प्रकीर्णाऽधिकारः/पञ्चमोऽध्यायः
| ← चतुर्थोऽध्यायः | प्रकीर्णाऽधिकारः पञ्चमोऽध्यायः [[लेखकः :|]] |
षष्ठोऽध्यायः → |
अथ पंचमोऽध्यायः॥
प्रासादलक्षणम्॥
अथवक्ष्येविशेषेण प्रासादानांतुलक्षणम्
प्रसादंकुरुतेयेन प्रासादइतिकीर्तितम्॥ 1
अंगुलभेदः
त्रिविधंतुसमाख्यात मंगुलंस्यात्प्रमाणतः
मानांगुलंतुप्रथमं मात्रांगुलमतःपरम् 2
तृतीयंतुसमाख्यातं देहलब्धप्रमाणतः
रथरेण्वणुरष्टाभिरीक्षायू कायवास्तथा॥ 3
क्रमशोऽष्टकुणैर्विद्धि मानांगुलमितिस्मृतम्
मध्यमांगुलिमध्यंतु पर्यमात्रांगुलिंस्मृतम्॥ 4
प्रतिमायाविभागेन तालगण्येन? भाजनम्
अंगुलंतु समाख्यातं देहलब्धप्रमाणतः 5
प्रासादमंडपानांच मानांगुलविधानतः
यागोपकरणानास्तु मात्रांगुलविधानतः 6
देहलब्धप्रमाणेन प्रतिमांकारयेत्तथा
अंगुलैःकिष्कुरित्युक्तं चतुर्विंशतिभिस्तथा॥ 7
पंचविंशतिभिश्चैव प्राजापत्यमुदाहृतम्
षड्विंतिशधन्नुर्मुष्ठि सप्तविंशद्धनुग्रन्हः॥ 8
हस्तानांलक्षणंप्रोक्तं मानांगुलविधानतः
एकतलादिकल्पनम्
त्रिहस्तादिसमारभ्य नवहस्तान्तमेवच॥ 9
अयुग्मैरथहस्तैस्तुकुर्यादेकतलंबुधः
द्वितलंतुततःकुर्यात्सत्रयोदशहस्तकैः 10
पंचाधिकदशैहन्स्तैप्रासादस्स्यात्त्रिभूमिकः
तलंप्रत्यधिकंकुर्यात् षड्ढस्तन्तुविशेषतः 11
आद्वादशतलादेवं कुर्याद्विस्तारमानकम्
विस्तारद्विगुणोत्सेध मुत्तमंतुप्रचक्षते॥ 12
विस्तारंसप्तधाकृत्वा द्वादशांशन्तुमध्यमम्॥
एकादशांशमधमं विस्तारेसप्तधाकृते॥ 13
आद्वादशतलादेवमुत्सेधंतुविधीयते
प्राङ्मुखोदङ्मुखैस्सूत्त्रॆः पदंकुर्यात्तुषोढशम्॥ 14
गभन्गेहस्समाख्यातो मध्यमंतुचतुष्पदम्
बाह्यतोद्वादशपदं भित्त्यर्थमुपकल्बयेत्- 15
षड्भिष्षड्भिस्तधासूत्त्रॆः पदानांपंचविंशतिः
नवगभन्गृहंमथ्येभित्त्यर्थं शेषमुच्यते॥ 16
- * *
त्रिविधंतुसमाख्यातं? प्रासादाकृतयस्तथा
नागरंद्राविडंचेति वेसरंचत्रिधाभवेत्॥ 17
न्थूप्यन्तंचतुरश्रंस्या न्नागरंसमुदाहृतम्
कंठप्रभृतिचाष्टाश्रं प्रासादंद्राविडंभवेत्॥ 18
कंठप्रभृतिवृत्तंय द्वेसरंतत्प्रचक्षते
बेरःपूर्वंस्थितोयत्र तत्रबेरवशाद्भवेत्॥ 19
यावद्बेरंत्रिभागैकं विस्तारंपीठमेवहि
पीठस्यत्रिगुणंगभंन् गर्भार्धंभित्तिरुच्यते॥ 20
गभन्गेहत्रिभागैकं भित्तिंवातत्रकारयेत्
अग्रतोमंडपंकुर्या त्प्रासादसमविस्तृतम्॥ 21
प्रासादस्य समायामं दशांशंमुखमंडपम्
प्रासादस्याऽग्रतोद्वारं प्रकुर्याल्लक्षणान्वितम्॥ 22
व्रतेरुपरिसीमान्तं द्वारस्योत्सेधउच्यते
उत्तमंद्वारविस्तार मुत्सेथार्धमुदाहृतम् 23
उत्सेधार्ध दशांशेन हीनंमध्यममुच्यते
विंशत्यापरिहीनंस्या द्विस्तारमधमंभवेत्॥ 24
कायंचाप्यनुकायंच कुर्यादुत्सेधमानतः
भागमेकमधिष्ठानमुत्से धोवसुधाभवेत्॥ 25
पादायामोद्विभागस्स्या द्भागःप्रस्तारउच्यते
भागःकंठइतिप्रोक्तं द्विभासंशिखरंभवेत्॥ 26
भागस्थ्यूपिरितिख्यात मेवमुत्सेधउच्यते
काममेवंसमाख्यात मनुकायमधोच्यते॥ 27
कुर्यात्प्रासादविस्तारं चतुर्विंशतिभागिकम्
एकभागस्तुविस्तारं भागमेकंतलंतथा॥ 28
दशांगुलंस्चाद्द्वितले त्रितलेद्वादशांगुलम्
युगांगुलविवृद्ध्यातु कर्तव्यंस्यात्तलंप्रति॥ 29
पादमस्यतुविष्कंभ मष्टभागंविहीनकम्
स्तंभाग्रेणैवगर्तव्य मनुकायप्रमाणतः 30
उपानस्यतुविष्कंभ मग्रेपादद्वयंभवेत्
अधिष्ठानंत्रिधाकृत्वा भागोवैजगतीभवेत्॥ 31
कुमुदंतुद्वितीयेन भागेनैवतुकारयेत्
कृत्वाशेषंचतंभान्ग मेकांशैनपट्चटिकाम्॥ 32
कुर्यात्सार्धेनकंठन्तु शेषंवाजिनमुच्यते
पादबन्धमितिख्यातं सर्वकार्येषुपूजितम्॥ 33
प्रतिक्रमंवाकर्तव्य मधिष्ठानप्रमाणतः
जगतींतद्वदेवाथ कुमुदंपृत्तमुच्यते॥ 34
भागेनपूर्ववत्कृत्वा चतुर्थंशेषमाचरेत्
पट्टिकेनैवकर्तव्य मेगमस्तरिकंतथा॥ 35
द्वाभ्यांप्रतिमुखंकुर्या त्प्रतिक्रममिदंबवेत्
अधिष्ठानमितिख्यातं पादमानंप्रवक्ष्यते॥ 36
चतुरश्रमथाष्टाश्रं वृत्तंचैवत्रिधाभवेत्
कुंभयुक्तंतथाके चित्केचित्कुंभविहीनकम् 37
कैचिद्वैकुंभमणीभ्यां युक्तंपादंस्मरन्तिहि
विस्तारेणसमंवापि द्विगुणंवापिमूलतः 38
चतुरश्रमधोहित्वा वृत्तमष्टाश्रमेववा
कर्तव्यंतुयधायुक्त मथवाषोडशाश्रकम्॥ 39
पादानामाकृतिःप्रोक्ता कुंभलक्षणमुच्यते
पादाधिकमधाध्यर्थं पादोनंद्विगुणंतुवा॥ 40
द्विगुणंतुसमुत्सेधं पादविष्कंभमानतः
श्रीकरंचन्द्रकास्तंच सौमुख्यंप्रियदर्शनम्॥ 41
यथाक्रमेणनामानि कर्तव्यानिविशेषतः
श्रीकरंवृत्तपादानां कलाश्राणांतथैवच॥ 42
चंन्द्रकान्तमथाष्टाश्रं सोमखंडमितिस्मृतम्
अतिभारेषु स्तंभेषु प्रियदर्शनमुच्यते॥ 43
कृत्वानवांशकंकुंभं भागमेकंहृदुच्यते
कुंभंचतुर्भिरंशैस्तु कंठभागमुदाहृतम्॥ 44
आस्यमेकांशमित्युक्तं शेषंकुर्याद्द्विदंडम्
एकेनपद्मकेनैव वृत्तमेकेनवातथा॥ 45
विस्तृतौ स्तंभविस्तारौ द्विगुणौकुंभमुच्यते
अध्यर्थमास्यविस्तारं हारोधामूलपादवत्? 46
विस्तारमेवमुक्तंस्यान्मंडैलन्क्षणमुच्यते
मंडैस्त्रिपादमुत्सेधं विस्तारंतुचतुगुन्णम्॥ 47
त्रिभागैकंभवेत्पद्मं वेत्रमेकंतथैवच
भागावाफलकारामा वेत्रावापादरूपवत्॥ 48
पादाग्रकर्ममानेन स्कन्धंकुर्याद्विधानतः
स्तंभाग्रसमविस्तारं वीरकांतंत्रिपादतः॥ 49
तदूर्ध्वेपादतांकुर्याद्विस्तारंपादविस्तृतम्
समंत्रिपादमर्धंवा बोधिकोत्सेधउच्यते॥ 50
त्रिदंडमधमायामे चतुर्दंडन्तुमध्यमम्
उत्तमंपंचदंडंस्या द्बोधिकोत्सेधउच्यते॥ 51
जगत्यन्तेकुमुदान्ते पट्टिकान्तेऽथवापुनः
जलनिर्याणमागंन्च नाळनिगन्मनंक्रियात्॥ 52
हंसपादंत्रिपादंवा वितस्तिर्वाविशेषतः
प्रतेबान्ह्यविनिष्क्रान्त्या नाळींशैलमयींतथा॥ 53
गजोष्ठसदृशाकारां सिंहाकृतिमुखोत्तराम्
भूतसिंहोपमामूर्ध्वसारवाराधिकारयेत्॥ 54
द्विदंडंचत्रिदंडंवा गभन्गेहेतुवेश्मनः
बेरोदयसमंवाथ द्विगुणंवाध्यर्थमेववा॥ 55
प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरम्
व्यासत्रिभागंभागोनं बहुलंतुत्रिभागभाम्॥ 56
वारिसंचारगंभीरतारं झझन्रलक्षणम्
अनिम्नोन्नतमाभित्ते स्तदात्यश्रंक्रमान्नतम्॥ 57
सर्ववाद्यसमायुक्तं तदामंगलवाचकैः
वास्तुहोमंततःकृत्वा आचार्यवूजयेत्ततः 58
शिल्पिनंपूजयेत्पश्चात्सुमुहूर्तेसुलग्नके
आचार्यस्सुप्रसन्नात्मा वारुणंसूक्तमुच्चरेत्॥ 59
तक्षकस्थ्सापयेन्नाळीं सुस्निग्धांसुदृढांक्रमात्
बेरप्रासादगभन्स्य यावत्तालस्यचावधि॥ 60
धारांतुकेवलंकुर्या द्भित्तौतालस्यधीमतः?
श्रेष्ठमध्यकनिष्ठानि बेरस्यस्थापनंत्रिधा॥ 61
धारादलसमाप्तौतु स्थापनंचोत्तमंभवेत्
द्वारबन्धस्यपूर्वेतु स्थापनंमध्यमंभवेत्॥ 62
मूर्धोपलस्यपूर्वेतु स्थापनंस्यात्कनीयसम्
यःकरोत्यन्यथाचास्मा दभिचारायचैवहि॥ 63
एवंनालंचसंस्थाप्य प्रस्तरंचोत्तरादिकम्
विष्कंभंपादविस्तार मुत्सेधंत्रिविधंभवेत्॥ 64
उत्तमंतुसमोत्सेधं त्रिपादंमध्यमंभवेत्
अधमंचार्धमुत्सेध मुत्तमंस्याद्विधानतः॥ 65
स्तंभाग्रैकत्रिभागैकं तस्योर्ध्वेपट्टिकाभवेत्
तत्समंनिगन्मंप्रोक्तं पट्टिकालक्षणंत्विदम्॥ 66
द्विभागेनतदूर्ध्वेतु कर्तव्यंपद्मपट्टिकम्
द्विदंडंतुकपोतंस्या दुपानसमनिगन्मम्॥ 67
शेषंप्रस्तारमानन्तु कर्तव्यंपंचभागिकम्
एकेनपट्टिकांकुर्या त्कंठमेकेनकारयेत्॥ 68
द्वाभ्यांतदूर्ध्वे कर्तव्यमेकांशेनतुपट्टिकाम्
एवंप्रस्तारमाख्यातं तोरणंवक्ष्यतेऽथुना॥ 69
पाश्वन्योःपृष्ठतश्चाऽपि कर्तव्यंतो रणंतथा
प्रतेरुत्तरसीमान्ते तोरणस्याश्रयोभवेत्॥ 70
विस्तारंतुतदर्धंस्या द्विस्तारंपंचभागिकम्
मकरांशंत्रियंशेन शेषंपादमितिस्मृतम्॥ 71
पादान्तराग्रमधवाविस्तारंतोरणस्यतु
पूर्वोक्तमेवकर्तव्यं मकरांशप्रमाणतः 72
प्रमाणंतो रणस्योक्तं नासिकायास्तुलक्षणम्
वक्ष्यतेतुप्रमाणेन यथाशास्त्रविनिश्चितम्॥ 73
गभन्गेहार्धविस्तारं महानासीतिकीर्त्यतॆ
निगन्मंतुतदर्धंस्या त्त्रिपादंसममेवचा॥ 74
शिखरेषु चतुर्धिक्षु कुर्यादेकांतुनासिकाम्
विस्तारंतुतदर्धंस्यात्क पोतॆष्वष्टनासिकाः॥ 75
कूटस्यलक्षणंप्रोक्तं कूटशालंविधीयतॆ
कृत्वाप्रासादषड्भागमेकभागंविधीयतॆ॥ 76
भागेनकूटशालं स्याद्भागार्धंपंचमंभवेत्
चतुर्गुणंभवेत्कूयं शालास्याद्गोपुराकृतिः॥ 77
शालाविस्तारमानेन पाश्वन्योनान्सिकाभवेत्
एकनासिकयायुक्तं पंजरंसमुदाहृतम्॥ 78
ततःकंठार्धमानेन शिखरंवर्धयेत्ततः
कंठाद्द्विदंडमित्युक्तं शिखरस्यतुनिगन्मम् 79
निगन्माद्वर्तनाद्बाह्ये वर्धनंतुतदर्धकम्
स्थूपिंकुभसमायुक्तं कुर्याद्दंडंविधानतः॥ 80
विस्तारंतत्प्रमाणेन शिखरंतत्रचोच्यतॆ
तदूर्ध्वेकंठमित्युक्तं फलकाचतदूर्ध्वतः 81
क्रमेणकृशतां कुर्याद्यानदन्तस्तुमाक्ष्मतः
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाधिकारे पंचमोऽध्यायः