सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/पञ्चदशोऽध्यायः

विकिस्रोतः तः
← चतुर्दशोऽध्यायः प्रकीर्णाऽधिकारः
पञ्चदशोऽध्यायः
[[लेखकः :|]]
षोडशोऽध्यायः →

अथ पंचदशोऽध्यायः॥
दशाऽवतार कल्पः (रामः) भार्गवः
अतः परशुरामस्य स्थापनं वक्ष्यतेऽधुना
बहुभिर्बलवद्भिन्तु राजभिर्धरणी हता॥ 1
तद्वधाय कृतोद्योगो जमदग्निसुतो हरिः
भूत्वाऽवतीर्णो लोकेस्मिन्‌ भारनिर्हरणाय वै॥ 2
परशुं च गृहीत्वोर्व्यां नृपान्‌ सर्वान्‌ प्रगृह्य च
जघान किलभूयोऽपि रामो भीमपराक्रमः 3
स्थापयेच्छत्रुनाशाय रामं परशुधारिणम्
श्रीप्रतिष्ठितके चैव अंगनाकार एव च 4
मध्यमं दशतालेन रामं द्विभुजमाचरेत्
परशं दक्षिणे हस्ते धृत्वाचैव विचक्षणम्॥ 5
वाममुद्देशहस्तं च जटामुकुटशोभितम्
रक्तवर्णयुतं चैव श्वेतांबरधरं तथा॥ 6
सर्पाभरणसंयुक्तं स्थानकं तत्र कारयेत्
तद्रूपं कौतुकं कुर्यादथ वा तं चतुर्भुजम्॥ 7
अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेत्
`रामं ऋषिसुतं विष्णुं परशुपाणि'मितीरयेत्॥ 8
इत्येवमुक्त्वा चावाह्य निरुप्याज्याहुतीर्यजेत्
`विष्णुर्वरिष्ठ' इत्युक्त्वा शतमष्टाऽधिकं यजेत्॥ 9
उत्सवस्नपनादीनि विष्णुवत्सर्वमाचरेत्
दाशरधिः
रावणो बहुभिः क्रूरै राक्षसैश्च महाबलैः 10
त्रीन्‌ लोकान्‌ पीडयामास वरदानेन गर्वितः
देवास्संपीडितास्सर्वे मुनयश्चाऽखिलास्तथा॥ 11
तैर्देवैर्मुनिभिस्सर्वै स्संस्तुतो हरिरव्ययः
तद्वधाय कृतोद्योगो मानुषं रूपमास्थितः 12
अवतीर्णस्सुतो भूत्वा राज्ञो दशरथस्य च'
रामस्तु राक्षसान्‌ हत्वा सर्वान्‌ लोकानपालयते॥ 13
पुष्ट्यर्थी विजयार्थी च वीरार्थी च विशेषतः
कूटागारेंऽगनाकारे फेळाकारं चतुष्फुटम्॥ 14
स्वस्तिकं वा विमानस्तु कृत्वाचैव विचक्षणः
राघवं तु प्रतिष्ठाप्य यथा वत्संप्रपूजयेत्॥ 15

  • * *

अथातस्संप्रवक्ष्यामि रामलक्ष्मण लक्षणम्
सीताया वायुपुत्रस्य भरतस्याऽसुजस्य च॥ 16
मानोन्मानप्रमाणानि वक्ष्ये संक्षेपतः क्रमात्
उत्तमं दशतालेन मध्यमेन यथाक्रमम्॥ 17
उत्तमं राघवेंद्रस्य मध्यमं लक्ष्मणस्य च
अन्तेनै व तु मासेन सीतायास्तूच्छ्रयो भवेत्॥ 18
नवतालेन मानेन वायुपुत्रं प्रकल्पयेत्
अधमं दशतालेन भरतस्याऽनुजस्य च॥ 19
एवं युक्तियुतेनैव क्रियते शास्त्रवित्तमैः
गर्भद्वारविमानाभ्यां बेरमानमिहोच्यते॥ 20
उत्सव प्रतिमायान्तु सर्वेषामालयेषु वै
तद्देवभेदं मूर्तीनां तत्प्रमाणेन योजयेत्॥ 21
इष्यते गर्भमानन्तु पुष्यमानं? विभज्य च
उत्तमं पंचभागं तु चतुर्भागं तु मध्यमम्॥ 22
त्रिभागमधमं प्रोक्तं यथावच्छास्त्रवित्तमाः
गर्भमानं प्रवक्ष्यन्ति द्वारमानंतु वक्ष्यते॥ 23
सप्तभागे चतुर्भागमुत्तमं तु विधीयते
त्य्रंशं तु मध्यमं प्रोक्तमर्थांशमधमं भवेत्॥ 24
द्वारमानमिदं प्रोक्तं क्रियायान्तु विशेषतः
रामस्याऽथ ललाटान्तं नासान्तं लक्ष्मणोच्छ्रयम्॥ 25
आस्यान्तमथ वा कुर्याद्वायुपुत्रस्य लक्षणम्
भरतस्याऽमजस्याऽपि तथा गलसमं भवेत्॥ 26
उष्णीषात्पादपर्यन्तं चतुर्विंशच्छतांगुलम्
षष्टिद्विगोलगं विद्यादेकत्य्रंशत्रिभागीकम्? 27
तालानि दशभागैकमुत्तमं दशतालकम्
चतुर्भागाऽष्टभागं स्याच्चतुस्तालं तथैव च 28
दशतालस्य त्य्रंशेन उत्तमं मध्यमाधमम्
मध्यमादधमं हीनं मुखे वार्धांगुलक्षयम्॥ 29
उष्णीषमंगुलं नेत्रं शिरस्त्य्रंगुलमिष्यते
ललाटे हनुपर्यन्तं त्रयोदशार्धांगुलं भवेत् 30
गलं चतुर्यवाः प्रोक्ताग्रीवा सार्धत्रियंगुला
हिक्का हृदयानाभ्यन्तं मेढ्रमूलं मुखत्रयम्॥ 31
मुखायामं चतुर्मात्रं लिंगं पंचांगुलायतम्
नाभिरर्धांगुलं ज्ञेयं निम्नार्धवरितालका 32
श्रोणी भागार्धमेवं स्यात्कटिः पंचांगुलं भवेत्
मेढ्रमूलादिजान्वन्तं सप्तविंशतिकांऽगुलम्॥ 33
जानुभागमिति प्रोक्तं जंघोरू सुसमायुतौ
चरणं चतुरंगुल्यं मनोर्देशविधानतः 34
ब्रह्मांगुलमूखायामं त्रयोदशांऽगुलमेव च
कनिष्ठांऽगुलमायाममेकादशांऽगुलं भवेत् 35
अक्ष्णामुष्णीषपर्यन्तं भागार्धांगुलमुच्छ्रयम्
हिक्कासूत्रान्तमेवं स्वात्स्कंधमूलद्वयं भवेत्॥ 36
स्कन्धं भुजसमोत्सेधं भुजोर्ध्वं गोलकं भवेत्
भुजद्विमुखमायामं कूर्परं च कलायतम्॥ 37
प्रकोष्ठं विंशदंगुल्यं हस्तायाममिति स्मृतम्
नास्यानि नाभिवामेभ्यो रक्षान्तं सूत्रदक्षिणम्॥ 38
आदिसूत्रमिदं प्रोक्तमन्यत्सूत्रं च कारयेत्
ईषत्कुंचितमात्रन्तु मात्रार्धं समकुंचितम्॥ 39
द्विकलाकुंचितं ज्ञेयं त्रिविधं कुंचितं भवेत्
पाष्णोन्य्‌रन्तरसंयुक्तं पंचागुलसमन्वितम्॥ 40
पादांगुष्ठान्तरं चैव त्रयोदशांऽगुलमीरितम्
उष्णीषात्पार्श्वकर्णान्तं वामहस्तोच्छ्रयं भवेत्॥ 41
नीव्रं कंठयवानान्त द्विमुखं विस्तरं भवेत्
दक्षिणे लंबहस्तन्तु ऊरुमूलौ समं भवेत्॥ 42
नीव्रं पंचांऽगुलं चैवत्रयोदशांऽगुलमीरितम्
हस्तंतु द्व्यंगुल चेति कटीबाहू षडंगुलम्॥ 43
त्रियुजा कुंचितं स्थित्या त्रिभंगाग्र विराजितम्
दक्षिणे कटिदेशे तु वाममक्षान्वितं भवेत्॥ 44
दक्षिणं मुखमाश्रित्य त्रिभंगांग मथोच्यते
श्रुंगारगुणसंयुक्तं किरीटं वा विशेषतः॥ 45
वज्रं पुल्लिंगवायुक्तं मकरकुंडलमंयुतम्
किरीटमुकुटौ ज्ञेयो हारकेयूरसंयुतम्॥ 46
उष्णीषं केशपृष्ठान्ते त्रयोदशांऽगुलमायतम्
ग्रीवायां मध्यमं भागं ककुद्भागात्क्रमोन्नतिः॥ 47
जानकीं समभंगेन वामहस्तेव पुष्पधृत्
दक्षिणं संप्रसार्यैव रुक्मवर्णान्तु कारयेत्॥ 48
श्यामवस्त्रधरां चैव दिव्यस्त्रीमंडनोपमाम्
लक्ष्मणं समभंगेन तप्तकांचनसन्निभम्॥ 49
भरतं श्यामवर्णन्तु शत्रुघ्नन्तु सुवर्णकम्
लक्ष्मणस्याऽथ वामे तु स्थितौ बाणधनुर्धरौ॥ 50
हनूमन्तं पिंगलाभं वार्ताविज्ञापने परम्
एवं सायुधवर्गन्तु वक्ष्यतेऽत्र निरायुधम्॥ 51

  • * *

प्रसारि दक्षिणं पादमितरच्चैव कुंचितम्
दक्षिणे नाऽभयं हस्तं वामं कटिकमुच्यते॥ 52

  • * *

स्थापनादिक्रियास्सर्वाः पूर्ववत्कारयेत्ततः
दक्षिणाग्नौ प्रधानेतु हौत्रशंसनमाचरेत्॥ 53
`रामं दाशरथिं विष्णुं काकुत्‌स्थ'मिति चाह्वयेत्
`सीतामयोनिजां लक्ष्मीं वैदेही'मिति चाह्वयेत्‌॥ 54
`रामानुजं च सौमित्रिं लक्ष्मणं लक्ष्मिवर्धनम्'
`भरतं रामप्रियं चेति कैकैयीसुतमेव च॥ 55
सद्वृत्त'मिति चावाह्य भरतस्य विशेषतः
`शत्रुघ्नं सुमनस्कं च लक्ष्मणाऽनुजमेव च॥ 56
दशरथोद्भव'मित्येव शत्रुघ्नं च समाह्वयेत्
॥कपिराजं हनूमन्तं शब्दराशिं महामतिम्, 57
जुष्टाकारादिसर्वं च पूर्ववत्कारयेद्बुधः
`रायामी'शेति मंत्रेण शतमष्टाऽधिकं यजेत्॥ 58
`श्रिये जात'श्च सीताया होमे मंत्र उदीरितः
`तन्मा यशोग्र' मंत्रेण भरतस्य च हूयते॥ 59
`शन्नो निधत्ता'मुच्चार्य लक्ष्मणस्य हुनेत्सुधीः
`भूमानन्तोग्र' इत्युक्त्वा शत्रुघ्नस्य समाचरेत्॥ 60
`मरुतः परमा'त्मेति मारुतस्येव मारुते॥
सर्वत्र जुहुयान्मंत्रं शतमष्टाधिकं बुधः॥ 61
अर्चनं चोत्सवं चैव स्नपने च हरेरिव
हली
दैत्यानां तु वधार्थाय यदुश्रेष्ठं मलाबलम्॥ 62
बलभद्रं विदुस्सोऽपि वसुदेवस्य संबभौ
भूभारमोचनार्थाय विष्णुस्सबलभद्रकः॥ 63
हत्वानरककंसादीन्‌ सर्वान्‌ लोकानपालयत्
एवं स्थापयितुं राममिच्छेत्कारयितं च यः॥ 64
सोमछंदविमाने वा हस्तिपृष्ठेऽथ वाऽबुधः
तृतीयं राममास्थाप्य द्विभुजं स्वेतवर्णकम्॥ 65
दशतानेन मानेन कृत्वा रूपं समाहितः
दक्षिणेतरहस्ताभ्यां मुसलं खड्गमेव च॥ 66
श्रोणीनूत्रसमेनैव मुष्टिं समुसलं दृढम्
बाहुसूत्रसमं कुर्याद्धलं वामे तथैवच॥ 67
तस्य दक्षिणपार्श्वेतु लक्ष्मीवद्रोहिणीं चरेत्
एवं तु सायुधं कुर्याद्वक्ष्येऽहं तु निरायुधम्॥ 68

  • * *

वामपादं समाकुंच्य दक्षिणं संप्रसार्य च
अभयं दक्षिणं हस्तं वाममूरौ च विन्यसेत्॥ 69
अग्नावाहवनीयेतु हौत्रं तत्र प्रशंसयेत्
`रामं यदुवरं विष्णुं हलायुध'मितिक्रमात्॥ 70
`इंदिरां रेवतीं चैव लक्ष्मीं रामप्रिया'मिति
एवमावाहनं कृत्वाजुष्टाकारादि पूर्ववत्॥ 71
`क्ष्मामेका'मिति मंत्रेण शतमष्टाधिकं यजेत्
अर्चनं चोत्सवं चैव स्नपनं च हरेरिव॥ 72
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णऽधिकारे पंचदशोऽध्यायः