सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/द्वाविंशोऽध्यायः

विकिस्रोतः तः
← एकविंशोऽध्यायः प्रकीर्णाऽधिकारः
द्वाविंशोऽध्यायः
[[लेखकः :|]]
त्रयोविंशोऽध्यायः →

अथ द्वाविंशोऽध्यायः॥
स्नपनम्
अथाऽतस्स्नपनागारं प्रमुखे चोत्तरे तथा
ऐशान्यां वा विशेषण प्रपां वा मंडपन्तु वा॥ 1
वितानोपरि संवीतं लंबमानं परिष्कृतम्

  • * *

स्तंभांत्संवेष्ट्य वस्त्रैश्च दुकूलैस्तांतवैरपि॥ 2
मुक्तादामसमायुक्तं पूर्णकुंभसमन्वितम्
सत्वं रजस्तमश्चैव ऐश्वर्यं चाऽधिदैवतम् 3
चतुर्वेदादिकैर्मंत्रैस्तोरणांस्थ्सापयेत्क्रमात्
उभयोः पार्श्वयोश्चैव कदळीक्रमुकान्वितम्॥ 4
पूर्वास्तमुत्तरान्तं च षट्सूत्रं संप्रसार्य च
कल्पयेदायतसमं पदानां पंच विंशतिम्॥ 5
मध्येब्राह्मं पदं हित्वा चर्यार्धं परितोऽष्ट च
पूर्वादि चत्वारि पदं द्वारार्थं परिकल्पयेत्॥ 6
शिष्टांश्च द्वादशपदान्‌ द्रव्यन्यासार्थमाहरेत्
मध्येश्वभ्रन्तु कर्तव्यमौपासनविधानतः॥ 7
मध्येनिम्नं च कृत्वा तु तालमात्रप्रमाणतः
श्वभ्रस्य मध्यमे चैव बिल्वजं फलकं न्यसेत्॥ 8
तत्प्रमाणाधिकं पीठं परितश्चतुरंगुलम्
मध्येहित्वा प्रतिष्ठाप्य द्विवेदिसहितं क्रमात्॥ 9
ततःपावनमार्गेण जलं गच्छेदुदङ्मुखम्
मंडपात्तु बहिस्थ्साने जलस्थानं तु खानयेत्॥ 10
आच्छाद्य कदलीपत्रैः पद्मपत्रैरथापि वा
हारिद्रैश्चाऽथ पत्रैर्वापत्रैः क्रमुकजैस्तु वा॥ 11
`अतोदेवा'दिमंत्रेण कुशदर्भांन्तु शोधयेत्
यावच्छ्वभ्रप्रमाणन्तु तावत्कृत्वासमाहरेत्॥ 12
हस्तमात्रं तथाऽयामे प्रोक्षणार्थं तु कूर्चकम्
मार्जनार्थंतु कूर्चं च षडंगुलमिति स्मृतम्॥ 13
पंचभिर्वात्रिभिर्वाऽथ द्वादशांऽगुलमायतम्
कलशार्थं तु कुर्वीत यथाकलशसंख्ययो॥ 14
तंडुलैर्व्रीहिभिश्चैव सतिलैश्चत्रिवेदिकम्
व्रीह्यर्धं तंडुलं प्रोक्तं तदर्धं च तिलानपि॥ 15
उत्तमं द्रोणमित्युक्तं मध्यमं तु तदर्धकम्
अधमं चाऽढकं चैव पंक्तिं कुर्याद्विचक्षणः, 16
सम्यक् दग्ध्वातु कलशानभिन्नांत्संप्रगृह्य च
शरावाणां प्रमाणं तु कुडुबं समुदाहृतम्॥ 17
षट्प्रस्थमात्रं करकं कुंभं तु द्रोणमेव च
`देवस्य'त्वेति कलशान्‌ कुंभादींत्संप्रगृह्य च॥ 18
यवान्तरं तु तंतूनां संवेष्ट्य कलशानपि
पूर्वरात्रौ विशेषेण देवेशं संप्रणम्य च॥ 19
समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः
पूर्वोक्तेन विधानेन बद्ध्वाप्रतिसरं ततः॥ 20
शयनं सोपधानं च कालयित्वातु पूर्ववत्
शयने शाययेद्देवमुत्तराच्छादनं चरेत्॥ 21
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात्
ततः प्रभाते धर्मात्मा यजमानयुतो गुरुः॥ 22
श्वभ्रमध्ये प्रतिष्ठाप्य कूर्चांत्सम्यङ्न्यसेत्क्रमात्
जयादीरपि तत्रैव चैंद्राद्यैशान्तमर्चयेत्॥ 23
पंक्तीशमर्चयेत्पूर्वं नीलवारुणमध्यमे
विष्वक्चेनं समभ्यर्च्य सोमेशानाऽन्तरेपि च॥ 24
लोकपालांत्समभ्यर्च्ये द्विग्रहैर्दशभिस्त्रिभिः
प्राग्द्रव्याणि
नदीतिरे मृदं गृह्य सस्यङेत्रेतटाकके॥ 25
दर्भमूले च संगृह्य गजदन्ते तथैवच
गोश्रुंगे कर्कटावासे वल्मीकस्य तु मध्यमे॥ 26
महीं देवीमनुज्ञाप्य ताश्चाहृत्य पृथक् पृथक्
आतपेनाऽथ संशोष्य विश्वामित्रान्‌ परिह्रसेत्॥ 27
शरावेषु मृदं चैव पूरयित्या पृथक् पृथक्‌
इंद्रादीशानपर्यन्तं प्रदक्षिणवशेन तु॥ 28
`उदुत्य'मिति मन्त्रेण प्रथमं सन्न्यसेन्मृदः
मृदुपस्नानमेकं तु ऐशान्यां विप्यसेत्तदा॥ 29
अश्वद्थेन पलाशेन बिल्वेन खदिरेण वा
कुर्यादष्टांऽगुलोत्सेधं चतुरश्रं समस्ततः 30
मूलं षडंगुले चाग्रात्त्य्रंगुलं समुदाहृतम्
अनेन वा मृदा वापि कुर्याद्वै पर्वतान्‌ क्रमात् 31
हिमवानूर्जवान्विंध्यो विदूरो वेदपर्वतः
महेन्द्रश्च पुरश्चन्द्रश्शतश्रुंगाश्च पर्वताः॥ 32
एषां वर्णस्तथैवोक्तः कुर्याद्वर्णेन संयुतान्‌
श्वेतं पीतं च कृष्णं च रक्तं वै श्वेतमेव च॥ 33
पीतं कृष्णं च रक्तं च क्रमाद्वर्ण उदाहृतः
प्रागादीशान्त मेतांश्च `इदं विष्णु'रिति न्यसेत्॥ 34
शैलानां चाप्युपस्नामेकमीशान्यगोचरम्
शालिव्रीहियवा मुद्गतिलमाष प्रियंगवः॥ 35
गोधूमश्चणकस्तिल्वोमसूरश्चाद्थसी तथा
कुळुद्धमाषकाश्चैव षष्टिर्निष्पाव एव च॥ 36
एतान्याहृत्य धान्यानि शरावेषु पृथक् पृथक्
प्रक्षिप्य तांश्य संपूर्णान्‌ क्रमाद्द्वौ द्वौन्यकेत्तथा॥ 37
इंद्रादीशानपर्यन्तं `शुक्रन्त' इति मन्त्रतः
न्यसेदेकमुपस्नानं धान्यानामग्निदिश्यपि॥ 38
शरावाणामलाभे तु कलशेषु पृथक् पृथक्
`सोम ओषधीना'मुच्छार्य पूर्ववच्चांऽकुरानपि॥ 39
यमनीलान्तरे चाऽपि शरावेतु सुविन्यसेत्
अंकुराणामुपस्नानमेकमत्रैव विन्यसेत्॥ 40
पर्वतार्थं समं प्रोक्तवृक्षैर्यत्नेन वा मृदा
मंगलानि प्रकुर्याच्च दारुपक्षाण्यनुक्रमात्॥ 41
श्रीवत्सं पूर्णकुंभं च भेरीमादर्शनं तथा
मत्स्ययुग्मांऽकुशं शंखमावर्तमिति चाष्टवै॥ 42
श्रीवत्सं तत्तु रुक्माभं घटोरक्ताभ उच्यते
रक्तां भेरीं सुवर्णाभं तस्य पार्श्वेऽसितं?तथा॥ 43
आदर्शनं च श्वेतं स्याद्वृत्तं चन्द्रवदिष्यते
मत्स्ययुग्मं तथा श्वेतमूर्ध्वाननमितीरितम्॥ 44
अंकुशस्य तु दंडं च रक्तं कृष्णघृणीयुतम्
शंखं शंखनिभं प्रोक्तं रक्तमावर्तमिष्यते॥ 45
सप्तांगुलसमुत्सेधमेषां पीठं द्विगोलकम्
यथा वृक्षैस्तथा कुर्यात्पंचवर्णैर्मृदा तधा॥ 46
एवं लक्षणमुद्दिष्टं शेषं युक्त्या समाचरेत्
प्रदक्षिणक्रमेणैव चैंद्रादीशान्तमर्चयेत्॥ 47
दिक्ष्वष्टसु महादिक्षु तत्तद्द्वारस्य दक्षिणे
`शं सा नियच्छ'त्वित्युक्त्वामंगलान्यत्र विन्यसेत् 48
मंगलानामुपस्नानमेंद्राद्येचैकमेवहि
एवं प्रकरणं प्रोक्तं कलशानां॥॥॥॥॥॥॥॥॥॥॥॥॥ 49

  • * *

द्वादश प्रधानद्रव्याणि
पंचगव्यक्रमं वक्ष्ये देवस्य स्नपनं प्रति
कपिलाया वरं क्षीरं श्वेताया दधि चोच्यते॥ 50
रक्तवर्णाघृतं ग्राह्यं कृष्णाया गोश्शकृद्भवेत्
मूत्रं तु नीलवर्णायाः पंचगव्यमिति स्मृतम्॥ 51
प्रस्थपादं घृतं चैव द्विगुणं दधि संयुतम्
गृहीत्वा त्रिगुणं क्षीरं गोमयन्तु चतुर्गुणम्॥ 52
षड्गुणं चैव गोमूत्रं पंचगव्ययुतं क्रमात्
अपातितं तु गोमूत्रं पतितं गोमयं भवेत् 53
धारोष्णं क्षीरमादाय सद्यस्त्सप्तं घृतं भवेत्
अशुक्तं दधि गृह्णीयादेतत्सर्वत्र लक्षणम् 54
`गांगेयं' मंत्रमुच्चार्य गोमूत्रं पूर्वमाहरेत्
तत्परं तु शकृद्ग्राह्य `मीशान'मिति मन्त्रतः 55
`हिरण्यपाणि'मित्युक्त्वा पय आदाय निक्षिपेत्
`इषे त्वे'ति दधि यंज्याद्घृतं `चायन्त' इत्यपि॥ 56
इत्येवं पंचभिर्मन्त्रॆः पंचगव्यं समाहरेत्
एतदाढकपूर्मन्तु कलशेदृश्यते पृथक्॥ 57

  • * *

सौवर्णं राजतं ताम्रं कांस्यं मृण्मयमेव वा
द्वादशांऽगुलविस्तारं षोडशांऽगुलनाहकम्॥ 58
द्व्यंगुलं संभरेत्कंठं मुखं पंचांगुल भवेत्
पक्वबिंब फलाकारं खंडस्भुटीतवर्जितम्॥ 59
एवं कलशमादाय पंचगव्यैःप्रपूर्य च
`रुद्रमस्य'मिति प्रोच्य न्यसेदीशानगोचरे॥ 60

  • * *

आढकार्धघृतेनैव संपूर्णं कलशं तथा
`घृतप्रतीक' इत्युक्त्वा इ द्रेशानान्तरेन्यसेत् 61
कलशं मधुसंयुक्तं सुकुशैः पूरितं तथा
`मधु वा'तेति मंत्रेण इंद्राग्न्योरन्तरे न्यसेत्॥ 62
न शुक्तं दधि गव्यं च? संपूर्णकलशं तथा
`दधि क्राव् ण्न' इत्युक्वा आग्नेय्यां दधि विन्यसेत्॥ 63
सद्यो दुग्धं पयोग्राह्य मक्षतैः पूरितन्तथा
`अणोरणीया' नित्युक्त्वा यमाग्न्योर्मध्यमे न्यसेत्॥ 64
उशीरागरुपर्णैर्वा संयुक्तं चन्दनेन वा
शुद्धोकेन संगृह्य कलशं परिपूरितम्॥ 65
यमनीलान्तरे तत्र `अप्सर'स्स्विति विन्यसेत्
व्रीहिमाषयवैर्युक्तं सर्षपंचाऽक्षतं विदुः॥ 66
तूर्यघोषसमायुक्तं मिश्रितं चाक्षतोदकम्
तत्राऽक्षतोदकेनैव संपूर्णं कलशं ततः॥ 67
`इमा ओषधय' इत्युक्त्वा न्यसेन्नी लेऽक्षतोदकम्
कदळीमातुलुंगाम्र पनसेर्नाळिकेरकैः॥ 68
आर्द्रादिभिः फलैश्चाऽन्यैर्यथालाभं समाहृतैः
फलै रर्धांशसंयुक्तं शेषं तोयेन पूरितम्॥ 69
फलोदकमिति प्रोक्तं कलशं संप्रसाथितम्
नीलवारुणयोर्मध्ये `सोमं रा'जेति विन्यसेत्, 70
कुशाग्रैरथ वा दूर्वैरक्षतैश्च समन्वितम्
कुशोदकमिति प्रोक्तं कलशं तेन पूरितम्॥ 71
वरुणोदानयोर्मध्ये `यतस्स्व'मिति विन्यसेत्
वज्रं नीलं प्रवालं च शंखजं शुक्तिजं तथा 72
एतानि पंचरत्नानि ततो मरतकं तथा
वैडूर्यं पुष्यरागं च गोमेधिकमिति क्रमात्॥ 73
रत्नोदकमिति प्रोक्तं कलशं तेन पूरितम्
वायव्ये सन्न्यसेद्विद्वा`नतो देवादि'मुच्चरन्‌॥ 74
यथालाभं तथा रत्नसुवर्णसहितं क्रमात्
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तयुतं जपेत्॥ 75
तथाऽभिमन्त्रितं तोयं जप्योदकमिति स्मृतम्
कुबेरोदानयोर्मध्ये `ब्रह्मा देवाना'मिति न्यसेत्॥ 76
फलान्ते तु वितुन्नास्स्युरोषध्यस्समुदाहृताः
सर्वौषधिसमायुक्तं सर्वौषध्युदकं भवेत्॥ 77
तर्यांशेषु गृहीतं च कलशं पूर्णमंभसा
सोमेशानास्तरेचैव `चित्रं देवाना'मिति न्यसेत्॥ 78
एषां प्रत्येकमेकं तु कलशं शुद्धवारिणा
गृहीत्वा तदुपस्नानं वामपार्श्वेतु विन्यसेत्॥ 79
उपस्नाने तु कलशा`नतो देवा'दिना न्यसेत्
एवं प्रधानकलशाश्चतुर्विंशतिरीरिताः॥ 80
अनुद्रव्याणि
नंद्यावर्तं च पद्मं च तुळसी विष्णुपर्णिका
बिल्वं च करवीरं च पद्मं कुमुदमेव च॥ 81
अष्टवै पुण्यपुष्पाणि ग्राह्याणि तु यथाक्रमम्
दिवाशुद्धं तु बिल्वं च कपिद्थं बिल्ववन्निशि॥ 82
करवीरं दिवा शुद्धं निशि सितं? तथा शुचि
शरावेषु समाहृत्य पुष्पाणि तु पृथक् पृथक्॥ 83
`इमास्सुमनस' इति मन्त्रेण यमनीलान्तरे न्यसेत्
तस्योपस्नानमेकन्तु तत्पार्श्वे कलशं न्यसेत्॥ 84
श्रीवेष्टकं यवं मुद्गमुशीरं चैव रत्नकम्
तथा मसूरं दमनं जातीफलयुतं तथा॥ 85
लवंगं च समाहृत्य चूर्णयित्वाक्रमेण वै
समाराध्यैव तच्चूर्णं शरावेषु च पूरयेत्॥ 86
पंक्तीशाद्दक्षिणे चूर्णं `वन्द्यो न'इति विन्यसेत्
एषामलाभे चूर्णानां ग्राह्यमैलादिचूर्णकम्॥ 87
उपस्नानं तु तत्पार्श्वे त्वेकं वै कलशं न्यसेत्
अश्वद्थस्य मधूकस्य खदिरस्य वटस्य च॥ 88
वंजुळासनयोश्चाऽपि चित्रवृक्षस्य च त्वचः
हृत्वोलूखलमध्ये च `उदुत्य'मिति विन्यसेत्॥ 89
उक्त चर्मण्यलाभे तु अश्वद्थस्य विधीयते
कषायं परिकल्प्यैव `ये ते शत'मिति ब्रुवन्‌॥ 90
वरुणोदानयोर्मध्ये कषायकलशं न्यसेत्
उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेत्॥ 91
सिंही च नकुलव्याघ्रनन्दादित्यं च पुष्करम्
दूर्वा च सहदेवी च पाठा साह्वयमेव च॥ 92
एवं वनौषधीर्गृह्य सोमवाय्वोन्तु मध्यमे
उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेत्॥ 93
नदीतटाककूपानां पल्वलस्य च वारिभिः
पृथक्संपूर्य कलशांश्चतुरस्तु समाहरेत्॥ 94
तस्यैकं कलशं पार्श्वे उपस्नानं तु विन्यसेत्
हरेणुकं च स्थौणेयं पत्रं व्याघ्रनखं तथा॥ 95
पर्णागरुं च द्यामाकं कचोरं चेरुवालकम्
मांची जातिफलैलांश्च लवंगं चन्दनं तथा॥ 96
कर्पूरं च बलोशीरस्थिरनारदमेव च?
कस्तुंबुरुं तथाऽन्यानि सुगंधीनि शुचीनि च॥ 97
प्राण्यंगं च पुरीषं च वर्जयित्वा समाहरेत्
एतेषामपि यच्चूर्णं सूक्ष्ममुत्पीड्य कल्पितम्॥ 98
सर्वगंधमिति प्रोक्तं शरावेषु प्रपूरयेत्
न्यसे`त्त्रातार'मित्येव यक्षराजेशमध्यमे॥ 99
तत्तत्पार्श्वेन्यसेत्तेषामुपस्नानं तथैव च
नवस्य स्निग्धवर्णस्य हारिद्रस्य प्रकल्पयेत्, 100
चूर्णं तु कलशे क्षिप्त्वा संपूर्णं कलशं चरेत्
पंक्तीशस्यैव पार्श्वेतु `सिनी वा'लीति विन्यसेत्॥ 101
तस्य पार्श्वे न्यसेदेकमुपस्नानन्तु पूर्ववत्
पालाशदूर्वापामार्गनन्द्यावर्तदलानि च॥ 102
करवीरस्य पत्राणि कुशपत्राणि चैव हि
मूलगन्धार्थमाहृत्य तस्य पार्श्वे न्यसेद्बुधः 103
शुद्धोदकलशं स्थाप्येदुपस्नानं च पूर्ववत्
वस्त्रयुग्मं नवं सूक्ष्मं कृतं कार्पासतंतुना॥ 104
प्लोतार्थन्तु समाहृत्य शुद्धपात्रे तु निक्षिपेत्
विष्णुगायत्रिया स्थाप्य यक्षराजेशमध्यमे॥ 105
प्लोतपार्श्वेन्यसेत्तानि `ब्रह्मजज्ञान'मित्यपि
जातिं हिंगुलिकं चैव अंजनं च मनश्शिलाम्॥ 106
गोरोचनं च गिरिकमिति धातूंत्समाहरेत्
एतानि चूर्णयित्वातु शरावेषु पृथक् पृथक्॥ 107
प्रक्षिप्य `जातवे'देति न्यसेत्तत्रैव पूर्ववत्
एकादशानुकरणे कलशांश्चैव पूरयेत्॥ 108
अहतं च सुमाक्ष्मं च वस्त्रयुग्ममखंडितम्
वस्त्रं यज्ञोपवीतं च पवित्रं भूषणादिकम्॥ 109
एवमादीनि संगृह्य सोमेशानान्तरे न्यसेत्
विन्यस्य कलशांश्चैव तथा चूर्णान्‌ पृथक् पृथक्॥ 110
वस्त्रैरावेष्ट्य तांत्सर्वान्‌ पुनःकूर्चानि निक्षिपेत्
उत्कूर्चं वाऽप्यधःकूर्चं प्रागग्रं वोदगग्रकम्॥ 111
विन्यस्य तेषु कूर्चानि शरावे रपिधाय च
प्रणम्य देवदेवेशं द्रव्यार्चसमथाऽरभेत्॥ 112
ततश्चर्यापदान्तेषु जयाद्यप्सरसोऽर्चयेत्
जयां च विजयां विंदांनंदकां पुष्टिकामपि॥ 113
कुमुद्वतीमुत्पलकां विशोकां च समर्चयेत्
प्रागादिवेद्याः परितः पंक्तौ पंक्तीशमर्चयेत्॥ 114
विष्वक्सेनं ततः पश्चादिद्रादींश्च समर्चयेत्॥
द्रव्यदेवार्चनम्
मृद्देवता तु भूदेवी पर्वतेशस्तु पावकः 115
वायुर्वैधान्यदेवस्स्याद्गरुडोंऽकुरदेवता
मंगलाधिपतिश्शक्रःपंचगव्याधिपश्शिवः॥ 116
तथैव विश्वेदेवाश्च उपस्नानाधिदेवताः
सामवेदो घृतेशस्स्यादुपस्नाने तु वत्सराः 117
ऋग्वेदो मधुदेवस्स्यादुपस्नाने तु वायवः
यजुर्वेदो दधीशोऽभूदुपस्ना कपर्दिनः 118
क्षीरे त्वधर्ववेदश्च उपस्नानेऽश्विनौ तथा
गंधोदके षडृतवो मरुतस्तदनन्तरे॥ 119
अक्षतोदे विश्वमूर्तिरुपस्नाने बृहस्पतिः
सोमः फलोदकेशस्स्यादनन्तस्तदनन्तरे॥ 120
कुशोदके च मुनय उपस्नाने तु तक्षकः
विष्णूरत्नोदकेशस्स्याद्गंधर्वास्तनदन्तरे॥ 121
मंत्रोरत्नोदकेशस्स्यादुपस्नानेतु पुष्पजाः
सर्वौषध्युदके भानुरुपस्नानेऽप्सरोगणाः 122
पुण्यपुष्पेषु धातारं चूर्णेष्वप्यनपायिनम्
वरुणः कषायदेवस्स्यात्तीर्थे चैव जगद्भुवः 123
वनौषधीशो रुद्रोऽभूच्छिनीवाली हरिद्रके
उपस्नानि तु राका स्यात्सर्वगन्धे शतक्रतुः॥ 124
ब्रह्माणं मूलगन्धेतु प्लोतवस्त्रे पुरन्दरम्
धातुष्वपि च दुर्गां च तत्तद्द्रव्यधरं स्मरन्‌॥ 125
त्रयोदशोपचारैश्च मूर्तिमंत्रैरथाऽर्चयेत्
उपस्नानेषु चाऽन्येषु वरुणं च तथाऽर्चयेत्॥ 126

  • * *

आचार्य पूजयित्वातु वस्त्रैराभरणै स्तथा
शिष्यं च पूजयेत्पश्चाद्यजमानस्स्वशक्तितः॥ 127
ततो गुरुःप्रसन्नात्मा देवेशं संप्रणम्य च
अष्टोपचारैरभ्यर्च्य स्नपनावसरं ततः॥ 128
विज्ञाप्य हरये सम्यक् पश्चात्कार्यं समाचरेत्
`रक्षस्व त्व'मिति प्रोच्य द्रव्यदेवं प्रणम्य च॥ 129
शिष्यस्तुनम्रकायस्सन्नाचार्याज्ञां प्रतीक्षते
आज्ञापयेद्गुरुश्शिष्यं `हरस्वेद'मिति ब्रुवन्‌॥ 130
तत्तद्द्रव्यं समादाय शिष्यस्तस्मै निवेदयेत्
अद्भिःप्रोक्ष्य समादाय तद्द्रव्यं गुरुरत्वरः॥ 131
प्वणवं तु समुच्चार्य तत्र कार्यं समाचरेत्
ललाटान्तं समुद्धृत्य देवदेवं प्रणम्य च॥ 132
तद्द्रव्येण सकृत्त्रिर्वा देवेशस्य प्रदक्षिणम्
तद्द्रव्यनाम संयोज्य तन्मंत्रान्ते तु कारयेत्॥ 133
`अतो देवा'दितिमंत्रेण देवदेवं प्रणम्य च
विष्णुं च पुरुषं सत्यमच्युतं चाऽनिरुद्धकम्॥ 134
एवं मंत्रं समुच्चार्य तत्र कार्यं समाचरेत्
क्रियान्ते पात्रमादाय पूर्वस्थाने निवेशयेत्॥ 135
स्नपनप्रयोगः
`एकाक्षरेण' मंत्रेण प्रोक्ष्यं गृह्य प्रदक्षिणम्
कूर्चेनादाय संस्राव्य मूर्ध्मिवै स्नापयेन्मृदा॥ 136
`विश्वे निमग्न'इत्युक्त्वापर्वतेन प्रदक्षिणम्
धान्येन स्नापयेच्चैव `प्राणप्रसूति'मुच्चरन्‌॥ 137
`वितत्य बाण'मित्युक्त्वा अंकुरैरेव चाऽर्चयेत्
`त्वं य'ज्ञेति च मंत्रेण मंगलैश्च प्रदक्षिणम्॥ 138
`वसोः पवित्र'मित्युक्त्वा पंचगव्याऽभिषेचनम्
`वारीश्चतस्र'इत्युक्त्वा सर्वोपस्नानमाचरेत्॥ 139
`अग्न आयाहि' मंत्रेण घृतेनैवाऽभिषे चयेत्
`अग्निमी'ळेति मंत्रेण मधुनैवाऽभिषेचयेत्॥ 140
दध्माऽभिषेचयेत्पश्चा`दिषे त्वे'ति समुच्चरन्
`शन्नो देवीर'भीत्युक्त्वा क्षीरेणैवाऽभिषेचयेत्॥ 141
`अभि त्वा शूर'इत्युक्त्वा स्नापयेद्गंधवारिणा
`इमा ओषधय'इत्युक्त्वा स्नापयेदक्षतोदकैः॥ 142
`जपन्‌ द'त्वेति चोच्छार्य फलोदैश्चाऽभिषेचयेत्
`चत्वा'रीति च मंत्रेण कुशोदैश्चाऽभिषेचयेत् 143
`तत्पुरुषा'येति मंत्रेण रत्नोदैश्चाऽभिषेचयेत्
`पूत स्त'न्येति मंत्रेण जप्योदैरभिषेचयेत्॥ 144
`चत्वारि श्रुं'गेत्युच्चार्य सर्यौषध्युदकैश्चरेत्
`धाता विधा'तेत्युच्चार्य पुण्यपुष्पैरथार्चयेत्॥ 145
`ऋचो यजूंषि' मंत्रेण चूर्णेन स्नापयेद्गुरुः
`स एष देव' उच्चार्य उद्वर्तेत कषायकैः॥ 146
`स सर्ववेत्ता'मंत्रेण तीर्थोदेश्चाऽभिषेचयेत्
`सामैश्च सांग'मित्युक्त्वा मार्जयेच्च वनौषधीः 147
हारिद्रचूर्णैस्संस्नाप्य `अतो देवा' इति ब्रुवन्‌
`त्वं स्त्रीपुमा'नित्युच्चार्य लेपयेत्सर्वगन्धकैः 148
स्नापयेदुष्णतोयेन `आपो हि'ष्ठेति चोच्चरन्‌
नित्यस्नानोक्तमार्गेण शुद्धोदैरभिषेचयेत्॥ 149
तत्तद्द्रव्याभिषेकान्ते स्नानवस्त्रं विसृज्य च
धौतं समर्पयेच्चैव पूजयेदष्टविग्रहैः॥ 150
`मित्रस्सुवर्ण'इत्युक्त्वा प्लोतेन परिमृज्य च
वस्त्राद्यैस्समलंकृत्य पूर्वोक्तेनैव कारयेत् 151
`त्वं भूर्भुवस्त्वं'मंत्रेण मूलगन्धेन मार्जयेत्
`बुद्धिमता'मित्युच्चार्य चाऽलंकुर्याच्च धातुभिः॥ 152
पाद्यमाचमनं दद्यादालयस्य प्रदक्षिणम्॥
स्वस्तिसूक्तादिसूक्तं च जप्त्वाचैवाऽथ कारयेत्॥ 153
अर्चास्थाने तु संस्थाप्य पूजयित्वोक्तमार्गतः
महाहाविः प्रभूतं वा यथाशक्ति निवेदयेत्॥ 154
निष्काधिकं सुवर्णं च सवत्सामपि गां तथा
गुरवे दक्षिणां दद्यात्स्नापकानां तथैव च॥ 155
तत्रान्यकर्मकर्तॄणां यथाशक्त्याच दक्षिणाम्
दद्यात्कर्मफलं प्राप्य यजमानोऽथ भक्तिमान्‌॥ 156
स्नपनायत्तमुद्दिष्टधान्यद्रव्यांऽबराणि च
पात्राणि च तथान्यानि स्नपनान्ते धृतानि च॥ 157
निवेदयित्वा गुरवे प्रणमेच्च मुहुर्मुहुः
ध्रुवार्चना यदि स्यात्तु प्रमुखे स्नपनं चरेत्॥ 158
वितानस्तंभवेष्टादिपूर्ववत्कारयेत्ततः
पंचहस्ताभेदेषु पंक्तिं कुर्याद्विधानतः 159
मध्ये कुभं च स्न्यस्य अर्चयित्वा च पूर्ववत्‌
ध्रुवपीठस्य परितः कूर्चयुक्तं चतुर्दिशम्॥ 160
जयादीरर्चयित्वातु मृदादीन्‌ पूर्ववत्क्रमात्‌
तत्पात्रं संप्रगृह्यैव पाणिभ्यां क्षाळनं चरेत् 161
अथ वा पात्रमादाय पूरयित्वातु सन्न्यसेत्
द्रव्यं प्रति विशेषेण पूरयित्वाऽर्चयेत्क्रमात्॥ 162
पाद्यं चाचमनं पुष्पं गंधं धूपं तथैव च
दीपमर्घ्यं तथाचाममर्चयित्वाऽष्टविग्रहैः॥ 163
देवदेवं नमस्कृत्य प्रदक्षिणमथाऽचरेत्
देवस्य पुरतस्तिष्ठेद्द्रव्यमादाय पाणिना॥ 164
गौशृंगाग्रं समुद्धृत्य पूर्वोक्तविधिना क्रमात्
पुनः प्रदक्षिणं कृत्वा पूर्वस्थाने तु विन्यसेत्॥ 165
ध्रुवेणाभ्यस्तरे चैव बिंबैरन्यैस्सहैवतु
पूर्वमुक्तं ध्रुवार्चा चेत्स्नपनं सम्यगाचरेत्॥ 166
यथोक्तेनैव मार्गेण यथाविधि समर्चयेत्
चत्वारिंशत् 167
गव्यं श्रुतं दधि मधु क्षीरे
स्याद्रत्न तोयकम्॥ 168
जप्यं
द्वादशैतान्‌ समाहृत्य 169
न्तु उपस्नानमेकं हारिद्र
मध्यमोत्तमम् 170
उपस्नानवि
माधमं चैव स्नपनं तु विधीयते 171
स्तथा कुर्यात्कलशैस्तु चतुर्दशैः
172
मध्यमे मध्यमं चैव मध्यमाधम
विधीयते॥ 173
सप्तभिः कलशैः
मध्यमं तेषां षड्भिः कल 174
धम मुच्यते
चतुर्दशैः 175
गव्यं घृतं क्षीरमक्ष
पस्नानं तथैव च॥ 176
एतै
दशैतान्‌ कलस्याचेत्क्र? त 177
पूर्वोक्तेनैव
कलशस्यचेत्॥ 178
दिक्षष्ट
गव्यैस्तु ऐंद्रे घृतमि 179
म्येगन्धोदकं तथा
पयो त्यां वारुण्यामक्षतोदकम् 180
सौम्ये जप्योदकं क्रमात्
व्यस्तुसप्तभिः कलशैः 181
चत्रिषट्योणस्थलं
सप्तभिः कलशोक्तवत् 182
नवकोष्ठन्तु तत्र वै
म भश्च कुशांभसा 183
जप्या विन्यसेत्
एवमेवं येत्॥ 184
दक्षिणायनकालेतु
उत्तरायणकालेतु पश्चात् 185
ये तु संप्राप्ते त
त्सूर्यें दूपरागेषु 186
स्नपनं देवदेवस्य कृत्वा त 186 1/2
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे द्वाविंशोऽध्यायः॥