सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/विंशोऽध्यायः

विकिस्रोतः तः
← एकोनविंशोऽध्यायः प्रकीर्णाऽधिकारः
विंशोऽध्यायः
[[लेखकः :|]]
एकविंशोऽध्यायः →

अथ विंशोऽध्यायः॥
रक्षादीपविधिः
अतः परं प्रवक्ष्यामि रक्षादीपविधिक्रमम्
सौवर्णं राजतंवापि ताम्रंवापि स्वशक्तितः 1
द्वात्रिंशदंगुलं श्रेष्ठं मध्यमं पादहीनतः
अधमं विंशदंगुल्यं समवृत्तंतु कारयेत् 2
अष्टदिक्षु च मध्येच चतुर्दिक्षु च वा तथा
केवलं कर्णिकां वाथ कर्णिकायान्तु विस्तृतम्॥ 3
तदर्धमुन्नतं विंद्याद्गंडायामं षडंगुलम्
द्व्यंगुलं तु परीणाहं तदूर्थ्वे भागविस्तृतम् 4
तदर्धं विस्तृतोत्सेधं दीपबात्रं प्रकल्प्य च
अलभेशालिपिष्टं वा गोमये वा समाहरेत्॥ 5
तत्तत्थ्साने तु विन्यस्य पात्रेसंयोजयेत्ततः
आढकं वा तदर्धं वा पिंडार्धं च चरुंपचेत्॥ 6
हारिद्रचूर्ण संयुक्तं पात्रे प्रक्षिप्य मंत्रवित्
आज्येन स्राव्य संमृज्य मुष्टिमात्रं दृढीकृतम्॥ 7
दशपिंडां स्तदर्धं वा साक्षते च समाहरेत्
जलेन कुंभमापूर्य सर्वगन्धसमायुतम्॥ 8
कुशकूर्चान्विनिक्षिप्यपल्लवैरपि भूषयेत्
अष्टमंगलसंयुक्तं पाद्याचमनसंयुतम्॥ 9
पुष्पगंधसमायुक्तं धूपदीपार्घ्य संयुतम्
पृधक्पात्रे समाहृत्य देवदेवं च पूजयेत्॥ 10
शंखध्वनिसमायुक्तं वंशध्वनिसमायुतम्
भेरीमृदंगसुषिरवाद्यघोषसमायुतम् 11
स्तोत्रध्वनिसमायुक्तं स्वक्तिसूक्तसमन्वितम्
दासीभिश्चाऽथ वा भक्तैस्स्वहस्तोपरि धारयेत्॥ 12
प्रदक्षिणं शनैर्गत्वा देवालयमुपाव्रजेत्
आचार्यं पूजयित्वातु देवदेवं प्रणम्यच॥ 13
रक्षादीपं समादाय `श्रिये जात' इति ब्रुवन्‌
बिंबमूर्ध्नि तु संयोज्यत्रिः प्रदक्षिणमाचरेत्॥ 14
दिक्पिंडं तु विसृज्यैव प्रोक्षयित्वा च मन्त्रवित्
प्रदक्षिणं प्रणामं च कारयेदष्टमंगलैः, 15
पाद्यमाचमनं दत्वागन्धपुष्पादिभिर्यजेत्
मुखवासं च दत्वातु स्तुतिमन्त्रैश्च वैष्णवैः॥ 16
समालभ्यैव हस्ताभ्यां पुष्पदूर्वांकुराक्षतैः
पादेपुष्पांजलिंकुर्यात्कुर्याद्देवस्य मन्त्रतः॥ 17
आलयात्तु बहिर्गत्वा पीठपार्श्वेतु निक्षिपेत्
कौतुके बलिबेरेपि स्नापने प्यौत्सवेऽपि च, 18
प्रादुर्भावे च सर्वेषामाविर्भावे तथैव च
एवमेव तु कृत्वा तु भ्रामयित्वा विचक्षणः, 19
चक्रवीशामितादीनामिंद्रादीनां तथैव च
दर्शनं भ्रामणं चैवमाचरेच्छास्त्रवित्तमः॥ 20
मोहादज्ञानतः कुर्यात्सर्वहानिर्भविष्यति
सायाह्ने चत्रिपूजान्ते चोत्सवान्ते च नित्यशः॥ 21
एवमेव विधानेन कारयेदुत्तमं विदुः
सर्वशान्तिकरं चाऽपि सर्वकंपत्समृद्धिदम्॥ 22
दारिद्य्रादिविनाशेन सर्वान्‌ कामनवाप्नुयात्

  • * *

अतःपरं प्रवक्ष्यामि शिबिकानां तु लक्षणम्॥ 23
मात्रांगुलेन वाकुर्याच्छिभिकादीन्विधानतः
आवृतं तदर्धविस्तारमुत्तमं तुविधीयते॥ 24
तत्‌ षडंगुलहीनन्तु मध्यमंतुप्रकीर्तितम्
विस्ताराध्यर्धपादेन ायामद्विगुणं भवेत्॥ 25
उत्तमाधममध्यानां शिबिकाविस्तरो भवेत्
त्रिभागैकस्य भागं स्याच्चतुर्भागैकभागिकम्॥ 26
पंचभागैकभागं स्याद्विस्तारस्य घनं भवेत्॥
तच्चतुर्भागमेवं स्यादेकैकं वमनं भवेत्॥ 27
शेषभागं तु पद्मोक्तं तलायुक्ति विशेषतः
शिबिकाविस्तृतं चैवं भागैकं भागमेव च॥ 28
तच्चतुर्भागमेवोक्तं भित्त्युत्सेधं विधीयते
द्वितलं त्रितलं चैव गुळिकाफलकाभवेत् 29
गुलिकापादतलोत्सेधं मध्योर्ध्वतलवत्समम्
चतुर्भागैकमेवन्तु नवभागैकमेव वा॥ 30
अंगुलं चांगुलार्थं च ऊर्थ्वपट्ट्या च संयुतम्

  • * *

अतःपरं प्रवक्ष्यामि रथादीनां विधिक्रमम्॥ 31
पंचषट्सप्ततालं वा चाष्टतालमथाऽपि वा
विस्तारायममेवं स्यादुत्सेधं द्विगुणं भवेत्॥ 32
मंडपद्वारयुक्तं वा कूटाकारमथाऽपि वा
अधराधरमायामं रथायामत्रयं भवेत्॥ 33
छत्रस्यायामविस्तारादुत्सेदार्धप्रमाणतः
एवं तु परिकल्प्यैव शिबिकायाममुच्यते॥ 34
रथायामसमं वाऽपि पादहीनमथार्थकम्
विस्तारं तत्त्रिभागै कमायामं चोच्छ्रयं भवेत्॥ 35
विस्तारार्धसमुत्सेधं विस्तारार्थाधिकायतम्
शयनं संप्रकल्प्यैव पूर्वोक्तेनैव दारुणा॥ 36
सर्वालंकारसंयुक्तं सर्वसौंदर्यसंयुतम्
शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कालयेद्बुधः॥ 37
पंचगव्यैस्सुसंशोध्य वास्तुहोमश्च हूयताम्
पर्यग्नि चैव कृत्वातु कलशैस्स्नापये त्ततः 38
मंडपे वा प्रपायां वा स्थंडिले वात्र विन्यसेत्
नवैर्वस्त्रैस्समावेष्ट्य पुण्याहमपि वाचयेत्॥ 39
जौपासनाग्निकुंडं च कारयित्वा विधानतः
आघारं पूर्ववत्कृत्वा कुंभपूजां समाचरेत्॥ 40
वैष्णवं विष्णुसूक्तं च तत्तद्देवांश्च मूर्तिभिः
व्याहृत्यन्तं च हुत्वा तु अन्तहोमश्च हूयते॥ 41
यानादिषु च तन्मध्ये तत्तद्देवां स्तथैव च
आवाह्यैव समभ्यर्च्य देवदेवं प्रणम्य च॥ 42
पाद्याद्यर्घ्यान्तमभ्यर्च्य हविस्सम्यङ्निवेदयेत्
सर्वालंकारसंयुक्तं सर्ववाद्यसमन्वितम्॥ 43
यानादिषु समारोप्य `प्रतद्विष्णु'रिति ब्रुवन्‌
ग्रामं वा प्यालयं वाऽपि प्रदक्षिणमधाऽचरेत्॥ 44
मंदिरं संप्रविश्यैव स्वेस्वेस्थाने निवेशयेत्
एवं यःकुरुते भक्त्या वैष्णवं पदमाप्नुयात्॥ 45

  • * *

अतःपरं प्रवक्ष्यामि प्रपामंडपलक्षणम्
मंडपं त्रिविधं ज्ञेये विमानसमविस्तृतम्॥ 46
अर्धं पादं तु पादं वा हीनन्तु त्रिविधं भवेत्
प्रमुखे तस्यसोपानमालयार्धमिति स्मृतम्॥ 47
पूर्वेतु स्नपनार्थाय मंडपं संप्रकल्पयेत्
षोडशस्तंभयुक्तं वा द्वादशस्तंभसंयुतम्॥ 48
ऐशान्ये वा प्रकुर्वीत स्नपनार्थं प्रकल्पयेत्
प्रथमावरणे वाऽथ द्वितीयावरणेऽथ वा॥ 49
एकादशेन हस्तेन समं सम्यक्‌ प्रकल्पयेत्
नवहस्तं सप्तहस्तं पंचहस्तमिति त्रिधा॥ 50
प्रथमावरणे बाह्ये मंडपन्तु विधीयते
आस्थानवृत्तगेयादिदर्शनार्थं प्रकल्पयेत्॥ 51
पूर्ववत्प्रमुखे कुर्याद्यथाविभवविस्तरम्
यजमानस्य हस्तेन द्विहस्तन्तु विवर्धयेत्॥ 52
पूर्ववत् स्तंभसंयुक्तं यथायोग्यं प्रकल्पयेत्
तत्बूर्वदिशि शालायां नृत्तार्थन्तु विधीयते॥ 53
विष्कंभं नवहस्तं वा आयामं द्विगुणीकृतम्
यजमानेच्छया तत्र द्विहस्तन्तुविवर्धयेत्॥ 54

  • * *

अयादिलक्षणं वक्ष्ये यजमानानुकूलतः
हस्तं पादं तदर्धं वा विस्तारायादिसंयुतम् 55
तथैव नूनं कृत्वा तु अयादीन्‌ लक्षयेद्बुधः
शिलाभिरिष्टकाभिर्वा हस्तोच्छ्रयसमं तलम्॥ 56
द्वितलं वा प्रकुर्वीत तालं सम्यक्‌ प्रकल्पयेत्
शैलजं दारुसारं वा स्तंभमाहृत्य यत्नतः 57
वृत्तं वा चतुरश्रं वा ऋजुं वक्रविवर्जितम्
स्तंभानां विंशतिं गृह्य बाह्यस्तंभं प्रगृह्य च॥ 58
तन्मध्ये द्वादशस्तंभं पूर्ववत्कारयेद्बुधः
स्तंभायामं यथायोगं कृत्वा तत्र विचक्षणः 59
द्वितालघन संयुक्तं स्तंभमानेन स्वस्तिकम्
स्तलत्योर्ध्वे विभज्यैव समं वंदत्यप्रकल्पयेत् 60
तस्यामेव तु स्तंभार्थं पादं संस्थाप्य स्वस्तिकम्
दृढं कृत्वा तदूर्ध्वेत स्तंभं संस्थाप्य वै बुधः॥ 61
द्व्यंगुलं च भवैर्वाऽथ वेदिकां कारयेद्बुधः
नानालंकारसंयुक्तं नानाचित्रसमन्वितम्॥ 62
उत्तरं तत्समं कृत्वा बोधिकेतु सुयोजयेत्
स्तंभादूर्ध्वंतु संस्थाप्य तदूर्ध्वे प्रस्तरं न्यसेत् 63
अभ्लन्तरोत्तरादूर्ध्वेऽबिष्टकाऽधानपादयोः
बालोत्तरं यथायोग्यं स्थापयेत्सुदृढं क्रमात्॥ 64
तद्बिल्वको यथामार्गं योग्यं तत्पद्ममुच्छ्रयम्
एवं लक्षणसंयुक्तं दर्शनीयं च कारयेत्॥ 65
यजमानेच्छयातत्तन्मंडपेन सहैव तु
षोडशस्तंभसंयुक्तं द्वादशस्तंभमेववा॥ 66
भक्तियुक्तं प्रकल्प्यैव प्रपां युक्त्यैव कारयेत्
अपरे द्वारसंयुक्तं पूर्ववत् स्तंभमेव वा॥ 67
कवाटं तत्र वा कुर्याच्छेषं यक्त्यैव कारयेत्
शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कारयेद्बुधः॥ 68
मंडपस्य समाप्तौतु अंकुरानर्पयेत्क्रमात्
शुद्ध्यर्थं वास्तुहोमं च पुण्याहं चैव कारयेत् 69
ब्राह्मणान्‌ भोजयेत्पश्चात्तद्देशमुपलक्षयेत्
चरोदये च नक्षत्रे स्थिरराशिं प्रगृह्य च॥ 70
मंडपस्य तु मध्ये वै धान्यपीठानि कल्पयेत्
प्रतिष्ठोक्तक्रमेणैव कुंभन्यासाति कारयेत्॥ 71
पश्चिमे गार्हपत्याग्नावाघारं जुहुयात्क्रमात्
होता हौत्रक्रमेणैव हौत्रं तत्र प्रशंसयेत्॥ 72
तत्तद्देवस्य चावाह्य जुष्टाकारं हुतं चरेत्
श्रीसूक्तं वैष्णपं चैव वैष्णवं चैकविंशतिः 73
इंद्रादिलोकपालानां प्रत्येकं जुहुयात्क्रमात्
तत्तत्‌स्थानेतु कूर्चे वा स्थंडिले वा समर्चयेत्॥ 74
प्रभूतं तु निवेद्यैव द्रोणंद्रोणार्छमेव वा
आचार्यस्यार्चकादीनां दक्षिणां च ददेत्क्रमात्॥ 75
सौवर्णैरुत्पलैः पुष्पैरलंकुर्यात्प्रपां ततः
पद्मैर्वाकुमुदैर्वाऽथ पुष्पैरन्यैस्स्वशक्तितः॥ 76
देवदेवमलंकृत्य वस्त्रमाल्यादिभिः पुनः
प्रपां संयोज्य देवेशं ध्यानेनैव तु सन्नयेत्॥ 77
देवेशं स्थापयेत्तत्र पाद्याद्यैरर्चयेत्क्रमात्
महाहविः प्रभूतं वा यथाशक्ति निवेदयेत्॥ 78
एवं यः कुरुते भक्त्या विष्णुलोके महीयते॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे विंशोऽध्यायः॥

अंथैकविंशोऽध्यायः
विशेषार्चनम्
अथातस्संप्रक्ष्यामि विष्णुपंचदिनानि च
श्रवणं द्वादशी शुक्ले कृष्णे चार्धेच द्वादशी॥ 1
पूर्णिमा चाऽप्यमावास्या पंचैतानि विनानि वै
पूर्वोक्तेन विधानेन अंकुरानर्पयेत्क्रमात्॥ 2
बद्ध्वा प्रतिसरं तत्र पूर्वरात्रौतु शाययेत्