प्रकीर्णाऽधिकारः/द्वितीयोऽध्यायः
| ← प्रथमोऽध्यायः | प्रकीर्णाऽधिकारः द्वितीयोऽध्यायः [[लेखकः :|]] |
तृतीयोऽध्यायः → |
अथद्वितीयोऽध्यायः॥
शंकुस्थापनम्॥
अतःपरंप्रवक्ष्यामि शंकुस्थापनमुत्तमम्
मेषंतथै ववृषभंगते सूर्येदिनेतथा॥ 1
कृत्वासमतलांभूमिं गोमयेनतुलेवयेत्
तद्बहिभ्रामयेत्सू त्रद्वयंतेनै वमानतः॥ 2
प्राचीसाधनम्॥
पूर्वाह्णेचाऽपराह्णेच शंकुछायांतुलांछयेत्
ततस्सूत्रत्रयंवाऽथपाति येच्छंकुमथ्यमे॥ 3
भ्रामयेदधिकेऽर्षन्तु न्यूनेतावद्विवर्धयेत्
प्राचींतत्सूत्रमानेन मध्यमेनै वकल्बयेत्॥ 4
उदक्सूत्रंभवेत्तत्र कृत्वातुचतुरश्रकम्
पंचगव्येनसंप्रोक्ष्य पुण्याहमपिवाचयेत्॥ 5
वास्तुपद देवतापूजनम्॥
एकाशीतिपदान्कृत्वावास्तु देवान्प्रपूजयेत्
ईशानादि समभ्यर्च्य द्वात्रिंशत्बदभागिनः॥ 6
ईशानंचैवपर्जन्यं जयस्तंचमहेन्द्रकम्
आदित्यंसत्यकंभृशमन्त रिक्षंचपूर्वगान्॥ 7
अग्निःपूषाचवितथ ग्रहाक्षतयमास्तथा
गंथर्वोभृंगराजर्षी दक्षिणेपददेवताः॥ 8
पश्चिमेनिर् ऋतिश्चैव दौवारिकस्तथैवच
सुग्रीवःपुष्पदन्तश्च वरुणश्चासुरस्तथा॥ 9
शोषणश्चैवरागश्चते चाऽष्टौकधितास्सुराः
उत्तरेजवनोनाग मुख्यौभल्लाटएवच॥ 10
सोमोऽर्गलोऽदितिश्चैव सूरिदेवस्तथैवच
ब्रह्मानवपदंभुंकै वास्तुमध्येविशेषतः॥ 11
अर्यमादंड भृच्चैवपाशभृद्धनदस्तथा
ब्रह्मणश्चचतुर्दिक्षु स्थिताष्षट्पदभागिनः॥ 12
अपश्चैवापवत्सश्च सवितासावित्रएवच
इंद्रश्चैवतथेंद्राजो रुद्रोरुद्राजएवच॥ 13
एतेद्विपदभोक्तारो विदिक्षष्टौस्थितास्सुराः
चरकीदेवतारिश्च पूतनापापराक्षसी॥ 14
ईशानादिषुकोणेषु बाह्यस्थाःपदवर्जिताः
एवं विन्यस्यदेवांन्तु वास्तु देवं प्रकल्पयेत्॥ 15
वास्तुपुरुष लक्षणम्-पूजा॥
वास्तुनश्शिरईशानेपादौ नैर्ऋतिकेचरेत्
हस्तौसरित्पतौज्ञेयावग्नौ बाहुरुदाहृतः॥ 16
अपिकंठइतिप्रोक्तं हृदयंचापवत्सके
नाभिर्ब्रह्मणिसंख्याता कुक्षस्सवितृसंज्ञके॥ 17
इंद्रइंद्राजके गुह्यमूरुमूलेविधानतः
पार्श्वंतुदक्षिणं प्रोक्तंवाममेवं प्रकल्पयेत्॥ 18
शेतेवास्तुभुवं प्राप्यवास्तुदेवस्त्वधोमुखः
पुण्याहंवाचयित्वातु प्रोक्षणैःप्रोक्षणंचरेत्॥ 19
पुष्पैर्गंधैस्तथाधूपैर्दी पैश्चाऽपिप्रपूजयेत्
नमस्कारैश्चसंयुक्तैः प्रणवाद्यैस्स्वनामभिः॥ 20
शल्यपरीक्षा
पूजनान्तेस्पृशेत्कर्ता यमंगंतन्निरीक्षयेत्
वास्तुदेहेऽपितत्रैवशल्यं ब्रूयाद्यथार्थतः॥ 21
अस्तिशल्यंशिरस्स्पर्शे तद्धस्तद्वयमानतः
कंठस्पर्शेगळेचैव हस्तमात्रेसमादिशेत्॥ 22
उपस्पर्शात्त्रिभिर्हास्तै श्श्रुंखलाशल्यमादिशेत्
हस्तमात्रॆकरस्पर्शात् खट्यापादंसमादिशेत्॥ 23
बहुसंस्पर्शनात्कर्तु रंगारस्तुत्रिहस्ततः
गुल्भॆसर्पादिभिर्दुष्टं वितस्तिद्वयमानतः॥ 24
पादेकंटकमित्युक्तं षड्वितस्तिप्रमाणतः
कनिष्ठांगुष्ठयोस्स्पृर्शाद्धस्तंतत्रसमाचरेत्॥ 25
व्ययाधिकॆचतुर्हास्ते जानुस्पर्शात्ततःपरम्
शल्यंविशोध्यभूमिंतां तलंकृत्वासमानतः 26
पंचगव्येनसंप्रोक्ष्य वास्तुदेवान्प्रपूजयेत्
वास्तुदेवताबलिः॥
द्रोणंद्रोणार्थकंवाऽपितंडुलान्पाचयेत्ततः॥ 27
दधिगुडाज्यसंयुक्तं सर्वेषांचबलिंददेत्
ब्रह्मदीनांनमोस्तंवा स्वाहास्तंवाबलिर्भवेत्॥ 28
कृत्वातु बलिदानंच पुण्याहमपिवाचयेत्॥ 29
इतिश्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे द्वितीयोऽध्यायः॥