प्रकीर्णाऽधिकारः/नवमोऽध्यायः
| ← अष्टमोऽध्यायः | प्रकीर्णाऽधिकारः नवमोऽध्यायः [[लेखकः :|]] |
दशमोऽध्यायः → |
अथ नवमोऽध्यायः॥
रज्जुबन्धनम्
अथात स्संप्रवक्ष्यामि रज्जुबन्धविधिं क्रमात्
यथोक्तं च मृद स्सर्वा स्समाहृत्य विधानतः॥ 1
संपिष्य शोधयित्वैव यथोक्तं सर्व मौषधम्
चूर्णानि च यथोक्तानि कषायाणि विधानतः॥ 2
योजयित्वा यथाभागं गव्यैरपि इहैवच
निर्यासेन कपिद्धस्य युक्तं नादेयवारिणा॥ 3
पेषयित्वा मृदा सम्यक्संपिष्य च विधानतः
साधयित्वाऽथ वा वामं सार्धंवापि निधाय च॥ 4
नाळिकेरस्य सारेण त्रिवृतां रज्जुमाहरेत्
सरज्जुं बन्धये च्छूलं यथातत्सुदृढं तथा॥ 5
बन्धयित्वाऽष्टबन्धं च शूलमालिप्य सर्वशः
मृदं च तां समादाय शूल मालॆपयेत्तथा॥ 6
शूलोपरि प्रमाणं यच्चतुर्भागं विभज्यच
तत्त्रिभागं मृदाकुर्या द्रज्जुबन्धसमायुतम्॥ 7
घटशर्करया वस्त्रमौक्तिकै र्वर्णकै र्युतम्
पूरये दन्यभागं च तत्प्रमाणविधानतः॥ 8
शर्करां च समालिप्य पटं संयोज्य पूर्ववत्
मौक्तिकाकृति मालिप्य भूषणानि प्रकल्प्यच॥ 9
यथोक्तेन विधानेन वर्णानपि सुयोजयेत्
मृण्मयं ध्रवबेरं चेत्कारये देवमैव तत्॥ 10
अर्धचित्रं न कुर्वीत ध्रुवबेरं तु मृण्मयम्
शूलार्धं तु द्वयं कुर्यात्ताम्रनालसमायुतम्॥ 11
खादिरं ताम्रदंडं वाभित्तिस्थं सुदृढं चरेत्
छिद्रं कृत्वातदाधारे शूलं यंत्रेण योजयेत्॥ 12
दृढं तद्योजयित्वैव बेरपृष्ठस्य मध्यमे
तत्पृष्ठेस्कंधमध्ये च तदाधारेण योजयेत्॥ 13
शूले छिद्रं नकर्तव्यं कुर्याच्छेत्स विनश्यति
ताम्रेण ध्रुवबेरं चेन्मधूच्छिष्टविधानतः॥ 14
मृण्मयं द्विविधं प्रोक्त मपक्वं पक्वमित्यपि
पूर्वोक्तं मृण्मयं यत्तदपक्व मभिधीयते॥ 15
मृदाकृत्वाऽग्विनादग्धं यत्तत्पक्वमितीरितम्
अपक्वं मृण्मये विष्णोः कारयेत्तु विधानतः 16
यदि पक्वं तु कुर्याच्छे त्तद्विनाशकं भवेत्
योगादिस्थानानि
स्थानं चतुर्विधं विंद्या द्योगं भोगं तथैव च॥ 17
सृष्टि स्संहार इत्येषां स्थानभेदः प्रवक्ष्यते
सर्वतो भद्रकं नन्द्यावर्तकं श्रीप्रतिष्ठितम्॥ 18
स्वस्तिकं पर्वताकारं वृत्तभेदं तथैवच
प्रलीनक मथोद्योगं पद्मंचैव चतुर्मुखम्॥ 19
ब्रह्मादीशानपर्यन्तं क्रमेणैव निवेशयेत्
योगकान्तं भवेद्योगं स्थानकस्य विधीयते॥ 20
चतुरश्रं वृत्तगेहं प्रासादं स्थानकस्य तु
आसनानां चतुर्भेदं पूर्वोक्तेन क्रमेण तु॥ 21
प्रलीनं सर्वतोभद्रं विमानं वा चतुर्मुखम्
विष्णुछंदविमानं च श्रीप्रतिष्ठितकं तथा॥ 22
पर्वताकृतिकंचैव नन्द्यावर्तं तथैव च
महापद्मविमानं च प्रलीनक वीमानकम्॥ 23
अष्टांगं सर्मतोभद्रं चित्रशिल्पं तथैव च
महापद्मं च वृत्तं च चतुर्मुखविमानकम्॥ 24
एवं विमानकं चैव आसनस्य विधीयते
स्वस्तिकं वृत्तभद्रं च वृत्तगर्भ मवेदिकम्॥ 25
प्रेक्ष्य गृहाल्पभूराजछंदं च श्रीप्रतिष्ठितम्
मर्तलं च शनैर्योगं मार्तांडं च चतुष्फुटम्॥ 26
गणिकाविशालं संशुद्धं स्वस्तिकं ध्वजमानकम्
एवमाख्याय तंत्राणि वर्तुळाद्यायुतानि च॥ 27
शयानकेन योग्यानि कथितानि मनीषिभिः
आयादिविचारः
आयव्ययादि ऋक्षांश्चयोनिः पश्चाद्विधीयते॥ 28
बेरोदयं त्रिगुणितं शिष्टमायं नगे हृते
चतुर्भिर्गुणितं सप्त सौरवारादिकं दिनम्॥ 29
बेरोच्च मष्टगुणितं सप्तविशदिभिर्हृतम्
शिष्ट मश्व्यादिभं विंद्यात्तच्छेषं स्याच्चतुर्गुणम्॥ 30
रंध्रेहृते नवांशं तच्छेषं भांशयुगैर्हृतम्
बेरोदयं त्रिगुणितं योनिस्स्या दष्टभिर्हृतम् 31
आयाधिक्ये शुभं प्रोक्त मृणवृद्धि र्व्ययाधिके
वारेषु सौरिसूर्यारैर्विनाऽन्ये शुभदास्स्मृताः॥ 32
तस्करं भुक्तिशक्ती च धनं राज्यं क्लिबादि च
निर्हृत्य चाऽधनं प्रेष्यं तन्नामसदृशं फलम्॥ 33
नामकर्तृनृपर्क्षाद्या नामर्क्षानुगुणं भवेत्॥
- * * *
यदाकारं ध्रुवाकारं तदाकारं च कौतुकम्॥ 34
आसने स्थानकंवाऽपि शयाने स्थान मासनम्
देवे स्थिते न देव्यौ च आसीने स्थानकासने॥ 35
विपरीतं न कुर्वीत सर्वशास्त्रविशारदाः
तालनियमः
श्रेष्ठं प्रादुर्भवं तालं केवलं केशवस्य तु॥ 36
तद्देवीनां सरस्वत्या मध्यमं दशतालकम्
चन्द्रेन्द्रानलकीनाशवरुणानिलशूलिनः॥ 37
ऋषयो वसवो रुद्रा मार्कंडेयोऽमितो भृगुः
आर्याश्चैव गुहो हीनदशतालमिता मताः॥ 38
मरुतोऽपि च यक्षेशदेववध्वश्शुभाग्रहाः
तधाऽन्येतु त्रिधा साध्या नवतालमिता मताः॥ 39
दैत्ययक्षेश? रंधाश्च सिद्धगन्धर्वचारणाः
कुजार्कराहव श्श्रेष्ठनवतालेन सम्मताः॥ 40
नवतालै र्मुनींश्चेव गणांश्चैव तु मानयेत्
उंगाश्चारणाश्चान्ये नवतालमितोदयाः 41
मर्त्याश्चाष्टायताः प्रोक्ताः प्रेतानां सप्ततालकम्
षड्यमाः कुब्जकाः प्रोक्ता वामनाः पंचतालगाः॥ 42
भूगतानां चतुस्तालं किन्नरास्तु त्रितालकाः
कूश्मांडा द्वितयाश्चैव कबंधा स्त्वेकतालका? 43
श्रेष्ठमध्यकनिष्ठानि त्रितालानान्तु तत्र नै
प्रवक्ष्यामि मधूच्छिष्टक्रियां प्रतिविधानतः॥ 44
यजमानगृहेवाऽपि आलये वा मनोरमे
अलंकृत्य वितानाद्यैः कुंड मौपासनं क्रियात्॥ 45
आघारं विधिवत्कृत्वा वैष्णवं च यजेत्तथा
विष्णुसूक्तं च हुत्वातु ब्राह्मं रौद्रं तथैव च॥ 46
वीशशैषिकचक्रांश्च विघ्नेशं च सुहूयते
तस्याग्ने र्दक्षिणे कुर्या द्व्रीहिभि स्थ्संडिलं तथा॥ 47
चतुरश्रं ततो वृत्तं समास्तीर्य यथा शुभम्
चक्रशैषिकवीशांश्च क्रमेणैव सुपूजयेत्॥ 48
शोधितं तु मधूच्छिष्ट मादाय प्रणवेन तु
`इषेत्वोर्जे'त्वेति मन्त्रेण प्रधानांऽगं प्रकल्पयेत्॥ 49
अक्षराणि च सन्न्यस्य चैवं ध्यात्वाऽभिमृश्य च
वैष्णवं च ततो हुत्वा देवा नन्यान् विसृज्य च 50
देव्यादीन् पार्षदां स्तत्र तत्तन्मन्त्रेण हूयताम्
तत्सिद्धं शिल्पिहस्ते तु निधायैव हरिंस्मरन्॥ 51
यथा नगेंद्रियं ग्राह्यं योनिष्वेव समर्पयेत्
तथा तन्तु गृहीत्वैव स्थापनीयंतु गर्भकम्॥ 52
मानोन्मानप्रमाणेन मतिमान् शिल्पिनाचरेत्
शनैरालिप्य संशोष्य मृद्भिश्च बहिरायसैः 53
पट्टैराबद्ध्य विधिना पुनरालिप्य शोषयेत्
यजमानानुकूलर्क्षे पूर्ववद्धोम माचरेत्॥ 54
तथा तुल्यं च संस्थाप्य जलतुल्यक्रमेण वै
युक्तां सिद्धिं च संप्राप्य तं च गर्भं प्रतापयेत्॥ 55
शनै र्मृद्भेदनं कृत्वा विधिना बेरमाहरेत्॥ 55 1/2
इति श्रीवैखानसे फगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे नवमोऽध्यायः॥