषिच्याऽनलं पुनः
गर्भन्यासार्थमागूर्य वैष्णवं विष्णुसूक्तकम्॥ 94
पुरुषसूक्तं च श्रीसूक्तं महीसूक्तं तथैव च
देग्दैवत्यं च जुहुया`न्नागराजाय'सेत्यपि॥ 95
`सर्वरत्नेभ्य'इत्युक्त्वा `सर्वधातुभ्य'इत्यपि
`सर्वबीजेभ्य'इत्युक्त्वा`सर्वलोहेभ्य'इत्यपे॥ 96
`नदीभ्यःपातालेभ्य'श्च `नागेभ्यो'जुहुयात्ततः
`दिग्गजेभ्यो विष्णवे' च स्वाहान्तं जुहुयात्क्रमात् 97
तत आभ्यन्तरद्वारदक्षिणन्तंभदक्षिणे
मेदिनीं तु समभ्यर्च्य जपेत्सूक्तं तु पौरुषम् 98
मेदिन्यादींस्ततो जप्त्वातत्तत्थ्सावं स्पृशेद्बुधः
कृत्वान्तः परिषेकन्तु तत्र कार्यं समाचरेत्॥ 99
नष्टे गर्भे च हुत्वैवं संपाद्य स्थापयेत्पुनः
अन्यैष्टकार्थं जुहुयाद्वैष्णवं विष्णुसूक्तकम्॥ 100
पुरुषसूक्तं च हुत्वातु जुहुयाद्विधिना बुधः
विमानपालदैवत्यं जपन् वेदादिकान्मनून् 101
विमानस्योपरिष्टात्तु स्थूपिकीलादधस्तथा॥
जपन्वैविष्णुसूक्तं च कुर्याच्चैवाऽभिमर्शनम्॥ 102
- * *
ध्रुवे प्रमाणहीने च परिस्तीर्य च पावकम्
ध्रुवस्थापनवद्धुत्वा रत्नन्यासोदितान्मनून् 103
जपेत्थ्सापनसूक्तं च नवीकृत्य प्रयत्नतः
कौतुकादींश्च कृत्वैव प्रतिष्ठां कारयेद्बुधः 104
नष्टे ध्रुवे पुनःकुर्यादुत्कृष्टद्रव्यनिर्मितम्
अथ वा वूर्ववत्कृत्वा स्थापयेद्विधिनाऽत्वरः, 105
नरैर्वृषैर्मृगाद्यैर्वाबेरमुत्पाटितं यदि
अहीनांगं तु संगृह्य शुद्ध्यर्थमधिवासयेत्॥ 106
जलाधिवासं कृत्वा तु तत्थ्साने विधिना बुधः
रत्नन्यासं च कृत्वैव प्रतिष्ठां पुनराचरेत्॥ 107
अन्यालयादपहृतमनिष्पन्नक्रियं तथा
शिलाबेरं यदि स्यात्तद्भूमौ सम्यक् पिधाय च 108
विधिनाऽहृत्य संस्कार्यं कृत्वा स्थापनमाचरेत्
शिल्पिना विथिपूर्वं तु कृतं बेलं तथा चरेत्॥ 109
यथाविधि यथास्थानं स्थापितं दोषवर्जितम्
बेरं न चालयेद्यस्माद्राजराष्ट्रविनाशनम्ः॥ 110
तद्दोषशमनार्थाय पद्माग्नौ जुहुयात्क्रमात्
सप्ताहं तु महाशान्तिं कुर्याद्ब्राह्मणभोजनम् 111
दद्यात्सुवर्णं गां भूमिं प्रतिष्ठां पुनराचरेत्
अविधिज्ञैरथाचार्यैर्रुत्विग्भिस्थापगै स्तथा॥ 112
स्थापितं बेरमाज्ञाय चालयित्वा यथाविधि
विधिज्ञैस्थ्पापनं विद्वान् कारयेदत्वरं तथा॥ 113
विधिज्ञैस्थ्सापितं बेरमज्ञानाच्चालितं यदि
शांतिं हुद्वा विधानेन विधिज्ञैस्थ्सापयेत्पुनः 114
नदीतटाकपाथोधिप्रवाहैर्वात्ययाऽध वा॥
दैवात्प्रचालिते तत्र विमाने वा ध्रुवेऽपि वा॥ 115
भूमौ पिधाय तद्बेरं निर्माय पुनरालयम्
अचलं स्थापयेद्बेरं शास्त्रोक्तेनैव वर्त्मना॥ 116
सापाये तु स्थले तस्मिन् सन्निकृष्टे स्थले चरेत्
ग्रामादौ वा विविक्ते वा प्रदेशे सुमनोरमे॥ 117
विमानं सुदृढं कृत्वा देवमादाय तत्र वै
सर्वैश्च पार्षदैर्युक्तं संस्थाप्य विधिनाऽर्चयेत्॥ 118
ग्रामादीनामभावे तु शतदंडात्परं ततः
विमानं विस्तृते देशे कृत्वा संस्थाप्य चार्चयेत्॥ 119
राजाराष्ट्रान्तरं जित्वा बेरमाहृत्य यत्नतः
स्वराष्ट्रेस्थापितुं चेच्छेद्यदि ग्रामं विधाय च॥ 120
तद्वास्त्वंगालये बेरं विधिना स्थाप्य चार्चयेत्
अपौरुषालयाभ्याशे विमानं पौरुषं यदि॥ 121
कर्तुमिच्छेत्तदा कुर्यात्तत्प्राकारान्तरे पुनः
भूशुद्ध्यादीन्विना कृत्वा प्राकारं प्रतिमादिकम्॥ 122
प्रतिष्ठाप्याऽर्चयेत्तस्य मूलस्थानाऽर्चनं फलम्
- * *
प्रमादादथवा दैवा दालये स्नपनालये॥ 123
आस्थानमंडपे पाकस्थानप्राकारयोरपि
गोवुरेस्नानपानीयशालादौ वह्निदूषिते 124
महावातहतेऽकस्मादशन्यादिहते तथा
पारमात्मिकमब्जाऽग्नावींकारादीं स्तथा हुनेत्॥ 125
विच्छिन्नं मिंदाहुतीचैव आग्नेयं व्याहृतीस्तथा
पुनरन्यन्नवं कृत्वा प्रतिष्ठां कारयेत्क्रमात्॥ 126
- * *
शिलाग्रहण काले वा तदा दारुग्रहेऽपि च
क्रियाङीने विपर्यासे वैष्णवं विष्णुसूक्तकम्॥ 127
मिन्दाहुती च विच्छिन्नं व्याहृत्यन्तं हुनेद्बुधः
- * *
द्वारस्तंभे भुवंगादौ हीने मानेऽग्निदूषिते॥ 128
जीर्णे वा कृमिदष्टे वाऽनुपयुक्तं त्यजेद्बुधः
अन्यमाहृत्य विधिना संयोज्यैव च पूर्ववत् 129
नित्याग्नौ वैष्णवं सौम्यमाग्नेयं शान्तिमाचरेत्
- * *
गर्भन्यासार्थमथवा पीठन्यासार्थमेव वा॥ 130
रत्नानामप्यलाभे तु सुवर्णं तत्र निक्षिपेत्
विष्णुसूक्तं तु जुहुयात्प्रायश्चित्तं तु तद्भवेत्॥ 131
- * *
धातूनां पारदं प्राक्तमलाभप्रणिधिन्तु तत्
पारदं तत्र निक्षिप्य ब्राह्मं रौद्रं च निष्कृतिः॥ 132
यवा बीजप्रतिनिधिर्मुद्गान्वा तत्र निक्षिपेत्
वायव्यं वैष्मवं चेति जुहुयात्तत्र निष्कृतिः॥ 133
- * *
ध्रुवबेलस्य निर्माणे शूलग्रहणकर्मणि
स्थापने वा विपर्यासे ब्राह्मं रौद्रं च वैष्णवम्॥ 134
वाहृत्यन्तं च हुत्वैव विधिना योजयेत्पुनः
अप्रमाणे विमाने तु बेरं मानविवर्जितम्॥ 135
अज्ञानात् स्थापितं चेत्तद्राजराष्ट्रविनाशकृत्
तद्दोषशमनार्थं च महाशान्तिं हुनेद्बुधः॥ 136
तद्विमानं च तद्बेरं स्थापयेद्विधिवत्पुनः
तत्तद्बेरोक्तशूलानां प्रमाणं यदि हीयते॥ 137
पूर्णं कृत्वा वैष्णवं च पौरुषं सूक्तमेव च
`दद्भ्यस्स्वा'हेत्यंगहोमं हुत्वातु स्थापयेत्पुनः॥ 138
स्नेहचूर्णकषायादौ हीने योगविपर्यये
रज्जुबंधाष्टबन्धादौ शर्करालेपने तथा 139
तथा मृदालेपने च पटाच्छादनकर्मणि
भूषादौ क्रमहीने वा वर्णादीनां व्यतिक्रमे 140
वैष्णवं ब्राह्मरौद्राऽग्निमहाभूताथिपांस्तथा
प्राजापत्यं व्याहृतीश्च हुत्वा विधिपदाचरेत्॥ 141
महाबेरं चार्धचित्रं मृण्मयं नैव कारयेत्
सौवर्णं राजतं ताम्रं शैलं दारवमेववा॥ 142
रत्नजं वार्धचित्रस्तु कुर्याद्बेरं सलक्षणम्
कृत्रिमेणाप्यनुक्तेन वर्णेनालेपितं पुनः॥ 143
बेरं प्रक्षाळ्य निर्वासवारिणा परिमार्ज्यच
वैष्णवं विष्णुसूक्तं च हुत्वाऽब्जाग्नौ जयादिकान् 144
पश्चाद्यथोक्तवर्णेन यथार्हमनुलेपयेत्
ध्रवबेरं सुधायुक्त मिष्टकाकल्पितं तथा॥ 145
दुष्टद्रव्यकृतं वाऽथ स्थापितं चाऽभिचारिकम्
तच्छीघ्रमपहायेव पद्माग्नौ वैष्मवं तथा॥ 146
- * *
विष्णुसूक्तं पौरुषं च श्रीभूदैवत्यमेव च
यद्देवादीं स्तथा ब्राह्मरौद्रपावकवारुणान्॥ 147
सर्वदैवत्यमंत्रांश्च पारमात्मिकमेव च
महाशान्ति च हुत्वैतां सर्वदोषविनाशिनीम्॥ 148
- * *
पश्चत्संस्कृत्य विधिवद्बेरं संस्थाप्य चार्चयेत्
- * *
वृत्तलोहाऽरकूटाद्यैरनुक्तद्रव्यसंभवैः 149
निर्मितं कौतुकं बेरमभिचाराय कल्पते
तद्दोषशान्त्यै पद्माऽग्नौ महाशान्तिं समाचरेत् 150
बेरं सलक्षणं कृत्वा विधिना स्थापयेत्पुनः
- * *
कौतुकं स्थितमासीनमथ वा कारयेद्बुधः॥ 151
शयानं नाचरेदार्षं यथाऽवस्थितमर्चयेत्
निर्दुष्टे कौतुकादौ तु पूज्यमाने तु विग्रहे॥ 152
नैव प्रवेशयेद्बेरमुत्कृष्टद्रव्यकल्पितम्
निकृष्टद्रव्यजं चापि पूज्यमानं न संत्यजेत् 153
अर्च्यमाने कौतुकादौ विरूपे वर्णवर्जिते
युक्तेवा झर्झुराद्यैश्च ध्रुवेशक्तिं समर्प्य च॥ 154
नवीकृत्य पुनर्बिंबं संशोध्य स्थापयेत्पुनः
कौतुकं चेदर्च्यमानं दैवाद्राजादिभिर्हृते॥ 155
तद्देशशुद्धिं कृत्वैव महाशान्तिं पुरोदिताम्
कृत्वा न्यस्यात्र रत्नं वा सुवर्णं कूर्चमेव वा 156
ध्रुवाद्वा हृदयादर्क मंडलाद्वा विधानतः
देवमावाह्य तत्काले पश्चाद्बेरं यथाविधि 157
पूर्वद्रव्येण वोत्कृष्टद्रव्येणापि प्रकल्पयेत्
कालापेक्षामकृत्वैव प्रतिष्ठां पूर्ववच्चरेत्॥ 158
मधूच्छिष्टक्रियाहीनं बेरमादाय वैष्णवम्
शान्तिंहुत्वा रौद्रसौरपावकान् पुनराचरेत् 159
- * *
अन्यालये स्थापितं तु ध्रुवं कौतुकमेव वा
अन्यालये स्थापयेच्चेन्महाशान्तिं हुनेद्बुधः 160
वैष्णवांन्तु सुसंपूज्य ब्राह्मणान् भोजयेद्बहु
तत्तत्थ्साने तु विधिना संस्थाप्यार्चन माचरेत्॥ 161
- * *
ग्रामादीनामालयस्य नाशेबेरं तु तद्गतम्
अन्यस्मिन्नालये स्थाप्य यथार्हं तु समर्चयेत्॥ 162
- * *
कृते तु पीठसंघाते बेरे त्ववनते क्रमात्
दक्षिणादि भवेन्मृत्युरर्थनाशोऽभिवर्धनम्॥ 163
पुत्रहानि स्तुंदभेदे ध्यान्यानां तु विनाशनम्
उरश्छिद्रेऽर्थनाशश्च कृशे कार्श्यं भजेन्नरः 164
स्थूले च महतीव्याधिर्दीर्घेऽनायुष्यमेव च
ह्रस्वेऽदुर्भिक्षमाप्नोति न्यूनाऽधिक्यसमुद्भवे॥ 165
अन्येष्वंगेषु हानिस्स्याच्छास्त्रोक्तं सम्यगाचरेत्
- * *
ध्रुवस्य स्थापनादर्वाक् प्राक्प्रतिष्ठाविधेस्तथा 166
अनुक्तनिष्कृतिं वक्ष्ये कापिलेन घृतेन वै
पद्माऽग्नौ वैष्णवं विष्णुसूक्तं सुक्तं च पौरुषम्॥ 167
श्रीभूदैवत्यमंत्रांश्च जुहुयाद्व्याहृतीर्बुनः
तत्तत्कर्मपुनः कुर्यादन्यथा निष्फलं भवेत्॥ 168
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे षड्विंशोऽध्यायः॥