सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/पञ्चविंशोऽध्यायः

विकिस्रोतः तः
← चतुर्विंशोऽध्यायः प्रकीर्णाऽधिकारः
पञ्चविंशोऽध्यायः
[[लेखकः :|]]
षड्विंशोऽध्यायः →

अथ पंचविंशोऽध्यायः॥
उत्सवविधिः
अथोत्सवविधिं वक्ष्ये देवदेवस्य शार्ङिणः
आरंभदिवसात्पूर्वं यजमानो मुद्न्वितः 1
पूर्वोक्तगुणसंपन्नं वरयित्वा गुरुं तथा
द्विगुणाराधनायैकमेकं कुंभार्चनाय च॥ 2
होमार्थं बलिदानार्थं तथा स्थानार्चनाय च
वृणेत्पदार्थिनः पंच तावतः परिचारकान्‌॥ 3
आचार्यमुपसंगम्य संपूज्य च विधानतः
`कर्मेदं मे कुरु'ष्वेति याचयेद्विनयान्वितः॥ 4
आचार्य स्सह शिष्यैस्तु कृत्वा केशादिवापनम्
स्नात्वा स्नानविधानेन धृत्वा धौतं यथाविधि॥ 5
ऊर्ध्वपुंड्रधरस्सम्यक् संध्यादीन्‌ समुपास्य च
ब्रह्मयज्ञं च कृत्वैव तथा देवर्षि तर्पणम्॥ 6
जपेद्द्वादशसूक्तानि नारायणमथाऽरुणम्
आलये संप्रविश्यैव देवेशं संप्रणम्य च॥ 7
देवं विशेषतोऽभ्यर्च्य कार्यं तस्मै निवेदयेत्
यजमानोऽपि धर्मात्मा नित्यकर्म समाप्यच॥ 8
देवालयं प्रविश्चैव पुण्याहं कारयेत्ततः
श्रीवैखानस सूत्रोक्त मधुपर्मविधानतः॥ 9
आचार्यमृत्विजश्चैव संपूज्य विधिना ततः
अलंकुर्याच्च गंथाद्यैर्धूपदीपादिभिस्तथा॥ 10
नववस्त्रोत्तरीयाद्यैस्तथा पंचांगभूषणैः
पंचांगभूषणं वक्ष्ये यथा कुर्यादतन्द्रितः॥ 11
दशनिष्कप्रमाणेन कुंडलाभरणं पृथक्
षण्णिष्कमानं कटकमंगदं चांऽगुलीयकम्॥ 12
एकविंशतिनिष्काढ्यं कटीसूत्रं सलक्षणम्
तदर्धांशप्रमाणेव ग्रीवाऽलंकरणं पृथक्‌॥ 13
अष्टनिष्क प्रमाणेव यज्ञसूत्रं च कारयेत्
अनेन विधिना कुर्याद्गुरोरर्धार्धमृत्विजाम्॥ 14
आचार्यः प्रोक्ष्यचाऽत्मानं यजमानमथर्त्विजः
प्राश्नीयात्पंचगव्यं च पदार्थिभ्यश्चसादरम्॥ 15
यजमानाय दद्याच्च मंत्रपूर्वं विशेषतः
ततः पद्माग्निमाधाय परिषिच्य च पावकम्॥ 16
यद्देवादि चतुस्सूक्तान्याज्येन जुहुयाद्गुरुः
वैश्वानरेण सूक्तेन चोपतिष्ठेद्धुताशनम्॥ 17
क्षपयित्वा ततः पापं कर्मार्हास्ते भवन्त्यतः
कूश्मांडहोम इत्युक्तस्सर्वपापप्रणाशनः॥ 18
तत्काने दीक्षितास्सर्वे विधिमंत्रपुरस्सरम्
बद्ध्वा प्रतिसरं हस्ते पश्चात्कुर्युःक्रियामपि॥ 19
ततःप्रभृति सर्वे ते शुद्ध दन्तनखास्तथा
हविष्यभोजिनो दान्ता स्त्रिकालस्नायिनोऽपि च 20
जितेंद्रिया भवेयुस्ते तथा ऽधश्सायिनोऽपि च
स्त्रीशूद्राभ्यामसंभाष्य नारायणपरायणाः॥ 21
यावत्कालं भवेद्दीक्षा तावच्छुद्धा इमे स्मृताः
सूतके मृतके वाऽपि तेषां नाशौच इष्यते॥ 22

  • * *

अथवक्ष्येंऽकुरार्थन्तु मृत्तिकाग्रहणे विधिम्
शान्त चक्रे समभ्यर्च्य हवींष्यपि निवेद्य च॥ 23
विष्वक्सेनं समादाय यानमारोप्य नाथवत्
आचार्यः पुरतोगच्छे `द्विष्णुर्मा'मिति चोच्चरन्‌॥ 24
चक्रस्य पश्चाद्गच्छेयुराचार्येण समन्विताः
आदर्शहेमकलशपूर्णकुंभांऽकुरादिभिः॥ 25
ध्वजत्रयादिकान्‌ सर्वान्‌ पुरस्कृत्य पदार्थिनः
प्राच्यां सर्वसमृद्धिस्स्यादाग्नेय्यां धान्यनाशनम्॥ 26
याम्ये जनविनाशस्स्यान्नैर्‌ऋत्यां धननाशनम्
अनावृष्टिश्च वारुण्यां राजकोपश्च पावने॥ 27
सौम्ये पुत्रसमृद्धिस्स्या दैशान्यां सुखदं भवेत्
एतानां तु दिशां मध्ये प्रशस्तां शुद्धमृत्तिकाम्॥ 28
आचार्यस्साधनैर्युक्तो दिशं गत्वा सशिष्यकः
ग्रामदेवालयादारादारामेऽत्र मनोरमे॥ 29
नदीतटाकतीरे वा सीमामनतिलंघ्य च
प्रार्ध्य भूदेवतामंत्रै श्शुद्धे देशे मृदं हरेत्॥ 30
वीशाऽमितौ च चक्रं च स्थापयेत्प्राङ्मुखान्‌ बुधः
प्राङ्मुखश्चोपलिप्यैव वृत्ताकारं समुल्लिखेत्॥ 31
तत्र स्थानं च संप्रोक्ष्य `दधि क्राव्‌ण्ण'उच्चरन्‌
भूरूपं तु लिखित्वैव `भूमिर्भू'म्नेति च ब्रुवन्‌॥ 32
ऊर्ध्ववक्त्रां च शयितामैशान्यां न्यस्तमौळिकाम्
देवीं महीं तामभ्यर्च्य प्रोक्षणैः प्रोक्षणं चरेत्॥ 33
एकादशोपचारैश्च मूर्तिमंत्रैस्समर्चयेत्
पुण्याहं वाचयित्वातु मेदिन्यादि समुच्चरन्‌॥ 34
खनित्रे शेषमभ्यर्च्य वस्त्राद्यैस्समलंकृते
ललाटे सर्वदोषघ्नं बाह्वोर्बहुसुखप्रदम्॥ 35
स्तनद्वये वयोवृद्धिर्जठरे सर्वसंपदः
अधोभागे मृदं तस्या नाऽहरेत कदाचन॥ 36
एवं संकल्प्य मनसा मेदिन्यादि तदा ब्रुवन्‌
`त्वां खना'मीति मन्त्रेण वाराहं मनसा स्मरन्‌॥ 37
उभाभ्यांचैव हस्ताभ्यां खनित्रेण खनेद्बुधः
महीं देवीमनुज्ञाप्य खनित्वा तालमात्रकम्॥ 38
अपोह्यैव च तत्सर्वं तदधस्थ्सां मृदं हरेत्
वैष्णवं मंत्रमुच्चार्य तत्रकार्यं समाचरेत्॥ 39
पात्रमध्ये सुसन्न्यस्य पूर्ववच्छिरसिन्यसेत्
पश्चाद्देवीं समुद्वास्य चाऽपटं तत्र पूरयेत्॥ 40
शिरसा धारयित्वातु पुरस्ताच्चक्रशान्तयोः
ग्रामं प्रदक्षिणं कृत्वा देवालयमुपाव्रजेत्॥ 41
पूर्वस्मिन्नुत्तरे पार्श्वे वांऽकुरानर्पयेत्तधा
चक्रादीनभिषिच्यैव हविस्सम्यङ्निवेद्य च॥ 42
स्वेस्वेस्थाने तु संस्थाप्य पश्चाद्यागं समारभेत्
अलयाभिमुखे वाऽपि दक्षिणे वा मनोरमे॥ 43
यमपावकयोर्मध्ये पावकांऽशेऽथ वा चरेत्
ऐशान्यां वाऽथ वा केचित्सोमेशानान्तरे तथा॥ 44
कल्पयेद्यागशालां च प्रतिष्ठोक्तविधानतः
वेदिं तन्मध्यमे पंक्तौ वेदिमानेन कारयेत्॥ 45
प्रतिष्ठाद्यर्धमानं वा रत्निमात्रोदयं क्रमात्
पंचाग्नीन्‌ कल्पयेद्धीमानुत्सवे चोत्तमे तथा॥ 46
त्रेताऽग्नीन्‌ कल्पयेद्विद्वान्मध्यमे चोत्सवेक्रमात्
अधमं यदि चेत्सभ्यं कल्पयेत्पूर्ववत्सुधीः॥ 47
त्रेताग्निकल्पनं यत्र प्रधानं गार्हपत्यकम्
उभयोरन्ययोस्सभ्यं प्रधानं कल्पयेत्तथा॥ 48
भूमियज्ञेव सर्वत्र शोधयेच्च यथाविधि
देवं देव्यौ समादाय स्नानश्वभ्रे गुरूत्तमः॥ 49
`परं रं'हेति मंत्रेण स्थापयेच्च विशेषतः
नित्यस्नानोक्तमार्गेण स्नापयित्वा हरिं परम् 50
आस्थाने विष्टरं न्यस्य तदूर्ध्वे वस्त्रमास्तरेत्
देवं देव्यौ समादाय श्वेतवस्त्रैर्विभूष्य च॥ 51
कुंडलांऽगदहारादिभूषणैरपि भूषयेत्
श्वेतमाल्यैरलंकृत्य श्वेतगंधानुलेपनैः॥ 52
पवित्रं चोत्तरीयंच गत्वा देवं प्रणम्य च
राजवच्चोपचारादीनाचरेद्दॆशिकोत्तमः, 53
नवकुभारोपणम्
पूर्वोक्तविधिना धीमान्‌ नव कुंभान्‌ प्रगृह्यच
`इंद्रं नरो न'इत्युक्त्वातंतुना वेष्टयेत्तथा 54
वेद्यामुपरिपूर्वोक्तधान्यान्यास्तीर्य मंत्रवित्
चतुस्सूत्रैर्नवपदं कृत्वा कुंभांश्च विन्यसेत्॥ 55
कुंभानद्भिः प्पपूर्यैव कुशकूर्चाऽक्षतादिकान्‌
मंगलान्यायुधं रत्नं प्रतिकुंभं पृथक्‌ पृथक्‌ 56
गायत्य्रा चैव निक्षिव्य मध्यकुंभे विशेषतः
द्व्यंगुलेन प्रमाणेन स्रुगादीन्यपि पूर्ववत्‌ 57
हानकॆनैव कृत्वा तु विष्णुसूक्तेन निक्षिपेत्
आवेष्ट्य वस्त्रयुग्मेन सर्वानपि पृथक् पृथक् 58
वेद्या मधस्तात्पूर्वेतु वीशं वै पश्चिमामुखम्
सन्न्यस्य दक्षिणे पश्चाच्चक्रं चैवोत्तरामुखम् 59
पंक्तीशं प्राङ्मुखं पश्चात्पश्चिमे चोत्तरेऽथ वा
दक्षिणाऽभिमुखं शान्तं स्थंडिलोपरि सन्न्यसेत्॥ 60
अभावे गरुडादीनां स्थाने तत्र च तत्र च
कुंभांत्सन्न्यस्य तन्मध्ये ध्यात्वैवाऽवाहयेत्क्रमात्॥ 61
यावत्तीर्थाऽवसानं स्यात्तावत्कुंभेतु पार्षदान्‌
सायं प्रातर्विशेषेण पूजयेद्विधिवत्सुधीः 62
पश्चात्सभ्याऽग्निकुंडे तु विधिनाऽघार माचरेत्
उत्तराभिमुख स्तिष्ठन्‌ कुरुर्वेद्यास्तु दक्षिणे 63
प्राणायामं ततःकृत्वा पूर्ववद्ध्यानमाचरेत्

  • * *

प्रधानकुंभमध्ये तु विष्णुं देव्यौ च साऽन्वयौ॥ 64
ध्रुवादावाहयेन्मंत्री प्रागादिषु यथाक्रमम्
पुरुषं कपिलं सत्यं यज्ञमच्युतमेव च 65
नारायणं चाऽनिरुद्धं ततः पुण्यं समर्चयेत्
तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहम् 66
किरीटहारकेयूरलंबयज्ञोपवीतिनम्
कौस्तुभोद्भासितोरस्कं श्रीवत्सांकं चतुर्भुजम् 67
दक्षिणेनैकहस्तेन भक्तानामभयप्रदम्
वामेनाऽप्यन्यहस्तेन स्वकट्यामवलंबितम्॥ 68
पराभ्यां तु कराभ्यां तु शंखचक्रधरं परम्
शुकपिंछांबरधरं विष्णुं प्रणवरूपिणम्॥ 69
तप्तहाटकसंकाशां पद्मपत्रायतेक्षणाम्
तिसृभिःपुष्पचूडूभिर्ललाटोपरि शोभिताम् 70
सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीम्
प्रसारितेतरकरां प्रसन्नेंदुनिभाननाम् 71
श्रीवत्सांकितबीजान्तां फाल्गुनेचोत्तरोद्भवाम्
विष्णोर्दक्षिणपार्श्वस्थां हंसनिर्याख्यवाहिनीम् 72
वामभागे महीं श्यामां सर्वाभरणभूषिताम्
वैशाखे रेवतीजातां दधतीं दक्षिणेंऽबुजम्॥ 73
प्रसारितेतरकरां प्रसन्नेंदुनिभाननाम्
महाचातकमारूढां लक्ष्नीपूर्वाक्षराऽन्विताम् 74
पुरुषः प्राङ्मुखोऽच्छाभः पीतवासाश्चतुर्भुजः
शंखचक्रधरश्श्रीमान्‌ सर्वाभरणभूषितः॥ 75
वरदोऽभयदः प्राच्यां श्रीभूमिसहितो हरिः
कपिलः प्राङ्मुखोऽच्छाभो रक्तवस्त्रोऽष्टबाहुयुक्‌॥ 76
दक्षिणेनैकहस्तेव भक्तानामभयप्रदः
अन्यैश्चक्राऽसिहलभृत्सर्वाभरणभूषितः 77
वामेनाऽप्यन्यहस्तेन स्वकट्यामवलंब्य च
अन्यैश्संखधनुर्दंडधरस्सुंदर विग्रहः॥ 78
आग्नेय्यां दिशि गायत्य्रा सावित्य्रा च युतो हरिः॥
सत्योयाम्यमुखश्श्रीमानंजनाभश्चतुर्भुजः 79
शंखचक्रधरस्यौम्यस्सर्वाभरणभूषितः
वरदोऽभयदस्साधूरक्तवासा महाहनुः॥ 80
देवीभ्यां धृतिपौष्णीभ्यां युतो याम्यदिशि प्रभुः
यज्ञः पश्चिमदिग्वक्त्रस्तप्तचामीकरप्रभः॥ 81
सप्तहस्तश्चतुश्श्रुंगो रक्तवासा द्विशीर्षकः
शंखचक्राऽज्यपात्रस्रुक्स्रुवानुपभृतं जुहूम्॥ 82
बिभ्रत्त्रिपादो नैर्ऋत्यां देवस्स्वाहास्वधायुतः
अच्युतः पश्चिमाशास्यः कनकाभश्चतुर्भुजः 83
शंखचक्रधरश्श्रीमान्‌ सर्वाभरणभूषितः
वरदोऽभयदस्साक्षी सर्वकर्मफलप्रदः 84
युक्तःपवित्रीक्षोणीभ्यां प्रतीच्यां श्यामलांबरः
नारायणः पश्चिमास्यस्स्फटिकाभश्चतुर्भुजः॥ 85
शंखचक्रधरश्श्रीमान्‌ सर्वाभरणभूषितः
वरदोऽभयदश्श्यामांबरश्श्रीवत्सचिह्नितः॥ 86
संयुतः कमलेलाभ्यां वायव्यां जगतां पतिः
अनिरुद्ध उदीच्यास्यः प्रवालाभश्चतुर्भुजः 87
अनंतोत्संग आसीनः पुष्पांबरधरो हरिः
शंखचक्रधरश्श्रीमान्‌ सर्वाभरणभूषितः॥ 88
दधत्स्वदक्षिणे वामे प्रमोदादायिनीं महीम्
वरदोऽभयदो देव उदीच्यां सर्वसिद्धिदः॥ 89
पुण्यःप्रागाननश्श्रीमां स्तरुणादित्यसन्निभः
श्रीवत्सवक्षा नित्यश्रीस्सर्वाभरणभूषितः॥ 90
चतुर्भुजश्शंखचक्रवरदाऽभयचिह्नितः
श्वेतवस्त्रोत्तरीयोपवीताद्यैस्समलंकृतः 91
इंदिराधरणीनाथ ईशान्यां पुण्यपूरुषः
एतान्‌ देवान्‌ समावाह्य समभ्यर्च्याऽष्टविग्रहैः॥ 92
वीशाऽनसायिपंक्तीशशांतान्‌ दिक्ष्वर्चयेत्क्रमात्
सायं प्रातर्विना कुंभैर्देवं वीशाऽमितैस्सह॥ 93
वेद्यामेव प्रतिष्ठाप्य पूजयेदिति के च न
हौत्रप्रशंसनम्
होता पश्चात्प्रधानाऽग्नौ हौत्रशंसनमाचरेत् 94
प्रतिष्ठोक्तक्रमेणैव तदालयगतान्‌ सुरान्‌
अवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेत्॥ 95
परिषिच्य पावकं पश्चाद्वैष्णवं जुहुयात्क्रमात्
वेद्यान्तु पश्चिमे वाऽथ वायव्यां वा विशेषतः॥ 96
स्थिंडिलं कल्पयित्वाऽत्र चास्तरेदंडजादिकान्‌
यजमानसमायुक्तो गुरुर्देवं प्रणम्य च॥ 97
कुसुमांजलि मुत्सृज्य `प्रतद्विष्णुं'रिति ब्रुवन्‌
देवीभ्यां सह देवेशमादाय स्थंडिलोपरि॥ 98
प्राङ्मुखं चैव संस्थाप्य पूजयेदष्टविग्रहैः
उत्सवप्रतिमाभावे स्नापने वा विशेषतः॥ 99
स्नपनस्याव्यभावे तु कौतुके चाचरेत्तु वा
कौतुके यदि चेद्देव्यौ नैवादाय तथा चरेत्॥ 100
नादरेन्नित्यवैकल्यं विसर्गावाहने तथा
आचरेदुत्सवं विद्वान्नित्यार्चांतु यथाक्रमम्॥ 101
कुर्याच्चेन्नित्यवैकल्यं सर्वनाशो भवेद्ध्रुवम्॥
स्नापयेद्यदि चेद्विद्वान्‌ मध्यमे चोत्सवस्य तु 102
स्नपने यदि संप्राप्ते कौतुके स्नपनं चरेत्
स्नापनप्रतिमाभावे स्नपनं यदि चोत्सवे 103
संप्रास्ते स्नपने चाऽत्र कौतुके चोत्सवं विना
अचरेदेव सांकर्यं नाचरेदुभयोरपि॥ 104
उत्सवे वर्तमाने तु कौतुके स्नपनं यदि
संभवेदुक्तकाले तु कर्मणी द्वे समाचरेत्॥ 105
पुराप्रवृत्तकार्ये तु दोषो नाऽनेन संभवेत्
कातुके चेद्यथै काऽग्नौ बहुकर्मवदाचरेत्॥ 106
गृहे त्रेताग्नि वन्नित्यं प्रणीयारोपणं विना
स्नापनोत्सवभेदे तु कौतुकेन दिनं दिनम् 107
अरोहणं यदि भवेद्द्रुवे तत्कर्म पूर्वतः
आवाह्य कर्ममामन्ते तथा साये विसर्जयेत् 108
पात्र रावाहनं नित्यमर्चनादौ विशेषतः
विसर्गं सायमर्चान्ते कौतुके तु यथा तथा॥ 109
तथैवौत्सवदीक्षान्ते समावाह्य ध्रुवात्सुधीः
विसर्गं नाचरेन्मध्ये दीक्षान्तेतु समाचरेत्॥ 110

  • * *

अर्चनान्ते विशेषेण पुण्याहमपि वाचयेत्
हेमपात्रे तु सौवर्णं कौतुकं तंडुलोपरि॥ 111
सन्न्यस्य पूर्ववद्धीमान्‌ बंधयेद्दक्षिणेकरे
कुंभान्‌ देव्यौच चक्रादीन्‌ समाबद्ध्य समर्चयेत्॥ 112
परिषिच्य पावकं पश्चाद्वैष्मवं विष्मुसूक्तकम्
जुहुयात्पौरुषं सूक्तं श्रीभूसूक्त समन्वितम् 113
दिनसंध्याधिदैवत्यं तिथिवारर्क्षदैवतम्
तथा मासाधिदै वत्यमब्ददै वत्यमेव च॥ 114
तदालयगतानां च जुहुयान्मूर्तिभिः क्रमात्
व्याहृत्यन्तं प्रधाने स्यात्तत आहवनीयके॥ 115
नृसूक्तं दक्षिणाऽग्नौ च वैष्णवं तथा॥ 116
अवसथ्ये महीसूक्तमेकाक्षरमतो यजेत्
जुहुयात्पौंडरीकाग्ना `वतो देवादि' वैष्णवम्॥ 117
विष्णुसूक्तं पुरुषसूक्तं `यद्देवादि'समन्वितम्
पारमात्मिक मंत्रांश्च ब्राह्ममैंद्रं च वारुणम् 118
जुहुयाद्विष्णुगायत्य्रा श्वेताब्जं च घृताप्लुतम्
अष्टोत्तरशतं चैव सर्वदोषोपशान्तये॥ 119
एकाऽग्निमथ वाऽधाय जुहुयादधमाऽधमम्
सभ्य होमं च पूर्वोक्तं वैष्णवादि विधानतः॥ 120

  • * *

अथोत्सवाधिदैवत्यं विशेषेण प्रवक्ष्यते
ब्राह्ममार्षं तथा रौद्रमैंद्रं सौम्यं च वैष्मवम्॥ 121
सर्वदैवत्ययाम्ये च वारुणं च नवाऽह्निके
आग्नेयं प्राजापत्यं च कौबेरं वैघ्नमेव च॥ 122
श्रीदैवत्यं च कौमारमादित्यं रौद्रमेव च
दौर्गमैंद्रं तथा याम्यं वैष्णवं स्कान्गमेव च॥ 123
ईशान्यं सौम्यमित्येतत्तिथिदैवत्यमुच्यते
तत्तद्द्वारे तु जुहुयान्मत्रैर्द्वाराधिपोचितैः॥ 124
तथा नक्षत्रदैवत्यं जुहुयाद्विधिना बुधः
त्रिसंधिषु हुनेदैन्द्रं सौरं बार्हस्पतं क्रमात् 125
मासर्क्षाधिपदैवत्यं मासदैवत्यमुच्यते
याम्यं च वैष्णवं सौम्यं ब्राह्मं बार्हस्पतं तथा॥ 126
सौम्यमैन्द्रं वारुणं च शेषाग्न्यादित्यभौतिकम्
मारुतं भृगुदैवत्यं वारुणं वैघ्नमेव च 127
रौद्रं कौबेरकं त्वाष्ट्रं मैत्रं कौमारमेव च
सावित्रीं श्रीदैवत्यं चैव गौरीदैवत्यमेव च॥ 128
आदित्यं पैतृकं चैवाऽदिति दैवत्यमेव च
योगदैवत्यमेतत्क्याज्जुहुयाद्विधिना बुधः 129
ऐन्द्रं च प्राजापत्यं च मैत्रमार्यमणं तथा
भूत श्रीयाम्यदैवत्यं भार्गवं वृषदैवतम् 130
कौबेरं वायुदैवत्यं जुहुयात्करणेषु वै
देवेभ्यः पितृभ्यश्चेति पक्षयोश्शुक्लकृष्णयोः॥ 131
सौरं चान्द्रं च जुहुयात्क्रमादयनयोर्द्वयोः
`मधुश्च माधव'श्चेति जुहुयादृतुषु क्रमात्॥ 132
विष्णुः प्रजापतिश्शूली विघ्नेशस्सप्त चर्षयः
अष्टौ लोकाऽधिपाः पंच भूता विश्वंभरादयः॥ 133
वसवोऽष्टौ च रोहिण्यस्सप्त श्रीश्चंडिका गुहः
सूर्यस्सोमश्चिरंजीवी काशीवीशपुरर्दराः 134
चक्रश्शान्तो गुरुर्भौमबुधशुक्रशनैश्चराः
हविःपालो ह्यनस्तश्च गंगा ज्येष्ठा च मातरः 135
प्रभवादि क्रमादेते विज्ञेया वत्सराधिपाः
तथोत्सवाधिदैवत्यं तिथिवारर्क्षदैवतम्॥ 136
चतुर्दैवत्यमात्रन्तु जुहुयादिति के च न
पलाशबिल्वशामीलन्य ग्रोथोदुंबरास्तथा॥ 137
अश्वद्धखदिरप्ल क्षब्रह्मवृक्षाः क्रमादिमे
समिधां ग्राह्य वृक्षान्तु पर्णमश्वद्थमेव वा 138
पद्मं च बिल्वपत्रं च करवीरं कुमुदं तथा
नंद्यावर्तं च तुळसी तथैव स्थलपंकजम्॥ 139
विष्णुक्रान्तारविन्दे तु पुष्पाण्येतान्यनुक्रमात्
अलाभे तुळसीं वाऽथ करवीरं च पंकजम्॥ 140
मुद्गं निष्पावकं चैव कुळुद्धं माषयेव च
तिलानपूपान्‌ लाजांश्च यवान्‌ सक्तून्‌ यथाक्रमम् 141
बलिद्रव्याणि चोक्तानि सर्वाऽभावे तु मौद्गिकम्
एवमेव विधानेन द्विकालं होममाचरेत्॥ 142
प्रातस्संध्यावसानेतु सायमर्चाऽवसानके
होमं कृत्वा बलिं दद्याद्द्विकालं चोत्सवं चरेत् 143
उत्सवभ्रमणं वक्ष्ये देवदेवस्य शार्ङिणः
बलिनिर्वापणान्ते तु सायं प्रातर्विशेषतः 144
देवदेवमलंकृत्य वस्त्राद्यैर्भूषणैश्शुभैः
सुगंधिपुष्पमालाभिर्गंधैरपि मनोहरैः 145
रथे वा शिबिकायां वा वीशस्कन्धेऽपि वा तथा
गजाश्वांऽदोलिकादौ वा वाहने समलंकृते॥ 146
`अहमेवेद'मंत्रेण देवमारोप्य निश्चलम्
अष्टोपचारैरभ्यर्च्य लाजापूपादिकां स्तथा॥ 147
संक्कृतान्‌ गुडसंमिश्रान्‌ निवेद्य मुखवासकम्
दत्वा वाद्यैस्समायुक्तं सर्वालंकारसंयुतम् 148
दासीभिर्वादकैश्यॆव नृत्तगेयसमन्वितैः
ब्राह्मणैर्वेदविद्भिश्च समायुक्तं शनैश्सनैः 149
ध्वजैश्चत्रैरातपत्रैस्तोरणैश्च तथॆव च
संभृतै स्संयुतं चान्यैस्सर्वैश्शृंगारलक्ष्मभिः 150
वालव्यजनहस्ताभिर्दासीभिः पार्श्वयोर्द्वयोः
वीज्यमानं विशेषेण तथा भक्तवरैरपि॥ 151
वाहये युर्द्विजा देवं ब्राह्मणा वेदपारगाः
दीपैरुदग्रैर्बहुभिः परिषिक्तैर्घृतादिना॥ 152
परस्सहस्रैस्सर्वत्र दीपयेच्च शतावरैः
विप्रैस्त्रयीमधीयानै र्जपस्तुतिपरायणैः॥ 153
नृत्यता गायता माऽपि गाणिक्येन सुसेवितम्
वीणादिवादिभिश्चैव वन्दिभिश्च तथा परैः 154
षड्जादिगीतनिपुणै र्वाद्यवादककोविदैः
गद्यं पद्यं तथा मिश्रं पथद्भिस्त्सोत्रमुज्ज्वलम्॥ 155
वै तंडिकै स्तथा जल्पैर्निपुणैर्वादशिक्षितैः
तथा तत्त्वकथानिष्ठैः पदार्धज्ञैश्च तार्किकैः॥ 156
मीमांसकैर्याज्ञिकैश्च छांदसैस्सांख्यकोविदैः
योगज्ञैश्च पुराणज्ञैश्शाब्दिकै स्तत्त्ववेदिभिः 157
मौहूर्तिकैश्च गणशःपरस्परजीगीषुभिः
तत्तच्छास्त्रोकमार्गेण प्रमेयं च बहुस्थितम्॥ 158
उच्चैर्ब्रुवाणैर्विद्वद्भिः पंचकालपरायणैः
वासुदेवस्य माहात्म्यं कथयद्भिश्चसात्त्विकैः 159
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यतैः
देवस्य पुरतःपृष्ठे पार्श्वतश्चस्थितैर्जनैः 160
सेनया सर्वतो दिक्षु चतुरंगबलाढ्यया
देवस्य पार्श्वयोः पूर्दे लाक्षारंजितमस्करैः 161
यत्रैर्दारुमयैश्चित्रैः पक्ष्याकारैरितस्ततः
देवताकृतियंत्रैश्च तथा यंत्रैर्गजादिभिः 162
निषादिभिस्समारूढै स्त्स्रीभिश्च भरतोदितैः
मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतम् 163
लेखायन्त्रैस्त्स्रियारूढैर्यन्त्रैरन्यैस्तथा विथैः
गतागतानि कुर्वाणै रनुयातं समाकुलैः॥ 164
शनैर्नयेज्जगन्नाथं यथाशक्ति समन्वितैः
आरभ्यावरणादाद्यादेषा परिवृतिर्भवेत् 165
देवेन सार्थमाचार्यो यानमारुह्य तत्र तु
रक्षार्थं देवदेवस्य ध्यायन्नुपविशेद्धरिम्॥ 166
अर्चकश्च तथासीनस्सम्यगर्चनमाचरेत्
आरोहणे गजेन्द्रस्य देवदेवं विशेषतः 167
वस्त्राभरणपुष्बाद्यैरलंकृत्य यथार्हकम्
देवेशं पूर्वमारोप्य हस्तेनादायचांऽकुशम्॥ 168
निषीदेद्गजपृष्ठे तु देशिकस्स्वयमत्वरः
अर्चकश्छत्रमादाय तथा देवस्य धारयेत्॥ 169
तोयधारां पुरस्कृत्य कुर्याद्भ्रमणमाचरात्
ग्रामं प्रदक्षिणं कुर्याद्बलिर्येन पधा कृतः 170
तत्काले देवमायान्तं भक्ता भागवता जनाः
स्पगृहप्रांऽगणे चैव प्रत्युद्थाय पुनःपुनः 171
प्रणम्य चोपहारांश्च दद्युर्बहुविधान्‌ बहून्‌
पत्रं पुष्पं फलं पूगं नागवल्लीदलान्यपि॥ 172
दक्षिणां च विशेषेण यथाशक्ति यथारुचि
नीराजनादि कुर्युश्च बालवृद्धातुरास्तदा॥ 173
तपोभिर्बहुभिर्गम्ये स्वयमेव परात्परे
भक्तानुकंपया देवे स्पगृहद्वारमागते॥ 174
को न नन्दति मूढात्मा तस्य का निष्कृतिर्भवेत्
तत्काले चार्पितं द्रव्यं यदपक्वं प्रगृह्य च॥ 175
आमंत्रं तु निवेद्यैव भगवत्प्रियमाचरेत्
उपहारेषु तत्रार्धं गृह्णीयाद्भागमर्चकः॥ 176
नागवल्लीदलं पुष्पं क्रमुकं दक्षिणादिकम्
सर्वमर्चकसर्वस्वं गृह्णीयादर्चकस्स्वयम्॥ 177
तत्काले भक्तिनम्रेभ्यस्संप्राप्तेभ्यश्च सन्निधिम्
भगदत्पादुकां दद्याच्छिरसि श्रद्धया गुरुः॥ 178
शिरसा धारणे मर्त्यैस्स्पृष्टिदोषो न विद्यते
न नयेत्पादुकां विष्णोर्दूरीकृत्य तु सन्निधिम्॥ 179
न गृहद्वारसीमान्तं नयेत्तां गृहिणां गुरुः
इष्टं राजगृहे स्त्रीभिः पादुकाधारणं यदि॥ 180
देहलीमनतिक्रम्य नेयात्तां दीपिकान्विताम्
तदा दीपैस्तथाऽन्यैश्च राजार्हैश्च परिच्छदैः 181
नेया स्यात्पादुका विष्णोः प्रणिधिस्सा यतो हरेः
तस्सन्निधिमतिक्रम्य पूजकस्तु न जातु चित्॥ 182
आदानायोपहाराणां प्रयायाद्गृहिणां गृहान्‌
नाऽपि कार्यान्तरासक्तः पंचहस्तानति क्रमेत्॥ 183
एष श्रेष्ठोपचारस्स्याद्यतस्सम्मान्यते हरिः
एवं प्रदक्षिणं नीत्वा निवर्तेताऽलयं प्रति 184
गोपुराग्रेतु देवेशं कृत्वा देवोन्मुखं क्रमात्
अर्घ्यपाद्यादिनाऽभ्यर्च्य निवेद्य पृथुकादिकम् 185
धामप्रदक्षिणं नीत्वा पुनराविश्य चाऽलयम्
अवरोप्य च देवेशं स्थाप्य चास्थानमंडपे॥ 186
पाद्यमाचमनं दत्वा मुखवासं प्रदाय च
कौतुकं तु विसृज्यैव शुद्धोदैस्स्नापयेत्प्रभुम्॥ 187
विमृज्य प्लोतवस्त्रेण समलंकृत्य पूर्ववत्
कौतुकं पुनराबद्ध्य हविःपश्चान्निवेदयेत् 188
कुर्याद्राजोपचाराणि स हि राजा जगत्प्रभुः
विनोदं कारयेच्चैव नृत्तगीतादिभिर्बहु॥ 189
ततः प्रणम्य देवेशं पूर्वस्थाने निवेशयेत्
प्रथमेऽहनि सायेतु कर्तव्यमिदमीरितम्॥ 190

  • * *

द्वितीयाहःप्रभृत्येव सायं प्रातश्च नित्यशः
नित्यार्चनाऽन्ते द्विगुणमर्चयेच्च निवेदयेत्॥ 191
कुंभदेवान्‌ समाराध्य ध्वजदेवार्चनं चरेत्
होमं बलिं च दत्वातु कारयेदुत्सवं तथा॥ 192
तृतीये पंचयेऽवाह्नि प्रातस्स्याद्गरुडोत्सवः
षष्ठेऽहनि तु मध्याह्ने देवीभ्यां सहितं हरिम्॥ 193
पीठमध्ये समारोप्य समभ्यर्च्याऽष्टविग्रहैः
जलकुंकुममादाय कारयेदुत्सवं तथा॥ 194
नववस्त्रादिकं दत्वा पृथुकानि निवेद्य च
दत्वा तांबूलमाचाममर्चयेद्राजवत्प्रभुम्॥ 195
सप्तमे प्रातरर्चान्ते कुर्यात्सप्तर्षिपूजनम्
वृणुयादृत्विजस्सप्ततदाचार्यपुरस्सरान्‌ 196
ध्यात्वा सप्तर्षिवत्तांस्तु स्वर्णं गामाज्यमेव च
तंडुलोदककुंभादीन्‌ दूर्वाग्रं क्रमुकं तथा॥ 197
दद्यात्प्रभूतं तेभ्यन्तु ब्राह्मणेभ्यः पृथक्‌ पृथक्‌
तत्सायं च विशेषेण कृष्णगन्धानुलेपनम्॥ 198
सद्यः प्रतिसरं बद्ध्वा देवाग्रे स्थंडिलं चरेत्
कृष्णागुरु समादाय सर्ववाद्यसमायुतम्॥ 199
ग्रामं प्रदक्षिणं कृत्वा स्थंडिलोपरि विन्यसेत्
पुण्याहं विधिवत्कृत्वा श्रियमावाह्य तत्र च॥ 200
संस्कृत्य विधिवद्गंधान्‌ समभ्यर्च्य हरिं ततः
`गंधद्वारे'ति मन्त्रेण सर्वांगं लेपयेद्गुरुः 201
देव्यादीनां तथा कुर्यात्तत्तन्मंत्रैर्यथाविधि
तच्छेषगंधं भक्त्यैव भक्तेभ्यो दापयेद्गुरुः 202
तद्गंधधारणान्नॄणां भदेयुस्सर्वसंपदः
सायमर्चावसाने तु रथयात्रां समाचरेत्॥ 203
अष्टमे दिवसे प्राप्ते समाप्ते प्रातरुत्सवे
अलंकृत्य तु देवेशं मृगयोत्सवमाचरेत्॥ 204
मध्याह्ने देवदेवस्य जलक्रीडोत्सवं चरेत्
प्रपां कृत्वा विधानेन नद्यादीनां तटे बुधः 205
वितानाद्यैरलंकृत्य जलक्रीडार्थमंटपम्
बिंबाध्यर्धायतामर्धविस्तारां बिंबदघ्निकाम्॥ 206
जलद्रोणीमथाच्छिद्रां न्यस्य लोहमयीं घनाम्
नादेयाद्भिस्समापूर्व `धारास्वि'ति च मन्त्रतः 207
एलाचन्दनकर्बूरैः कुंकुमेनाऽधिवासयेत्
कल्हारकेतकीपुष्पैरुशीरागुरुभिस्तथा॥ 208
आस्तीर्य नववस्त्राणि `वेदाह'मिति मन्त्रतः
`पुण्यतीर्थं शिवं पुण्यं देवावास'मिति ब्रुवन्‌॥ 209
अधिदेवं समावाह्य विग्रहैरष्टभिर्यजेत्
मंडपे पश्चिमार्धे तु विष्टरे सोत्तरछदे॥ 210
देवदेवं समास्थाप्य शकुनसूक्तं समुच्चरन्‌
नववस्त्रोत्तरीयाद्यैरलंकृत्य मनोहरम्॥ 211
पाद्यादिभिस्समभ्यर्च्य स्थापगैस्सहितो गुरुः
`भूः प्रपद्ये'ति मंत्रेण देवदेवं प्रणम्य च 212
`परं रंहे'ति मंत्रेण देवमादायचादरात्
`प्रतद्विष्णुस्त्सवत'इति जलद्रोण्यां निवेश्य च॥ 213
इंद्रादी श्च जयादीश्च तंडुलैःक्ज्‌ प्तमंडले
समावाह्य समभ्यर्च्ये ज्जलद्रोण्यभितो गुरुः 214
`अपो हि ष्ठा'दि मंत्रां स्त्रीननुवाकांत्समुच्चरन्‌
`इदमापश्शि'वेत्युक्त्वा `आपो वा इद'मुच्चरन्‌ 215
अभिमन्त्य्र जलद्रोण्यां देवदेवं प्रणम्य च
पौरुषं सूक्तमुच्चार्य विष्णुसूक्तं च वैष्णवम्॥ 216
`इषे त्वोर्जे'त्वादि जपन्‌ `भूरानिलय' इत्यपि
मङ्जयित्वा जलद्रोण्यां देवं प्राक्छिरसं हरिम्॥ 217
अधिवास्यतु यामार्धं यामद्वयमथाऽपि वा
`परं रं'हेति मंत्रेण तत उद्धृत्यवै पुनः॥ 218
अलंकृत्य च वस्त्राद्यैर्यथार्हं परिपूज्य च
यानमारोप्य देवेशं ग्राममालयमेव वा॥ 219
प्रदक्षिणं क्रमान्नीत्वा सर्वालंकालसंयुतम्
ग्रामवीथ्यामुपहृतमुपहालमगृह्य च॥ 220
पुनरालयमाविश्य संस्थाप्याऽस्थानमंडपे
सुगंधितैलेनाऽभ्यज्य देवं संस्नाप्य पूर्ववत्॥ 221
जीवस्थाने समास्थाप्य समभ्यर्च्य निवेदयेत्

  • * *

तद्रात्रावुत्सवान्तेतु देवं देवीयुतं हरिम्॥ 222
प्रतिष्ठोक्तविधानेन बद्ध्वा प्रतिसरं ततः
अधिवासविधानेन शयने शाययेद्गुरुः 223

  • * *

प्रभाते देवसुत्थाप्य पाद्याद्यर्घ्यान्तमर्चयेत्॥
तस्मिन्‌ तीर्थदिने प्रातर्होमाद्यं प्रातरुत्सवम्॥ 224
कृत्वा हविर्विना देवमभ्यर्च्याऽस्थानमंडपे
प्रमुखे गरुडं पश्चाद्दक्षिणे चक्रमेव च॥ 225
अमितं चोत्तरेधीमान्‌ धान्यपीठोपरि न्यसेत्
नित्यपूजां हविर्दानं ध्रुवबेरे समाचरेत् 226
पूर्वालंकृतवस्त्रादीन्‌ विसृज्यैव प्रयत्नतः
अन्यवस्त्राणिचाऽच्छाद्य यथार्हं भूष्य भूषणैः 227
अष्टोपचारैरभ्यर्च्य देवं चक्रादिदेवताः
व्रीहिभिस्थ्संडिलं कृत्वा द्विहस्तायतविस्तृतम्॥ 228
उलूखलं च मुसलं स्थाप्य वस्त्रेण संयुतम्
तयोरीशौ क्रमेणैव ब्रह्येशावर्चयेद्बुधः 229
पात्रे हरिद्रां संगृह्य सिनीवालीमथाऽर्च्य च॥
उलूखले हरिद्रां च तन्मंत्रेण विनिक्षिपेत् 230
गृहीत्वा वैष्णवैर्मंत्रैराचार्यो मुसलं तथा
विष्णुसूक्तं समुच्चार्य किंचित्तदवघातयेत्॥ 231
भक्तैर्वा देवदासीभिश्चूर्णीकृत्य विशेषतः
एकस्मिन्वाद्वयोर्वाथ त्रिषु वा कलशेषुवै 232
गंधोषितं च वादैलमाढकं परिगृह्यच
पिधाय च पिधानैश्च स्थंडिलोपरि विन्यसेत्॥ 233
आच्छाद्य नववस्त्रेण सोमं तैले समर्चयेत्
सिनीवालीं च तच्चूर्णे चक्रादींश्च प्रपूजयेत् 234
देवमभ्यर्च्य पुण्याहं वाचयन्वैष्णवं गुरुः
संस्राव्य मूर्थ्नि तत्तैलं `वेदाह'मिति मंत्रतः 235
हारिद्रचूर्णैस्संस्नाप्य चक्रादीन्‌ स्नापयेत्ततः
तच्छिष्टं धारयन्‌ भक्तस्सर्वपापैः प्रमुच्यते॥ 236
अथ याने समारोप्य देवं चक्रादिभिस्सह
चूर्णोत्सवमिमं कृत्वा तीर्थोत्सवमथाचरेत्॥ 237

  • * *

देवखातं यदि फवेत्तीर्थं तत्र प्रशस्यते
नद्यादितीरे संस्थाप्य देवीभ्यां सह वा विना॥ 238
चक्रादीन्‌ पूर्ववत् स्थाप्य प्रमुखे स्थंडिलं चरेत्
द्रव्येणापूर्व कलशान्‌ गायत्रीमंत्रमुच्चरन्‌ 239
मध्ये सिद्धार्थकं न्यस्य प्राच्यां स्यादक्षतोदकम्
दक्षिणे गंधतोयं स्यात्पश्चिमे तु कुशोदकम्॥ 240
जप्योदकं चोत्तरे स्याद्विदिशासु च मध्यतः
उपस्नानानि विन्यस्य क्रमात्तदधिपान्‌ गुरुः 241
आदित्यानप्सरसश्च काश्यपं च गुरुं तथा
ऋतूंश्च मरुतश्चैव मुनीं स्तक्षकमेव च॥ 242
मंत्रान्विद्याधरांश्चैव क्रमेणावाह्यचार्चयेत्
`पूतस्त'स्येति मंत्रेण `इमा ओषधय'इत्यपि 243
`अभि त्वा शूर'`चत्वारि'`पूतस्तन्ये'तिचक्रमात्
कलशैः पंचभिस्स्नाप्यतत्तद्द्रव्यान्तरे क्रमात् 244
`वारीश्चतस्र'इत्युक्त्वा चोपस्नानं समाचरेत्
शिष्टाभिः कलशाद्भिश्च चक्राधीनभिषिच्य च॥ 245
प्रविश्य तु जलं तत्र वरुणं चार्चयेत्क्रमात्
हस्ताभ्यां चक्रमादाय देवं भक्तैस्समन्वितः 246
आचार्यः प्रथमं तीर्थे चक्रं स्सृष्ट्याऽवगाहयेत्
नाभिदघ्नजले तत्र जलमध्ये तु सुस्थितः 247
चक्रं देवं हृदि स्थाप्य हस्ताभ्यां धारयन्‌ दृढम्
`ये ते शतं' समुच्चार्य प्राङ्मुखो वाऽप्युदङ्मुखः 248
निमज्जयेत्तदा चक्रं सर्ववाद्ययुतं गुरुः
जनास्सर्वे च तत्तीर्थे स्नात्वा विगतकल्मषाः 249
भवेयुरश्वमेधस्य फलं च समवाप्नुयुः
ततस्तीरे प्रतिष्ठाप्य विष्टरे चक्रमुत्तमे 250
कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः
ततो विसृज्य वस्त्रादीन्‌ देवं चाऽन्यैर्विभूष्य च॥ 251
तत्रैव नसस्नांभारान्‌ संभृत्य विधिना गुरुः
देवीभ्यां सह देवेशं स्नापयेत्पूर्ववत्प्रभुम्॥ 252
अलंकृत्य विशेषेण कुर्यादर्घ्यान्तपूजनम्
पश्चाद्देवं समादाय सर्वालंकारसंयुतम् 253
शाकुनं सूक्तमुच्चार्य नीत्वा ग्रामं प्रदक्षिणम्
देवाऽलयं प्रविश्याऽथस्थाप्य चाऽस्थानमंडपे॥ 254
पाद्यादिभिस्समभ्यर्च्य वेदानध्यापयेत्क्रमात्
मुहुःपुष्पांऽजलिं दत्वाजीवस्थाने निवेशयेत्॥ 255
चक्रादीनपि चादाय तत्तत्थ्साने निवेश्य च
पुण्याहं वाचयित्वातु प्रोक्षणेः प्रोक्षणं चरेत्॥ 256
नित्यपूजं समाप्यैव हविर्दद्याद्विशेषतः

  • * *

यागशालां समासाद्य हुत्वाऽग्निषु च वैष्णवम्॥ 257
कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेत्
अंतहोमं च हुत्वाऽग्निं नित्यकुंडेप्रणीय च॥ 258
तद्रात्रौ नित्यहोमान्ते बलिं दत्वा च पूर्ववत्
पश्चाच्चक्रं विना दद्याद्बलिं शुद्धान्न कल्पितम्॥ 259
पूर्वोक्तेनैव मार्गेण सर्वत्र बलिमाचरेत्
चैत्यस्थाने प्रपायां तु उत्याने वृक्षमूलके॥ 260
तटाके निर्झरे कूपवापीवल्मीकपार्श्वके
श्मशानेऽन्यत्र देवाऽग्रे वीथ्यन्तेषु च निक्षिपसेत्॥ 261
पुनरालयमाविश्य स्नात्वा चाऽप्यग्निसन्निधौ
ध्वजमूलं समासाद्य सर्ववाद्य समायुतम्॥ 262
ध्वचाऽवरोहणं कुर्याद्ध्वजमत्रं समुच्चरन्‌
तद्ध्वजं तु समादाय प्रादक्षिण्यक्रमेण वै 263
परीत्य मंदिरं पश्चात्प्रविश्याऽभ्यन्तरं पुनः
देवस्य पादमूले तु न्यस्य पुष्पांजलिं ददेत्॥ 264
क्षमामंत्रं समुच्चार्य दंडवत्प्रणमेद्भुवि
फलश्रुतिः
एवं यः कुरुते भक्त्वा विष्णोरुत्सवमादरात् 265
सर्वपापविशुद्धात्मा सर्वान्‌ कामानवाप्य च
अन्ते विमानमारुह्य विष्णुलोकं स गच्छति॥ 266
पुष्पयागः
अतःपरं प्रवक्ष्यामि पुष्बयागं सुखावहम्
द्वितीयदिवसे तीर्थात्पुष्पयागं समाचरेत्॥ 267
शान्तिदं पुष्टिदं चेति काम्यदं च त्रिधा भवेत्
प्रातर्मध्याह्नाऽपराह्णाः क्रमात्कालाः प्रकीर्तिताः॥ 268
न्यूनं वाऽप्यधिकं चैतद्दोषोपशमनाय वै
आस्थानमंडपे वाऽथ स्नपनालय एव वा 269
चतुर्दिशं चतुर्हस्तं गोपयेनोपलिप्य च
पंचविंशत्पदं कृत्वा षट्सूत्रैः प्रागुद्गगतैः 270
मध्ये ननपदे पद्मं साऽष्टपत्रं सकर्णिकम्
रत्नधान्यादिकैर्वापि तंडुलैर्व्रीहिभिस्तिलैः 271
बहिस्तेषु पदेष्वग्रे वीशमेकत्र पूजयेत्
दक्षिणे चक्रमभ्यर्च्य पंक्तीशं पश्चिमे तथा 272
उदीच्यां शान्तमभ्यर्च्य शेषेषु च पदेषु वै
पूजाद्रव्याणि संभृत्य प्रत्येकं विन्यसेद्बुधः 273
दलेष्वष्टसु पद्मस्य सुवर्णशकलोपरि
लोकपालांत्समभ्यर्च्य वस्त्रोपरि यथादिशम्॥ 274
निष्कत्रयसुवर्णेव कल्पिते कर्णिकोपरि
आदित्यमंडलं तत्र राजते चन्द्रमंडलम्॥ 275
तस्मिन्‌ सुवर्णरूपे तु वह्नि मंडलमर्चयेत्
विष्टरं तत्र संस्थाप्य तदन्तर्गतपंकजे॥ 276
तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवम्
तावत्कृत्वस्समभ्यर्छ्य सप्तविंशतिविग्रहैः 277
तत्र पूजावसानेतु तत्तत्पुष्पांजलिं ददेत्
पंकजं तुलसी बिल्वं करवीरमथोत्पलम् 278
नन्द्यावर्तं च कुमुदमपामार्गं तथैव च
विष्णुक्रान्तं च दूर्वां चक्रमादेतान्यनुक्रमात्॥ 279
एवं पुष्पाजलिं दत्वा ऋत्विजस्सहतैर्गुरुः
नृत्तैर्गेयैश्चवाद्यैश्च चतुर्वेदस्तवैरपि॥ 280
परात्परतरं पारं गुह्याद्गुह्यतरं गुरुम्
सर्ववेदार्थसारं तं द्वादशाऽष्याऽक्षरं तथा 281
जपन्तो विष्णुगायत्रीं शतमष्टोत्तरं ततः
दद्युः पुष्पांजलि भक्त्या देवदेवस्य पादयोः 282
पंचाऽग्निष्वथ वाऽग्नींस्त्रीन्‌ पौंडरीकमथाऽपि वा
देवस्य परितः कुर्यादुत्तमादिक्रमे क्रमात्॥ 283
उत्तमे सभ्यकुंडे तु मध्ये त्वाहवनीयके
हौत्रप्रशंसनं कुर्यात्तदालयगतांत्सुरान्‌ 284
आवाह्याज्यं निरूप्यैव तत्क्रमेणाहुतीर्यजेत्
वैष्णवं विष्णुसूक्तं च सम्यग्घुत्वा विशेषत॥ 285
ततश्चाहवनीयाग्नौ नृसूक्तं वैष्णवं यजेत्
दक्षिणाग्नौ विष्णुसूक्तं श्रीसूक्तं च यजेत्क्रमात् 286
जुहुयाद्गार्हपत्याग्नौ गायत्रीं वैष्णवीं(वं)ततः
आवसद्ध्ये तु जुहुयात्सूक्तमेकाक्षरादिकम्॥ 287
आज्येन समिधा तत्तद्धविर्भेदैश्च हूयताम्
एतदुत्तममुद्दिष्टं मध्यमं तु प्रवक्ष्यते॥ 288
यथालाभप्रमाणेन पूर्वोक्तार्धेन वा हरेः
पद्ममंडलदेवानां कारयेत्प्रतिमादिकम्॥ 289
तत्तद्दिनार्चनान्ते तु शुद्धान्नं वा निवेद्य च
सर्वार्चान्ते पंचहविर्दद्यादित्याह पूर्वजः 290
चतुर्वेदादिघोषं च चतुर्दिक्षु प्रकल्पयेत्
अब्जहोमं क्रमेणैव जुहुयान्मन्त्र वित्तमः॥ 291
पुष्पन्यासक्रमेणैव सर्वविद्येश्वरान्तकम्
अभ्यर्च्य प्रथमं पश्चात्पष्पयागोक्त पूजनम्॥ 292
कृत्वा यथालाभहविर्भक्ष्याणि विविधानि च
निवेद्य मुखवासान्ते परिवारबलिं क्षिपेत्॥ 293
इत्येवं मध्यमे प्रोक्तं प्रवक्ष्याम्यधमे पुनः
विना दिशादिभिर्भेदैर्होमैश्च पृथगर्चनैः 294
मंडले देवमारोप्य पूजयित्वा यधाविधि
हवींषि पंच चोक्तानि निवेद्य च ततः परम्॥ 295
दद्यात्पुष्पांऽजलिं मंत्रैस्समस्तदिवसोदितैः
जान्वन्तं च तथोर्वन्तं कट्यन्तं च समर्चयेत्॥ 296
नाभ्यन्तं च स्तनान्तं च बाह्यस्तमिति चक्रमात्
ग्रीवान्तं च ललाटान्तं मौल्यस्तमिति चक्रमात्॥ 297
तत्तत्पूजावसानेतु हविस्सम्यङ्नि वेदयेत्
उत्सवाज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतम्॥ 298
अतस्सर्वप्रयत्नेन पुष्पयागं समाचरेत्
द्वादशाराधनम्
कुर्याद्यथोक्तविधिना द्वादशाराधनं तथा॥ 299

  • * *

दद्यादाचार्यपूर्वेभ्यो दक्षिणां विधिवत्ततः
एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणाम्॥ 300
पदार्थिनां च सर्वेषां तदर्धं स्यात्पृथक्‌ पृथक्‌
गोभूमिभ्यां विशेषेण दत्वाऽचार्यं प्रसादयेत्॥ 301
आचार्यस्सुप्रसन्नात्मा सर्वाऽग्निषु यथाक्रमम्
अन्तहोमं समाप्यैव देवदेवं प्रणम्य च॥ 302
जीवस्थाने प्रतिष्ठाप्य देवेशं सम्यगर्चयेत्
ब्राह्मणान्‌ भोजयेच्चैव प्रदद्याद्भूरिदक्षिणाम्॥ 303
पुष्पयागोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः
शान्तिकादिविधाने तु कुर्यादंकुरपूर्वकम्॥ 304
एवं यःकुरुते भक्त्यापुष्बयागं हरेः प्रियम्
सर्वान्‌ कामानवाप्यैव सर्वैश्वर्यमवाप्य च॥ 305
सर्वान्‌ शत्रून्‌ विजित्वैव प्रजापशुसमन्वितः
अन्ते विमानमारुह्य विष्णुसायुज्यमाप्नुयात्॥ 306
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे पंचविंशोऽध्यायः॥