प्रकीर्णाऽधिकारः/पञ्चत्रिंशोऽध्यायः
| ← चतुस्त्रिंशोऽध्यायः | प्रकीर्णाऽधिकारः पञ्चत्रिंशोऽध्यायः [[लेखकः :|]] |
षड्त्रिंशोऽध्यायः → |
अथ पंचत्रिंशोऽध्यायः॥
फलश्रुतिः
अथ वक्ष्ये विशेषेण क्रियायोगश्रितं फलम्
यस्तु देवालयं दारुशिलालोहविलेखनैः 1
कारयेन्मृण्मयं वापि तस्यानन्तफलं स्मृतम्
अहन्यहनि यज्ञेन यजतो यन्महत्फलम्॥ 2
प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरम्
कुलानां शतमागामि समतीतं तथा शतम्॥ 3
तारयेद्भगवद्गेहमिति बुद्धिं करोति यः
सप्तजन्मकृतं पापमल्पं वा यदि वा बहु॥ 4
विष्णोरालयविन्यासप्रारंभादेव नश्यति
सप्तलोकमयो विष्णुस्तस्य यःकुरुते गृहम्॥ 5
प्रतिष्ठां समपाप्नोति स नरस्साप्तलौकिकीम्
प्रशस्तदेशे भूभागे यो नरो भवनं हरेः 6
कारयत्यक्षयान् लोकान् स वरः प्रतिपद्यते
इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति॥ 7
तावद्वर्षसहस्राणि तत्कोर्तादिवि मोदते
- * *
प्रतिमां लक्षणवतीं यः कारयति मानवः॥ 8
केसवस्य स तल्लोकमक्षयं प्रतिपद्यते
षष्टिं वर्षसहस्राणां सहस्राणि स मोगते॥ 9
स्वर्गौकसां निवासेषु प्रत्येकमरिसूदनः
ततः प्रयाति वैकुंठं निस्समाभ्यधिकं महः 10
- * *
प्रतीष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने
पुरुषः कृतकृत्यत्वान्नैनं श्वो मरणं तपेत्॥ 11
ये भविष्यन्ति येऽतीता आकल्पाः पुरुषाः कुले
तांस्तारयति संस्थाप्य देवस्य प्रतियां हरेः॥ 12
बेरपूजा त्वियं प्रोक्ता पूजानामुत्तमोत्तमा॥
अतीते यजमानेऽपि चिरमस्या अवस्थिते॥ 13
- * *
अनुशस्ताः किल पुरा यमेव यमकिंकराः
पाशधंडधराः क्रूराः प्रजासंयमनोद्यताः॥ 14
विहरध्वं यथान्याय्यं नियोगो मेऽनुपाल्यताम्
नाऽज्ञाभंगं करिष्यन्ति भवतां जंतवः क्वचित्॥ 15
केवलं ये जगन्नाथमनस्तं समुपाश्रिताः
भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः॥ 16
ये तु भागवता लोके तच्चित्तास्तत्परायणाः
पूजयन्ति सदा विष्णुं ते वस्त्याज्या स्सुदूरतः॥ 17
यस्तिष्ठन् यस्स्वपन् भुंजन् उत्तिष्ठन् स्खलितेषु च
संकीर्तयति गोविन्दं स वस्त्याज्यस्सुदूरतः 18
नित्यनैमित्तिकैर्देवं ये यजन्ते जनार्दनम्
नावलोक्या भवद्भिस्ते तत्तेजो हन्ति वौ गतिम्॥ 19
ये धूपपुष्पवासोभिर्भूषणैश्चापि दुर्लभैः
अर्चयन्ति न ते ग्राह्यानराः कृष्णाश्रयोद्धताः॥ 20
उपलेपनकर्तारस्सम्मार्जनकराश्च ये
कृष्णालये परित्याज्यास्तेषां त्रिपूरुषं कुलम्॥ 21
येन चायतनं विष्णोः कारितं तत्कुलोद्भवम्
पुंसां कुलं नावलोक्यं भवद्भिर्दुष्टचक्षुषा॥ 22
येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता
नरायुतं तत्कुलजं भवतां शासनातिगम्॥ 23
भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया
विनाज्ञाभंगकृन्नैव भविष्यति नरःक्वचित्॥ 24
यज्ञा नराणां पापौघक्षाळना स्सर्वकामदाः
तथैवेज्या जगद्धातुस्सर्वयज्ञमयो हरिः॥ 25
- * *
स्थापितं प्रतिमा विष्णोस्सम्यक् संपूज्य मानवः
यं यं कामयते कामं तं तमाप्नोत्यसंशयम्॥ 26
यथा हि ज्वलनो वह्निस्तमोहानिंतदर्थिनाम्
शीतहानिंतदन्येषां स्वेदं स्वेदाभिलाषिणाम्॥ 27
करोति क्षुधितानां च भोज्यां पाकक्रियां शिखी
तथैव कामान् भूतेशस्सददाति यथेप्सितम्॥ 28
कल्पद्रुमादिवहरेर्यदिष्टं तदवाप्यते॥
- * *
यस्सदायतने विष्णोः कुरुते मार्जनक्रियाम्॥ 29
सपांसुभुम्यै? र्देहस्य सर्वं पापं व्यपोहाति
यावन्तः पांसुकणिका मार्ज्यन्ते केशवालये॥ 30
वर्षाणि दिवि तावन्ते वसत्यस्तमलो नरः
अहन्यहनि यत्पापं कुरुते विषयी नरः॥ 31
यो बाह्याभ्यन्तरं वेश्म मार्जयेत्केशवालये
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत्॥ 32
गोचर्ममात्रं सम्मृज्य हन्ति तत्केशवालये॥
सबाह्याभ्यन्तरं यच्च मार्जयेदच्युतालये॥ 33
सबाह्याभ्यन्तरं तस्य कायं निष्कल्मषं विदुः?॥
- * *
उदकाभ्युक्षणं विष्णोर्यः करोति सता गृहे॥ 34
सोऽपिगच्छति यत्रास्ते भगवान् यादसां पतिः
- * *
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा॥ 35
विष्णोरायतने नित्यं यः करोत्यनु लेपनम्
प्रवाते वाति गुणवद्वर्षास्वतिमनोहरम्॥ 36
स्वनुलिप्तं शूभाकारं स्वकृहं लभते नरः
पूर्णधान्यहिरण्यादिमणिमुक्ताफलोज्ज्वलम्॥ 37
प्रत्यासन्नजलोपेतं गृहं प्राप्नोति शोभनम्
सामन्तस्वजनानां च सर्वेषामुत्तमोत्तमम्॥ 38
तदाप्नोति गृहं रम्यमुपलेपनकृन्नरः
येनानुलिप्ते तिष्टन्ति विष्ण्वायतनभूतले॥ 39
ब्राह्मणाःक्षत्रिया वैश्याश्शूद्रस्साध्व्यस्त्रियस्तथा
तस्य पुण्यफलं वक्तुं नाऽलं देवास्सहानुगाः॥ 40
अप्सरोगणसंकीर्णं मुक्ताहालशतोज्ज्वलम्
श्रेष्ठं सर्वविमानानां स्वर्गधिष्ण्यमवाप्नुयात्॥ 41
यावन्त स्तिथयो लिप्ता दिव्याब्दांस्तावतो नरः
तस्मिन्विमाने स नरस्त्स्री वा तिष्ठति शोभने॥ 42
स्रग्गन्धवस्त्रसंयुक्त स्सर्वभूषणभूषितः
गंधर्वाप्सरसां संघैः पूज्यमानस्स तिष्ठति॥ 43
लिप्ता च यावता हस्ता विष्णोरायतने मही
तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो भवेत्॥ 44
पूज्यमानस्सुरगणैश्शीतोष्णादिविवर्जितः
मनोज्ञगात्रो विप्रेन्द्रैस्तिष्ठत्याभूतसंप्लवम्॥ 45
तत् क्षयादिह चागत्य विशिष्टे जायते कुले
अत्युत्कृष्टगृहं प्राप्य मर्त्यलोकेऽभिवांछितम्॥ 46
नतत्र तावद्दारिद्य्रं नोपसर्गोन वाकलिः
न तावन्मृतनिष्क्रान्तिर्यावज्जीवन्ति साक्षिणः॥ 47
विष्णुस्समस्तभूतानि ससर्जैजतानि यानि वै
तेषां मध्ये जगद्धातुरतीवेष्टा वसुंधरा॥ 48
कृते सम्मार्जने तस्यास्तथा चैवाऽनुलेपने
प्रयाति परमं तोषं विष्णुर्भूर्वैष्णवीयतः॥ 49
उपोषितो नरो नारी यःकरोत्यनुलेपनम्
न तस्यजायते भंगो गार्हस्थ्ये तु कदा च न॥ 50
या च नारी करोत्येवं यथावदनुलेपनम्
नाऽप्नोति साऽपि वैधव्यं गृहभंगं कदा च न 51
सर्वाभरणसंपूर्णस्सर्वोपस्करधान्यवान्
गोमहिष्यादिसंभागं गृहमाप्नोति मानव॥ 52
तस्मादभीप्सता सम्यग्गार्हस्थ्यं तदखंडितम्
विष्णोरायतने कार्यं सहसै वोपलेपनम्॥ 53
यश्चानुलेपनं कुर्याद्विष्णोरायतने नरः
सोऽपि लोकं समासाद्य मोदतेवै शतक्रतोः॥ 54
- * *
पुष्पप्रकीर्णमत्यर्थं सुगन्धं केशवालये
उपलिप्ते नरो दत्वा न दुर्गतिमवाप्नुयात्॥ 55
- * *
स्नानपानांभसां विष्णोः प्रदानात्तत्सलोकभाक्
स्नानीयद्रव्यदानेन नीरोगः प्रीत्य मोदते॥ 56
क्षौमादिदानादाप्नोति परलोके महत्सुखम्
आलेपनद्रव्यदानात्कामानाप्नोति शाश्वतान्॥ 57
एलाकर्पूरतांबूलीतैलादि स्पर्शनात्पुखी
परत्रेह च लोके स्याद्दीर्घकालमसंशयः 58
- * *
सर्वयज्ञमयो विष्णुर्गव्यानां परमस्स्मृतः
जायते येषु लोकेषु पुळकस्संगमोमहान्॥ 59
येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः
तान् लोकान् पुरुषा यान्तिक्षीरस्नानकरा हरेः॥ 60
आह्गादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपता
सप्तजन्मान्यवाप्नोति क्षीरस्नानकरो हरेः॥ 61
दध्यादीनां विकाराणां क्षीरतस्संभवो यथा
तथैवाशेषकामानां क्षीरस्नापनतो हरेः॥ 62
यथा च विमलं क्षीरं यथा निर्वृतिकारकम्
तथाऽस्य निर्मलं ज्ञानं भवत्यतिफलप्रदम्॥ 63
ग्रहानुकूलतां पुष्टिं प्रियं चाऽप्यखिले जने
करोति भगवान् विष्णुःक्षीरस्नापनतोषितः॥ 64
सर्वोऽस्यस्निग्धतामेति दृष्टिमात्प्रात्प्रसीदति
- * *
यस्स्नापयति देवस्य घृतेन प्रतिमां हरेः॥ 65
इंद्रप्रस्थे द्विजाग्य्राणां स ददाति गवां शतम्
गवां शतस्य विप्राणां न दत्तस्य भवेत्फलम्॥ 66
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिनाम्
पुरा राजर्षिभिः प्राप्ता सप्तद्वीपा वसुन्धरा॥ 67
घृताढकेन गोविंद प्रतिमास्नापनात्किल
प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम्॥ 68
स्नापयित्वा समस्तेभ्यः पापेभ्योऽपि प्रमुच्यते
द्वादश्यां पौर्णमास्यां च गव्येन हविषा हरेः॥ 69
स्नापनं देवदेवस्य महापातकनाशनम्
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः 70
तत्क्षालयति संध्यायां घृतेन स्नापयन् हरिम्
घृतक्षीरेण देवेशे स्नापिते मधुसूदने॥ 71
स गत्वावैष्णवं धाम मोदते सह सूरिभिः
- * *
स्रजं बद्ध्वा सुमनसां यः प्रयच्छति विष्णवे 72
स भुक्त्वा विपुलान् भोगान्नाकपृष्ठे विराजते
- * *
चामरव्यजन छत्रदानात्स्वाराज्यमश्नु ते 73
दानादाभरणादीनां तेजस्वी दिविमोदते
दानाच्च नवरत्नावां देवसालोक्यमश्नुते॥ 74
आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति
- * *
गंधद्रव्य प्रदानेन सुगंधिर्दायते भृवेत्॥ 75
- * *
धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेत्॥
उपानहौ पादुके च वाहनं यानमेव च॥ 76
ददाति यो संदयित्वा? मणिकांचनचित्रितम्
स विमानं तु दुत्प्रापं प्राप्नो त्येव न संशयः॥ 77
अलंकृतं भद्रपीठं प्रयच्छन् सर्वकामभाक्
विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन्॥ 78
सामीप्यं सहसा विष्णोर्याति सद्यो स संशयः
ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः॥ 79
स दिव्यदुंदुभि प्रायंस्थानं प्राप्य विराजते
दासीदासं तथात्मान मात्मीयं च प्रयच्छलि॥ 80
वासुदेवाय दास्येन मुक्तिः करतलेस्थिता
नृत्तभेदैर्गीतभेदै स्तथा वाद्यैरनेकथा॥ 81
श्रोतव्यैरपि दृश्यैश्च देवदेवस्य सन्निधौ
आसीनमुपचारैस्तैर्ये समाराधयन्तिते॥ 82
प्रेत्य दिव्येषु लोकेषु पूज्यन्तेतैर्न संशयः
- * *
दीपं प्रयच्छति नरो विष्णोरायतने हि यः॥ 83
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयः
आहोरात्रमनिर्वाणं दीपमारोपयेन्नरः 84
सर्वपाप विशुद्धात्मा विष्णुलोके महीयते
दिनेदिने जपन्नाम केशवेति समाहितः॥ 85
सकृद्ददातियोविप्रःप्रदीपं केशवालये
जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववन्तुषु॥ 86
अव्याहतेंद्रियत्वं च समाप्नोति न संशयः
सर्वकालं च चक्षुष्मान् मेधावी दीपदो नरः॥ 87
जायते नरकं चापि तमस्संज्ञं न पश्यति
सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम्॥ 88
दीपमालाकुलं दिव्यं विमानमधिरोहति
तस्मादायतने विष्णोर्दद्याद्दीपं प्रयत्नतः॥ 89
तां श्चदत्वान्नहीनस्ते? न च तैलवियोजनम्
कुर्वीत दीपहर्ताच मूकूऽन्धो जायते जडः॥ 90
अन्धेतमसि दुष्पारे नरके पतितान् किल
विक्रोशमानान्मनुजान् वक्ष्यन्ति यमकिंकराः 91
विलापैरल मत्रेवं किंवो विलपिते फलम्
तथा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः॥ 92
पुर्वमालोचितं नैतत्कथमन्ते भविष्यति
इदानीं यातना भौगाःकिं विलापः करिष्यति॥ 93
देहोदितानि स्वल्पानि विषयाश्चातिकर्षकाः
एतत्कोन विजानाति येन यूयं प्रमादिनः॥ 94
जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन् मानुषो यदि
तत्राऽप्यतिविमाढत्वात्किंभोगानभिधावति॥ 95
कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तिते
वर्णिते तुल्यमूलेतु यदग्निर्लभ्यते सुखम्॥ 96
अतोऽधिकरोलाभः कोवश्चितैऽभवत्तथा
येनायतेषु हस्तेषु स्वातंत्य्रेसति दीपकः 97
महाफलो विष्णुगृहे न दत्तो नरकापहाः
न वो विलपिते किं चिदिदानीं दृश्यते फलम् 98
अस्वातंत्य्रे विलपतां स्वातंत्य्रे तु प्रमादिनाम्
अवश्यंपातिनः प्राणा भोक्ताजीवोप्यहर्निशम्॥ 99
दत्तं चलभते भोक्तुं कामयन्विषयांस्तदा
एतत्स्वातंत्य्रवद्भिर्वो युक्तमासीत्परीक्षितुम्॥ 100
इदानीं किं विलापेन सहध्वं यदुपागतम्
यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम्॥ 101
यद्भूयोऽपि मतिः पापे न कर्तव्या कथं च न
पापकर्मणिनिर्वृत्तेऽप्यज्ञानादघनाशनम् 102
कर्तव्यमप्यविच्छिन्नं स्मरद्भिर्मधुसूदनम्
विमानमतिविद्योति सर्वरत्नमयं दिवि॥ 103
समाप्नोति नरो दत्वा प्रदीपं केशवालये
- * *
हविषां पायसादीनां हरये च निवेदनात्॥ 104
सुखैकरसपूर्णत्मा राजते विष्णुसन्निधौ
भक्ष्यपानीयभोज्यानामन्येषामपि दानतः 105
श्वेतद्वीपे तत्समीपे वसन्ति सुखिनस्सदा
बहुनात्र किमुक्तेन वासुदेवार्थमादरात्॥ 106
ददाति वस्तुदानं? यस्थ्सानं प्राप्नोति चेप्सितम्
कर्मणां मार्जनादीनां फलभोगादनन्तरम्॥ 107
कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु
उत्कृष्टास्वेन भोक्तारो लभन्ते सुखिनस्सदा॥ 108
- * *
आरामाणां तटाकानां प्रपाणां च प्रवर्तनात्
विष्णोरालयसामीप्ये तत्फलं केन वर्ण्यते॥ 109
सुप्रदर्शा बलवती चित्रा धातुविभूषिता
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते॥ 110
तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनम्
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः॥ 111
तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः
त्रिषु लोकेषु सर्वत्र पूजनीयः प्रतापवान्॥ 112
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम्
कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनम्॥ 113
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
तटाकं सुकृतं देशेक्षेत्रमेकं महाश्रयम्॥ 114
चतुर्विधानां भूतानां तटाकमुपलक्षयेत्
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम्॥ 115
देवा मनुष्या गंधर्वाः पितरो यक्षराक्षसाः
स्थावराणि च भूतानि संश्रयन्ति जलाशयम्॥ 116
तस्मात्तांस्तु प्रवक्ष्यामि तटाके ये गुणास्स्मृताः
या च तत्र फलावाप्तिर्ऋषिभिस्समुदाहृता॥ 117
वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः 118
शरत्का ले तु सलिलं तटाके यस्य तिष्ठति
गोसहस्रस्य संप्रेत्य लभते फलमुत्तमम्॥ 119
हेमन्तकाले सलिलं तटाके यस्य तिष्ठति
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम्॥ 120
यस्य वै शैशिरे काले तटाके सलिलं भवेत्
तस्याग्निष्टोमयज्ञस्य भलमूहुर्मनीषिणः 121
तटाकं सुकृतं यस्य वसन्तेतं महाश्रयम्
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते॥ 122
निदाघकाले पानीयं तटाके यस्य तिष्ठति
वाजिमेधपलं तस्य फलं वै मुनयो विदुः 123
स कुलं तारयेत्सर्वं यस्य खाते जलाशये
गावः पिबन्ति सलिलं साधवश्च नरास्सदा॥ 124
तटाके यस्य गावस्तु पिबन्ति तृषिता जलम्
मृगपक्षिमनुष्याश्य सोऽश्वमेधफलं लभेत्॥ 125
यत्पिबन्ति जलं तत्र स्त्यायन्ते विश्रमन्तिच
तटाकदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते॥ 126
दुर्लभं सलिलं चेह विशेषेण परत्र वै
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती॥ 127
तटाके यस्य पानीयं पानीयाय जगत्पतेः
तस्य पुण्यफलं वक्तुं नालं देवास्सहानु गाः॥ 128
तटाके यस्य पानीये सायं प्रातर्द्विजातयः
स्नात्वा कुर्वन्ति कर्माणि तस्य नाकेस्थितिर्भवेत्॥ 129
तटाके यस्य देवस्य स्नापनं चाऽधिवासनम्
तस्य लोका भवन्त्येव पावनाः क्षतिवर्जिताः॥ 130
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते
पानीयावासदानं तु देवस्याग्रे प्रशस्यते॥ 131
- * *
अथ वक्ष्ये विशेषेण वृक्षाणामवरोपणम्
स्थानराणां च भूतानां जातयष्षट् प्रकीर्तिताः॥ 132
वृक्षगुल्पल तावल्ल्यस्त्वक्चारास्तृणजातयः
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे॥ 133
कीर्तिश्च मानवे लोके प्रेत्य चैव फलं शुभम्
लभते नाम लोके च पितृभिश्च महीयते॥ 134
देवलोकगतस्यापि नामतस्य न नश्यति
अतीतेऽनागते चोभेपितृवं शेऽन्यतस्तथा॥ 135
तारयेद्वृक्षरूपी च तस्माद्वृक्षांश्च रोपयेत्
तस्य पुत्रा भवन्त्येते पादपा नाऽत्र संशयः 136
परलोकगतस्स्वर्गं लोकांश्चाप्नोति सोऽव्ययान्
पुष्पैस्सुरगणान् वृक्षाः फलैश्चाऽपि तथा पितृन्॥ 137
चायया चाऽतिथींश्चापि पूजयन्ति महीरुहाः
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः 138
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्॥ 139
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु
पत्रं फलं वा पुष्पं वा यस्यारामेऽवरोपिते॥ 140
अच्युतस्य पदं प्राप्तं लोकास्तस्याच्युता ध्रुवम्
पत्रैःफलै र्वापुष्पैर्वा प्रीयते भगवान् हरिः 141
तस्मात्तटारे तद्वृक्षा रोप्याश्श्रेयोर्थिना सदा
पुत्रवत्परिपाल्याश्च पुत्रास्तेधर्मतस्स्मृताः 142
तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो नरः
एते स्वर्गे महीयन्ते ये चाऽन्ये सत्यवादिनः 143
तस्मात्तटाकान् कुर्वीत आरामांश्चैव रोपयेत्
यजेच्च विविधैर्यज्ञैस्सत्यं च सततं वदेत्॥ 144
- * *
गोभूहिरण्यदानानि कृत्वाऽचार्याय विष्णवे
अर्चकाय विशेषेण स्वर्गतस्सुखमेधते॥ 145
अतिदानं तु सर्वेषां भूमिदानमिहोच्यते
अचला ह्यक्षयो भूमिस्सर्वान् कामान् प्रयच्छति॥ 146
यस्तुदद्याद्भूमिदानं देवनाम्नार्चकायहि
तस्यैहिकं भवेत्पुण्यं तथा पारत्रिकं बहु 147
यस्तु दद्यात्स्वनाम्नैव पूजकाय वसुंधराम्
तस्य कामाः प्ररोहन्ति सर्वमैहिकमश्नुते॥ 148
देवकार्याय वैदद्याद्यो देवाय वसुन्धराम्
देवनाम्नैव तस्य स्यात्केवलामुष्मिकं फलम्॥ 149
ब्रह्मार्पणधिया यस्तु गुप्तं दास्यति किं चन
देवाय देवकार्याय ब्राह्मणायाऽधिकारिणे॥ 150
यावज्जीवति तद्दानं स्वर्गेतस्य स्थितिर्भवेत्
यं यं कामं तु मनसि कृत्वा यद्यच्च योऽर्पयेत् 151
तं तमेव फलं लब्ध्वाकर्तासम्मोदते चिरम्
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने॥ 152
आचार्यायार्पिता भूमिरत्यन्तफलदायिनी
ततोऽर्चकार्पिता दद्यादनन्तं फलमुच्यते॥ 153
पदार्थिनामथाऽन्वेषां तथाऽन्यविभवस्य च
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति॥ 154
फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीम्
यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते॥ 155
फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीम्
यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते॥ 156
य़श्चाऽपि कुरुते पापं पुरुषोवृत्तिकर्शितः
अपि गोकर्णमात्रेण भूमिदानेन शुद्ध्यति॥ 157
सप्तहस्तेन वा सम्यक्त्रिंशद्दंडेन वर्धनम्
स शतान्येव गोकर्णमिति वेदविदो विदः॥ 158
जितेंद्रयाय गुणिने पूजकाय तपस्विने
दद्यान्महीं भदेत्तस्य फलमक्षयमच्युतम्॥ 159
यथाऽप्सु पतितस्सद्यस्तैलबिंदुः प्ररोहति
एवं भूमिकृतं दानं सस्ये सस्ये प्ररोहति॥ 160
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले
एवं कामाःप्ररोहन्ति भूमिदानसमार्जिताः 161
यथा गौर्भरते वत्सं क्षीरिणी क्षीरमुत्सृजेत्
एवं दत्ताचिरं कालं भूमिर्भरति भूमिदम्॥ 162
इक्षुभिस्सततां भूमिं यवगोधूमशाद्वलैः
यो ददाति नरश्रेष्ठस्स न प्रच्यवते दिवः॥ 163
शुभं भद्रासनं छत्रं वराश्च वरयोषितः
भूमिदानस्य चिह्नानि फलमेतन्न संशयः 164
आदित्य वसवो विष्णुर्ब्रह्मा सोमो हुताशनः
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम्॥ 165
सौवर्णछत्रहक्म्याणि वसोर्धाराश्च कामदाः
गंधर्वाप्सरसो यत्र तत्र तिष्ठन्ति भूमिदाः॥ 166
इयमेव पुरा भूमिः पालिता बहुभिग्नृपैः
अन्यैश्च बहुभिर्दत्ता राजभिस्सत्यसंगरैः 167
यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलम्
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति॥ 168
तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ
दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनम्॥ 169
दानात्स्वर्गमवाप्नोति पालनादच्युतं पदम्
स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनम्॥ 170
भूमिदस्स्वर्गमारुह्य शास्वतीरेधते समाः
पुनश्च जन्म संपाप्य भवेद्भूमि पतिर्ध्रुवम्॥ 171
यथा भूमिस्सदा देवी दातारं कुरुते पतिम्
एवं सदक्षिणा दत्ताकुरुते गौर्जनाधिपम्॥ 172
अपि पापकृतं प्राप्य प्रतिगृह्णाति भूमिदम्
महीं ददत्पवित्रस्स्यात्पुण्या च जगती यतः 173
नामैव प्रियदत्तेति गुह्यामेतत्सनातनम्
तदस्यास्सततं प्रीत्यैकीर्तनीया प्रयच्छता॥ 174
तपोयज्ञाश्रितं शीलमलोभस्सत्यवादिता
गुरुदैवतपूजा च नातिक्रामति भूमिदम्॥ 175
भर्तुर्निश्श्रेयसे युक्ता स्त्यक्तात्मादोरणे हताः
ब्रह्मलोकगतास्सन्तो नाऽतिक्रामन्तिभूमिदम्॥ 176
यथा जनित्री क्षीरेण पुष्णाति स्वसुतं मुदा
एवं सर्वगुणैर्भूमिर्दातारमनुपुष्यति 177
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
न तत्फलमवाप्नोति यद्दत्वा वसुधां पुनः 178
मृत्योर्हि किंकरा दंडा ह्यग्नितापास्सुदारुणाः
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्॥ 179
पीतरः पितृलोकस्था देवलोके दिवौकसः
सन्तर्पयन्ति दातारं भूमेः प्रभवतांनरः 180
आदित्या इव दीप्यन्ते तेजसा दि मानवाः
ये प्रयच्छन्ति वसुधां हरये लोकसाक्षिणे॥ 181
कृशाय कृशभृत्याय वृत्तिं क्षीणाय सीदते
देवाग्रेऽर्प्यतु विप्राय सुश्रीर्भवति मानवः 182
आस्फोटयन्ति पितरः प्रनृत्य नि पितामहाः
भूमिदो नः कुले जातस्सवस्सन्तारयिष्यति 183
स नः कुलस्य पुरुषस्सनो बन्धुस्सनो गुरुः
स दाता स च विक्रान्तो यो ददाति वसुंधराम्॥ 184
- * *
लोकांस्तु सृजता पूर्वं गावस्सृष्टास्स्वयंभुवा
वृद्ध्यर्थं सर्वभूतानां तस्मात्ता मातरस्स्मृताः॥ 185
तास्तुदत्वा सौरभेयीस्स्वर्गेलोके महीयते
धेनुं दत्वा सुव्रतां च सोपधानां पयस्विनीम्॥ 186
सवत्सां कपिलां दिव्यामाचार्यायार्चकाय च
देवदेवस्य तुष्ट्यर्थं देवाय ब्राह्मणाय वा॥ 187
न तस्य शक्यते वक्तुं फलं वर्षशतैरपि
यावन्ति धेन्वालोमानि वत्सायाश्च विशेषतः॥ 188
तावद्वर्ष सहस्राणि कामान् दुह्येत सा वरा
प्रयच्छते यःकपिलां सवत्सां कांस्यजोहनाम्॥ 189
स्वर्णश्रुंगीं रौप्यखुरां तैस्तैर्द्रव्यगुणैः पुनः
सा गौः कामदुघा भूत्वा दातारमुपसर्पति॥ 190
गोसहस्रं तु यो दद्यात्सर्वरत्नैरलंकृतम्
परां वृद्धिंश्रियं प्राप्य स्वर्गलोके महीयते॥ 191
दश चोभयतःप्रेत्य माता महपितामहाः
गच्छेत्सुकृतिनां लोकान् गावो दत्वा यथाविधि॥ 192
दायाद्यलब्धैर्योगाद्यैर्गावस्सम्पाद्य योददेत्
तस्यापि चाक्षया लोका भवन्तीह परत्र च 193
यो वा द्यूते धनं जित्वागावःक्रीत्वा प्रयच्छति
स गच्छेद्विरजान् लोकान् गोप्रदानफलार्जितान्॥ 194
प्रतिगृह्यतु यो दद्याद्गावश्शुद्धेन चेतसा
स गत्वा दुर्लभं स्थानममरैस्सह मोदते॥ 195
यश्चात्मविक्रयं कृत्वा गावो दद्याद्यधाविधि
स गत्वा विरजान् लोकान् सुखं वसति देववत्॥ 196
संग्रामे यस्तनुं त्यक्त्वा त्वक्त्वा गावःप्रयच्छति॥
देहविक्रय मूल्यास्ता श्शाश्वताः कामदोहनाः 197
जीर्णां चैवोपभुक्रांच जरद्गां शीलवर्जिताम्,
तमः प्रविशते दत्वा द्विजं क्लेशेन योजयेत् 198
दानयोग्या भवेस्नैव कृशा दुष्टा पलायिनी
युंज्यात्ल्केशैस्तु यो विप्रं दत्वैनां तद्वृधा भवेत्॥ 199
- * *
युवानं बलिनं श्यामं हलेन सह यूथपम्
गोपतिं हरये दद्याद्भूरिश्रुंगमलंकृतम्॥ 200
- * *
ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम्
एकत्र मंत्रा स्तिष्ठन्ति हविरेकत्र तिष्ठति॥ 201
उपगम्य तु यो दद्याद्गावश्शुद्धेन चेतसा
यावन्तितासां रोमाणि तावत्स्वर्गे महीयते॥ 202
- * *
प्रवक्ष्यामि गवांलोका यादृशायत्र संस्थिताः
मनोज्ञा रमणीयाश्च सर्वकामदुहास्सदा॥ 203
पुण्याःपापहराश्चेव गवां लोका न संशयः
अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः 204
प्रमोदन्ते महास्थ्साने नरा विगतकल्मषाः
तुल्यप्रभावा देवैस्ते मोदन्ते प्सरसां गणैः॥ 205
गंधर्वैरुपगीयन्ते गोशरण्या न संशयः
ब्राह्मणास्साधुवृत्ताश्च दयावन्तोऽनुकंपकाः 206
घृणिनश्शुभकर्तारो मोदन्तेदैवतैस्सह
यथैव सलिले मत्स्यस्सलिलेन सहोष्य ते॥ 207
गोभिः पापकृतं कर्म दृढमेव व्यपोह्यते
मातरस्सर्वभूतानां प्रजानां रक्षणे कृताः 208
ब्रह्माणा लोकसारेण गावःपापभयापहाः
तानु दत्तासु लोकेऽस्मिन् किं न दत्तं भवेदिह॥ 209
देवेशाय विशेषेण तत्क्रियाय तथा पुनः
प्रतिपाद्यास्सदा गानो भूतिं स्भारामभीप्सुभिः॥ 210
- * *
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा
एतत्पवित्रं परममेतत्स्वस्त्ययनं महत्॥ 211
दशपूर्वान् परान् वंश्यानात्मानं च विशेषतः
अपिपापशतं कृत्वा दत्तं विप्रिषु तारयेतअ॥ 212
सुवर्णं ये प्रयच्छन्ति नराश्शुद्धेव चेतसा
देवतास्ते प्रयच्छन्ति समस्तमिति नश्श्रुतम्॥ 213
अग्निर्हि देवतास्सर्वास्सुवर्णं च हुताशनः
तस्मात्सुवर्णं ददता दत्तास्सर्वाश्च देवताः॥ 214
अग्न्यभावे च कुर्वन्ति वह्निस्थाने च कांचनम्
सर्वदेवप्रमाणज्ञा वेदश्रुतिनिदर्शनात्॥ 215
यस्त्वेनं ज्वलयेदग्निमादित्योदयनं प्रति
दद्याद्वै देवमुद्दिश्य सर्वान्कामानवाप्नुयात्॥ 216
सुवर्णदस्सर्वलोके कामानिष्टानवाप्नुते
विरजांबरसंवीतः परियाति ततस्ततः॥ 217
विमानेनार्कवर्णेन भास्वरेण विराजता
अप्सरोगणसंकीर्णो भास्वरस्तेन तेजसा 218
हंसबर्हिणयुक्तेन कामगेन नरोत्तमः
दिव्यगंधवहस्स्वर्गे परिगच्छन्नितस्ततः॥ 219
तस्मात्स्वशक्त्या दातव्यं कांचनं मानवैर्भुवि
विमानेनार्कवर्णेन स याति स्वर्गमुत्तमम्॥ 220
न ह्यतः परमं लोके सद्यः पापविनाशनम्
ब्रह्मकोशस्य शुद्धस्य सुवर्णं य़ः प्रयच्छति॥ 221
बहून्यब्दसहस्राणि स्वर्गेलोके महीयते
इति संक्षेपतः प्रोक्तं स्वर्णदानफलं मया॥ 222
- * *
अथ वक्ष्ये विशेषेण फलमन्नस्य दापनात्
विष्णवे च श्रियै भूम्यै सर्वदेवेभ्य एव च॥ 223
तन्नि वेदित शेषस्य दानाच्चार्थिभ्य आदरात्
न शक्यते फलं तस्य वक्तुं वर्षशतैरपि 224
तथाऽपि गीयते यत्तु विस्तारात् परमर्षिभिः
संक्षेपतः प्रवक्ष्यामि अन्नदानार्जितं फलम्॥ 225
प्रसादममृतं ब्रूयादन्नं देवनिवेदितम्
तीर्थं चामृतमित्येव देवपादोदकं वदेत्॥ 226
अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा
लोकतंत्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितम्॥ 227
अन्नेन सदृशं दानं न भूतो न भविष्यति
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः॥ 228
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः
अन्नेन धार्यते सर्वं विश्वं जगदिदं महत्॥ 229
अन्नाद्गृहस्था लोकेस्मिन् भिक्षवस्तापसास्तथा
अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नाऽत्र संशयः॥ 230
कुटुंबं पीडयित्वा तु ब्राह्मणाय महात्मने
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता॥ 231
ब्राह्मणायाऽभिरूपाय यो दद्यादन्नमर्थिने
विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः॥ 232
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्
अर्चयेद्भूतिमन्विच्छन् गृहस्थो गृहमागतम्॥ 233
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः
अन्नदः प्राप्नुते भू यो भुवि चेह च यत्सुखम्॥ 234
नाऽवमन्येदभिगतं न प्रणुद्यात्कथं चन
अपि श्वपाके शुनि वा न दानं विप्रणश्यति॥ 235
यो दद्यादपरिक्लिष्टमन्न मध्वनि वर्तते
शान्तायादृष्टपूर्वाय समहद्धर्ममाप्नुयात्॥ 236
पितॄन् देवानृषीन्विप्रानतिथींश्च विशेषतः
यो नरःप्रीणयत्यन्नैस्तस्य पुण्यफलं महत्॥ 237
कृत्वाऽतिपातकं कर्मयो दद्यादन्न मर्थिने
ब्राह्मणाय विशेषेण न स पापेन मुह्यते॥ 238
ब्राह्मणेष्वक्षयं नाम्नां शूद्रे महत्भलम्
अन्नदामपि शूद्रे च ब्राह्मणस्य विशिष्यते 239
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेन च
भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः॥ 240
अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः
भवन्ति चेह नामुत्रनृपतेर्नात्रसंशयः॥ 241
आशंसते हि पितरस्सुवृष्टिमिव कर्षकाः
अस्माकमपि पुत्रो वा पौत्रो वाऽन्नं प्रदास्यति॥ 242
ब्राह्मणोहि महद्भूतं स्वयं देहीति याचते
अकामोवा सकामो वा दत्वा पुण्यमवाप्नुयात्॥ 243
ब्राह्मणस्सर्वभूतानामतिधिः प्रसृताग्रभुक्
विप्रा यमधिगच्छन्ति भिक्षमाणा गृहं सदा॥ 244
सत्कृताच्च निवर्तन्ते तदतीव प्रवर्थते
महाभोगे कुले प्रेत्य जन्म चाप्नोति नित्यशः 245
दत्वात्वन्नं नरो लोके यथास्थानमनुत्तमम्
नित्यं मृष्टान्नदायी तु स्वर्गे वसति सत्कृतः 246
अन्नं प्राणा नराणांहि सर्वमन्ने प्रतिष्ठितम्
अन्नदः पशुमान् पुत्री धनवान् भोगवानपि॥ 247
प्राणवांश्चाऽपि भवति रूपवांश्च तथा भवेत्
अन्नदःप्राणदो लोके सर्वदः प्रोच्यते तु सः 248
अन्नं हिदत्वाऽतिथये ब्राह्मणाय यथाविधि
प्रदाता सुखमाप्नोति दैवतैश्चाऽपि पूज्यते॥ 249
ब्राह्मणो हि महद्भूतं क्षेत्रभूतमिहोच्यते॥
उप्यते यत्र तद्बीजं तद्धि पुण्यफलं महत्॥ 250
प्रत्यक्षप्रीतिजननं भोक्तुर्दातुर्भवत्युत
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत॥ 251
अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि जायते
धक्मार्थावन्नतो विद्यात् रोगनाशस्तथान्नतः॥ 252
अन्नं ह्यद्भुतमित्याह पुरा कल्पे प्रजापतिः
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्॥ 253
अन्न प्रणाशे भिद्यन्ते शरीरे पंच धातवः
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः 254
आवाहाश्च विवाहाश्च यज्ञाश्चाऽन्नकृते तथा
निवर्तन्ते विशेषेण ब्रह्म चाऽत्र प्रदीयते 255
अन्नतस्सर्वमेतद्धि यत्किंचित् स्थाणु जंगमम्
त्रिषुलोकेषु धर्मार्थमन्नं देयं ततो बुधैः॥ 256
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च
आयुश्च वर्धते तद्वत्तेषु लोकेषु निश्चितम्॥ 257
मेघादूर्ध्वं सन्निधत्तेप्राणानां पवनः पतिः
यच्च मेघगतं वारि शक्रो वर्षति हर्षितः॥ 258
आदत्ते च रसान् भौमान् आदित्यस्स्वगभस्तिभिः
वायुरादित्यतप्तांश्च रसान् देवःप्रवर्षति॥ 259
तद्यथा मेघतो वारि पतितं भवति क्षितौ
तदा वसुमती देवी स्निग्धा भवति भाविता 260
ततस्सस्यानि रोहन्ति येन वर्तयते जगत्॥
मांसमेदोऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः 261
संभवन्ति ततश्शुक्रात्प्राणिनः पृधिवीतले
अग्निष्टोमौ हि तच्छ्रक्रं सृजतः पुष्यतश्च ह॥ 262
एवमन्नाद्धि सूर्यश्च पवनश्शुक्रमेवच
एक एव स्मृतो राशिस्ततो भूतानि जङिरे॥ 263
प्राणान् ददाति भूतानां तेजश्च सततप्रभम्
गृहमभ्यागतायाऽथ यो दद्यादन्नमर्थिने॥ 264
अन्नदानाद्धि येलोकास्तांश्रुणुध्वं समाहिताः
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्॥ 265
तारासंस्थानरूपाणि नाना स्तंभान्वितानि च
चंद्रमंडलशुभ्राणि किंकिणीजालवन्ति च॥ 266
तरुणादित्यवर्णानि स्थावराणि चराणिच
अनेकशतभौमानि सांतर्जलचराणि च 267
वैडूर्यार्कप्रकाशानि रौक्मरूप्यमयानि च
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः॥ 268
वाप्यो वीथ्य स्सभाः कूपादीर्घि काश्चैव सर्वशः
घोषवन्त्यथ यानानि मुक्तान्यथ सहस्रशः 269
भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च
क्षीरं स्रवन्ति सरितस्तथा चैवान्न पर्वताः॥ 270
प्रासादाः पांडुराभ्राभाश्शय्याश्च कनकोज्ज्वलाः॥
तान्यन्नदाः प्रपद्यन्ते तस्मादन्नं ददेत्सदा॥ 271
दद्यादद्यात्सदैवाऽन्नं विष्णवे विनिवेदितम्
- * *
हविःपात्रादि सौवर्णं राजतं ताम्रमेव वा॥ 272
कांस्यं वाऽप्यथ यो दद्यादर्घ्य पात्रादिकानपि
कलशान् करकान् कुंभानन्यांश्चैव परिच्छदान्॥ 273
शक्तिलोभमकृत्वैव तस्य पुण्यफलं महत्
सौवर्णान्येवयो दद्यात्सारूप्यं लभते फलम्॥ 274
राजतान्यथ योदद्यात्सामीप्यं फलमाप्नुयात्
दद्यात्ताम्राणि कांस्यानि सारोक्यं पदमेति सः॥ 275
ध्वचान्विचित्रान् यो दद्यान्नानावर्ण समायुतान्
सर्वेषामुत्तमो भूत्वा कुलकेतुर्भविष्यति॥ 276
श्वेतं वितानं रक्तं वा कृष्णं पीतं च श्यामलम्
दुकूलेनाऽथ पट्टेन तंतुनाऽन्येन वा कृतम्॥ 277
यो दद्याद्देवदेवस्य स गच्छेद्वैष्णवं पदम्
सोपधानां सतल्पां च खट्वां दद्याच्च योहरेः॥ 278
कुबेरलोकमासाद्य तत्र सम्मोदते चिरम्
आतपत्रं तथा हैमं मुक्तादामविभूषितम्॥ 279
हैमदंडयुतं दद्यादिंद्रलोकं स गच्छति
राज्यकामी तु राजा स्यात्सार्वभौमोऽपि जायते॥ 280
मयूरच्छत्रदानात्तु वारुणं लोकमाप्नुयात्
चामरं हेमदंडं च व्यजनं रत्नभूषितम्॥ 281
केवलं हेमदंडं वा भक्त्या शक्त्या च संयुतम्
अर्पयेद्धरये यस्तु देवलोके महीयते॥ 282
मयूरव्यजनं तद्वद्रुक्मदंडं च शक्तितः
भक्त्यैव यो हरेर्दद्याद्वायुलोके महीयते॥ 283
विमानं हैवसंच्छन्नं विष्णोर्यः कारयेन्नरः
अशक्यं तत्फलं वक्तुं सर्वैरपि सुराऽसुरैः 284
सौवर्मं विष्णुरूपन्तु यो भक्त्यैव तु कारयेत्
तस्याऽपि यत्फलं सर्वमनन्तमिति नश्श्रुतम्॥ 285
मंडपं वा प्रपां वाऽथ रत्नमुक्तोपशोभितम्
हेमलंब? समायुक्तं हैमस्तंभपरिष्कृतम्॥ 286
कल्पयेद्विष्णुसालोक्यं प्राप्नोत्यमरदुर्लभम्
हैमं सिंहासनं श्रेष्ठं यो भक्त्यैवाऽर्पयेद्धरेः॥ 287
सिंहासनं समास्थाय माहेन्द्रीं संपदं व्रजेत्
हैमीर्याश्शिबिकाश्चैव रंगादीन्यश्च कारयेत् 288
हैमं यानं तथाऽरुह्य विष्णुलोकं स गच्छति
अशक्तोदारवान् वाऽथरंगादीन् शिबिकास्तथा 289
सिंहासनं वा यो दद्यात्सोमलोकं स गच्छति
यश्च कांस्यमयीं घण्टांहृद्यध्वनियुतां ददेत्॥ 290
हृद्यवाक्सुस्वरो हृद्यो वाग्मी स तु भवेन्नरः
शंखभेर्यादिदानेन शक्रलोके स पूज्यते॥ 291
नृत्तगेयादिभिर्वाद्यैर्घोषणं कारयेत्तु यः
नर्तयेदप्सरोभिर्वा गांधर्वं लोकमाप्नुयात्॥ 292
वीणावेणुविनादैश्च शक्त्या यः पूजयेद्धरिम्
भुक्त्वाऽत्रमहदैश्वर्यं वैष्णवं पदमाप्नुयात्॥ 293
यद्यद्द्रव्यं मुदा युक्तो दद्यात्तु हरये नरः
तदग्रे पूजकेभ्यश्च गुरवे च विशेषतः 294
तत्प्रीत्यै चेतरेभ्यश्च ब्राह्मणेभ्यो विधानतः
समृद्धिं तस्य तस्यैव द्रव्यस्याप्नोत्यसंशयम्॥ 295
यं कामयित्वा दद्याद्यत्तत्सर्वं स लभेन्नरः
यद्यत्कर्म तदर्थं स्यात्परिचर्या च तस्य या॥ 296
तस्योपचारं यत्कर्म करोति श्रद्धया तु यः
सर्वयज्ञफलं प्राप्य नामीप्यं पदमाप्नु यात्॥ 297
- * *
तस्मादत्र प्रतिष्ठाप्य देवदेवस्य मन्दिरम्
शक्तिलोभमकृत्वैव विभवानांचभक्तितः॥ 298
बहुधा बहुलां वृत्तिं कल्पयेच्चेत्तदुत्तमम्
- * *
अथाऽर्चने फलं वक्ष्ये विशेषेण मधुद्विषः 299
भक्त्याप्रदक्षिणं कुर्वन्नित्यं विष्ण्वालये नरः
सायं प्रातश्च देवेशं नमस्यन्नथ चिन्तयन्॥ 300
यः प्रमामं मुहुः कुर्यात्स तु यज्ञफलं लभेत्
उपचारविशेषाणाद्वक्ष्यते फलम्॥ 301
ध्यानमावाहनं कृत्वा सर्वान् कामानवाप्नुयात्
अष्टांगयोगमार्गेण मनसा भावयन् हरिम्॥ 302
संचिन्त्य मनसा पूर्वं पूतकायो महामनाः
यः कुर्यात्पूजनं विष्णोस्तत्र देवो वसेद्ध्रुवम्॥ 303
अर्चकस्य तपोयोगात्पूजाया श्चाऽतिशायनात्
आभिरूप्याच्च बिंबस्य सन्निधेः प्रोच्यते हरेः 304
आसनं हरये दत्वा प्रतिष्ठां लभते चिरम्
स्वागतेनाऽनुमानेन यः पूजयति माधवम्॥ 305
सर्वैरनुमतो भूत्वा स्वागतं सोऽभिपद्यते
पाद्यमाचमनीयं च समर्प्य हरये नरः॥ 306
बाह्यमाभ्यन्तरं यत्तु पापं तेन विमुच्यते॥
नित्यं पुष्पाणि पुण्यानि भक्त्या यस्तु समर्चयेत्॥ 307
सूर्यकोटिनिभं दिव्यं विमानमधिरुह्यसः
विष्णुलोकं गतस्सत्यं विष्णुवन्मोदते चिरम् 308
देवेशं पुष्पमालाद्यैरलंकुर्याच्च यो बुधः
तस्याऽनन्तफलं प्रोक्त मनन्तो भगवान् हरिः 309
चंपकाऽशोकपुन्नाग जातीमलयपंकजम्
समर्प्य देवदेवाय शुभानामाश्रयो भवेत्॥ 310
दमनोशीरलामज्जा केतक्युत्पलमर्पयेत्
मंगळं तस्य निश्छिद्रं भवेदेव न संशयः॥ 311
तुळसीमर्पयेद्विद्वान् पादयोर्भक्तितो हरेः
स चान न्तफलं प्राप्य मोदते विष्णुसन्नेधौ॥ 312
सुगंधिपुष्पदानेन सुगंधिर्जायते नरः
बहुपुष्पप्रदानेन बहुधा तुष्यते?हरिः॥ 313
बहुजातिसुमानां च दानेन प्रीयते स वै
पादयोरर्पणाद्विष्णोः पुष्पाणां संचयं सकृत्॥ 314
पदेपदे चाऽश्वमेधफलं प्राप्नोत्यसंशयम्
तुळसीं मूर्थ्नि देवस्य समर्प्य मधुविद्विषः॥ 315
नरः पापाद्विमुच्येत कर्मणा नोपलिप्यते
सर्वांगेष्वर्पयन् पुष्पं सर्वगस्य नरो हरेः॥ 316
सर्वदा सर्वलोकेषु कामचोरो भविष्यति
अलंकृत्य फलैर्देवं पुष्पार्पणफलं लभेत्॥ 317
संगंधचंदनद्रव्यं कर्पूरादियुतं तथा
यथार्हमर्पयेदंगेश्लक्ष्णं सर्वाङ्गसुन्दरम्॥ 318
स नरो विष्णुसालोक्यं प्रयात्यमरदुर्लभम्
स्वयमेवाहृतैः पुष्पैः पूजयेद्यस्तु माधवम्॥ 319
स सर्वान् समवाप्नोति पुष्पार्पणफलादिकान्
- * *
सर्वेषामपि पुष्पाणां तुळसी प्रीतिदा हरेः 320
तुळसीदलमादाय यत्र गच्छति पूजकः
अनुगच्छति तं देवो यथा गोर्वत्सला भृशम्॥ 321
प्रत्यहं पूजयेद्यस्तु तुळस्या गरुडध्वजम्
जन्ममृत्युजराव्याधिमुक्तो मुक्तिमवाप्नुयात्॥ 322
मणिकांचनपुष्पाणि मुक्तावैदूर्यकानि च
तुलसीदलदानस्य कलां नाऽर्हन्ति षोडशीम्॥ 323
सुमंजरीदलैर्युक्तैः कोमलैस्तुळसीदलैः
ये कुर्वन्ति हरेः पूजां ते कृतार्थाः कलौ युगे॥ 324
शुष्कं पर्युषितं वाऽर्द्रं काष्ठं वा तुलसीदलम्
अर्चने वासुदेवस्य लक्षकोटिगुणं भवेत्॥ 325
तुळसीग्रहणं शस्तं विष्णोरर्चनहेतवे
वर्ज्यं पर्युषितं पुष्पं न वर्ज्यं तुळसीदलम्॥ 326
वर्ज्यं पर्युषितं तोयं न वर्ज्यं जाह्नवीजलम्
अन्यत्पर्युषितं वर्ज्यं न वर्ज्यं पद्मपुष्पकम्॥ 327
शुष्कैः पर्युषितैर्वाऽपि काष्ठमूलमृदादिभिः
अर्चनाद्वासुदेवस्य मुक्तो भवति पूरुषः॥ 328
पुष्कराद्यानि तीर्थानि गंगाद्यास्सरितस्तथा
देवा दिविस्थिता ये वैतिष्ठन्ति तुळसीदले॥ 329
तावद्गर्जन्ति पुष्पाणि मालत्यादीनि गर्वतः
यावन्न प्राप्यते पुण्या तुळसी विष्णुवल्लभा॥ 330
सकृदभ्यर्च्य गोविन्दं तुळस्या चैव मानवः
मुक्तिभागी निरातंकं कृष्णस्याऽनुचरो भवेत्॥ 331
नाऽक्षतैरर्चयेद्विष्णुं न शंभुं शंखवारिणा
नार्चयेद्दूर्वया दुर्गां न तुळस्या सुरान्तरम्॥ 332
दलाऽलाभे तुळस्यास्तु पत्रैराराधयेद्धरिम्
पत्राऽलाभे शिफाभिर्वा शिफाभावे शिफालवैः 333
लवालाभे मृदा तत्र भक्तिमानर्चयेद्धरिम्
हरेरभ्यर्चनायां च तुळसी साधनं परम् 334
अलाभे तुळसी च तन्नामग्रहणं परम्
भगवानरविंदाक्षस्सन्तुष्यति सहस्रधा॥ 335
न पद्मैर्नाऽपि कल्हारैर्न हेमकुसुमैरपि
तथा तुष्यति गोविंदो यथैन तुळसीदलैः 336
संगृह्य तुळसीं भक्त्या सर्वाऽनिष्ट
तुळस्यैव हरेः पूजां ये कुर्वन्ति सदा भुवि॥ 337
तस्मात्तुळस्या सदृशं स च भूतं न भावि च
तुळसीकाननाऽमोदवापिता यत्र मारुताः॥ 338
न तत्र धरणीभागे चरन्ति यमकिंकराः
``तुळसी तुळसीत्येवं नामाऽन्यावर्तयन्तिये॥ 339
ते विष्णुलोकमासाद्य पश्यन्ति मधुसूदनम्
दर्शनाच्छ्रवणात्स्वर्शात्स्मरणात्कीर्तनादपि॥ 340
पुनाति तुळसी पुण्या दशपूर्वान् दशाऽवरान्
तुळसीकाननं यत्र यत्र वा हरिकीर्तनम्॥ 341
तत्रैवाऽस्ते हरिश्श्रीमान् शंखचक्रगदाऽयुधः
- * *
यः पूजयेत्फलैर्विष्णुं नुपक्वैरमृतोपमैः॥ 342
पुण्यवृक्षसमुद्भूतैस्तत्फलं केन वर्ण्यते
चन्दनाऽगुरुकोष्ठ्वाद्यैर्भूपमाघ्रापयेच्चयः॥ 343
सूर्यलोकं स गत्वैव याति विष्णोः परं पदम्
घृतेन कापिलेनैव दृढवर्तियुतं तु यः 344
दर्शयेद्देवदेवस्य दीपं दृष्टिमनोहरम्
सोऽन्धं नैव प्रविशति नरकं नरपुंगवः 345
यस्तु तैलेन संदीप्तं दर्शयेद्दीपमुज्ज्वलम्
विमानमतिविद्योति यात्यारुह्य तमःपरम्॥ 346
कर्बूरदीपं यो भक्त्या दर्शयेद्धरये नरः
तस्य पापानि नश्यन्ति निर्लेपस्स भविष्यति॥ 347
विधिनाऽर्घ्यं हरेर्दद्यादष्ठांगं भक्तितो नरः
चन्द्रलोकं स गत्वैव याति विष्णोः परं पदम्॥ 348
सुगंधि शुभमुत्पूतं स्नानतोयं च यो ददेत्
देवेशस्य विशेषण स भवेद्वीतकल्मषः॥ 349
ततश्च वारुणं लोकं प्राप्य तत्रैव मोदते
प्लोतवस्त्रोत्तरीयाणि विशुद्धानि मृदूनि च॥ 350
देवदेवस्य दत्वा तु सौम्यं लोकमवाप्नुयात्
कार्पासमथ च क्षौमं कौशेयं रांकवं तथा॥ 351
यथाशक्ति समर्प्यैव फलं चानन्तमश्नुते
कार्पासाद्रांगवं तस्मात्कौ शेयं क्षौममित्यपि॥ 352
प्रशस्तं कथितं वस्त्रं यथा शक्त्यनुरूपतः
सौवर्णाभरणान्यत्र मुक्तामणिकृतानि वा॥ 353
अर्पयेद्देवदेवस्य भवेद्भूमिपतिस्स हि
जांबूनदं शातकुंभं हाटकं वैणवं तथा॥ 354
श्रुंगी च शुक्तिजं चैव जातरूपमतः परम्
रसविद्धं तथा प्रोक्तमाकरोद्गतमित्यपि 355
प्रोक्तं बहुविधं हेम पूर्वात्पूर्वात्परं परम्
प्रत्युप्तानि विशेषेण रत्नैर्नावाविधैर्हरेः 356
भूषणान्यर्पयेद्भक्त्या मित्राण्यस्य नवग्रहाः
राजश्रियं च भुक्त्वाऽ न्ते विष्णुलोकं स गच्छति॥ 357
उपवीतं तु यो दद्यात्सौवर्णैस्तंतुभिः कृताम्
द्विजोत्तमस्स्याद्विज्ञानी ब्रह्मलोकमवाप्नुयात्॥ 358
सालग्रामैश्च बहुभिर्निर्मितां मालिकां तु यः
अर्पयेद्देवदेवस्य स विष्णोर्याति सन्निधिम्॥ 359
लक्ष्मीः प्रियतमा विष्णोस्सा हि नित्याऽनपायिनी
स्वसंकाल्पानुविद्धा च शक्तिस्सर्वात्मिका परा॥ 360
प्रकृतेर्मूलभूता च स्वामिनी जगतां सताम्
लक्ष्मीप्रतिकृतिं कृत्वा मणिमुक्तादिभिर्मुना॥ 361
आबध्य मालिकायां यो देवेशाय समर्पयेत्
तस्य प्रसन्नौ जायेते दंपती जगतः पती॥ 362
मात्रां च देवदेस्य दत्वा हस्ते विशेषतः
सर्वान् कामानहप्नोति चरांशस्तर्पितो हरेः 363
मधुपर्कं हरेर्दद्याद्भक्त्या प्रीतिकरं हरेः
विरजांऽ बरसंवीतश्शशांकधवलो मुदा॥ 364
चन्द्रलोकाधिपो भूत्वा यायाद्विष्णुपदं महत्
हविर्नि वेद्य देवस्य प्रतिष्ठाफलमश्नुते॥ 365
प्रभूतं विनिवेद्यैव जीर्णोद्धारफलं तथा
पायसं विनिदेद्यैव हरेर्भक्त्या विशेषतः॥ 366
पयोह्रदैश्च पितरस्तृप्तिमायान्ति तस्यतु
कृसरं विनिवेद्यैव देवस्य मुदितो नरः 367
अक्षयं प्रतिपद्येत स्वगृहेऽन्नं चिरं चिरम्
गौल्यं निवेद्य देवस्य प्राप्नोति गुडपर्वतान् 368
मुद्गान्नस्य प्रदानेन मुद्गराशिं समाप्नुयात्
यवोदनस्य दोनेन नीरोगो भवति ध्रुवम्॥ 369
शुद्धान्नस्य प्रदानेन त्रिशुद्धा भवति प्रजा
अपूपादिप्रदानेन मनस्वी जायते नरः 370
उपदंशादिदानेन नोपदंशो भविष्यति?
सुगंधि स्वादु शुद्धं च पानीयं यो हरेर्ददेत्॥ 371
हविर्दानफलस्यार्धं फलं सम्यक् समश्नुते
कदल्या नारिकेलस्य चूतस्य पनसस्य च॥ 372
फलानि च नुपक्वानि भक्त्या शुद्धानि यो ददेत्
हविर्दानाच्चतुर्भागं फलं सोऽपि समाप्नुयात्॥ 373
कर्पूरैलालवंगैश्च तथा जातीफलादिभिः
मातुलुंगफलैश्शुद्धैस्सुपक्वैश्च युतं तथा॥ 374
तांबूलं क्रमुकैर्युक्तं मुखवासं च यो ददेत्
सर्वैश्वर्यमवाप्नोति विष्णुलोकं च गच्छति॥ 375
विधिना बलिमाराध्य कारयेद्यः प्रदक्षिणम्
बलं बलवतां लब्ध्वा विष्णुलोकं स गच्छति॥ 376
बलिं सेवेत यो भक्त्या सोऽपि यज्ञफलं लभेत्
- * *
देवस्य मंडपं कुर्याद्गंधपुष्पैः प्रपान्तुवा॥ 377
सर्वैश्वर्यमवाप्यैव नित्यपुष्पफलं व्रजेत्
विष्णोः कथास्तु संकीर्त्यस्तोत्रैः स्तुत्वा च वैष्णवैः 378
श्रुत्वाभक्त्या हरिं ध्यायन् विष्णुलोके महीयते
सौम्यान् पुण्यानिमान् विष्णोश्चतुरोऽप्यर्चनाविधीन्॥ 379
श्रावयेद्यो बुधो भक्त्या तथा यश्श्रुणुयादपि
सर्वपापविनिर्मुक्ता वैष्णवं पदमाप्नुयुः॥ 380
- * *
अथोत्सवादिकरणे फलं वक्ष्ये मधुद्विषः
सकामानां फलं काम्यमकामानां परं पदम्॥ 381
उत्सवं तु प्रवक्ष्यन्ति देवदेवार्चनां सुराः
उत्साह उत्सवः प्रोक्तो मनुष्याणां विशेषेतः॥ 382
उदित्युत्कृष्टशब्दोऽयं सवो यज्ञ उदाहृतः
तस्मादुत्तमयज्ञत्वादुत्सवः परिभाष्यते॥ 383
वाजिमेधाऽस्तयागानां तस्माद्देवोत्सवो वरः
उत्सवं देवदेवस्य यः कुर्यात्स्वकुलं स्वकम्॥ 384
उत्तारयन् स्वयं विष्णोस्स याति परमं पदम्
सवादुत्तारणं यस्मादुत्सवः परिकीर्त्यते॥ 385
स यज्ञो वो नरान् युष्मानुत्तारयति निश्चयम्
इति वेदा वदन्तीति स उत्सव उदीर्य ते॥ 386
वाजीमेधसहस्रेण यजतो यत्फलं भवेत्
यश्चोत्सवेन यजते तयोस्तुल्यं फलं न्मृतम्॥ 387
यागानामपि सर्वेषां फलमुत्सवकर्मणा
देवस्याश्नुवते सर्वं ये यजन्ते संशयः॥ 388
सवानुत्क्रमते यस्मात्तस्मादुत्सव उछ्यते
उपकुर्वन्ति ये मर्त्या देवस्योत्सवकर्मणि॥ 389
कर्माणा मनसा वाचा तेऽपि यान्ति फलं बहु
ग्रामे वा रगरे वऽपि पत्तने वा महोत्सवः॥ 390
यत्र प्रवर्तते विष्णोस्संपदस्सन्ति तत्र वै
यत्र देशे जनपदे राष्ट्रे वा प्युत्सवो हरेः 391
नाऽपमृत्युभयं तत्र नैनाऽवग्रहसंभवः
नैव चोराद्युपहतिर्न तापत्रयसंगतिः 392
धर्मश्चतुष्पाद्वर्तेत कलौ तत्राऽदिमो युगः
धार्मिकश्च भवेद्राजा प्रजा धर्मपरायणाः॥ 393
भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः
महोत्सवे वर्तमाने यदर्थिभ्यः प्रदीयते॥ 394
पानीयमन्नं वस्त्रं वा तत्सहस्रगुणं भवेत्
पुष्पमुलफलैरिज्या देवस्याऽभरणादिकैः 395
क्रियमाणा यथाशक्ति नित्याऽनन्त्याय कल्पते
सेवन्ते तत्र ये देवमहर्निशमतन्द्रिताः 396
तेषां पुण्यफलं वक्तुं नालं देवास्सहासुराः
आलेपनं मार्जनं च रजः प्रशमनं तथा॥ 397
वारिभीर्दीपिकारोपं क्ष्वेलनास्फोटनादिकम्
कुर्वन्तिये ब्राह्मलोकं प्रयान्त्यमरदुर्लभम्॥ 398
यानं वहन्ति ये विप्रास्ते यान्ति ब्रह्मणः पदम्
रथं वहन्ति ये चाऽश्वास्तेऽपि यान्तिसुरालयम्॥ 399
छत्रादिधारिणश्चाऽपि मोदन्ते दिवि मानवाः
आचार्याश्चार्चकाश्चैव तथैव परिचारकाः 400
उत्सवेऽधिकृता विष्णोः प्राप्नुवन्ति यथेप्सितम्
ऋचो यजूंषि सामानि ये तत्राऽधीयते जनाः 401
ते परे व्योम्नि देवस्य पार्श्वे वर्तन्ति निस्स्पृहाः
सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमम्॥ 402
राज्ञो राष्ट्रस्य सुखदमायुरारोग्य वर्धनम्
प्रजानां वासुदेवस्य कल्याणाराधनं महत्॥ 403
इमं देवादयस्सर्वे विष्णोरुत्सवमुत्तमम्
कृत्वा शाश्वतिकं स्थानं प्राप्नुवन्त्यतिदुर्लभम्॥ 404
- * *
अथ वक्ष्ये विशेषेण महास्नपनजं फलम्
येन द्रव्येण देवेशं स्नापयेद्यस्तुभक्तितः॥ 405
तद्द्रव्यं वर्थते तस्य नश्यं त्येवाऽशुभानि तु
राज्ञो राष्ट्रस्य तद्द्रव्यं समृद्ध्यैव भविष्यति॥ 406
अशुभानि विनश्यन्ति शूभानि प्रभवन्ति च
निर्माति यःप्रपां विष्णोर्देवस्य न्नपनाय वै॥ 407
तस्य निर्मीयते गेहस्स्वर्गे स्वर्गनिवासिभिः
मृद्भिस्संस्नापनाद्भूमिस्सर्वसस्याऽन्विता भवेत्॥ 408
नगैः प्रदक्षिणादेव गोत्रस्य स्थितिराप्यते
धान्यैस्संस्नापनाद्विष्णोर्धान्यानां वृद्धिराप्यते॥ 409
अंकुरैरर्चनाद्विष्णोः प्रजावृद्धिर्भविष्यति
मंगलैः पूजनात्सर्वमंगलानि भवन्ति वै॥ 410
स्नापनात्पंचभिर्गव्यैः पापं सश्यति सर्वधा
घृतेन स्नापनाद्भुयात्सामाध्ययनजं फलम्॥ 411
क्षीरेण स्नापयेद्विष्णुं गाश्च क्षीरवतीरियात्
मधुना स्नापयेद्विष्णुं मधुस्यन्दि भवेद्वचः॥ 412
दध्ना संस्नापयेद्देवमच्छं तस्य भवेद्यशः
गंधोदस्नापनाद्विष्णोस्सर्वसंपद्वृतोभवेत्॥ 413
स्नापयेदक्षतोदैस्तु प्रजा तस्याऽक्षता भवेत्
फलोदकस्नापनेन शुभानीयात्फलानि तु॥ 414
स्नापनात्तु कुशोदेन ब्रह्मवर्चसमाप्नुयात्
रत्नोदकस्नापनेन मणिरत्नादि वर्धयेत्॥ 415
जप्योदकस्य स्नानेन सर्वजापफलं लभेत्
भवन्त्योषधयस्सर्वास्सर्वौषध्युदकाप्लवात्॥ 416
पुण्यपुष्पार्चनेनैव पुण्यवान् जायते नरः
चूर्णैश्श्रीवेष्टकादीनीमर्पणाद्वृद्धिरायुषः 417
उद्वर्तनात्कषायेण चूर्णेनाऽवाप्यते रुचिः
तीर्थोदस्नापनेनैव तीर्थयात्राफलं भवेत्॥ 418
वनौषधीभिस्संस्पर्शाद्भवेन्नित्यमरोगता
हारिद्रचूर्णस्नानेन प्रीतो भवति चाऽच्युतः॥ 419
मार्जनात्सर्वगन्धैश्च श्रीर्भवत्यचला चला
मार्जनान्मूलगन्धैश्च कुलमेधेत नित्यशः॥ 420
धातुभिश्चाऽप्यलंकाराद्धातुवृद्धिर्भविष्यति
अन्यैरनुक्तैर्वा यस्तुद्रव्यै स्स्नापनकर्मणि॥ 421
उपतिष्ठेज्जगद्योनिं फलं प्राप्नोति विस्तृतम्
यस्तु कुर्याज्जलद्रोणीं स्नानपीठं च शार्ङ्गिणः॥ 422
स सर्वैः पूज्ययानन्तु पीठे चात्युन्न ते वसेत्
एवं यस्स्नपनं विष्णोः कारयेच्छक्तितो नरः 423
यथोक्तानीह लब्ध्वैवफलानि सुचिरं भुवि
अन्ते विमासमारुह्य हैमं देवैः परीवृतः 424
किन्नरैरप्सरोभिश्च नृत्तैर्गेयैश्च तर्पितः
यक्षैर्वृतोऽथ गन्धर्वैस्त्सूयामानो मुदाऽन्वितः 425
सर्वलोकात्परं पुण्यं वैकुंठं लोकमाप्नुयात्
देवदेवस्य विष्णोस्तु स्नपनं भक्तिमांस्तु यः॥ 426
सेवेत सोऽपि पाप्मभ्यो मुच्यते नाऽत्र संशयः
स्नापनान्तेतु देवेशस्योत्सवं यश्च कारयेत्॥ 427
प्रजावृद्धिं श्रियं स्फारां समाप्नोति विशेषतः
उत्सवं सेवतेयस्तु सोऽपि यज्ञफलं लभेत्॥ 428
विष्णुपंचदिने यस्तु देवेशं स्नापयेत्प्रभुम्
तस्य स्यान्महती संपत्पशुपुत्रादि सम्मिता॥ 429
ग्रहणे विषुवे तद्वत्संक्रमादिषु चैवहि
अन्येष्वपि च पुण्येषु कार्येषु जगतः प्रभुम्॥ 430
स्नापयेद्यश्च सेवेत फलमाप्नोति सोऽपि सः
- * *
यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धासमन्वितः॥ 431
खंडिते स्फटिते धाम्नि दूषिते च सूधादिभिः
समादध्यात्पुनर्धाम स लोकं याति वैष्णवं॥ 432
चोरैरपहृते बिंबेयः कुर्यात्प्रतिमां पुनः
स्थापयेद्भक्ति युक्तश्च स याति परमां गतिम्॥ 433
प्रमादात्पतिते बिंबे स्फुटते दूषितेऽथ वा
य स्सन्धाय पुनः कुर्यात्प्रितिष्ठां पूर्ववन्मुदा॥ 434
तस्य तष्यति देवेशो वरमिष्टं प्रदास्यति
शीर्णे जीर्णे तथा भिन्ने भूषणादौ विशेषतः॥ 435
नवीकृत्याऽर्पयेद्यस्तु तस्य पापं प्रणश्यति
यानानि रथंगादीन्यालोक्य शिथिलानि वै॥ 436
समीकृत्य तु योदद्यात्तानि भक्त्या हरेन्नरः
तस्य कायकृतं पापं तत्क्षणादेव नश्यति॥ 437
यस्तु वीक्ष्य हरेरर्चां पतमानामनादरात्
नर्धयेद्धनदानेन तस्य लोका मधुद्विषः 438
सीदतां वृत्तिहीनानां देवस्याऽघ्रे पदार्थिनाम्
यो दद्यादुचितां वृत्तिं स यमं नोपसर्पति॥ 439
यस्तु देवोत्सवादीनि कारयेद्भक्तिसंयुतः
लुप्तप्रायाणि तस्या ऽऽपि भवेत्फलमन न्तकम्॥ 440
यः कुर्याद्देवताऽगारे लुप्तकार्याणि सत्तमः
न तस्य कृतकृत्यत्वादमात्या यमकिंकराः 441
देवार्धे ब्राह्मणस्याऽर्थे यस्त्यजेत्तनुमुत्तमाम्
तस्य वासो भवेत्स्वर्गे चावदिद्राश्च तुर्धश॥ 442
देवार्थे ब्राह्मणस्याऽर्धे सर्वस्वं स्वंत्यजेत्तु यः
तस्य तुष्यति देवेशस्स तु स्वाराज्यमश्नु ते॥ 443
- * *
प्रायश्चित्तनिमित्तानि संभूतानितु धामनि
दृष्ट्वा च श्रद्धया युक्तोयो देवमुपतिष्ठते॥ 444
तस्य तुष्यति देवेशः प्र हृष्टस्संप्रसीदति
प्रायश्चित्तान्यशेषाणि पापौघध्वंसनाय वै॥ 445
निर्दिष्टानि पुराकल्पे ब्रह्मणा परमेष्ठिना
लोकाऽनुग्रहलेतोर्वै पवृत्तो गुरुरत्वरः 446
नराणां सीदतां दृष्ट्वा चित्तवृत्तीस्सुदुर्मलाः
प्रायश्चित्तविधानं तु प्रोवाच जगतां हितः 447
न कश्चिन्नाचरेत्कर्म शास्त्रोक्तं सकलं क्रमात्
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत्॥ 448
प्रायश्चित्तं तु कृत्वैव य उक्तामाचरेत्क्रियाम्
तस्य स्याद्द्विगुणं पुण्यं मतस्स्यादनुपालनम्॥ 449
भक्तिश्रद्धान्वितो यस्तु कुर्याद्वा कारयेत्क्रमात्
देवेशस्य प्रतिष्ठादि प्रायश्चित्तान्त सत्क्रियाः॥ 450
तस्य पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि
इह लोकेऽखिलान् कामाननुभूय सुखं चिरात्॥ 451
देहन्तेजायते सद्यश्शंखचक्रगदाधरः
श्रीवत्सांकश्चतुर्बाहुश्श्यामळांगस्सु सुन्दरः 452
गगने गरुडारूढस्सर्व देवनमस्कृतः
अदित्यमंडलं भित्वा गत्वा शुभ्रांऽशुमंडलम्॥ 453
ततोऽवतीर्य निखिलान् लोकानपि यथाक्रमम्
सत्यस्थं सत्यरोकस्थं जगतः प्रभवाऽप्ययम्॥ 454
तथाऽशेषविशेषं च नित्यानन्दं निरंजनम्
सुधारससमास्वादतुलितं नित्यतृप्तिदम्॥ 455
शाश्वतं तत्परंज्योतिः प्रविशेन्नाऽत्र संशयः
- * *
अथ वक्ष्ये विशेषेण क्रियालोपे च यत्फलम् 456
निर्मातुमालयं यस्तु संकल्प्य मतिमान्नरः
परेणेद्बोधितो भूयस्तस्मा दर्थान्नि वर्तते॥ 457
तावुभौ नरकं प्रेत्य भवेतां दुःखभागिनौ
कर्ता कारयिता चैव प्रेरकश्चाऽनुमोदकः॥ 458
सुकृते दुष्कृते चैव वदन्ति समभागिनः
निर्मातुमिच्छया धाम देवस्य मधुविद्विषः॥ 459
स्वयं निवर्तते यस्तु तस्य स्यान्महती विपत्
संकल्प्य देवतागारं निर्मातुं यो विशेषतः 460
आचार्यं वृणुयान्नो चेत्तस्य कार्यं प्रणश्यति
आचार्यस्सततं गोप्ता आचार्यस्तु पिता स्मृतः 461
आचार्यस्सर्वमेवेति यो मन्येत स मन्यते
आरभ्य गेहनिर्माणं देवस्य जगतः पतेः 462
असमाप्य तु यो मूढो निवर्ते प्रविलोभतः
तस्य संपद्विनाशस्स्याते क्रुद्धो भवति चाऽव्ययः॥ 463
प्रवृत्तायां प्रतिष्ठायां येन केनाऽपि हेतुना
यः कुर्यादन्तरायं तु तस्य पुण्यं विनश्यति॥ 464
येन विघ्नस्तदा भूयात्तं हत्वाऽपि न दोषभाक्
यस्तु शास्त्रोदितं कर्म कुर्वन्तं च पदार्थिनम्॥ 465
शिल्पिनं विवदेन्मूढस्तस्य नास्तिफलं क्वचित्
विवदेत य उच्छास्त्रमाचार्येण पदार्थिना॥ 466
तस्याऽशुभानि भूयांसि भवेयुर्नाऽत्र संशयः
अध्वरे वर्तमाने तु संभारान् शास्त्रचोदितान् 467
यो न दद्यात्स पापीयान् नाप्नुयात् कर्मजं फलम्
प्रतिष्ठाप्य हरेर्बिंबं यो न सत्कुरुते गुरुम्॥ 468
अन्यान्पदार्थिनश्चाऽपि स किंचिन्नाऽप्नुयात्फलम्
प्रतिष्ठान्ते तथा नित्यमविच्छिन्नं तु पूजितुम्॥ 469
अर्चकं वृणुयान्नो चेद्यजमानो विनश्यति
अर्चकं च तथाऽचार्यमन्यांश्चाऽपि पदार्थिनः॥ 470
कालावधिं विनिश्चित्य यः कर्मसु नियोजयेत्
स भवेद्ब्रह्महा चैव धनं तस्य विलुप्यति॥ 471
दायर्हां कायेद्व्रत्तिमर्चकस्य न चेद्यदि
यजमानो विपद्येत देवावासो नशिष्यति॥ 472
आचार्यमर्चकं कुर्यात् स्वस्थानाद्योऽवरोपितम्
अन्यं वा योजयेत्तत्र तावुभौ विनशिष्यतः॥ 473
आपद्यपि च कष्ठायां न कदाऽप्यन्यमर्चकम्
पूर्वावरोपणादेव नियुंज्यात्तु कथं चन॥ 474
आद्यार्चकस्य वंशेतु जायन्ते ये महाशयाः
सर्वे च क्रमशः पूजां कर्तुमर्हन्ति ते यतः 475
पित्र्यं भवति देवस्य दायाद्यं पूजनं स्वतः
तस्मात्तद्वंशजान् हित्वा यद्यन्यैः कारिताऽर्चना॥ 476
ब्रह्महत्याभवेत्तस्य तत्बूजा निष्फला भवेत्
- * *
यस्तुदद्यादर्चकाय भृत्यर्थं के वलं धनम्॥ 477
अन्यद्वाप्यस्थिरं वस्तु न हरिस्तेन तुष्यति
लोभान्मोहादथाज्ञानाद्य आदत्तेऽर्चको धनम्॥ 478
वेतनार्धं तथा दद्याद्यजमानो विमूढधीः
उभौतौनरकं यातो यादच्चन्द्र दिवाकरम्॥ 479
वित्तार्थं पूजयेद्यस्तु नियम्याऽप्यवधिं हरिम्
सवैदेवलको नाम सर्वकर्म बहिर्कृतः॥ 480
अदत्वा वसुधामग्रे पूजनार्थ मथार्चके
निर्माति ब्राह्मणं भूयो यजमानस्तु देवलम्॥ 481
नह्यस्मात्पातकं किंचि द्ब्राह्मणाया ऽपराध्यति
अलब्ध्वादेवताऽगारनिर्माणसदृशं फलम् 482
ब्रह्मघ्नत्वमनुप्राप्य विनश्यति न संशयः
हर्ता हारयिता भूमेर्दत्तस्य दनुशासिनः॥ 483
तत्किंकराणामन्येषां यो मूढस्स तमोवृतः
संबद्धो वारुणैः पाशैः कृष्यमाणस्समन्ततः॥ 484
दुःखितो नरके भूयस्तिर्यग्योनिषु जायते
स्वदत्तां वरदत्तां वा यो हरेत वसुन्धराम्॥ 485
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः
स्वदत्ताद्द्विगुणं पुण्यं परदत्तानु पालनम्॥ 486
परदत्तापहारेण स्वदत्तं निष्पलं भवेत्
अन्यायेन हृता भूमिरन्यायेनैन हारिता॥ 487
हरतो हारकस्याऽपि दहत्याऽसप्तमं कुलम्
पंच कन्याऽनृते हन्ति दश हन्ति गवाऽनृते 488
शतमश्वाऽनृते हन्ति सहस्रं पुरुषाऽनृते
हन्ति जातानजातांश्च हिरण्याऽर्धेऽनृतं वदन्॥ 489
सर्वं भूम्यनृते हन्ति नो ब्रूयादनृतं क्वचित्
विंध्याटवीष्वतोयासु शुष्ककोजरवासिनः 490
कृष्णसर्पाः प्रजायन्ते देवब्रह्मस्वहारिणः
तटाकानां सहस्रेण हयमेधशतेन च॥ 491
गवां कोटिप्रदानेन भूमिहर्तान शुद्ध्यति
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम्॥ 492
गुरुमित्रधनं चैव स्वर्गस्थमपि पातयेत्
ब्रह्मस्वे नो मतिं कुर्यात्प्राणैः कंठगतैरपि॥ 493
अग्निदग्धाः प्ररोहान्ति ब्रह्मदग्धो न रोहति
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते 494
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम्
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्॥ 495
विक्रमेण तु भोक्तॄणां दशपूर्वान् दशाऽवरान्
लोहचूर्णांश्च चूर्णांश्च विषं वा जरयेत्पुमान्॥ 496
ब्रह्मस्वं त्रिषु लोकेषु कःपुमान् जरयिष्यति
देवस्वं ब्राह्मणस्वं च लोभेनो पहिनस्ति यः 497
स पापात्तु परेलोके गृध्रोच्छिष्टेन जीवति
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च॥ 498
कुलान्यकुलतां यान्ति ब्राह्मणाऽतिक्रमेण च
सहस्रसम्मिता धेनुरनड्वान् दशधेनवः॥ 499
दशाऽवड्वत्समं यानं दशयानसमो हयः
दशवाजिसमा कन्या भूमिदानेन सा समा॥ 500
षष्टिर्वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिधः
आच्छेत्ताचाऽनुमन्ता च तान्येन नरके वसेत्॥ 501
पतंत्यश्रूणि रुदतां दीनानामवसीदताम्
ब्राह्मणानां हृते क्षेत्रे हन्यादासप्तमं कुलम्॥ 502
साधुभ्यो भूमिमाक्षिप्य न भूमिं विन्दतेक्वचित्
ददद्धि भूमिं साधुभ्यो विन्दते फूमिमुत्तमाम्॥ 503
अर्चकः प्रणिधिर्यस्माद्देवेशस्य जगत्पतेः
स देवो ब्राह्मणस्साधुर्महद्भूतं प्रचक्षते॥ 504
तस्मात्तदर्पितां वृत्तिं नैव शंकेत बुद्धिमान्
तदर्चकाऽर्पितां भूमिं यो हरेत यतेत वा॥ 505
किं पुनस्तस्य वक्तव्यं न भवेत्तस्य निष्कृतिः
न वाचा शक्यते वक्तुं गतिस्तस्य दुरात्मनः 506
म्रियेत सद्य एवाऽसौ जायतेऽथ पुनः पुनः
न तस्य शरणं क्वाऽपि लभ्यते पापकर्मणः॥ 507
देवस्येऽपि मतिं कुर्यात्प्रह्मस्वं न हरेत्क्वचित्
- * *
प्रासादमंडपादीनां भोक्तारः कैटभद्विषः 508
तेमूढमतयः प्रेत्य नरकेषु निरत्ययाः
वसन्ति भूयो जायन्ते नीचयोनिषु च ध्रुवम्॥ 509
भूषणच्छत्रवस्त्रादिहर्ता यो दुर्मतिर्नरः
गले निगलितः पाशैः कृष्यते निरयेषु सः 510
वाहनानि च यानानि वैष्णवानि हरन्तिये
मोहाद्वसन्ति ते दीर्घ मङ्गारनरकोदरे 511
प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु
चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि॥ 512
व्रजन्ति स्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम्?
अनुभूय पुनर्भूयो जायन्ते गन्धमूषिकाः॥ 513
उपानत्पादुकापीठवाहनानि हरन्तिये
उषित्वा नरकेष्वेते जायन्ते फणिनां कुले॥ 514
गोभूहिरण्यवस्त्रादि धनं विष्णोः परिग्रहम्
आहृत्य येऽनुभुञ्जन्ते नरकेषु दुरत्ययाः॥ 515
उषित्वा प्रेत्य भूयोऽपि जायन्ते श्वादियोनिषु
सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः 516
नसन्ति मूढमतयो याम्यदुःखेषु यातनाः
वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु॥ 517
विक्रीडादीनियान्येषु यतन्ते पापचेतसः
एते यान्ति क्रमात्सर्वास्नरकान् भृशदारुणान्॥ 518
अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः
कृतिनः प्रेत्य नरके पच्यन्ते दुःखभागिनः॥ 519
- * *
अथनित्यार्चनायां वै देवेशस्य विशेषतः
उपचारादिहानो तु पापस्येदं फलं भवेत्॥ 520
आसनस्य विहीने तु धर्मनाशो भविष्यति
स्वागते बुद्धिनाशस्स्यान्मूकत्वमनुमानके॥ 521
विहीने पादुकायास्तु पंगुत्वं संभवत्युत
पाद्यहीने महान्रोगः क्लेशश्चापि भविष्यति॥ 522
दंत धावनहीने च दुष्टदन्तोऽभिजायते
तांबूलहीने विद्वेषं कुष्टं तैलविहीनके॥ 523
केशसंशोधने हीने गलरोगो भविष्यति
स्नानद्रव्यविहीने च स्नानहीने तथैव च॥ 524
राजयक्ष्मा भवेद्रोगः पापिष्ठश्च सुदारुणः
प्लोतहीने वातरोगो वस्त्रहीने जलोदरः 525
संव्यानहीने हृद्रोगो यज्ञसूत्रविहीनके
अग्निदाहभयं चैव मन्दाग्नित्वं च जायते॥ 526
गन्धहीने च कुष्ठस्स्याद्भूषाहीने महद्भयम्
पुष्पहीने त्वलाभस्स्यात्तथा च कफसंभवः 527
(शूद्राहृतैः क्रयक्रीतै रर्चनं निष्फलं सुमैः
अरण्याद्वागृहाद्वाऽपि विक्रीतान्यापणान्तरात्॥ 528
अयाचितानि पुष्पाणि लब्धान्यर्हाणि नाऽर्चने
तथा पर्युषितैर्यापि जंतुभिर्दूषितैरपि॥ 529
म्लानैरस्पृश्यसंस्पृष्टैर्दुर्गंधैः पादलंघितैः
प्रतिलोमाऽन्त्यजानीतैरर्चनं त्वफलं भवेत्॥ 530
उत्तमं स्वार्जितं पुष्पं मध्यमं वन्यमुच्यते
अधमं तु क्रयक्रीतं पारक्यमधमाऽधमम्॥ 531
हस्तानीतं पटानीतं स्वयं पतितमेव वा
अन्याऽरामोद्भवं पुष्पं नाऽर्पयेदिति के चन॥ 532
आरहरे च शुक्रे च मन्वादिषु युगादिषु
नाहरेत्तुळसीपत्रं मध्याह्नात्परतस्तथा॥ 533
संक्रान्त्यां पक्षयोरन्ते द्वादश्योर्निशि संध्ययोः
तुळसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश्शिरः॥ 534
भृग्वर्कांऽगारके वारे द्वादश्यां पंचपर्वसु
नाऽहरेत्तुळसीपत्रं नन्दायां श्रवणेऽपि च॥ 535
केशकीटापविद्धानि शीर्णपर्युषितानि च
भुग्नपत्रं न च ग्राह्यं कृमिदुष्टं च नाऽहरेत्॥ 536
वर्जयेदूर्णनाभेन वासितं यदि शोभनम्
स्थलजं नोद्धरेत्पुष्पं छेदयेज्जलजं न तु॥ 537
निषिद्धैर्दुःखदैर्देवं नाऽर्चयेत कदा चन
न शुष्कैःपूजयेद्देवं कुनुमैर्न महीगतैः॥ 538
न विशीर्णतरैश्शिष्टैर्नाऽशुभैर्नाऽविकासिभिः
पूतिगंधोग्रंधानि ह्युग्रगन्धानि वर्जयेत्॥ 539
स्नानं कृत्वा तु ये के चित्पुष्पं गृह्णन्ति वैद्विजाः
देवतास्तन्न गृह्णन्तितन्न गृह्णन्ति मानवाः॥ 540
पितरस्तन्न गृह्णन्ति भस्मीभवति काष्ठवत्
स्नानं कृत्वातु मध्याह्ने पुष्पाणि न समाहरेत् 541
तेभ्यःक्रुद्धोऽक्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति
अन्यदेवाऽर्थसन्दिष्टैः पूजयेद्यो हरिं प्रभुम्॥ 542
स तु तेनैव पापेन मंडूको जायते नरः
ततस्स नरकं याति यावदाभूतसंप्लवम्॥ 543
कुसुमानां निवेद्यानां गंधमाघ्राति यो नरः
स पूति गंधसंयुक्तः कुष्ठी चैव प्रजायते॥ 544
जन्मद्वयं तु वै मूढश्शूद्रतां याति मानवः
असूत्रग्रथितं पुष्पमस्नेहाक्तं तथोदनम्॥ 545
अवालुकायुतं तोयं सर्वं पर्युषितं भवेत्
एतैस्तु पूजनात्सद्यो निष्फलास्सकलाः क्रियाः॥ 546
आदर्शनविहीने तु कामिला च भविष्यति
बाधिर्यं धूपहीने च दीपहीनेऽन्धतामियात्॥ 547
अर्घ्यहीने तु देवस्य कुलं भवति निन्दितम्
मधुपर्कविहीने च मधुमेहो भविष्यति॥ 548
मात्रादानविहीने तु सर्वनाशो भविष्यति
रक्षानीराजने हीने राङसैरावृतिर्भवेत्॥ 549
वेदाध्ययनहीने तु कर्मलोपो भवेद्ध्रुवम्
हविर्निवेदने हीने दुर्भिक्षं भवति ध्रुवम् 550
उपदंशविहीने च दारिद्य्रं ग्रामवासिनाम्
नाळिकेरफले हीने हीने क्षीरादिके तथा॥ 551
विनाशस्सर्वसस्यानां दुर्भिक्षं च भवेध्ध्रुवम्
हीने भक्ष्यादिके चैव विविधे हविषी प्रभो॥ 552
तद्ग्रामयजमानस्य विशेषेणाऽशुभं भवेत्
विनियोगक्रमस्याऽत्रहीने पूजैव नश्यति॥ 553
काले यवनिकाहीने कर्ता चैव विनश्यति
द्वारपूजाविहीने तु तस्क रादिप्रवेशनम्॥ 554
द्वारपालकपूजायो हीने चौराद्युपद्रवः
शांतस्य पूजने हीने तथा चैवाऽनपायिनाम्॥ 555
राज्ञो राष्ट्रस्य सर्वस्य विनाशस्स्यान्न संशयः
यजमानस्य तत्राऽपि परराजाद्युपद्रवः॥ 556
पापरोगादिपीडा च भविष्यति तथा पुनः,
सर्पवृश्चिकलूताद्यैर्हानिश्चैव भवेद्बहु॥ 557
पुष्पन्यासेऽर्चनेहीने न्यूने वा मन्त्रवर्जिते,
तद्ग्रामवासिनां चैव राजद्वेषो भविष्यति॥ 558
भूतपीठस्य पार्श्वे वा दक्षिणे वा विशेषतः,
भूतादिनागपर्यन्तं बल्यर्चनविहीनके॥ 559
शाकिन्यादिग्रहास्सर्वे प्रविशन्ति न संशयः
श्रीदेव्या अर्चने हीने संपदां तु भवेत् क्षयः॥ 560
हरिण्यर्चनहीने च स्थाननाशो भविष्यति,
अग्निपूजाविहीने तु न्यूने वा मन्त्रवर्जिते॥ 561
निवेदनाज्यहीने वा संभवेद्वर्णसंकरः,
वर्णाश्रमादिहानिश्च ब्राह्मणानां विपद्भवेत्॥ 562
पानीयहीने देवस्य भवेत्तत्र त्ववग्रहः,
मुखवासविहीने तु जनविद्वेषणं भवेत्॥ 563
बलिद्रव्यविहीने तु न्यूने मन्त्रविवर्जिते॥
बलक्षयो जनानां स्यात्पितॄणां पतनं भवेत्॥ 564
पुष्पांऽजलिविहीने तु राजकोपा भविष्यति,
प्रणामस्तुतिहीने तु सद्यो मृत्युर्भविष्यति, 565
ध्यानहीने कुलं हन्ति न्यासहीने विपद्भवेत्
प्राणायामविहीने तु परचक्रभयं भवेत्॥ 566
शौचाचारविहीने तु पशुपुत्रादिनाशनम्
बिंबन्यासविहीने तु कलत्रं तस्य नश्यति॥ 567
प्रदक्षिणविहीने तु पातकी जायते नरः
नित्यमर्चाऽवसानेतु पूजकाचार्ययोर्मुदे॥ 568
दक्षिणादानहीने तु सा पूजा निष्फला भवेत्
राष्ट्रस्य यजमानस्य राज्ञश्चाऽपि भवेद्भयम्॥ 569
हीने तु पाचकादीनां दक्षिणादानकर्मणि
पशुवाहननाशश्च तद्ग्रामे संभवेन्नृणाम्॥ 570
- * *
प्रातः पूजाविहीने तु तद्ग्रामेऽवग्रहो भवेत्
ब्राह्मणानां क्रियाहानिस्सर्वकर्मविनाशनम्॥ 571
मध्याह्नपूजाहीने तु राष्ट्रक्षोभो भविष्यति
सायंकालाऽर्चने हीने तद्ग्रामयजमानयोः 572
अर्थहानिः प्रजाहानिर्भविष्यति न संशयः
उपसंध्यार्चने हीने कर्मलोपो भविष्यति॥ 573
विष्णुपंचदिने चैव हीने स्नानेऽर्चने तथा
उत्सवे च विशेषण यजमानभयं भवेत्॥ 574
मासपूजाविहीनेतु भ्रातृद्वेषो भविष्यति
विषुदे चायने चैव हीने तत्रोक्तकर्मणि॥ 575
ग्रामस्य यजमानस्य यशोहानिर्भविष्यति
स्नपनोक्ते तथाऽन्यस्मिन् दिवसे स्नानवर्जिते॥ 576
अकाले च कृते वाऽपि भवेत् क्षामभयं तथा
नित्योत्सवविहीने तु निरानन्दो भवेज्जनः 577
अन्यस्मिन्नर्चनद्रव्ये विहीने दोष आपतेत्
- * *
निमित्ते यदि संप्राप्ते स्नापयेच्चेन्न माधवम्॥ 578
तस्य पापफलं नक्तुं न केनाऽपि हि शक्यते
राज्ञो राष्ट्रस्य च भवेत्सर्वत्राऽत्याहितं ध्रुवम्॥ 579
गृहनाशः प्रपाहीने हीनायां चाऽप्यलंकृतौ
मृत्सुहीनानु नाशस्स्यात्सस्यानां तु न संशयः 580
पर्वतेषु विहीनेषु स्थैर्यं तस्य विलुप्यते
धान्येषु तु विहीनेषु द्यान्यनाशो भवेत्तथा॥ 581
अंकुराणामभावे तु प्रजाहानिश्च संभवेत्
मंगलेष्वथ हीनेषु तस्य भूयादमंगलम्॥ 582
पंचगव्यविहीने तु गोहत्या समवाप्यते
घृतहीने बुद्धिनाशोऽनायुष्यं क्षीरहीनके॥ 583
मधुहीने महान् व्याधिर्दधिहीने तु संज्वरः
क्षीरहीने भवेत्तस्य मलिना कीर्तिरेव हि॥ 584
गंधोदकविहीने तु दुर्गंधो जायते भृशम्
अक्षतोदकहीने तु क्षतिस्तस्य प्रजायते 585
फलोदकविहीने तु विफलं तस्य जीवितम्
कुशोदकविहीने च नैधेत ब्रह्मवर्चसम्॥ 586
रत्नोदकविहीने च धनध्यान्य विनाशनम्
अभावे चौषधीनान्तु व्याधिपीडा भविष्यति॥ 587
उपस्नानविहीने तु मलिनं जायते कुलम्
उष्णांभसामभोवे तु भवेदुष्णशरीरता॥ 588
पुण्यपुष्पविहिने तु पापीयान् जायते नरः
जातीफलादिचूर्णस्य चाभावे तु विपद्भवेत्॥ 589
कषायचूर्णहीने तु कान्तिहीनो भवेन्नरः
वनौषधीनां चालाभे रोगी भवति निश्चयः 590
हारिद्रचूर्णहीने तु गतश्रीर्जायते नरः
मूलगन्धविहीने तु वार्धक्यं भवति ध्रवम्॥ 591
धातूनामप्यभावेतु सिर्धातुर्जायते नरः
प्लोतवस्त्रोत्तरीयाणां भूषणानां विहीनके 592
कर्मनाशो भवेदेव न तुष्टति रमापतिः
आचार्यस्यर्त्विजां तद्वदन्येषां च पदार्थिनाम्॥ 593
दक्षिणादानहीने च सर्वनाशो भविष्यति
हीने हविषि देवस्य निष्फलं स्नपनं भवेत्॥ 594
स्नपनांतोत्सवे हीने न देवःपरितुष्यति
- * *
शिथिलं भगवद्गेहं दृष्ट्या श्रुत्वा च योनरः 595
तत्क्रिया लोपिता वाऽपि स भवेद्देवहा ध्रुवम्
तद्ग्रामवासिनस्सर्वे राजा चाऽन्योधनी पुनः॥ 596
शीघ्रं सर्वं समीकृत्य पूर्ववत्पुनराचरेत्
अन्यथा यदि कुर्याच्छेद्राजराष्ट्रं विनश्यति॥ 597
धर्मसेतुमिमं विंद्यात्सर्वसाधारणं नरः
पालनीयस्सदा सोऽयं जगतां यत्र संस्थितिः॥ 598
- * *
प्रायश्चित्तनिमित्तेतु संप्राप्ते यस्तु मूढधीः
अकृत्वा निष्कृतिं कुर्यात्कारयेत्कर्म चोत्तरम् 599
लोभान्मोहदथाऽज्ञानादनादृत्य च शासनम्
भगवच्छासनद्रोही स भवेत्पातकी जनः 600
प्रमादिनां मनुष्याणां स्खलनं नियतं यतः
निष्कृतिर्विहिता पूर्वैर्नतामतिचरेत्क्वचित्॥ 601
ब्रह्माद्यैरपि यद्देवैरशक्यं पूजनं हरेः
तदुक्ता निष्कृतिः पूर्वैर्नतामतिपतेत्क्वचित् 602
निमित्ते यस्त्वकृत्वैव प्रायश्चित्तं यथोचितम्
न्नित्यं नैमित्तिकं काम्यं कुर्यात्तदकृतं भवेत्॥ 603
तस्मान्निमित्ते संप्राप्ते निष्कृतिं सद्य आचरेत्
इति संक्षेपतः प्रोक्तं क्रियायोगाश्रितं फलम्॥ 604
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां
प्रकीर्णाऽधिकारे पंचत्रिंशोऽध्यायः