सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/प्रथमोऽध्यायः

विकिस्रोतः तः
प्रकीर्णाऽधिकारः
प्रथमोऽध्यायः
[[लेखकः :|]]
द्वितीयोऽध्यायः →

श्रीयैनमः
श्रीरामचंद्रायनमः
श्रीमद्विघनसमहागुरवेनमः
श्रीमद्भ्योभृगुमरीच्यत्रिकश्यपेभ्योनमः
प्रकीर्णाऽधिकारः॥
अथप्रथमोऽध्यायः॥
श्रौतस्मार्तादिकंकर्म निखिलंयेनसूत्रितम्।
तस्मैसमस्तवेदार्थ विदेविखनसेनमः।
श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसंकुलम्।
विष्णुभक्त्युदकंशुद्धं वन्देवैखानसार्णवम्॥
ऋषिप्रश्योत्तरम्॥
ऋषयऊचुः-
ब्रह्मपुत्रमुनिश्रेष्ठ नमस्तेदेहिनांवर
त्वमेवसर्ववेत्ताऽसित्वमेववदतांवरः॥ 1
ततोज्ञातुंहिविष्णोर्वै भूपरीक्षादिषुक्रमम्
इच्छामस्त्वत्प्रसादेन दीनाश्शिष्यजनाःप्रभो॥ 2
विस्तारज्ञोहिसर्वेषां विस्तराद्वक्तुमर्हसि
केनमार्गेणकैर्मं त्त्रॆःकं देवंपूजयन्नरः 3
कान्‌लोकान्‌समवाप्नोति तत्तवमेतद्वदस्वनः
भृगुरुवाचः-
प्रणम्यदेवदेवेशं चक्रपाणिंखगध्वजम्॥ 4
विस्तारेणप्रवक्ष्यामि श्रुणुध्वंसुसमाहिताः॥
मुहूर्त विचारः
सर्वारंभेप्रशस्तंस्या दादित्येचोत्तरस्थते॥ 5
अप्रशस्तमितिख्यात मयनेदक्षिणेतथा
पुष्यमासादिषण्मासा देवानान्तुदिवास्मृताः 6
यस्मिन्‌मासेकृतंसर्वं विवृद्ध्यर्थमितिस्मृतम्
रात्रिराषाडमासादि रयुक्तस्सर्वकर्मसु 7
प्रथमाचद्वितीयाच तृतीयापंचमीतथा
षष्ठीचसप्तमीचाऽपि दशम्येकादशीतथा॥ 8
त्रयोदशीचतिथयः पौर्णमासीशुभास्स्मताः
प्राजापत्याश्वयुक्चौम्य तिष्यपौष्णत्रिरुत्तराः॥ 9
मैत्रादित्यमघास्वाती हस्ताश्चश्रवणंशुभाः
राशयश्चरवर्ज्यास्स्यु रुभीतच्छोभनंस्थिरम्॥ 10
गुरुभार्गवसौम्येंदु वाराश्श्रेष्ठतमास्मृता॥
एषामंशश्चद्रेक्काणहोरादर्शनमिष्यते॥ 11
एषा मेवोदयंशस्तं तत्रसोमोदयंविना
क्रूरेचतुष्यनक्षत्रॆ व्याधिपीडांकरोतिहि॥ 12
सूर्यसौरिश्चसौम्यश्चत्रिषडायस्थिताश्शुभाः
तधैवलग्नगाःकुर्यु र्व्याधिशोकभयानितु॥13
अष्टमस्थाग्रहास्सर्वे कर्तुःकुर्वन्तिदुस्थितिम्
एकादशगतास्सर्वे क्षेमारोग्यकरास्मृताः 14
भयकृद्भार्गवःप्रोक्तोद्विसप्तदशमस्थितः
द्विसप्तपंचनवम स्थितोजीवस्सुशोभनः॥ 15
राष्ट्रस्ययजमानस्य महत्सौख्यंकरोतिहि
सूर्यवारेशुभोविष्णु हस्तपौष्णत्रिरुत्तराः॥ 16
मंदवारेशुभौप्रोक्ता ब्राह्मस्वात्यौचतत्तथा
वर्जयेद्बुधवारेण हस्तमाश्वयुजंतथा॥ 17
गुरुवारेण वर्ज्यौतु तथासौम्योत्तराउभौ
श्रवणंचैवपुष्यंच शुक्रवारेणवर्जयेत्॥ 18
उत्तराषाढानक्षत्रं सोमवारेतु शोभनम्
द्वितीयाबुधयुक्ताच षष्ठीजीवसमायुता॥ 19
सोमएकावशीयुक्तः करोतिप्राणसंशयम्
पौष्णस्तुसप्तमीयुक्तो दहत्यग्निरिवप्रजाः 20
काणस्तूणांधनक्षत्र गुरुविषीर्विवर्जयेत्
भूमिकंपेदिशांदाहे दुर्दिनेचंडमारुते॥ 21
अशनिध्वनियोगेच निन्दितंदिवसंस्मृतं
अयनेविषुवेचैव संत्याजंग्रहणीतथा॥ 22
षडशीतिमुघेवापि कृतंवास्तुविनश्यति
एवंपरीक्ष्यकर्तव्य मिच्छेच्चेच्छ्रेयआत्मनः॥ 22
कर्,णादिप्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः
अथभूमिंपरीक्ष्यैव पूर्वंकर्षणमारभेत्॥ 23
भूपरीक्षा
श्वेतातुब्राह्मणीभूमी दक्तातु क्षत्रियातथा
पीतातुवैश्याकृष्णातु शूद्राभूमिरुदाहृता॥ 24
मोक्षदाब्राह्मणीप्रोक्ता क्षत्रियाविजयप्रदा
वैश्यातुधनदाभूमि श्शूद्रापुत्रसमृद्धिदा॥ 25
प्रतिलोमादिभिर्जुष्टां वल्मीकाढ्यंचवर्जयेत्
हस्तमात्रंखनित्वातु पूरये त्तत्तुपांसुना॥ 26
अधिकेपुष्कलाभूमि र्न्यूनेवर्ज्यासमेसमा
गुप्तंत्रिरात्रेंऽकुरति ग्राह्यभूमिस्तुनाऽन्यथा॥ 27
पद्मंकुंभस्थतोयेन पूरितेतत्कृतावले
मुख्यंप्रदक्षिणावर्त मुदकंशास्तबुद्बुदः॥ 28
सव्यावर्तंतथानेष्ट मुदकंबहुबुद्बुदः
उत्तानपद्मकंग्राह्यं नत्वधोमुखपद्मकम्॥ 29
एवंपरीक्ष्यगृह्णीयात्पुण्याहमपिवाचयेत्
एवंपरीक्ष्यबहुधा कुर्यात्कर्षणमुत्तमम्॥ 30
कर्षणम्
श्वेतौवाकपिलौवाथ नांगङीनौवृषौतथा
अथवानाऽन्यवर्णौवा अरोगौबलशालिनौ॥ 31
क्षीरवृक्षयुगंबद्ध्वा शमीवृक्षयुतंतथा
असनंखदिरंवाऽथ हलंकृत्वासनेहकं॥ 32
यन्त्रयित्वायुगेनाऽथ गोवालकृतरज्जुना
तस्यपश्चिमदेशेतु प्रपांकृत्वाविधानतः॥ 33
धान्यपीठानिकृत्वैव त्रिवेदिसहितंक्रमात्
पुर्वंदेवेशमभ्यर्च्य चक्रंपश्चात्समर्चयेत्॥ 34
विष्वक्चेनंचगरुडं समभ्यर्च्यनिवेदयेत्
वास्तुयज्ञंचहुत्वातु पुण्याहमपिवाचयेत्॥ 35
तोयधारांपुरस्कृत्य प्रादक्षिण्यवशेनतु
अचार्योऽहतवस्त्रेण चोत्तरीयांगुलीयकै॥ 36
अलंकृत्यविधानेन श्वेतमाल्यानुलेपनैः
समादायवृषंतत्र ``त्वंवृषभइतिब्रुवन्॥37
वृषभंदक्षिणेयोज्य``सौरभेय इतिब्रुवन्
ततस्संयोजयेत्पश्चा द्बलीवर्दौबलान्विता॥ 38
``युगंयुगश्रुंगमिति योजयेच्चहलंपुनः
``ऋषिंगृह्णा मितिमन्त्रेण ऋषिंसम्यक् प्रगृह्यच 39
``विष्णुर्मांरक्षत्वितिच स्वात्मरक्षांसमाचरेत्
``येऽस्मिन्‌देशेजीवन्त इत्याश्रितांश्चविसर्जयेत् 40
``हलकृष्टेतिमन्त्रेण दारयेत्तामिलांशुभाम्
कर्षयेद्वैष्णवैर्मन्त्रैः प्रागुदक्पृवणांमहीम्॥ 41
ततःकर्षकमाहूय सर्वत्रैवतुकर्षयेत्
अयार्यंपूजयित्वातु तथैवसहलौवृषौ॥ 42
प्रथमंकर्षणं कृत्वा द्वितीयं कर्षणंचरेत्
बीजंसर्वंसमादाय प्रोक्षणैःप्राक्षणंचरेत् 43
``इमेबीजाःप्ररोहेति सप्तग्राम्याण्यतःपरम्
वापयित्वातुबीजानि ``देवित्वयि समुच्चरन् 44
``दुहतांउहदिव मित्युक्त्वातो यंतत्रसमर्पयेत्
रक्षांसम्यग्विधायात्र चाचार्यमभिपूजयेत्॥ 45
``सस्याइमेतिमन्त्रेण सस्यंपक्वंप्रणम्यच
विष्वक्चेनादिभिर्मंत्रैश्शान्तंचापिसमर्चयेत्॥ 46
``शुद्धाइमेतिमन्त्रेण गोभ्यस्सम्यङ्निवेदयेत्॥ 47
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाधिकारे प्रथमोऽध्यायः॥