प्रकीर्णाऽधिकारः/षड्त्रिंशोऽध्यायः
| ← पञ्चत्रिंशोऽध्यायः | प्रकीर्णाऽधिकारः षड्त्रिंशोऽध्यायः [[लेखकः :|]] |
सप्तत्रिंशोऽध्यायः → |
अथषट्त्रिंशोऽध्यायः॥
अपचाराः
अपचारास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः
यानैर्वा पादुकैर्वाऽपि गमनं भगवद्गृहे॥ 1
देवोत्सवाद्यसेवाचाऽप्रणामं च तदग्रतः
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम्॥ 2
उच्छिष्टे चैव चाऽशौचे भगवद्वन्दनादिकम्
पादप्रसारणं चाऽग्रे तथा पर्यङ्कबन्धनम्॥ 3
शयनं भोजनं चैव मुधाभाषणमेव च
उच्चैर्भाषा वृधाजल्पो रोदनाद्यं च विग्रहः॥ 4
निग्रहोऽनुग्रहश्चैव स्त्रीषु साकूतभाषणम्
अश्लीलकथनं चैवाऽप्यधोवायुविमोक्षणम्॥ 5
कंबलाऽवरणं चैव वरनिन्दा परस्तुतिः
शक्तौ गौणोपचारश्चाऽप्यनिवेदितभक्षणम्॥ 6
तत्तत्कालोद्भवानां च फलादीनामनर्पणम्
विनियुक्ताऽवशिष्टस्य प्रदानं व्यंजनादिषु॥ 7
पृष्ठीकृत्यासनं चैव परेषामभिवन्दनम्
गुरौमौनं निजस्तोत्रं देवतानिन्दनं तथा॥ 8
अपचारां स्तु विविधानीदृशान् परिवर्जयेत्॥
अपचारेष्वनन्तेषु सत्स्वन्येषु प्रमादतः 9
``क्षमस्वेत्यर्थनैवैगा निष्कृतिर्निरुपद्रवा
अन्यथा यदि कुर्वाणःप्रमादात् ज्ञानतोऽथवा॥ 10
स याति नरकान् घॆरान् सन्ततं भृशदारुणान्
येतु स्मरणमात्रेण भवन्ति हृदयच्छिदः॥ 11
द्वात्रिंशन्नरकाः॥
द्वात्रिंशन्नरकास्ते तु कीर्त्यन्तेब्रह्मवादिभिः
रौरवध्वान्तशीतोष्णतापांऽबुजमहांऽबुजाः॥ 12
कालसूत्रोऽष्टमो ह्येते नरका इति विश्रुताः
सूच्यग्रकालखड्गाश्च क्षुरधारांऽचबरीषकाः॥ 13
तप्तांऽगारमहादाहौ संतापश्चेति के चन
भवंत्यष्टासु भीभत्का महाशब्दा भयानकाः 14
लक्षाप्रलेपमांसादनिरुच्छ्वसनसोच्छ्वसाः
युग्माऽद्रिशाल्मलीलोहप्रदीपक्षुत्पिपासिकाः॥ 15
कृमीणां निचयश्चैव राजानः परिकीर्तिताः
लोहस्तम्भोऽथ विण्मूत्रे तथा वैतरणी नदी॥ 16
तामिस्रश्चाऽन्धतामिस्रः कुम्भीपाकोऽथ रौरवः
महापदाऽनुगामी च राजराजेश्वराह्वयः॥ 17
त्रयस्त्रींशत्पुटेष्वर्धं पार्थिवं चार्धमायसम्
तन्मध्ये नरका घोरा बहुशस्तमसि स्थिताः 18
तेषां नरकभेदानामष्टाविंशतिकोटयः
एतेषां दारुणानां तु नरकाणां पतिस्थ्सितः॥ 19
कूश्माण्ड इति विख्यातः प्रलयाऽर्काऽलनद्युतिः
करालवदनः क्रुद्धोवृत्तकोटरलोचनः 20
टंकपाणिस्तथाभूतैर्भूतैर्भूयोभिरावृतः
पापास्त्वेतेषु पच्यन्तेनराः कर्माऽनुरूपतः॥ 21
यातनाभिर्विचित्राभिरापापप्रक्षयान्तकम्
प्रायश्चित्तोज्घिता दृप्तानिजधर्मपराङ्मुखाः 22
परधर्मरताश्चोराः पतन्ति नरकाग्निषु
महापातकिनःकल्पं तिष्ठन्ति नरकाऽग्निषु॥ 23
मन्वन्तरं पातकिनो देवब्रह्मस्वहारिणः
उपपातकिनो मर्त्या देवदेवाऽग्नियज्वनाम्॥ 24
द्विजगोगुरुधर्माणां निन्दका ब्रह्मणो दिनम्
अन्ये चतुर्युगं मर्त्यास्तदर्धं च नराधमाः 25
तिष्ठन्ति नरके घोरे निजपापाऽनुरूप्यतः
द्यूतस्त्रीविषयासक्ता ये धर्मविकलाःखलाः 26
पतन्ति तेषु घोरेषु नरकेषु नराधमाः
न श्रुण्वन्ति च ये मूढास्साधूक्तं धर्मगौरवम्॥ 27
``प्यत्यक्षं केन तद्दृष्टं प्रत्युतेति वदन्ति च
कामलोभाऽभिभूताश्च बिडालव्रतिनस्तथा॥ 28
पापिष्ठाः कर्महीनाश्च जिह्वोपस्थपरायणाः
यतिनिन्दापरा ये च क्षेत्रतीर्थादिदूषकाः॥ 29
पतन्ति तेषु ते मर्त्याविवशाः पापबन्धनाः
इहाऽनुभूयनिर्दिष्टमायुर्मर्त्यास्स्वयंभुवा॥ 30
निमित्तं किंचिदासाद्य विमुच्यन्तेकलेवरैः
लभन्ते ते पुनर्देबं यातनीयं स्वकर्मजम्॥ 31
तन्मात्रगुणसंपन्नं सुखदुःखोपभोगदम्
पापाः पापक्षयो यावत्पच्यन्ते नरकाग्निषु॥ 32
आमलप्रक्षयाद्वह्नौ ध्मायन्तेधातवो यथा
यावन्तोजन्तवस्स्वर्गभूपातालेषु सर्वतः 33
तावन्त एव घोरेषु सन्त्यधो नरकाग्निषु॥
- * *
अष्टाविंशतिरेवोक्ताः क्षितेर्नरककोटयः॥ 34
सप्तमस्य तलस्याधो घोरेतमसि संस्थिताः
घोराख्या प्रधमाकोटिस्सु घोरतलसंस्थिताः 35
अतिघोरा महाघोरा घोरघोरा च पंचमी
षष्ठी तरलताराख्या सप्तमी च भयावहा॥ 36
अष्टमी कालरात्री च नवमी च भयोत्कटा
दशमी तदधश्चण्णा महाचंडा ततोऽप्यधः 37
चंडकोलाहलाचाऽन्या प्रचंडानरकाऽधिका
पद्मापद्मवती भीमा भीमभीषणनायका॥ 38
कराला विकराला च वज्रा विंशतिकास्मृता
त्रिकोणा पंचकोणा च सुदीर्घा परिवर्तुला॥ 39
सप्तभौमाऽष्टभौमा च दीप्तायामेति चाऽष्टमी
इत्येता नामतः प्रोक्ता घोरा नरककोटयः॥ 40
अष्टाविंशतिरेवैताः पापानां यातनात्मनाम्
तासां क्रमेण विज्ञेयाः पंच पंचैकनायकाः॥ 41
प्रत्येकं सर्वकोटीनां नामतस्तान्निबोधत
रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः॥ 42
महारौरवको यत्र महान्तोऽपि रुदन्तिच
तमश्शीतं यथा चोष्णं पंचाद्या नायकास्स्मृताः॥ 43
सुघोरस्सुतपस्तीक्ष्णः पद्मस्सं जीवनश्शतः
महामांसो विलोमश्च सुभीमश्च कटंकटः 44
तीव्रवेषी करालश्च विकरालः प्रकम्पनः
महापद्मस्सुपद्मश्च कालवक्रश्च गर्जनः 45
सूचीमुखस्सुनेमिश्च खादकस्सुप्रपीडनः
कुंभीपाकस्सुपाकश्च चक्रकश्चाऽतिदारुणः 46
अंगारराशिफवनमसृक्पूयचहद्रस्तथा
तीक्ष्णायस्तुंडशकुनिर्महासंवर्तकस्तता 47
सुतप्ताब्जस्सुलोपश्च पूतिमांसो द्रवत्रपु
उच्छ्वासश्च निरुच्छ्वासो सुदीर्घः कूटशाल्मली॥ 48
दरीष्टस्सुमहानादप्रभावस्सुप्रभावनः
ऋक्षमेषवृकाश्शल्य सिंहव्याघ्रगजाननाः 49
श्वसूकराऽजमहिषखरमेषहयाननाः
ग्रहकुंभीरनक्राऽस्याः सर्पकूर्मास्यवायसाः 50
कृध्रोलूकजलूकाश्च शार्दूलकपिकर्कटाः
गन्धकः पूतिवक्रश्च रक्ताक्षः पूतिमृत्तिकः 51
कणधूमस्तुषाऽग्निश्च कृमीणां निचयस्तथा
अमेध्यश्चाऽप्रतीकारो रुधिरान्नस्यभोजनम्॥ 52
लालाभक्षमभक्षश्च सर्वभक्षश्च दारुणः
जंकटस्सुविलासश्च विकटः कटपूतनः॥ 53
अम्बरीषः कटाहश्च कष्टा वैतरणी नदी
सुतप्तलोहशयनमेकपादप्रतप्तकम्॥ 54
असितालवनं घोरमस्थिभंगप्रपीडनम्॥
तिलातसीक्षुयान्त्राणिकूटपाशप्रमर्दनम्॥ 55
महाछुल्ली सुछुल्ली च तप्तलोहमयी शिला
पर्वतक्षुरधाराख्यं तथा च मलपर्वतः 56
मूत्रविष्ठांऽधकूपेषु क्षारकूपेषु पातनम्
मुसलोलूखलं यन्त्रं शिलाशकललांगलम्॥ 57
तालपत्राऽसिगहनं महामशकमंडपम्
सम्मोहनोऽस्थिभंगश्च तप्ुशूलमयोगुडः॥ 58
बहुदुःखं महादुःखं कश्मलं शमलं मलम्
हालाहलो निरूपश्च सुरूपश्च तमोऽनुगः॥ 59
एकपादस्त्रिपादश्च तीव्रवीचिश्च रन्तिमः
अष्टाविंशतिरेवैतैः क्रमशः पंचकाः स्मृताः 60
कोटीनामानु पूर्व्येण पंच पंचैव नायकाः
रौरवाद्यं च वीर्यं च शतमेकन्तु सर्वतः 61
चत्वारिंशत्समधिकं महानरकमंडलम्
तेषु पापाः प्रपच्यन्तेनराः कर्माऽनुरूपतः॥ 62
यातनाभिर्विचित्राभिराकर्मप्रक्षयाद्भृशम्
सुसूढं हस्तयोर्बद्ध्वातप्तशृंखलया नराः॥ 63
महावृङाऽग्रशाखासुगम्यन्तेयमकिंकरैः
डोलिताश्चाऽतिवेगेन निस्संज्ञा यान्तियोजनम्॥ 64
अन्तरिक्षस्थितानां च लोहभारशतं ततः
पादयोर्बध्यते तेषां यमदूतैर्महाबलैः॥ 65
तेन भारेण महता भृशमाताडितानराः
आख्यान्तस्स्वानि कर्माणि तूष्णीं तिष्टन्ति विह्वलाः॥ 66
ततस्तप्तैरग्नि वर्णैर्लोहदंडैस्सकंटकैः
हन्यन्ते किंकरैर्घोरैस्समर्तात्पापकारिणः॥ 67
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः
समन्ततः प्रलिप्यन्ते ताम्रेण च पुनः पुनः 68
द्रुतेनाऽत्यन्तलिप्तेन क्षतांगा जर्जरीकृताः
पुनर्विधाय चांगानि शिरःप्रभृति चक्रमात्॥ 69
वार्ताकवत्प्रपच्यन्ते तप्ततैले कटाहके
निष्ठापूर्णे तथाकूपे कृमीणांनिचये पुनः 70
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति? ते पुनः
भक्ष्यन्ते कृमिभिस्तीव्रैर्लोहतुंडैश्च वायसैः॥ 71
श्वभिर्दंशैर्वृकैरुग्रैर्व्याघ्रैश्च विकृतैर्नरैः
पच्यन्ते चरुवद्वाऽपि प्रदीप्तांगारराशिषु॥ 72
प्रोतास्तीक्ष्णेषु शूलेषु नराः पापेन कर्मणा
शैलपीठैरथाक्रम्य घोरैः कर्मभिरात्मजैः 73
तिलवत्संप्रपीड्यन्ते चक्राख्ये नरके नराः
पच्यन्ते चाऽतितप्तेषु लोहभांडेष्वनेकथा॥ 74
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः
सर्देंद्रियाणि संबद्ध्य क्रमात्पापेन यातनाः॥ 75
भवन्ति घोराः प्रत्येकं शरीरे तत्कृतेन च
- * *
ये श्रुण्वन्ति हरेर्निन्दां तेषां कर्णः प्रपूर्यते॥ 76
अग्निनर्णैरयःकीलैस्तप्तैस्ताम्रादिकद्रुतैः
त्रपुसीसारकूरकूटाद्यैःक्षारेण जतुना पुनः 77
सुतप्ततीक्ष्णतैलेन वज्रलेपेन चाऽन्ततः
क्रमादापूर्यते कर्णौ? नरकेषु च यातनाः॥ 78
अनुक्रमेण सर्वेषु भ्रमन्त्येतेषु यातनाः
ये तु देव गृहं गत्वा तत्र सेवार्थमागताः॥ 79
अथ वाऽन्यत्र तद्रूपा मदमोहपराजिताः
परदारांश्च गच्छन्ति लुब्धास्स्निग्धेन चक्षुषा॥ 80
गुरोःकुर्वन्ति भ्रुकुटीं क्रूरनेत्राश्चये नराः
सूचीभिरग्निवर्णाभिस्तेषां चक्षुः प्रविध्यते॥ 81
क्षाराद्यैश्च क्रमात्सर्वैर्देहे सर्वाश्च यातनाः
स्पर्शलोभेन ये मूढास्संस्पृशन्ति परस्त्रियः॥ 82
तेषां तप्ताग्निवर्णाभिस्सूचीभिर्विध्यते करः
ततः क्षारादिकैस्सर्वं शरीरमनुलिप्यते॥ 83
यातनाश्च महाकष्टास्सर्वेषु नरकेषु च
परेष्वजन्ति चात्युग्रं प्रदीप्तं लोहशाल्मलिम्॥ 84
हन्यन्ते पृष्ठदेशेषु पुनर्भीमैर्महाबलैः
दन्तुरेणातिकुंठेन क्रकचेन बलीयसा॥ 85
शिलःपृभृति पाट्यन्तेघोरैः कर्मभिरात्मजैः
तेनतेनैव रूपेण हन्यन्ते पारदारिकाः॥ 86
गाढमालिंग्यते नारी ज्वलन्तीलोहनिर्मिता
पूर्वाकालं ज्वलन्तं तं पूरुषं लोहनिर्मितम्॥ 87
दुश्चारिण्यःस्त्रीयो गाढमालिंगन्तिवदन्ति च
किं प्रधावसि वेगेन न ते मोहोऽस्ति संप्रति॥ 88
लंघितस्ते यथा भर्ता पापं भुंक्ष्व तदाऽधुना
लोहकुंभे विनिक्षिप्ताः साऽपिधाने शनैश्शनैः 89
मृद्वग्निना प्रपच्यन्ते स्वपापैरिव मानवाः
उलूखलाद्यैः क्षोद्यन्ते प्रपीड्यन्ते शिलासु च॥ 90
क्षिप्यन्ते चाऽन्धकूपेषु दश्यन्ते भ्रमरैर्भृशम्
कृमिभिर्भिन्न सर्वाऽङ्गाश्शतशो जर्जरीकृताः 91
सुतीक्ष्णक्षुरकूपेषु क्षिप्यन्ते तदनन्तरम्
महज्वाले च नरके पापाः पच्यन्ति सर्वतः 92
इतस्ततश्च धावन्ति दह्यमानास्तदर्चिषा
पृष्ठेनानीय जंघे द्वे विन्यस्ते स्रन्धयोजिते॥ 93
तयोर्मध्येन चाकृष्य बाहुपृष्ठेन गाढतः
बद्ध्वा परस्परं सर्वं सुदृढं पापरज्जुभिः॥ 94
पिंडबद्धं दशन्त्येनं भ्रमारास्तीक्ष्णलोहजाः
मानिनां क्रोधिनां चैव तस्कराणां च दारुणाः॥ 95
पिंडबद्धास्स्मृता याम्यमहाज्वाले च यातनाः
रिज्जुभिर्वेष्टितांऽगाश्च प्रलिप्ताः कर्दमेन च॥ 96
करीषवत्प्रपच्यन्ते म्रियन्ते तेन तेतथा
सुतीक्ष्णक्षारतोयेन कर्मशानु शिलासु च॥ 97
अपापसंक्षयात्पापा घृष्यन्ते चन्दनं यथा
शरीराभ्यन्तरगतैस्सन्ततं कृमिभिर्नराः 98
भक्ष्यन्ते तीव्रवदनैरादेह प्रक्षयाद्भृशम्
कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु 99
तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यन्तरार्दिताः
सुतप्तवज्रलेपेन शरीरमुपलिप्यते॥ 100
अधोमुखोर्ध्वपादाश्च वृता स्तप्यन्ति वह्निना
वदनान्तः प्रविन्यस्तं सुप्रतप्तमयोगुडम्॥ 101
ते खादन्ति पराधीना हन्यमानाश्च मुद्गरैः
ये देवारामपुष्पाणि लोभात्संसृह्य पाणिना॥ 102
जिघ्रन्ति मूढमनसो शिरसा धारयन्ति च
आरोप्यते शिरस्तेषां सुतप्तैर्लोहशंकुभिः 103
ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमात्
शरीरे च महाघोराश्चित्रा नरकयातनाः 104
बहुधोत्पाट्यते जीह्वा येऽसत्य प्रियवादिनः
संदंशेन सुतप्तेन प्रपीड्योरसि पादतः॥ 105
मिध्यागमप्रवक्तुश्च जीह्वा चाऽस्य विनिर्गता
क्रोशार्धजीह्वाविस्तीर्णैर्हलैस्तीक्ष्णैः प्रपाट्यते॥ 106
निर्भर्त्सयन्तिये क्रूरा मातरं पितरं गुरुम्
तेषां वज्रजलूकाभिर्मुखमादश्यते यतः 107
ततःक्षारेण ताम्रेण त्रपुणा सिच्यते पुनः
द्रुतै रापूर्यतेऽत्यर्थं तप्तलोहैश्च तन्मुखम्॥ 108
इतस्ततः पुनर्धावन् बद्ध्यते यमकिंकरैः
ये निन्दन्ति महात्मानमाचार्यं धर्मदेशिकम्॥ 109
विष्णुभक्तांश्च सम्मूढास्तद्धर्मं चैह शाश्वतम्
तेषामुरसि कंथे च जिह्मायां दन्तसन्धिषु॥ 110
तालुन्योष्ठे च नासायां मूर्ध्नि सर्वांऽगसन्धिषु
अग्निवर्णास्सुतप्ताश्च त्रिशिखा लोहशंकवः 111
आरोप्यन्ते सुबहुशः स्थानेष्वेतेषु मुद्गरैः
ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः 112
तप्तलोहादिभिस्सर्वैरापूर्यन्ते समन्ततः
यातनाश्च महाचित्राश्शरीरस्याऽपि सर्वतः 113
निश्शेषनरकेष्वेवं भ्रमन्ति क्रमशः पुनः
ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च॥ 114
देवोपकरणांऽगं च ज्ञानं च लिखितं क्वचित्
हस्तपादाघनैस्ते षामापूर्यन्ते समन्ततः॥ 115
क्षारताम्रादिभिर्धीप्तैर्दह्यन्ते क्रमशः पुनः
नरकेषु च सर्वेषु विचित्रा देहयातनाः 116
भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः
प्रदत्तां देवदेवस्य तन्नाम्ना पूजकस्य वा 117
पदाऽर्धिनामथाऽन्येषां हठाद्वृत्तिं हरन्तिये
तैवै नरकूपेषु पच्यमानास्स्वकर्मभिः 118
व्रजन्तियातना भूयो नाऽतियन्तियामांगणमे
ये देवायतनारामवापीकूपमठांगणम्॥ 119
उपद्रवन्ति पापिष्ठा नृपास्तत्र वसन्ति च
व्यायामोद्वर्तनाभ्यंगस्नानपानाऽन्नभोजनम्॥ 120
क्रीडनं मैथुनं द्यूतमशौचाद्याचरन्ति च
ते नधैर्विविधैर्घोरैरिक्षु यन्त्रादिपीडनैः॥ 121
निरयाग्निषु पच्यन्ते यावदाचन्द्रतारकम्
देवायतनपर्यन्ते देवारामे च कुत्रचित्॥ 122
समुत्सृजन्ति ये मूढाःपुरीषं मूत्रमेव वा
तेषां शिश्नं सवृषणं हन्यते लोहमुद्गरैः, 123
सूचीभीर्नेत्रपर्यन्तै रग्निवर्णैस्सकंटकैः
अरोप्यन्ते गुदे तेषां यावन्मूर्ध्नि विनिर्गतैः 124
ततः क्षारेण महता ताम्रेण त्रपुणा पुनः
द्रुतेनाऽपूर्यते गाढं गुदं शिश्नं च देहिनाम्॥ 125
मनस्सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्तनम्
तस्मादिंद्रियदुःखेन जायते तत्सुदुःखितम्॥ 126
अन्न पानमदत्तं यैर्मूढैर्नाऽप्यनुमोदितम्
धने सत्यपि ये दानं न च यच्छन्ति तृष्णया॥ 127
अतिथिं चाऽवमन्यन्ते कालप्राप्तं गृहाश्रमे
तेजोहीना रणे बद्धा हस्तपादाऽनधारिताः 128
विस्तारितांऽगाश्शुष्यन्ति तिष्ठन्त्यब्दशतं नराः
हस्तपादललाटेषु कीलिता लोहशंकुभिः 129
नित्यं च विकृतं वक्रं कीलकद्वयघाटितम्
कृमिभिःप्राणिभिश्चोग्रैर्लोहतुंडैश्च वायसैः 130
उपद्रवैर्बहुविधैर्मुखमन्तः प्रपीड्यते
जिह्वा ततः प्रभिन्ना च गाढं शृंखलया पुनः 131
तिष्टन्ति लंबमानाश्च लोहाकारास्सुवर्तुलाः
ततः स्वमांसमुत्कृष्य तिलमात्रप्रमाणतः॥ 132
खादितुं दीयते तेषां सूच्यग्रेण च शोणितम्
यथा निर्मांसतां प्राप्ताः कालेन बहुधा पुनः॥ 133
ततः क्षारेण दीप्तेन तच्छरीरं प्रलिप्यते
भिद्यंते वर्ष धाराभिश्शुष्यंते वायुना पुनः॥ 134
पुनस्तैलेन सिच्यन्ते सुतप्तेन समन्ततः
इति चित्रविधैर्घोरैर्मध्यमानास्स्वकर्मजैः॥ 135
म्रियन्ते नैव पापिष्ठा यावत्पापस्य संक्षयः
तस्मात्पापं न कुर्वीत चंचले जीविते सति॥ 136
एवं क्लिष्टा विशिष्टाश्च सावशेषेण कर्मणा
ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः॥ 137
स्थावरा विविधाः क्रूरास्तृण गुल्मादिभेदितः
तत्राऽनुभूय दुःखानि जायन्ते कीटयोनिषु, 138
निष्क्रान्ताः कीटयोनिभ्योजायन्ते पक्षिणः क्रमात्
संक्लिष्टाः पक्षिभेवेन भवन्ति मृगजातिषु॥ 139
मार्गं दुःघमतिक्रम्य जायन्ते पशुयोनिषु
क्रमाद्गोयोनिमासाद्य जायन्ते मानुषे पुनः 140
व्युत्क्रमेणाऽपि मानुष्यं प्राप्यते पुण्यगौरवात्
ततो मनुष्यतां प्राप्य तत्तत्पापाऽनुसारतः॥ 141
संयुतां पापचिह्नेश्च वर्तन्ते प्राणिनस्ततः
देवाऽभिगमनम्
स्नातो धृतोर्ध्वपुंड्रश्च प्रयतश्शान्तमानसः॥ 142
अव्यग्रश्चाऽन्यकार्येषु गृहीत्वा शक्तितस्स्वयम्
फलादीन्युपहाराणि गंधान् सुमनसस्तथा॥ 143
हिरण्यं हरिमुद्दिश्य येन सर्वाःकृता इमे
उपहारादिभिस्सम्यगभिसच्छेज्जगद्गुरुम्॥ 144
पत्रैः पुष्पैःफलै र्वाऽपि यथाशक्ति समर्पितैः
अयत्नसुलभेनाऽपि तोयेनाऽपि स तुष्यति॥ 145
- * *
पादचार्येव गच्छेत्तु देवालयमतन्द्रितः
अशक्तोऽप्यथ वाशक्त आढ्यो वा दुर्विधोऽध वा॥ 146
आधिराज्ये जगद्धातुरधिकारी समस्स्मृतः
न हि संहरते ज्योत्स्नां चन्द्रश्चंडालवेश्मनि॥ 147
न वा सौधेषु सम्राजां सुधाधाराः प्रवर्षति
भोगायतनमे तेषा मेकाकारं कलेपरम् 148
अनुगृह्णाति दाता तस्य नोच्चाऽनचो विधिः
विष्णुपारम्यम्॥
देवतेह परंज्योतिरेग एव परः पुमान्॥ 149
स एव बहुधा लोके मायया भिद्यते स्वया
विष्ण्वाख्यस्स स्वयं मायं प्रकृतिं व्यज्य स द्विधा॥ 150
स्थितस्त्रिधा च सत्त्वादिगुणभेदात्प्रतीयते
विष्णुब्रह्मशिवाऽख्योऽसौ स्थित्युत्पत्यन्तकृत्स्मृतः॥ 151
विष्ण्वाद्या मूर्तयस्तस्य धर्मज्ञानादिभेदतः
चतस्र एव विज्ञेया वेदवर्ण युगाऽश्रयाः 152
विष्णुश्च पुरुषस्सत्यो ह्यच्युतश्छाऽनिरुद्धकः
पंचधोपनिषद्भेदान्महाभूतत्वमागतः 253
मनश्श्रोत्रादिभिष्षड्भिरंगैश्च हृदयादिभिः
षडक्षरात्मको नित्यमृषिभिश्चैष भिद्यते॥ 154
सप्तव्याहृतिभिर्लो कैश्छन्दोभिः क्रतुभिस्तथा
सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः॥ 155
अष्टप्रकृतिभिश्चाऽसावष्टमूर्तिभिरेव च॥
अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते॥ 156
नारायणो नृसिंहश्च वराहो वामनस्तथा
रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्न वधा स्थितिः॥ 157
इन्द्रोऽग्निश्ट यमश्चैव निर्ऋतिर्वरुण स्तथा॥
वायुस्सोमस्तथेशानो ब्रह्माऽनन्तश्चते दश 158
एकादशेन्द्रियैर्भिन्न स्तथा द्वादशमानपैः
स त्रयोदशधा चैव विश्वेदेवादिभिः स्थितः॥ 159
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः
तिथिभिः पंचदशधा भिन्नो ज्ञेयस्सु वै प्रभुः 160
स्वरैष्षोडशधा भिन्नोदिक्कोणाऽवान्तरैस्तथा॥
मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः 161
एकद्वित्रिचतुःपंचषडाद्या विश्वतो मुखाः
मुखभेदास्समाख्यातास्तस्य विश्वात्मनो हरेः॥ 162
द्व्यादयो विश्वतःपाणेर्भुजभेस्तथा स्मृताः॥
विविधाभरणा दीर्घा विविधाऽयुधधारिणः 163
मूर्धानश्चैव तस्योक्ता लसन्मुकुटकुंडलाः॥
हैमोर्ध्वपुड्रलावण्यप्रभवा वक्रकुंतलाः 164
स्मेरारुणाधरास्सौम्याः प्रसादामृतवर्षिणः
सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः 165
हिरण्यगर्भोऽनेकात्मा विमलश्श्याम एव च
नीलः पीतस्तथा रक्तो नानावर्णः प्रकीर्तितः 166
चन्द्रसूर्यौस्मृतौ तस्य नयने वामदक्षिणे
ब्रह्माणमाहुर्मूर्धानं केशांश्चाऽस्य वनस्पतीन्॥ 167
आस्यं वेदाश्च येऽनन्ता तोयं रुधिरमेव च
उपजिह्वा तु तस्योक्तमुपश्रुतिशतं तथा॥ 168
भ्रुवोर्मध्ये तथा रुद्रं भृगुं मनसि संस्थितम्॥
रुद्रा एकादश ज्ञे या स्तस्य कंठं समाश्रिता॥ 169
नक्षत्रग्रहताराश्च दन्तास्स्युर्मरुतोऽपि च
धर्माऽधर्मौतथोर्ध्वाधरोष्ठौ तु परिकीर्तितौ॥ 170
इन्द्राग्नी तालुके तस्य जिह्माचैव सरस्वती॥
दिशश्च विदिशश्चैव श्रोत्रयोन्तस्य संस्मृताः 171
वायुःप्राणेषु विज्ञेयस्साध्याश्चांऽगुलयःस्मृताः
ऋषयो रोमकूपेषु सागरा वस्तिगोचराः॥ 172
नद्यश्च वसुधा चाऽस्य नागाश्च नलके स्थिताः
जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः 173
गुह्योऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः
नखाऽग्रेषु च विज्ञेया दिव्या ओषधय स्तथा 174
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे
ऋतवो बाहुमूले तु मासाः करतलेषु च॥ 175
ललाटाग्रे तथा सिद्धा भ्रुवोर्मेघास्सविद्युतः
यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा 176
राक्षसाश्चारणाश्चाऽस्य जठरं समुसाश्रिताः
पितरः प्रेतकूश्मांड वेतालप्रमथास्तथा॥ 177
पातालगोचराश्चाऽस्य पावयुग्मं समाश्रिताः
पार्श्वयोस्तस्य विज्ञेयाःक्रिया वेदैरभिष्टुताः॥ 178
अग्निहोत्रादिकर्माणि वर्णाश्रमहितानि च
स्वाहास्वधावषट्का रास्सर्वेऽस्य हृदये श्रिताः॥ 179
नाम्नां शतं सहस्रं वा तथानन्तं पठन्तियत्
अनन्ताऽनन्तरूपस्य यथायोगं समन्वितम्॥ 180
मूर्तयश्चाऽस्य सर्वास्तास्संख्यातीताः प्रकीर्तिताः
देवादीनां च सर्वेषां मूर्तयस्तत्र संश्रिताः॥ 181
तस्मादनन्तन्संप्रोक्तः पुंसूक्ते तदुदीरितम्
``सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्॥ 182
ब्राह्मणा मुखते यस्य क्षत्रिया यस्य बाहुतः
ऊरुतो यस्य वै जाता वैश्याश्चेति नरा भुवि॥ 183
चंद्रमा मनसो जातश्चक्षुषोर्मिहिर स्तथा
मूखादिंद्र स्तथाग्निश्च प्राणाद्वायुरजायत॥ 184
नाभ्यायस्यान्तरिक्षं च शिरसो द्यौरजायत
पद्भ्यां भूमिर्दिशश्श्रोत्राद्यस्य देवस्य संबभौ॥ 185
तमीदृशं महाविष्णुमप्रमेयमनामयम्॥
तत्प्रसादादृते ज्ञातुं वक्तुं वा नैव शक्यते॥ 186
सर्वदेवमयो विष्णुऋ सर्वे देवास्तदात्मकाः
अशेषं वाङ्मयं चेदं लोकालोकं चराचरम् 187
वैष्णव्या व्याप्यते शक्त्या वायुनेवदिशोऽन्तरम्
सर्वे विष्णुमयादेवास्सर्वशास्त्रेषु कीर्तिताः॥ 188
आधाराधेयभावेन द्वेधास व्याप्य तिष्ठति॥
सर्वभूतहितायैव निष्कलस्सकलःस्थितः 189
निष्कलस्सकलश्चैवं ज्ञेयो विष्णुस्सनातनः
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्॥ 190
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति,
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जतम्॥ 191
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् 192
भूतभर्तृच तद् ज्ञेयं ग्रसिष्णु प्रभविष्णु च
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते॥ 193
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥
तच्चाऽद्यो जगतामीशः परेशः परमेश्वरः 194
पराऽवरस्वरूपेण विष्णुस्सर्वहृदि स्थितः
स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः॥ 195
प्रभविष्णुर्महाविष्णुस्सदाविष्णुः स्मृतश्च सः
आत्मा स ह्यन्तरात्मा च परमात्मा च संस्मृतः॥ 196
वैराजं लैंगिकं चैव बहिरन्तश्च सर्वशः॥
शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्न सुषुप्तिगम्॥ 197
मन्त्राऽनुस्वारनादेषु त्रयमन्वेषयेद्बुधः
वेदे च भगवच्छास्त्रे सांख्ये योगे तथैव च॥ 198
धर्मश्स्त्रे पुराणे च मुनिभिर्देवमानुषैः
पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत्॥ 199
यच्च भूतं भविष्यच्च वर्तमानं तु किं चन
इन्द्रियाणीन्द्रियार्थाश्च भूतान्तः करणानि च॥ 200
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा॥
नियतिश्च कला कालः सर्वमन्यच्च तन्मयम्॥ 201
विष्णुरेव परो देवस्सर्व भूतेष्ववस्थितः
सर्वभूतानि चैवाऽचौ न तदस्तीह यन्न सः॥ 202
देवाऽसुरादयो मर्त्याः पशवश्च सरीसृपाः
तरुवल्लीतृणौषध्यो महाऽभ्राऽशनिविद्युतः॥ 203
शैलाऽब्धिसरिदारामनगराणि सरांसि च
लोकाश्चाऽन न्तकालोऽग्नि प्रेताऽवासोरगालयाः 204
सप्तभूरादयो ब्राह्मशैववैष्णवसंज्ञिताः
सर्वे च विष्णुनैकेन व्याप्तास्सर्वात्मनाऽत्मना॥ 205
वराहो भार्गवस्सिंहो रामश्रीधरवामनाः
अश्विकृष्णौ च दिक्ष्वेषां लोकैरंडं सहाऽखिलम्॥ 206
यच्चाऽनुक्तमशेषेण विष्णोरेता विभूतयः॥
विश्वव्यापितयेवैष विष्णुर्वृद्धैरुधीरितः॥ 207
पुरुसंज्ञेशरीरेऽस्मिन् शयनात्पुरुषः स्मृतः
सत्यश्छाऽबाधितार्थत्वान्नित्यत्वात्स प्रकीर्तितः 208
अच्युतोऽच्यवनादेव स हरिः समदीरितः
अनिरुद्धस्तथा प्रोक्तस्सर्वस्मादनिरोधनात्॥ 209
वसनास्तर्वभूतेषु वासुदेवत्वमीयिवान्
आदिमूर्तेस्समाकृष्टः स्मृतस्संकर्षणः प्रभुः 210
प्रद्युम्नो द्युम्न पृष्ठत्वात्त्रिधामा धामभिस्त्रिभिः
वैकुंठामलवर्णत्वाद्वैकुंठश्टाऽयमुच्यते॥ 211
लीयेते प्रलये त्वस्मिन् केशावित्येष केशवः
नरनारीप्रकर्तृत्वान्नराणां चायनादयम्॥ 212
नारायणो नरोद्धानामयनत्वादपांच सः
माधवो मधुषूत्पत्त्या धवत्वाद्वा श्रियःस्मृतः॥ 213
गोविंदतीति गोविंदो गावो विंदन्ति यं तथा
असुरं मधुनामानं हन्तीति मधुसूदन॥ 214
त्रिभिःस्वैर्विक्रमैर्व्याप्तो जगदेष त्रिविक्रमः
वामनो व्रास्वतायोगाच्छ्रीधरो वहनाच्छ्रियः 215
हृषीकस्येन्द्रियस्येशो हृषीकेश उदीरितः
पद्मं नाभेरभूद्यप्य पद्मनाभस्ततस्म्मतः॥ 216
उदरालम्बि दामास्येत्युक्तो दामोदरो हरिः॥
उत्तमः पुरुषोयस्मादुक्तस्स पुरुषोत्तमः॥ 217
विलोमेन्द्रियगम्यत्वात्प्रोच्यते स त्वधोक्षजः
अर्धमर्धं लरस्सिंहो नरसिंहा उदाहृतः 218
जनार्दनस्स पापिष्ठान् जनानर्दयतीति सः
इन्द्रस्याऽवरजो भूत उपेन्द्रः प्रोच्यते हरिः 219
हरणात्सर्वपापानां हरिर्नायणः स्मृतः
कर्षणात्पापराशीनां कृष्णस्सर्वात्मको हरिः॥ 220
रुद्रो रोदयते तस्मात् ब्रह्मा बृंहणकर्मणा
इन्द्रश्च परमैश्वर्याद्वहनाद्वह्निरुच्यते॥ 221
यमस्संयमनात्पुंसां वरणाद्वरुणस्तथा
वायुर्वानात्सवात्सोम ईशश्चेष्टे जनेषु यः 222
आदित्योऽदितिपुत्रत्वाच्चंद्रश्चंदयते यतः
इत्येवं गुणवृत्त्योह्यैः शब्देरेकोऽप्यनेकथा॥ 223
श्रुतिभिः प्रोच्यते ब्रह्म विष्ण्वाख्यं जातु नेतरत्
तस्येश्वरस्य चैश्वर्यात्सर्वमेतत्प्रवर्तते॥ 224
सेश्वरं हि जगत्सर्वं भवेन्नानीश्वरं क्वचित्
तन्मयत्वेन गोविंदे न्यस्तसर्वभरा नराः 225
तद्याजीनो महाभागास्तरन्ति भववारिधिम्
तं प्रसाधयितुं यत्नः कार्यस्सरात्मना नरैः॥ 226
- * *
भक्तिनम्रस्सदा गच्छेत्सर्वोऽपि जगतः पतिम्
तद्देवस्य प्रियं भूयाद्यतस्सम्माननं तु तत्॥ 227
तस्य सन्निहितो देवो यस्य चित्ते जनार्दनः॥
दानेन तपसा नान्यैस्त्यस्य तुष्टोभवेद्धरिः॥ 228
आरुह्य शकटं गच्छेद्यो विष्णोर्मन्दिरं नरः॥
नारी वा बालको वाऽथ वृद्ध आतुर एव वा॥ 229
तस्य पुण्यफलं नास्ति प्रेत्य युग्यश्च जायते
ये वाहयन्ति तान्मर्त्यान्नरा वा प्राणिनश्च ये॥ 230
ते यास्यन्ति पदं विष्णोर्यस्मात्पादच रास्तु ते
ये वाहयन्ति जंतूंस्तान् स्तेऽपिमूढाः पतन्ति वै॥ 231
यस्तोदयति तानेव गमने मूढचेतनः
स यामीर्यातनाः प्राप्य तोद्यते यमकिंकरैः 232
पुनः पशुत्वमापन्नस्तोद्यते पशुभिर्नरैः
यो वा भृतकदानेन वाहनेन तु मानवः॥ 233
वाहयत्यथ वोहेत सोऽपि यास्यति दुर्गतिम्
अपारे दुर्गसंसारे कर्मबद्धे विशेषतः॥ 234
स्वीयं कर्म समुत्सृज्य पतन्ति नरकेऽशुचौ
ततःपशुत्वमापन्नाश्चिरं तिष्ठन्ति भूतले॥ 235
पादुकामधिरुह्याऽपि यो देवालयमाप्रजेत्
स पशुर्जोयते प्रेत्य रोगी चेहप्रजायते॥ 236
पादुकां वाहनं चाऽपि योऽधिष्ठित्य विमूढधीः
प्रणामं हरये कुर्यात्त स्य दूरतरो हरिः 237
देवदर्णनमुद्दिश्य नैवेदं विध आव्रजेत्
अयत्नाद्गमने जातेऽप्यवरुह्य च वाहनात्॥ 238
पादुकादि विमुच्यैव समुपस्पृश्य वारिणा
प्रविशेत्प्रयतो भूत्वा प्राकारं प्रथमं पुनः 239
न विशेद्धाम देवस्य यादता वाहनादिभिः
तादृशं पुरुषं दृष्ट्वा यथाशक्त्यवबोधयेत्॥ 240
आद्यस्त्वेषोऽपचारस्स्याद्यत्नहार्योभवेत्ततः
श्मशानमध्ये गत्वातु यो गच्छेद्देवतागृहम्॥ 241
सप्तजन्मकृतात्पुण्यात्तत् क्षणान्मुच्यते नरः
सार्गालीं योनिमाश्रित्य पसेज्जन्मत्रयं ततः॥ 242
दरिद्राश्चैव मार्खाश्च भविष्यन्ति त्रिजन्मकम्
ान्यदेवगृहं गद्वाह्यस्नात्वा यो व्रजेद्गृहम्॥ 243
देवदेवस्य मोहात्तु तस्य पापं महाद्भवेत्
गृहाद्गृहं तथा गद्वा भिक्षार्थी क्षुधितस्स्वयम्॥ 244
भिक्षामलब्ध्वा कुत्राऽपि दरिद्रो जायते नरः
चत्वारि चैव जन्मानि तेषामन्ते च यो बुधः? 245
चंडालयोनि माप्नोति जन्मानि दश पंच च
अत्र चोदाहरन्तीमं विशेषं काश्यपादयः 246
सर्वदेवमयो विष्णुस्सर्ववेदमयो हरिः
तस्याऽतिरिक्तं नो किंचिद्विशेषस्तत्र वक्ष्यते॥ 247
सर्वेऽप्यधिकृता लोके तत्तत्कर्माऽनुरूपतः
आब्रह्मस्तंबपर्,न्तं जगदन्तर्व्यवस्थिताः॥ 248
तस्मादेव जगत्सर्वं सर्गकाले प्रजायते
तस्मिन्नेव पुनस्तच्च प्रलये संप्रलीयते॥ 249
यः वरः प्रकृतेः प्रोक्तः पुराणः पुरुषोऽव्ययः
स एव सर्वभूतात्मा नर इत्यभिधीयते॥ 250
नराज्जातानि तत्त्वानि नाराणीति प्रचक्षते
तान्येव चाऽयनं यस्य स तु नारायणः स्मृतः 251
नारायणः परं ब्रह्म तत्त्वं नारायणः परः
विष्ण्वादिभिस्तथा केचिद्वासुदेवादिभिः परे॥ 252
संज्ञाभेदैर्महात्मानस्सदैवाराधयन्तितम्
सर्वत्र परिपूर्णस्य सर्वधा सर्ववस्तुषु॥ 253
न जातु लभ्यते किंचिद्येनाऽव्याप्तं तु किं चन
तस्मात्तस्मिन् समारोप्य सर्वं देवेश्वरेश्वरे॥ 254
उपासनं भवेद्यत्तु तद्भवेदुचितं बुधैः
अन्यत्र तं समारोप्य यदि चोपासनं भवेत्॥ 255
तद्भवेदन्यदेवार्चा तस्मात्परिमितं फलम्
येऽप्यन्यदेवताभक्तायजन्ते श्रद्धयोऽन्विताः॥ 256
यजंते तेऽपि देवेशं तमेवाऽविधि पूर्वकम्
अन्ये ते ब्रह्मरुद्रेंद्रास्तदाद्या देवतास्स्मृताः॥ 257
वैष्णवा अवताराश्च ये तु शास्त्रोदिताः पुरा
परमार्थे न भिद्यन्ते नाऽन्यत्वं स्यात्परस्परम्॥ 258
विष्ण्वालयादथैकस्मादन्यविष्ण्वालयस्य तु
तत् स्थानां दैवतानां वा नान्यत्वं जातु संभवेत्॥ 259
अथ शास्त्रविधिर्भिन्नो यत्र नाऽप्युपलभ्यते
तत्राऽन्यत्वं विजानीयान्न चेच्छेच्छास्त्रसंकरम्॥ 260
हरिं देवं तु संसेव्य वाहनस्थं द्विजोत्तमः
यदन्यं सेदते वीथ्यां तत्काले वाहनस्थितम्॥ 261
सोऽपि पापमवाप्नोति विष्णुध्यानेन शुद्ध्यति
- * *
देवेशस्योत्सवो यत्र ग्रामे वा नगरेऽपि वा॥ 262
पर्वताऽग्रे महानद्यास्तीरे दुर्गाऽटवीषुवा
तत्र गच्छेन्नरो भक्त्या सेवेतोत्सवमादरात्॥ 263
सह पुत्त्रेस्सहाऽमात्यैस्सर्वैः परिजनैर्वृतः
वैष्णवं क्रतुदेशन्तु गत्वा सेवेत मानवः 264
यथाऽर्हमुपयुंजीत स्वशक्तिं तत्क्रियासु च
श्रुत्वा देवोत्सवारंभं पंगूभावेन यो नरः॥ 265
तिष्ठेत्स जन्मसाहस्रं पंगुरेव भविष्यति
तद्भवेद्विफलं जन्म भूभारस्तस्य जीवितम्॥ 266
देवेशस्योत्सवे सम्यग्वर्तमाने महाफले
योऽन्यत्र व्यापृतस्तत्र न गच्छेद्दुर्मना नरः॥ 267
न तस्य निष्कृतिः प्रोक्ता स पापी नरकं व्रजेत्॥
अनाहूतोऽध्वरं गच्छेत्तथा गुरुकुलं व्रजेत्॥ 268
योऽध्वरं गन्तुकामोऽत्र प्रतीक्षेतार्ङणादिकम्
तन्य पूर्वाऽर्जितं पुण्यं तत् क्षणादेव नश्यति॥ 269
देवोत्सवं तु यो मर्त्यो यतमानं तु सेवितुम्
वारयेद्येन केनाऽपि हेतुना स तु दुर्मतिः॥ 270
अफलस्सफलो वाऽपि पतत्येव न संशयः
विष्णुपंचदिने वाऽपि पुण्याहेष्वितरेष्वपि॥ 271
उपोषितस्तु श्रुत्वैव देवेशस्योत्सवं हठात्
तत् क्षणाद्यो न गच्छेत्तु तस्य पापं महद्भवेत्॥ 272
खट्वामास्थाय यश्शेते वर्तमाने तदुत्सवे
आसीनस्थ्सित एवाऽत्र स यामीर्यातना व्रजेत्॥ 273
देवेशाऽभिमुखं गत्वा न कुर्याद्यो नमस्क्रियाम्
स पापिष्ठतरो लोके निष्कृतिर्नास्य विद्यते॥ 274
उत्क्रमिष्यन्ति यत्प्राणाः प्राणदे समुपस्थिते
प्रत्युद्थानाभिवादाभ्यां पुनस्तान् प्रतिपादयेत्॥ 275
सर्वेषां प्राणभूतोऽसौ भगवान् हरिरव्ययः
प्राणिनश्चेतनास्सर्वे प्राण्येकः प्राणदोऽपरः॥ 276
अन्यथा चेन्महादोषः संक्षुफ्यन्ते च मानवाः
- * *
एकहस्तप्रणामेन यत्पापं न तदन्यतः॥ 277
हस्तौ द्वौ निर्मितौ धात्रा किं तेन सुकृतं भवेत्
प्रांजलीकृत्य हस्तौतु याचेत मधुसूदनम्॥ 278
य एकेनैव हस्तेन प्रणमेन्मन्दधीर्हरिम्
तस्यहस्तो भवेदेकः पश्चाज्जन्मशतैरपि॥ 279
इह वै जायते पंगू रोगी चैव न संशयः
किमिदं बहुलैश्चित्रैः करणैर्देहकल्पनम्॥ 280
यद्येकैकं न चेत्तस्य कैंकर्यायोपयुज्यते
किं स्वाधीनेन हस्तेन स्वाधीनं कर्म सेवितुम्॥ 281
अशक्नु वानास्स्वातंत्य्रहताः पापहता हताः
एकहस्तप्रणामस्तु परिहार्यो विशेषतः 282
प्रणतं चैकहस्तेन यस्तु प्रत्यभिवादयेत्
तावुभौ नरकं यातस्तयोर्यस्मात्समागमः॥ 283
देवतास्तादृशं मूढं शपन्ति च विशंकिताः
- * *
पुरस्ताद्यस्तु देवस्य कुर्यादात्मप्रदक्षिणम्॥ 284
आत्मना स भवेद्पापस्स द्रुह्येदात्मने बुधः
पुरस्ताद्देवबिंबे तु देव्यमंगलविग्रहे॥ 285
वर्तमाने त्वनादृत्य न ह्यन्यस्य प्रदक्षिणम्
यत्र मानसिकार्चा स्यात्तच्च मानसिकं भवेत्॥ 286
अन्तर्यामी य एवाऽस्ते हृदये निष्कलो हरिः
स एव सकलो भूत्वा बिंबे यत्सन्निधापितः॥ 287
तस्मात्सकळपूजायां नैव कुर्याद्व्यतिक्रमम्
- * *
न कदापि भवेत्प्राज्ञ उच्भिष्टस्स्वेषु कर्मसु॥ 288
विण्मूत्रं पथि कृत्वातु शौचं यावन्न चाचरेत्
उच्छिष्टस्तावदेव स्यादनर्हस्सर्वकर्मसु॥ 289
नखरोमाणि यश्चैव केशाऽस्थीनि तथैव च
क्षिपेत्तु देवतागारे स भवेद्ब्रह्महा नरः 290
माक्षिकीं योनिम्श्रित्य जायते म्रियते पुनः
सप्त जन्मानि तत्रैव व्रजेन्नरकमस्ततः॥ 291
तांबूलं चर्वितं यस्तु प्रक्षिपेद्देवमन्तिरे
स याति नरकं घोरं यावदाभूतसंप्लवम्॥ 292
ततो मुक्तो महापापी शुनकोऽपरजन्मनि
संस्थितस्त्रीणि जन्मानि वसत्येव न संशयः॥ 293
निष्ठीवनकरो यस्तु मन्दिरे मधुविद्विषः
कृमिभक्ष्ये पतेद्घोरे नरके पापकृन्नरः॥ 294
श्लेष्मातकतरुर्भूत्वा जायते जन्मपंचकम्
मूत्रयेन्मंदिरे यस्तु केशवस्य विमूढधीः 295
स मूत्रगर्तनरके पतत्येव ह्यवाक्छिराः
तस्मान्मुक्तस्तुरक्तादिनिंबकद्रुममास्थितः॥ 296
जनिष्यति न सन्देहस्सप्तजन्मसु सौकरीम्
पुरीषं वाऽत्र कुर्वीत यो नरो भगवद्गृहे॥ 297
स याति नरकान् घोरान् पर्यायेणैकविंशतिम्
ततो मुक्तस्तु पापात्मा विष्ठायां जायते कृमिः॥ 298
समीपे मन्दिरस्याऽपि सकृन्मूत्रं करोति यः
स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतम्॥ 299
ततोऽपि मनुजो मुक्तो ग्रामसूकरजातिताम्
ग्रामे जन्मशतं प्राप्य विष्ठाभूसूकरस्तथा॥ 300
यस्तु रेतोविसर्गं च कृत्वा कामादकामतः
अस्नातो देवतागारमियात्सद्यस्स नश्यति॥ 301
यो यत्र देवतागेहे दन्तधावनमाचरेत्
तथा निर्लेखयेज्जिह्वां स पापी नश्यति ध्रुवम्॥ 302
तैलेनाऽभ्यक्तसर्वांगः कषायोद्वर्तितस्तथा
यो नरःप्रविशेद्गेहं देवस्य परमात्मनः॥ 303
स याति गृहगोधात्वं नवजन्मानि पंच च
अनुगम्य यथा प्रेतं याति देवालयं तु यः॥ 304
आराधितुमथेच्छेद्वास गच्छेन्नरायुतम्
बलिभुग्योनितां याति जन्मानि सुबहूनि वै॥ 305
भरणं तु तथा कृत्वा मृतकस्य विशेषतः
मंदिरं न प्रवेष्टव्यं प्रविष्टस्तु प्रणश्यति॥ 306
चांडालीं योनिमाश्रित्य जन्मकृन्नव पंच च
भविष्यति तथा भूयः पृथक् क्रूरोऽथ निष्ठुरः 307
भुक्त्वाश्राद्धं परगृहे यायाद्विष्णुगृहन्तु यः
अर्चयेद्वा विशेषेण चटको जायते खलः 308
तत्र जन्मशतं प्राप्य ततो गोधावपुर्गतः
छायामाक्रम्य यो मोहाद्याति विष्णोस्तु मंदिरम्॥ 309
प्रदक्षिणमकुर्वन्वा यस्तिष्ठेन्मतिपूर्वकम्
सोऽप्युच्छिष्टोभवेन्मूढस्तस्य पापफलं त्विदम्॥ 310
तिष्सेत्स कानने शून्ये कंटकै र्बहुभिर्वृतः
फलपुह्पादिहीनश्च श्मशाने? शून्यवृक्षताम्॥ 311
यज्ञ सूत्रमधःकृत्य कर्णे कृत्वा विशेषतः
अपसव्यं च धृत्वैव धृत्वा चैव निवीतवत्॥ 312
न गच्छेद्देवतागारं न वा मुक्तशिखो नरः
अकच्छः पुच्छकच्छश्च नग्नः कौपीनमातृधृक्॥ 313
रिक्तहस्तश्शून्यफालस्त्यक्तसंव्यान एव च
खादन्नपि च तांबूलमुपहारादि भक्षयन्॥ 314
देवालयं विशेन्नैव तस्य पापं महद्भवेत्
दुराचारो हि पुरुषो नेहायुर्विन्दते महत्॥ 315
त्रस्यन्ति चाऽस्य भूतानि तथा परिभनन्तिच
तस्मादाचारवानेव कुर्याद्वैवैदिकीः क्रियाः 316
अपि पापशरीरस्य आचारो हन्त्यलक्षणम्
आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः॥ 317
साधूनां च यथावृत्तमेतदाचारलक्षणम्
अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम्॥ 318
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम्
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलंघिनः॥ 319
अधर्मज्ञा दुराचारास्ते भवन्तिगतायुषः
विशीला धर्ममर्यादा नित्यं संकीर्णमैथुनाः 320
अल्पायुषो भवन्तीहनरा निरयगामिनः
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः॥ 321
नित्योच्छिष्टस्संकुसुको नेहयुर्विन्दते क्वचित्
विष्णुस्थानसमीपस्थान् विष्णुसेवार्थमागतान् 322
श्वपचान् पतितान्वाऽपि स्पृष्ट्वा न स्नानमाचरेत्
उत्सवे वासुदेवस्य यःस्नाति स्पर्शशंकया॥ 323
स्वर्गस्थाः पितरस्तस्य पतन्ति नरकेऽशुचौ
पिबेत्पादोदकं विष्णोर्गुरूणां वा विशेषतः॥ 324
तत्र नाऽचमनं कुर्यात्तद्वत्सोमे द्विजोत्तमः
अन्यदेवार्थसन्दिष्ठैः पूजयेयुश्च ये हरिम्॥ 325
सप्तजन्मानि पंचाऽपि मुडूकत्वं व्रजन्ति ते
जन्मद्वयन्तु वै मूढाश्शूद्रतां यान्ति ते नराः॥ 326
कुसुमानां निवेद्याहं गन्धमाघ्राति यो नरः
स पूतिगन्धसंयुक्तः कुष्ठी चैव भवेद्ध्रुवम्॥ 327
तदन्ते त्रीणि जन्मानि तादृशानि भवन्त्युत
- * *
जातकं मृतकं वापि यस्याऽशौचं विधीयते॥ 328
अनर्हस्सर्वकर्मभ्यो स नेयाद्देवता गृहम्
पुंप्रसूतौ स्मृतं पूर्वैस्सापिंड्यं सप्तपूरुषम्॥ 329
कन्यकाजनने तद्वत्सापिड्,न्तु त्रिपूरुषम्
व्रतिनां सत्रिणां तद्वद्यतीनां ब्रह्मचारिणाम्॥ 330
नाऽशौचः कथ्यते प्राज्ञैर्यथा शातातपोऽब्रवीत्
व्रतसंकल्पमात्रेण व्रतित्वं व्रतिनो भवेत्॥ 331
वृतमात्रस्तथर्त्विक्च सत्रे सत्री प्रकीर्तितः
काषायदंडमात्रेण यतित्वंच यतेर्मतम्॥ 332
उपनीतो वसेन्मा वा तथा गुरुकुले क्रमात्
ब्रह्माध्येति नचाऽध्येति ब्रह्मचारी कुमारकः॥ 333
राजाज्ञाकारिणां तद्वद्राज्ञां च स्नातकस्य च
ईदृशानामथाऽन्येषामत्राऽस्तर्भाव ईरितः॥ 334
न कुर्याच्च नमस्कारं नैव प्रत्यभिवादयेत्
नाऽर्पयेदुपहारांश्च तीर्थादीन्नाऽपि सेवते॥ 335
आशौची ब्राह्मणो यस्तु मोहाद्देवं प्रपूजयेत्
सप्तजन्मसु दारिद्य्रमत्यन्तं समवाप्नुयात्॥ 336
श्वानयोनिशतं प्राप्य ततश्चंडालतामियात्
योभुक्त्वा देवतागारे निक्षिप्योच्छिष्टमत्र तु॥ 337
गच्छेदन्यत्र वा प्राऽस्यात्सोपि मूढो विपद्यते
- * *
यस्तु देवगृहद्वारे प्रसार्य चरणौ क्वचित्॥ 338
शेते निद्राति सम्मोहात्स याति नरकायुतम्
पुनश्च जन्म संप्राप्य नीचयोनिष्वनेकशः॥ 339
यातनाश्चाऽनुभूयेव दौर्ब्राह्मण्यं व्रजेत्तु सः
यस्तु देवगृहे मूढश्सयीत मदमोहितः 340
तत्रोच्छिष्टनिधानेन भृशं निश्श्वासमारुतैः
दुर्गन्धी जायते मर्त्योजायते जन्मपंचकम्॥ 341
ततस्सूकरतां प्राप्य जन्मानि नव पंच च
क्लिश्यते बहुभिः कष्टैर्न शयीत हरेर्गृहे॥ 342
उपधानादिसहितं य स्तल्पमधितिष्ठति
देवालये विशेषेण प्राकारे वाऽपि मूढधीः॥ 343
स भवेद्दुर्भगश्चैव सर्पयौनिषु जायते
सप्त पंच च जन्मानि ततो मानुषतां व्रजेत्॥ 344
शयीत देवतागेहे व्याधितो यस्तु दुर्मतिः
स भवेद्दुर्मना दीनो प्रेत्य चेह च जन्मनि॥ 345
यःस्त्रिया सहितो मूढश्शयीत भगवद्गृहे
स भवेद्दुरितष्षंडस्सप्तजन्मानि पंच च॥ 346
- * *
योगिभिर्योगसिद्ध्यर्थमभ्यस्यन्ते विशेषतः
आसनानि त्वसंख्यानि देवागारे न चाचरेत्॥ 347
मन्त्रयोगपरैस्तद्वल्लययोगपरायणैः
हठयोगिभिरेतानि क्रियन्ते राजयोगिभिः 348
स्वस्तिकं सर्वतोभद्रं सिद्धं सिंहासनं तथा
सव्यं खूलं सुखं चैव गोमुखं गरुडं तथा॥ 349
मयूरं मत्स्यमत्स्येन्द्रं मंडूकं मुद्गरं मृगम्
कुंजरं कुक्कुटं नागं काष्ठं क्रौंचं च कूर्मकम्॥ 350
खड्गं च कामदहनं वैयाघ्रं वेणुकासनम्
योन्यासनं वासकं च धीरं पद्मासनं तथा॥ 351
वाराहं चैव पर्यङ्कं पतगासनमेव च
त्रिपदं हस्तिकर्णं च हेममर्धासनं तथा॥ 352
इत्यादीना मासना नामशीतिश्च तुरुत्तरा
अन्यानि शास्त्रसिद्धानि यानि सन्ति विशेषतः॥ 353
तान्यास्थायि तु देवाऽग्रेनो पतिष्ठेत बुद्धिमान्
- * *
भुंजीयाद्देवतागारे यः पापस्स तु दुर्मनाः॥ 354
कुक्षिरोगार्दितो भूत्वा जन्मानि दश पंच च
ततस्सृगालतां प्राप्य पतेद्धि नरकेऽशुचौ॥ 355
यो वा मूढमतिर्मोहात्कारयेद्द्विजभोजनम्
देवागारे विशेषेण स भवेन्निन्दितो जनः॥ 356
गर्भागारे चाऽन्तराले तथा चैवार्धमंडपे
महामंडपमध्ये च नाऽन्नमद्याद्विशेषतः॥ 357
अन्नं पात्रे विनिक्षिप्य पुटपत्रादिनिर्मिते
आपोशनं तु कृत्वैव यदद्याद्भोजनं तुतत्॥ 358
न देवताप्रसादस्य गृहीतस्यांजलौ तथा
न चैवापोशनं कुर्यात्कुर्याच्चेत्तदसम्मतम्॥ 359
यस्तु पानीयपात्राणि पीतान्यत्र तु विन्यसेत्
स गच्छेन्नरकान् क्रूरान् यावन्त उदबिन्दवः॥ 360
पात्रे तिष्ठन्ति शरदस्तावतीर्नात्र संशयः
निवेदितं तु देवस्य देवस्याऽग्रे विशेषतः 361
प्रदद्यात्तु क्रमेणैव वर्णाश्रमविधानतः
अश्नन्तिभक्तास्सर्वेऽपिगृहीत्वैवांऽजलौ पुनः॥ 362
ब्रह्मण्यदेवमुद्दिश्य पुरुषं ब्राह्मणप्रियम्
नारायणमनाद्यन्तं विष्णुं सर्वेश्वरेश्वरम्॥ 363
ब्राह्मणान् भोजयेद्यस्तु कर्मसाद्गुण्यसिद्धये
तथा निष्कृतिनिष्पत्त्यैशास्त्रोक्तेन विधानतः॥ 364
कारयेन्नोक्तदेशेषु कदाऽपि द्विजभोजनम्
यस्त्वन्नं दापयेद्विप्रो द्विजेभ्यो भक्तिसंयुतः॥ 365
निवेदितं तु देवस्य संतुष्ट्यैस्वस्य तस्य च
तस्य तुष्यति देवेश आदाता तु विपद्यते॥ 366
दातुस्तु सकलं पापं मनोवाक्कायकर्मभिः
बहुशस्संचितं पूर्वमादाता समवाप्नुयात्॥ 367
प्रसादोऽपिहि देवस्य परपाकरुचिं नरम्
न जातु पावयेन्नैव पावयेत्पावयेन्न तु॥ 368
यदृच्छालाभसंतुष्टं यथा भक्तवरं तथा
महिमानं प्रसादस्य योऽवजानाति मूढधीः॥ 369
तेन भुक्तं भवेत्पापं दातुरेव न संशयः
अयुतं ब्राह्मणानान्तु तर्पयित्वातु यत्फलम्॥ 370
तत्फलं नश्यति क्षिप्रमुच्छिष्टस्य कणेन तु
अथाऽन्नविक्रयेदोषः कथ्यते विधिवित्तमैः 371
अन्नविक्रयिणः पापा व्रजन्ति यमयातनाः
प्रेत्य सृगालतां यान्ति नव जन्मानि पंच च॥ 372
यस्त्वन्नं भगवद्गेहे विक्रीणाति विशेषतः
चंडालो जायते प्रेत्य क्षुधितश्च चरेन्मुहुः 373
विक्रीणते तु ये विप्रा वाणिज्ये दत्तचक्षुषः
येऽप्यन्नमुपहारादि चेतरद्देवमन्दिरे॥ 374
तेऽपि यान्ति महाघोरं नरकं भृशदारुणम्
यत्र नैवभवेष्यन्ति पालीयायोदबिन्दवः॥ 375
कणमन्नस्य वान स्यात्तप्यन्ते तत्र ते जनाः
ये गृहीत्वा तदन्नादि भुंजते क्षुधिता जनाः 376
उपकुर्वन्तिये वा तानुच्यन्तेऽभक्ष्यभोजनाः
अन्नं प्राणा मनुष्याणां सर्वमन्ने प्रतिष्ठितम्॥ 377
अन्नं ब्रह्माऽत्मकं विंद्याद्विंद्यादन्नमयीं तनुम्
अन्नं विक्रीणते ये तु प्राणविक्रयिणः स्मृताः॥ 378
तस्मात्सर्वप्रयत्नेन त्यजेत्तत्क्रय विक्रयौ
न कुर्याद्देवता गेहेऽभ्युदयं श्राद्धभोजनम्॥ 379
कुर्यान्न चापि श्राद्धादीन्विहायाऽपि द्विजाशनम्
तस्मात्सर्वप्रयत्नेन नाऽश्नीयाद्धरिमन्दिरे॥ 380
- * *
मुधा संभाषते यस्तु प्रविश्य हरिमंदिरम्
स निधिं पुरतस्सिद्धं त्यक्त्वा भिक्षति काकिणीम्॥ 381
यस्तु संभाषते व्यर्थं देवालयमुपाश्रितः
सिद्धमन्नं परित्यज्य भिक्षामटति दुर्जनः 382
यन्मुहूर्तं क्षणं वाऽपि परमात्मान चिन्त्यते
सा हानिस्तन्ममहच्छिद्रं सा भ्रान्तिस्सा तु विक्रिया॥ 383
दस्युभिर्मुषितेनेव दग्धेनेव दवाऽग्निना
व्याधिभिःपीडितेनेव चाकृष्टेनेव मृत्युना॥ 384
भीतेनेवोत्तमर्णेन धर्षितेनेव राजभिः
मग्नेनेव महासिंधौ हतेनेव च वात्यया॥ 385
संपिष्टेनेव पाषाणैराक्रन्देद्यस्स मुच्यते
सन्त्यनेका प्रदेशाश्च समयाश्च विशेषतः॥ 386
लोकयात्राविनिष्पत्त्यै देहयात्रोपयोगिनः
तस्माद्देवगृहं गत्वा नरो नाऽन्यपरो भवेत्॥ 387
यत्प्रसंगे हरेर्नाम तन्ममहत्त्वं च नाऽप्यते
स सर्वोऽपि मुधा प्रोक्तोमिथ्येत्येके वदन्तितम्॥ 388
न हि देवस्य पुरतः क्वचिदप्यनृतं वदेत्
सत्यस्वरूपी भगवान् सत्यं तस्मैन गूहयेत्॥ 389
सत्यमेव परं ब्रह्म सत्यमेव परं तपः
सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतम्॥ 390
सत्यं देवेषु जागर्ति सत्यं धर्मतरोः फलम्
तपोयज्ञश्च पुण्यं च देवर्षिपितृपूजनम्॥ 391
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम्
सत्यं यज्ञन्तथा वेदास्सत्या देवी सरस्वती॥ 392
व्रतचर्या तथा सत्यमोंकारस्सत्यमेव च
सत्येन वायुरावाति सत्येनाऽर्कः प्रकाशते॥ 393
दहत्यग्निश्च सत्येन यायात्सत्येन सद्गतिम्
पर्जन्यो धरणीभागे सत्येनाऽपः प्रवर्षति॥ 394
स्वाध्यायस्सर्ववेदानां सर्वतीर्थावगाहनम्
सत्यं तु वदतो लोके तुलितं स्यान्न संशयः॥ 395
अश्वमेधसहस्रं च सत्यं च तुलया कृतम्
अश्वमेधसहस्रात्तु भारस्सत्ये विशिष्यते॥ 396
सत्येन देवाः प्रीणन्ति पितरो ब्राह्मणास्तथा
सत्यमाहुःपरं धर्मं सत्यमाहुः परं पदम्॥ 397
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं न लोभयेत्
ये सत्यनिरतास्सत्यशपथास्सत्यविक्रमाः 398
महत्मानो मुनिश्रेष्ठास्ते परां सिद्धिमाप्नुवन्
दैवतैस्सह मोदन्ते स्वर्गे सत्यपरायणाः॥ 399
अप्चरोगणसंकीर्णैर्विमानैस्संचरन्ति च
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम्॥ 400
अगोधे विमले शुद्धे सत्यतीर्थे शुचिह्रदे
स्नातव्यं मनसा युक्तैस्तत्स्नानं परमं स्मृतम्॥ 401
देवार्थे वा परार्थे वा पुत्रार्थे वा ऽऽत्मने तथा
येऽनृतं नाभिभाषन्ते ते स्वर्गं यान्तिमानवाः॥ 402
यस्सत्यवादी पुरुषो नाऽनृतं परिभाषते॥
संप्राप्य विरजान् लोकानुषित्वा शाश्वतीस्समाः॥ 403
भगवद्भक्तिमुक्तानां जायते श्रीमतां कुले
साक्षिणस्सन्तिसर्वेते देवता भास्करादयः॥ 404
परीक्षन्ते च सर्वासु दशासु पुरुषं सदा
न वाच्यमनृतं तस्मात्प्राणैः कंठगतैरपि॥ 405
येऽनृतं ब्रुवते मूढाश्शपथानि च कुर्वते
देवाऽगारे विशेषेण ते प्रणश्यन्ति साऽन्वयम्॥ 406
पुनर्जन्मशतं यान्ति कीटडयोनिष्वनेकशः
गीतवादित्रनृत्तादीन् पुण्याख्यानकथाश्च ये॥ 407
लोपयन्त्यथ पारुष्यैर्मन्दिरे मधुविद्विषः
ते यान्ति नरकं पापा जायन्ते नीचयोनिषु॥ 408
तथा तेऽपि दुरात्मानो गार्दभीं योनिमाप्नुयुः
तथान्ते क्रूरा नव जन्मानि पंच च॥ 409
अनिबद्धप्रलापान् ये कुर्वते देवमन्दिरे
तेऽपि तित्तिरितां भूत्वा जायन्ते जन्मपंचकम्॥ 410
देवभाषां परित्यज्य देशभाषासु यो नरः
स्तुवीत देवतागेहे देवस्याऽग्रे विशेषतः 411
तस्य दोषोमहानाशु नैव पूजाफलं भवेत्
असाराणि तु शास्त्राणि भूयांसि पृथिवीतले॥ 412
यत्र देवस्य महात्म्यकथनं न प्रपंच्यते
तेषु शास्त्रेषु ये जाताश्शास्त्रार्थाश्च विशेषतः 413
वादाश्च प्रतिवादाश्च संस्कारास्सर्व एव हि
चित्रशिल्पा न संदेहो नरस्तेन न मुच्यते॥ 414
सा विद्या या हरिं स्तौति सा क्रिया यत्तदर्चनम्
या न्या यदन्यदखिलं दुष्टोदर्का हि जीविका॥ 415
न हि देवगृहं गत्वा शास्त्रार्थैर्नी रसैर्नरः
मुहूर्तं क्षपयेत्कालं तद्देवस्य विमानना॥ 416
विशालं वाङ्मयं सर्वं सृष्ट्वा स्रष्टा हरिः प्रभुः
तदन्तस्संप्रविश्यैव वाच्यवाचकभेदतः 417
विज्ञानाय मनुष्याणां विज्ञानघनविग्रहः
सदोपकुरुते यस्मात्सर्वे भक्तवराः सदा॥ 418
सर्वा वाचो विमुच्यान्याश्चिन्तयानाश्च सादरम्
तन्महत्त्वकथागन्धदरिद्रं वाचनं तथा॥ 419
पाठनं लेखनाद्यं च नैव कुर्याद्गृहे हरेः
स भवेदक्षरद्रोङी यस्तु कुर्याद्व्यतिक्रमम्॥ 420
द्रुह्येत्स वाङ्मयायाऽपि तस्माद्युक्ततरो भवेत्
यस्तु देवगृहं गत्वा रोदिति प्रणयाद्यथा॥ 421
दुःखितः स्तौति वा देवं तत्स्यान्मानसिकं मलम्
निर्वाणपरमं स्थानं म्लानेन मनसा तु यः॥ 422
सेवते स न जानाति तद्विष्णोः परमं पदम्
नारी वा पुरुषो वाऽपि गत्वा देवगृहं क्वचित्॥ 423
न रोदेत्पातयेन्नाऽश्रु नैवाऽन्यं रोदयेदपि
यावन्त्यश्रूणि रुदतां पतेयुर्देवमन्दिरे॥ 424
तावन्त्यब्दसहस्राणि ते वसन्ति यमालये
अनुभूय पुनस्तत्र यातनास्तीव्रचोदनाः॥ 425
प्राप्य ति त्तिरितां कालं वसिष्यन्ति चिरं भुवि
नैवाऽत्र हिंसां कुर्वीत प्राणिनां दुःखदां क्वचित्॥ 426
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियनिग्रहः
तपोऽथ गुरुशुश्रूषा धर्मद्वाराष्षडीरिताः॥ 427
अहिंसापाश्रयं धर्मं दांतो विद्वान् समाचरेत्
त्रीदंडं सर्वभूतेषु निधाय पुरुषश्शुचिः॥ 428
कामक्रोधौ च संयम्य ततः सिद्धिमवाऽप्नु ते
अहिंसकानि भूतानि दंडेन विनिहन्तियः॥ 429
आत्मनस्सुखमन्विच्छन् स प्रेत्य न सुखी भवेत्
आत्मोपमस्तु भूतेषु यो वैभवति पूरुषः॥ 430
त्यक्तदंडो जितक्रोधस्स प्रेत्य सुखमेधते
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः॥ 431
मुह्यन्ति मार्गे देवाश्च ह्यपदस्य पदैषिणः
न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः॥ 432
एष सांग्राहिको धर्मःकामादन्यः प्रवर्तते
प्रख्यापने च दाने च सुखदुःखे प्रियाऽप्रिये॥ 433
आत्मौवम्येन पुरुषः प्रमाणमधिगच्छति
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति विशेषतः॥ 434
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्णनात्
कर्मणा न नरः कुर्वन् हिंसां जातु विचक्षणः, 435
वाचा च मनसा चैव ततो दुःखात्प्रमुच्यते
चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः 436
एकैकतोऽपि विभ्रष्टा न भवेन्नाऽत्र संशयः
यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति॥ 437
तथैवेयं विशेषेण कारणैः प्रोच्यते त्रिभिः
यथा नागपदेऽन्यानि पदानि पदगामिनाम्॥ 438
सर्वाण्येवाऽपिधीयन्ते पदजातानि कौंजरे
एवं लोकेष्वहिंसा तु निर्दिष्टाधर्मतः पुरा॥ 439
न ह्यतस्सदृशं किंचिदिहलोके परत्र च
यत्सर्वेष्विह भूतेषु दयाऽहिंसात्मिका तु या॥ 440
न भयं विद्यते जातु नरस्येह दयावतः
दयावतामिमे लोकाः परत्रापि तपस्विनाम्॥ 441
अभयं सर्वभूतेभ्यो यो ददाति दयापरः
अभयं सर्वभूतानि ददतीति जगौ श्रुतिः॥ 442
क्षतं च पतितं चैव स्खलितं क्लिन्नमाहतम्
सर्वभूतानि रक्षन्ति समेषु विषमेषु च॥ 443
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः॥
मुच्यते भयकालेषु मोक्षयेद्यो भये परान्॥ 444
प्राणदानात्परं दानं न भूतं न भविष्यति
न ह्यात्मनः प्रियकरं किं चिदस्तीह निश्चितम्॥ 445
अनिष्टं सर्वभूतानां मरणं नाम कथ्यते
मृत्युकाले हि भूतानां सद्यो जायेत वेपथुः॥ 446
व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च॥ 447
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः 448
जाताश्चाऽप्यवशास्तत्र छिद्यमानाः पुनः पुः
हन्यमानाश्च दृश्यन्ते विवशा घातुका नराः 449
कुंभीपाकेच पच्यन्तेतां तां योनिमुपागताः
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनः पुनः 450
नाऽत्मनोऽस्ति प्रियतमः पृथिवीमनुसृत्य ह
तस्मात्राणेषु सर्वेषु दयावानात्मवान् भवेत्॥ 451
येन येन शरीरण यद्यत्कर्मकरोति यः
तेन तेन शरीरण तत्तत्फलमुपाश्नुते॥ 452
अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः
अहिंसा परमं दानमहिंसा परमं तपः॥ 453
अहिंसा परमो यज्ञस्तथाऽहिंसा परं फलम्
अहिंसा परमं मित्रमहिंसा परमं सुखम्॥ 454
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतम्
सर्वदानफलं वापि नैतत्तुल्यमहिंसया॥ 455
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो जयते सदा
अहिंस्रस्सर्वभूतानां यथा माता यथा पिता॥ 456
तस्मादहिंस्रस्सततमुपवास व्रतं चरेत्
फलमंगिरसाप्रोक्तमुपवासस्य विस्तरात्॥ 457
त्रिरात्रं पंचरात्रं वा सप्तरात्रमथाऽपि वा
धान्यान्यपि न हिंसेत यस्स भूयादहिंसकः॥ 458
नाऽश्नाति यावतो जीवस्तावत्पुण्येन यज्यते
आहारस्य वियोगेन शरीरं परितप्यते॥ 459
तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु
तिष्ठन्ति स्ववशे तस्य नृपाणामिव किंकराः॥ 460
निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः
इन्द्रियाणां निरोधेन दानेन च दमेन च॥ 461
नरस्सर्वमवाप्नोति मनसा यद्यदिच्छति
एवं मूलमहिंसाया उपवासः प्रकीर्तितः॥ 462
कामान्यान्यान्नरो भक्त्या मनसेच्छति माधवात्
व्रतोपवासनात्प्रीतस्तान् प्रयच्छत्यसौ हरिः 463
- * *
मासे मासे तथैकस्मिन्नेकस्मिन्नियतं चरेत्॥ 464
उपवासव्रतमिदं तस्याऽनन्तं फलं भवेत्
एकादश्यां निराहारस्संपूज्य हरिमव्ययम्॥ 465
तत्पादसलिलं तद्वत्तुळसीं च तदर्पितामा
पीत्वा च भक्षयित्वा च उपवासव्रतं चरेत्॥ 466
उपवासदिने यस्तु तीर्धं श्रीतुळसीयुतम्
न प्राश्नीयाद्विमूढात्मा रौरवं नरकं व्रजेत्॥ 467
- * *
न हि देवगृहं गत्वा विवदेत नरः क्वचित्
न तत् स्थानं विवादस्य तस्मात्तं दूरत स्त्यजेत्॥ 468
मनोऽनवस्थितं यस्य स नाऽलं पूजितं हरिम्
यस्यैव निर्मलं चित्तं सोऽर्हस्सर्वेषु कर्मसु॥ 469
रागाद्यपेतं हृदयं वागदुष्टाऽनृतादिना
हिंसादिरहितः कायः केशवाराधने त्रयम्॥ 470
रागादिदूषिते चित्तं नाऽस्पदं कुरुते हरिः
न बध्नाति पदं हंसः कदाचित्कर्दमांऽभसि॥ 471
न योग्या माधवं स्तोतुं वाग्दुष्टा चाऽनृतादिना
तमसो नाशनायाऽलं मेघच्छन्नोन चन्द्रयाः॥ 472
हिंसादिदूषितः कायः प्रभवेन्नार्चने हरेः
जनचित्तप्रसादाय यथाऽ काशस्तमोवृतः॥ 473
मनोदोषविहीनानां न दोषस्स्यात्कथं च न
अन्यथाऽलिंग्यते कांता स्नेहेन दुहिताऽन्यथा॥ 474
यतेश्च कामुकानां च योषिद्रूबेऽन्यथा मतिः
अशिक्षयैव मनसः प्रायो लोकश्च वंच्यते॥ 475
लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा
विशुद्धैः करणैस्तस्माद्व्रजेद्देवगृहं नरः॥ 476
विवादः क्रोधजो यस्मात्तस्मात्तं परिवर्जयेत्
क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि॥ 477
क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत्
साधुसज्जनसन्तापः साधूनां च विमानना॥ 478
दहत्यासप्तमं तस्य कुलं नाऽत्र विचारणा
वाच्यावाच्यं प्रकुपितो न विचानाति कर्हि चित्॥ 479
नाकार्यमस्ते क्रुद्धस्य नाऽवाच्यं विद्यते क्वचित्
यस्समुत्पतितं क्रोधं क्षमया तु निरस्यति॥ 480
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते
ते मान्याःपुरुषश्रेष्ठाः क्षमया क्रोधमुद्धितम्॥ 481
निर्वापयन्ते ये नित्यं दीप्तमग्निमिवांऽभसा
परापवादं न ब्रूयान्नाऽप्रियं च कदा चन॥ 482
न मन्युः कश्चिदुत्पाद्यो महतां देवसन्निधौ
- * *
स्वयं दत्ताऽवधानस्तु देवकार्ये विशेषतः 483
मन्येत भगवत्सर्गे स्वात्मानं चाऽप्यकिंचनम्
स एव भगवान् देवस्सर्वज्ञः सर्वशक्तियुक्॥ 484
सर्वेशस्सर्ववित्सर्वोनिग्रहाऽनुग्रहे रतः
तस्मान्नान्यस्य जात्वस्ति शक्तिः क्रोधप्रसादयोः॥ 485
इति संचिन्त्य भूयोऽपि सर्वेष्वपि च जन्तुषु
भगवत्सन्निधौ स्थित्वा आनृशंस्यं प्रयोजयेत्॥ 486
यद्यद्भावि भवद्भूतं विद्यात्तत्तस्य चेष्ठितम्
यद्यहंकारमाश्रित्य स्वातंत्य्रमदमोहितः॥ 487
निग्रहेऽनुग्रहे वापि शक्तिं स्वस्याऽवबोधयेत्
स याति नरकं घोरं न दैवं तस्य मृष्यति॥ 488
- * *
तथा स्त्रीणां विशेषण त्याज्या स्यादतिसंगतिः
देवतामंदिरं प्राप्य कालेष्वन्येषु वा तथा॥ 489
आयुर्यशस्तपोहानिः पुंसां स्त्रीष्वतिसंगिनाम्
पुरुषेष्वतिसक्तानां तुल्या सा योषितामपि॥ 490
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः
मर्यादासु स तिष्ठन्ति स दोषः स्त्रीषु गर्हितः॥ 491
न स्त्रीभ्यः परमन्यद्वै पापीयस्तरमस्ति वै
स्त्रियो हि मूलं दोषाणां सर्वेषां नाऽत्र संशयः॥ 492
समाज्ञातानृद्धिमतः प्रतिरूपान् व शेस्थितान्
पतीनन्तरमासाद्य नाऽलं नार्यः परीक्षितुम्॥ 493
असद्धर्मस्त्वयं स्त्रीणां प्रायेण हि भवेद्भुवि
पापीयसो नरान् यद्वै त्यक्तलज्जा भजन्तिताः॥ 494
स्त्रीयं हि य़ः प्रार्थयते सन्निकर्षं च गच्छति
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः 495
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च
मर्यादायाममर्यादाः स्त्रीयस्तिष्ठन्ति भर्तृषु॥ 496
नाऽसां कश्चिदगम्योऽस्तिनाऽसां वयसि संस्थितिः
रूपवन्तं विरूपं वा पुमानित्येव भुंजते॥ 497
न भयान्नाऽप्यनुक्रोश्नान्नाऽर्थहेतोः कथं च न
न ज्ञातिकुलसंबन्धा त्त्स्रियस्तिष्ठन्ति भर्तृषु॥ 498
यौवने वर्तमानानां मृष्टाऽभरणवाससाम्
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रीयः॥ 499
याश्च शस्वद्बहुमता रक्ष्यन्ते दयिताःस्त्रीयः
अपि ताः संप्रसज्जन्ते कुब्जाऽन्धजूवामनैः॥ 500
पंगुष्वन्येषु कुष्ठेषु ये चाऽन्ये कुत्सिता नराः
स्त्रीणामगम्यो लोकेऽस्मिन्नाऽस्ति कश्छिदिहोद्यते॥ 501
यदि पुंसां गतिस्तत्र कथं चिन्नोपपद्यते
अप्यन्योन्यं प्रवर्तन्तेन हि तिष्ठन्ति भर्तृषु॥ 502
दुष्ठाचाराः पापरता असत्या मायया वृताः
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवधार्यते॥ 503
अलाभात्पुरुषाणां हि भयात्परिजनस्य च
वधबन्धभयाच्चाऽपि स्वयं गुप्ता भवन्ति ताः॥ 504
चलस्वभावा दुस्सेव्या दुर्ग्राह्या भावतस्तथा
प्राजस्य पुरुषस्येव यथा भावा स्तथा स्त्रीयः 505
नाऽग्निस्तृप्यति काष्ठानां नाऽपगानां महोदधिः
नाऽन्तकस्सर्वभूतानां न पुंसां वामलोचनाः 506
रहस्यमिदमन्यच्च विज्ञेयं सर्वयोषिताम्
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः॥ 507
कामानामपि दातारं कर्तारं मानसान्त्वयोः
रक्षितारं न मृष्यन्ति स्वभर्तारमसत् स्त्रियः 508
न कामभोगान् विपुलान् नालंकारार्थ संचयान्
तथैव बहुमन्यन्ते यथा रत्यामनुग्रहम्॥ 509
अन्तकः शमनो मृत्युः पातालं बडबामुखम्
क्षुरधारा विष स्सर्पो वह्निरित्येकतः स्त्रियः॥ 510
एता हि स्वीयमायाभिर्वंचयन्तीह मानवान्
न चाऽसां मुच्यते कश्चित्पुरुषो हस्तमागतः॥ 511
गावो नवतृणानीव गृह्णन्त्येता नवं नवम्
शंबरस्य च या माया या माया नमुचेरपि॥ 512
बलेः कुंभीनसेश्चैव तास्सर्वायोषितो विदुः
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च॥ 513
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः
यदि जिह्मा सहस्रं स्याज्जीवेच्च शरदां शतम्॥ 514
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत्
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः॥ 515
स्त्रीबुद्ध्या न विशिष्येत सुरक्ष्या न भवन्तिताः
अनृतं सत्यमित्याहुस्सत्यं चाऽपि तथाऽनृतम्॥ 516
इति यास्ताः कथं रक्ष्याः पुरुषैर्दुर्भराः स्त्रियः
संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु॥ 517
अपास्ताश्च तथा सद्यो विकुर्वन्ति मनः स्त्रियः
न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः 518
निरिन्द्रिया ह्यशास्त्राश्च स्त्रीयोऽनृतमिति श्रुतिः
शय्यासनमलंकारमन्न पानमनार्यताम्॥ 519
दुर्वागर्भवं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः
न तासां रक्षणं शक्यं कर्तुं पुंसां कथं चन॥ 520
अपि विश्वकृता चैव कुतस्तु पुरुषैरिह
वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा॥ 521
न शक्या रक्षितां नार्यस्ता हि नित्यमसंयताः
अविद्वांसमलंलोके विद्वांसमपि वा पुनः॥ 522
प्रमदाह्युत्पथं नेतुं कामक्रोधवशाऽनुगम्
नातः परं हि नारीणां विद्यते च कदा चन॥ 523
यथा पुरुष संसर्गः परमेतत्फलं विदुः
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः॥ 524
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः
नाऽनिलोऽग्निर्न वरुणो न चाऽन्ये त्रिदशान्तथा॥ 525
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः
सहस्रेकिल नारीणां प्राप्येतैका कदा चन॥ 526
तथा शतसहस्रेषु यदि काचित्पतिव्रता
नैता जानन्ति पितरं न कुलं न च मातरम्॥ 527
न भ्रातॄन्न च भर्तारं न च पुत्रान् न देवरान्
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः॥ 528
- * *
स्त्रीष्वायाससमेतस्य ये पुंसश्शक्रबिन्दवः
न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः॥ 529
कृमिभिस्तुद्यमानस्य कुष्ठिनः पामनस्य वा
कंडूयनाऽग्नितापाभ्यां यत्सुखं स्त्रीषु तद्विदुः॥ 530
यादृशं विद्यते सौख्यं कंडूपूयविनिर्गमे
तादृशं स्त्रीषु विज्ञेयं नाऽधिकं तासु विद्यते॥ 531
ग्रन्थेस्तु वेदना यद्वत् स्फुटितस्य निवर्तने
तद्वत् स्त्रीष्वपि विज्ञेयं न सौख्यं परमार्थतः॥ 532
वर्चोमूत्रविसर्गात्तु सुखं भवति यादृशम्
तादृशं स्त्रीषु विज्ञेयं नाऽधिकं तासु विद्यते॥ 533
न चाऽणुमात्रमप्येवे सुखमस्ति विचारतः
तथा देवोत्सवादीनां सेवा तासां निषिध्यते॥ 534
न हि स्वतन्त्रतो योषिज्जातु गच्छेत् स्थलान्तरम्
न हि निर्मिमते वृद्धा लीलया देवमंदिरान्॥ 535
कामुकानां विलासार्थं तस्माद्युक्ततरो भवेत्
अनुगच्छेत्पिता भ्राता भर्ता पुत्रोऽथ वा यदि॥ 536
तदा देवगृहं यायान्नान्यथा जातु कामिनी
ध्यायतो विषयान् पुंसस्संगस्तेषूपजायते 537
संगात्संजायते कामः कामात्क्रोधोऽभिजायते
क्रोधाद्भवति सम्मोहस्सम्मोहात्स्मृतिविभ्रमः॥ 538
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति
बलवानिंद्रियग्रामो विद्वांसमपिकर्षति॥ 539
तस्मात् स्त्रीया भवेद्विद्वान्नातिसक्तः कथं चन
तस्मात् स्त्रीषु न कर्तव्यः प्रसंगो देवताकृहे॥ 540
तथैव परदारेभ्यो मनः प्रहिणुयान्न च
परदारा न गन्तव्या नरैर्ऋद्धिमभीप्सुभिः॥ 541
न हीदृशमनायुष्यं लोके किं चन विद्यते
यादृशं पुरुषस्येह परदारनिषेवनम्॥ 542
तादृशं विद्यते किंचि दनायुष्यं नृणामिह
यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः॥ 543
तावद्वर्षसहस्राणि नरकं पर्युपासते
अतिसंगं त्यजेत्तस्माद्योषितां देवमन्दिरे॥ 544
- * *
यैरसभ्यः पदैरर्थः पदेनैकेन वा तथा
गम्यते कथनं तादृगश्लीलं परिवर्जयेत्॥ 545
अश्लीलकथनाच्चैव भवेदुद्वेजनं नृणाम्
भक्तानां भगवद्गेहे भवेच्चित्तमथाविलम्॥ 546
निवर्तेत मनस्तत्र निविष्टं परमात्मनि
तस्मादश्लीलमाभाष्ट नरः पापपरो भवेत्॥ 547
स तु चंडालतां प्राप्य जायते जन्मनां शतम्
- * *
अर्तोन प्रविशेद्गेहं देवस्य परमात्मनः॥ 548
वायुभूते शरीरेऽस्मिन् वायुसंचारकर्मणि
मलवायुविसर्गस्तु देवगेहे विशेषतः॥ 549
पातयेत्पुरुषं सत्यमपि वेदान्तपारगम्
तस्मादपानगन्धस्य विसर्गं नैव चाचरेत्॥ 550
अथ वायुनिरोधेतु व्याधिकोपो भविष्यति
तस्माद्वायुविसर्गं तु कुर्यादेवाऽविचारयन्॥ 551
इति देवगृहं गन्तुं व्याधितो नैव चार्हति
तथा कुष्ठी विशेषेण पापरोगार्दितास्समे॥ 552
उद्वीक्षितुं च देवेशं मन्दिरे मधुसूदनम्
अर्चितुं सेवितुं चापि दातुं द्रव्यचयं तथा॥ 553
नार्हन्तियस्मात्तत्सक्तं पापं सांक्रामिकं भवेत्
यद्यन्यथा भवेत्सद्यस्स पापी संप्रजायते॥ 554
जन्मानि नव पंचाऽपि जायते मलभुक् कृमिः
- * *
यदा विशेद्गृहं विष्णोस्सेवार्धं मधुविद्विषः॥ 555
कृत्वोपवीतवत्सम्यगुत्तरीयं मनोहरम्
सेवेत देवदेवशमुपवीतः सदा शुचिः॥ 556
कंचुकेनाऽवृतांगस्तु न गच्छेद्धरिमंदिरम्
नैवाऽभिवादनं कुर्यान्नाभिवाद्य स्स उच्चते॥ 557
उष्णीषी न च सेवेत नैव पाणौ धृताऽयुधः
वस्त्रेणाच्छाद्य देहन्तुकम्बलेनेतरेण॥ वा 558
योगच्छेद्वैष्णवं धाम यो वाऽपि प्रणमेद्धरिम्
श्वित्री संजायते मूढो नवजन्मानि पंच च॥ 559
क्षौमादिभिर्वा संवीतो यो नरःप्रणमेद्धरिम्
चंडालयोनितां याति नव जन्मानि पंच च॥ 560
- * *
न जातु त्वमितब्रूयादापन्नोपि महत्तरम्
त्वंकारो वा वधो वेति विद्वत्सु न निशिष्यते॥ 561
परनिंदा परस्यैव पुंसो निंदा भविष्यति
परनिंदा च शास्त्रस्य परस्य तु विनिंदनम्॥ 562
परनिंदा भवेत्क्रोधात्क्रोधात्सद्यो विनश्यति
निंदया वै परेषां तु निन्दितास्ते पुनस्स्मृताः॥ 563
तस्मान्निदां परेषां तुदेवाऽग्रे परिवर्जयेत्
- * *
तथा परस्तुतिं चैव विधिना संत्यजेन्नरः॥ 564
परः परात्मा पुरुषः पुराणः प्रोच्यते तु यः
तदग्रेऽन्यस्य देवस्य न स्तुतिं स्तावयेन्नरः॥ 565
यस्तु सर्वेश्वरादन्यमधिकं तस्य चाऽग्रतः॥
पूजयेद्यदि मन्येत पूजार्हं वास नश्यति॥ 566
सर्वं जगच्च तस्यैव स्वरूपं परमात्मनः
तथाऽपि तत्तद्रूषेण तारतम्यजुषा पुनः॥ 567
पूज्यते भगवान् भक्तैस्तत्र शास्त्रोदिता गतिः
तस्माद्देवेश्वरादन्यद्यत्किंचित्थ्साणु जंगमम्॥ 568
पूजार्हं विद्यते वस्तु तद्धामनि विशेषतः
तस्मात्पूजां स्तुतिं चान्यामितरेषामसंशयम्॥ 569
त्यजेद्देवगृहे यस्तु सुखं मन्येत जीवितुम्॥
- * *
शक्तौ सत्यां विशेषेण यस्तुलोभादिना नरः॥ 570
गौणैरर्चयते विष्णमुपचारैरुदीरितैः
न तस्य विद्यते पुण्यं स तूच्छास्त्रं व्रवर्तते॥ 571
यावता कीर्त्यतेशास्त्रे फलमाढ्यदरिद्रयोः
तत्तच्छक्त्यर्पितैरेव यथार्हं च धनादिकैः॥ 572
यथा तुष्यतिदेवेशो मुक्ताहारेण भूभुजाम्
तथैव तुळसीदाम्ना दुर्विधस्याऽपि तुष्यति॥ 573
तस्मात्कुर्वीत यत्नेन शक्तिलोभं न जातु चित्
अन्यथा यदि कुर्वाणः फलं नैव प्रपद्यते॥ 574
प्रेत्य मार्जारतां प्राप्य जायते जन्मपंचकम्
विषं प्राश्नाति सम्मूढो यस्स्वस्मै पचते नरः॥ 575
योऽद्यादन्नं कणं वाऽपि यद्विष्णोरनिवेदितम्
स भवेद्ब्रह्महाभूयः स भुंक्तेपूयशोणितम्॥ 576
यत्पिबेच्च यदश्नीयात् यच्चजिघ्रेच्च धारयेत्
अनुलिंपेच्च यत्तत्तन्निवेद्याऽग्रे मधुद्विषे॥ 577
तन्निवेदितशेषं तु भुंजीयाद्वोपयोजयेत्
विष्णोर्निवेदितं यस्तु न भुंक्ते मनुजाधमः॥ 578
कल्पकोटिशतेनाऽपि निष्कृतिर्नास्य विद्यते
निवेदितं तु यद्विष्णोर्भक्तेभ्यस्तस्य दापनात्॥ 579
प्रीयत् भगवान् देवस्तत्परस्तु भवेन्नरः
निवेदितं यदि ब्रूयादुच्छिष्टमिति मन्दधीः 580
स तु दुर्गतिमासाद्य विन्दते यमयातनाः
- * *
विभूतिं समुपाश्रित्य यस्यानन्तस्य शाश्वतम्॥ 581
समृद्धा धरणी सेयं सशैलवनकानना
या च भूयांसि लोकेऽस्मिन्नुत्पादयति सन्ततम्॥ 582
ओषधीर्निखिला स्तद्वत्पुष्पाणि च फलानि च
तस्यानृण्यस्यहेतोर्वैय तेत विधिना नरः 583
यस्तु नाऽर्पयते विष्णोस्तत्तत्कालोद्भवानि तु
सस्यानि चौषधीस्तद्वत्फलानि कुसुमानि च॥ 584
संभृतानि यथाशक्ति सभवेद्ब्रह्मह् नरः
नवानि काले जातानि सस्यादीनि विशेषतः॥ 585
ध्यायन्ति देवदेवेशमभिगन्तुं यतन्ति च
कदर्थयन्तोये मूढास्तेषामभ्यर्थनं परम्॥ 586
औदासीन्येन तिष्ठन्ति स्वयं वाप्युपयुंजते
तेयान्तिनरकान् घोरान् कृतघ्ना यान्तियान् बहून्॥ 587
शपन्त्यौषधयस्सर्वास्तस्माद्भक्त्या विशेषतः॥
नवं सस्यं फलं पुष्पं दधिक्षीरं घृतं मधु॥ 588
यदर्हमर्पणे सर्वमग्रे तस्मै समर्पयेत्
लोभान्मोहादथाज्ञानाद्य उच्छिष्टं निवेदयेत्॥ 589
देवेशाय विशेषेण स भवेत्पातकी नरः
उच्छिष्ट मन्यदेवस्य यो देवाय निवेदयेत्॥ 590
सोऽपि चंडालतां प्राप्य नश्येदेव न संशयः
निवेदितं तु देवस्य य उच्छिष्टेन योजयेत्॥ 591
देवानामित रेषां वा मनुष्याणामथापि वा
स पापी जन्मसाहस्रं श्वानयोनिषु जायते॥ 592
- * *
न हि देवगृहं गत्वा पृष्टी कृत्यासनं चरेत्
देवाभिमुख एव स्याद्भक्तस्सर्वात्मनानरः 593
न पृष्ठं दर्शयेज्जातु देवाग्रे हितचिन्तकः
पार्श्वतस्तु चरन्नेव निवर्तेताऽलयं प्रति॥ 594
- * *
नैवाऽन्यं प्रणमेज्जातु प्रविश्य हरिमन्दिरम्
स हि सर्वेश्वर श्शेषी यस्तत्राऽस्ते रमाधवः 595
पूजार्हश्च प्रणामार्हः पूजार्हस्तत्र नेतरः
यस्तथा प्रणमेन्मूढस्स याति नरकाऽयुतम्॥ 596
चंडालयोनिमासाद्य भजते यातना मुहुः
- * *
यस्तु देवगृहं प्राप्तान् वैष्णवान् भगवत्प्रियान्॥ 597
आचार्यमृत्विजश्चाऽथ पूजकान् परिचारकान्
नाऽर्चयेन्मौनमास्थाय स विनश्यति साऽन्वयः 598
यदिष्टं याजकेभ्यस्स्यात्पूरणायेव तस्यतु
भक्ताः परिचरेयुश्च विशेषाद्ग्रामवासिनः 599
अन्यथा चेन्मदोषस्सर्वेषां च विपचद्भवेत्
- * *
अत्मानं यो विशेषेणस्तौत्यहंकार भाविदः॥ 600
अनादृत्य गुरून् दैवमनिबद्धं च संपदेत्
अवलीप्तोन जानाति दोषमात्मनि संगतम्॥ 601
कुलविद्यातपस्सम्पत्प्रमुखैर्गर्विते नरः
न सुखं न च सौभाग्यं येनात्मान्तूयते स्वयम्॥ 602
तस्मादात्मस्तुतिं कृत्वा नरः पतति निश्चयम्
ततो जन्मशतं प्राप्य मृगयोनौ विशेषतः॥ 603
जायते म्रियतेऽभीक्ष्णं तस्य पापं महद्भवेत्
यस्तु देवगृहं गत्वा वांछत्यपचितिं जनः॥ 604
स तु ति त्तिरितां याति नवजन्मानि पंच च
देवेशस्यतु सेवार्थं वर्णानामानुपूर्व्यशः॥ 605
अधिकारः समाख्यातस्तत्क्रमं न विमानयेत्
विशन्ति गर्भगेहेतु ये वैखानससूत्रिणः॥ 606
गर्भागारे प्रवेष्टव्यो न ह्यवैखानसः क्वचित्
अन्तराले तथा येषां स्थानं तत्तु प्रवक्ष्यते॥ 607
अन्ये द्विजाश्च तिष्ठन्ति यथा स्यादाश्रमक्रमः
ते द्विजास्तत् स्त्रीयश्चाऽपि सेवन्ते तत्र संगताः॥ 608
क्षत्रजाता विशेषण स्थित्वा चैवाऽर्धमंडपे
देवेशमभिसेवन्ते तदीया याश्च योषितः 609
संगताश्शूद्रजाताश्च प्रतिलोमभवाश्चये
महामंडपमास्थाय सेवन्ते पुरुषोत्तमम्॥ 610
अनुलोमभुवश्चैवये चाऽन्ये म्लेच्छजातयः
गोपुराद्बाह्यतः स्थित्वा सेवन्ते मन्दिरं हरेः॥ 611
तारतम्यमिदं ज्ञात्वा सेवेत सततं हरिम्
- * *
देवतानिन्दनं कुर्याद्यस्स पापीन मुच्यते॥ 612
अन्यदेवसमं यस्तु मन्यते पुरुषोत्तमम्
चंडालयोनितामेति नव जन्मानि पंच च॥ 613
अपह्नुत्य पुनर्देवां स्तद्द्रव्यादि हरेत्तु यः
स भवेद्देवहा सत्यं जायते श्वादियोनिषु, 614
तिरस्कृत्य तथा देवान् भगवच्छास्त्रमेव च
कर्माणि स्वेच्छया कुर्यात्सोऽपि स्याद्देवहा नरः॥ 615
कथायां कथ्यमानायां देवस्य मधुविद्विषः
अनादृत्य च ये यान्ति ते नराः पापकारिणः॥ 616
तोयहीनेऽतिरौद्रे च वने वै शून्यवृक्षताम्
जायन्ते सप्तजन्मानि ततश्चंडालतां ययुः॥ 617
देवेषु गोषु विप्रेषु देवागारेषु चैव हि
वहेन्नैवाऽधिपत्यं यन्नासावृद्धिमवाप्नुयात्॥ 618
दोषाश्च बहुला स्तस्मिन्नाऽधिपत्ये स्मृता बुधैः
कामतोऽकामतश्चापि सर्वं तस्य विचेष्टितम्॥ 619
पापायैव भवेत्तस्माद्भूतिकामस्तु तं त्यजेत्
सेवार्थिनां सकाशात्तु बलात्कारेण यः प्रभुः 620
गृह्णीयात्तुकरं सद्यः पतेत्स सह तेन च
देवस्य सन्निधौ भक्तैर्भक्त्यायत्तु समर्प्यते॥ 621
पत्रं फलं वा मूलं वा स्वर्णं वासांसि चेतरत्
दायाद्यमर्चकानां तु यो मोहादपनिह्नुते॥ 622
स्वयं वाऽप्युपयुंजीत स पापी नरकं व्रजेत्
विश्राणयन्ति हरये यद्भक्ता भक्तिभाविताः 623
तन्नाम्ना पूजकानेव जानन्ति फलभागिनः
स्थिरजंगमयोः पूजा यतस्सम्पादिता भवेत्॥ 624
तस्माद्भगवतो नाम्ना दत्तं यद्देवमन्दिरे
विहायाभरणादीनि वासांस्यन्यत्परिच्छदम्॥ 625
देवाऽलंकारयोग्यानि मूल्यवन्ति विशेषतः
अर्चका एव गृह्णीयुः प्रतिबध्नीत नेतरः॥ 626
यस्त्वधीकारगर्वेण देवागारमुपाश्रितः
अकाले सेवितुं चेच्छेत्सोऽपि यास्यति दुर्गतिम्॥ 627
अथ वा सेवितुं चेच्छेत्कारणेनाऽपि केन चित्
उक्तेष्वेव तु कालेषु सेवेत मतिमान्नरः 628
अन्त्यार्चनावसाने यत् कवाटो बध्यते ततः
पुनरुद्घाटनं यावत्प्रत्यूषे च भविष्यति॥ 629
तावन्नैव हरिं सेवेदकालस्स विशेषतः
प्रत्यूषाद्यन्त्यकालान्तपूजनेऽपि तु मन्त्रतः॥ 630
तत्तत्काले कवाटस्य बन्धने विहितेऽपि च
न तदा तावती हानिरवबद्धेऽप्यमन्त्रकम्॥ 631
अथाऽर्चनार्हकालेपि भक्तानां सेवनाय तु
अकाला बहवः प्रोक्तास्तथा यवसिकोदिता॥ 632
तस्मादकालसेवां तु विधिना परिवर्जयेत्
विषयाक्रान्तचित्तानां विष्ण्वर्चनमकुर्वताम्॥ 633
कर्मभूमौ नृणां जन्म कर्माऽपि विभलं ध्रुवम्
यो गुरौ मानुषं भावं शिलाभावं च दैवते॥ 634
मन्त्रेषु जीविकाभावं हिंसाभावं मखेषु च
पूजकेषु च पूजायां नीरसं भावमेति सः॥ 635
सर्वधा निन्दितव्यो हि जीवितं तस्य निष्फलम्
क्षमामन्त्रः
अथ वक्ष्ये विशेषण क्षमामन्त्रविधिं परम्॥ 636
अपचारेषु सर्वेषु यं जप्त्वा मुच्यते नरः
अपराधः कृतो येन जानता स्ववशेन सः॥ 637
क्षमामन्त्रसहस्रस्य जापेनाऽपि न मुच्यते
क्षमामन्त्रस्त्वशेषाघध्वंसनक्षम उच्यते॥ 638
``नारायण नमस्तेऽस्तु नमो भक्तपरायण
नमो नमो नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः॥ 639
अज्ञानादर्थलोभाद्वा रागाद्द्वेषात्प्रमादतः
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 640
संध्ययोश्च दिवा रात्रौ जाग्रत्स्वप्नसुषुप्तिषु
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 641
कायेन मनसा वाचा सर्वैर्वापि समुच्चितैः
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 642
तिष्ठता प्रजता चैव शय्यासनगतेन च
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 643
स्नास्यता जपता वापि यजता जुह्वता मया
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 644
भुजता ध्यायता नूनं विषयानुपसेवता
अपराधाः कृता ये तान् क्षमस्व पुरुषोत्तम॥ 645
मया वा मज्जनैर्वापि मम बन्धुभिरेववा
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 646
राज्ञा वा तदमात्यैर्वा राजभृत्यैरथाऽपिवा
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 647
आचार्येणाऽर्चकेनाऽपि भक्तैर्वापरिचारकैः
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 648
गायकैर्नर्तकैर्वाऽथ वादित्राणां च वादकैः
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम॥ 649
प्रणवादिविसर्गान्तं क्रियासु विधिपूर्वकम्
अमन्त्रमर्चने दोषं क्षमस्व पुरुषोत्तम॥ 650
उद्धानाच्छयना न्तन्तु क्रियासु विविधासु च
श्रद्धालोपकृतं दोषं क्षमस्व पुरुषोत्तम॥ 651
कश्शक्नोत्यर्चितुं देवं त्वामनाद्यन्तमव्ययम्
तस्मादज्ञानचरितं क्षमस्व पुरुषोत्तम 652
प्रार्थये देवदेवं त्वां प्रसीद भगवन्मयि
प्रसीदतु रम् मह्यं तव वक्षःस्थलालया॥ 653
ईशाना जगतो देवी माता नित्यानपायिनी
प्रसीदन्तु सुराः सर्वे प्रसादाद्युवयोर्मयि 654
स्वस्त्यस्तु कृपयाऽस्माकं युवयोः सुप्रसन्नयोः
उपचारापदेशेन कृतानहरहर्मया॥ 655
अपचारानिमान् त्सर्वान् क्षमस्व पुरुषोत्तम
इति विज्ञापयेद्भूयो भक्तिसाध्वसभावितः॥ 656
तदर्थनात्परं प्रीतः प्रसीदति खगध्वजः
क्षमामंत्रमिमं देयान्न चाऽशुश्रूषवे क्वचित्॥ 657
गुह्याद्गुह्यतमो गोप्यस्सर्वदा गुरुभिः सदा
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां
प्रकीर्णाऽधिकारे षट्त्रिंशोऽध्यायः॥