सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/द्वादशोऽध्यायः

विकिस्रोतः तः
← एकादशोऽध्यायः प्रकीर्णाऽधिकारः
द्वादशोऽध्यायः
[[लेखकः :|]]
त्रयोदशोऽध्यायः →

अथ द्वादशोऽध्यायः॥
भगवत्प्रतिष्ठाविधिः
अथप्रदोषे धर्मात्मा जलस्थं देव मुद्धरेत्
स्नानद्रव्याणि चाहृत्य देवं संस्नाप्य मंत्रवित्॥ 1
क्षौमपट्टाऽदिना छाद्य मणिहेमादिकैः पुनः
विविधैः पुष्पमालाद्यै रलंकृत्य मनोहरम्॥ 2
यान मारोप्य देवेशं स्वक्तिसूक्तं समुच्चरन्‌
तोयधारां पुरस्कृत्य नीत्वा ग्रामं प्रदक्षिणम्॥ 3
श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः
उत्तरे यागशालायां वास्तु होमं समाचरेत्॥ 4
मथित्वाऽग्निं प्रगृह्णीया द्वास्तु होमाग्निमेव वा
संस्कृत्य विधिनाऽदाय प्रणये द्गार्हपत्यके॥ 5
त्रिस्संस्कृतो लौकिकाऽग्नि र्मथिताऽग्निसमो भवेत्
आघारं विधिवत्कृत्वा वैष्णवान्तं समाचरेत्॥ 6
ततोऽन्वाहार्यकुंडे च पश्चादाहवनीयके
आवसथ्येततस्सभ्ये ततःपद्माऽनलेक्रमात्॥ 7
सूत्रोक्तेन विधानेन सर्वत्राऽघारमाचरेत्

  • * *

द्पात्रिंशत्प्रस्थसंपूर्णं घटमादायचाऽत्वरः॥ 8
`इषे त्वोर्जे'त्वादि जपन्‌ तंतुना परिवेष्ट्य च
`शुची वो हव्य' इत्युक्त्वा कुंभप्रक्षाळनं चरेत्॥ 9
नदीतोयं समादाय समुत्पूय च पूरयेत्
वस्त्रयुग्मेन चाऽवेष्ट्य अलंकुर्या त्प्रयत्नतः॥ 10
एलातक्कोलकर्पूरै र्गंधोशीराक्षतैःक्रमात्
अन्यैर्गंधयुतैः पुष्पैर्वासयित्वा विधानतः 11
सुवर्णरत्नधातूंश्च न्यसित्वा मंत्रवित्तमः
गोवालकुशदर्भैश्च कृतं कूर्चं तु निक्षिपेत्॥ 12
अथ वा निक्षिपे त्कूर्चं कृतं दर्भैस्तु केवलैः
अस्थि रत्नं सिरा स्तन्तु र्मांसो मृत्स्ना प्रकीर्तिता॥ 13
शोणितं रक्तमृद्भिन्तु जलं मेदस्तथैव च
शुक्रन्तु कूर्चमित्युक्तं वस्त्रं स्याच्चर्म वैष्टितम्॥ 14
सप्त धातव इत्येते कुंभेषु करकेषु च
एतेष्वेकं विनाकुर्यान्नास्ति तत्राऽस्य सन्निधिः॥ 15
देवस्य दक्षिणे पार्श्वे कुंभं तत्र निवेश्य च
अलंकृतस्तथाचार्यो वस्त्राभरणकुंडलैः 16
स्रग्गंधैर्वेष्टितो धृत्मा मुखस्योष्णीषबन्धनम्
कुंभस्य दक्षिणे भागे प्राङ्मुखोदङ्मुखोऽपिवा॥ 17
स्वस्तिकाऽसन मास्थाय ऋजुकाय स्समाहितः
ललाटादिषु स्थानेषु केशवादीन्‌ प्रणम्यच॥ 18
अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्धिषु
पश्चात्कुंभं सुसंत्पृश्य क्रमात्सूक्तादिकं जपेत्॥ 19
आत्मसूक्तंततो जप्त्वा पौरुषं सूक्तमेव च
सूक्तमेकाक्षरं जप्त्वा विष्णुसूक्त मतः परम्॥ 20
श्रीभूसूक्तं ततो जप्त्वा `सहस्रशीर्षं'समुच्चरन्
वैष्णवं तु ततोजप्त्वा ध्याये त्सम्य क्समाहितः॥ 21
प्राणायामं ततः कुर्यात्‌ रेचपूरककुंभकैः
एतत्फलं क्रमाद्वक्ष्ये त्रिविधं तत्पृथग्विधम्॥ 22
तत्रैव रेचकं पूर्वं सर्वपापस्यदाहकम्
पश्चात्तु पूरकं कुर्या दमृताऽप्यायनं ततः॥ 23
तृतीयं कुंभकं कुर्या दमृतत्वं च संस्मरेत्‌
तस्मात्सर्वप्रयत्नेन रेचकादीनि कारयेत्॥ 24
कुंभगंतु जलं स्मृत्वा वारुणं मंडलं बुधः
अर्धचंद्राकृतिं स्मृत्वा तस्य बीजाऽक्षरं न्यसेत्॥ 25
तमोंकारेण संवेष्ट्य बन्धयुक्तं? तु निश्मलम्
आदित्यमंडलाऽन्तस्थं देवं तत्रैव चाऽह्वयेत्॥ 26
आदिबीजं सुवर्णाभं प्रणवैः परिवेष्टितम्
पश्चाद्देवं समभ्यर्च्य कुर्या दर्घ्यान्त मर्चनम्॥ 27
बिंबं कुंभं च संगृह्य स्नानश्वभ्रे निवेशयेत्
श्वभ्रस्य पूर्वभागे तु दंडपंक्तिं च कारयेत्॥ 28
कलशै स्स्नापयेत्सम्य क्चतुर्दशभिरेवतु
देवं सर्वत्र संस्नाप्य दीपान्तं च समर्चयेत्॥ 29
नैर्ऋते विष्टरे न्यस्य नमेद्देवां त्समाहितः
एवं देव्यौ समादाय स्नापये दत्वरं बुधः- 30
पाद्यमाचमनं दत्वा देवदेवं प्रणम्य च

  • * *

पात्रं तु तंडुलैः पूर्णं गृहीत्वात्र विशेषतः 31
सौवर्णं राजतं वापि कौतुकं तत्र निक्षिपेत्
अथ वा तंतु माहृत्य न्यसित्वा तंडुलोपरि॥ 32
तांबूलसहिते पात्रे? देवस्याग्रे निधायच
पुण्याहं वाच्य तत्कालॆस्वस्तिसूक्तं समुच्चरन्‌॥ 33
देवस्य दक्षिणेहस्ते देव्योर्यै वामहस्तयोः
`स्वस्तिदा' वीतिमंत्रेण कौतुकं बंधयेत्क्रमात् 34
वेदमंत्रज्ञ आचार्यो रक्षामंत्रं समुच्चरन्‌

  • * *

षड्द्रोणं धान्यमर्धं वा वेदिकोपरि चास्तरेत्॥ 35
तदर्धं तंडुलांश्चैव तदग्धं तु तिलानपि
तदग्धं यवमादाय तदर्धं तिल्वमेव च॥ 36
अंडजं मुंडजं चैवरोमजं वामजं तथा
चर्मजं चाऽस्तरेत्पंच शयनं वेदिकोपरि॥ 37
अलाभे तु तथैतैषां पंचवस्त्राणि वाऽस्तरेत्
मूर्धोपधानं कर्तव्यमूर्ध्वेऽनस्तं समर्चयेत्॥ 38
देवं देव्यौ समादाय यद्दिग्द्वारं तथा शिरः
शाययेच्छयने विद्वान्‌ `यद्वैष्णव'मिति ब्रुवन्‌॥ 39
देव्योश्चाऽपि तथा कुर्यात्तत्तत्सूक्तं जपेत्क्रमात्
उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्? 40
शय्यावेद्यास्तुपरितस्सर्वान् देवांत्समर्चयेत्

  • * *

ईशानादिक्रमाद्देवान्‌ बल्यन्तंतु समर्चयेत्॥ 41

  • * *

शंकरं बलिरक्षं च वाग्देवीं बलिश्रक्रकौ
अग्निं पवित्रं शैलूषं प्राच्यां प्रत्यङ्मुखान् क्रमात्॥ 42
भौमं गुहं च दुर्गां च यमं मन्दं च नैर्ऋतिम्
रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखान्॥ 43
पश्चिमे नैर्ऋताद्यादीनर्चयेत्तदनुक्रमात्
वैष्णवीं पुरुषं चैव बुधं ज्येष्ठां तथैव च॥ 44
पुष्परक्षकवायू च प्राङ्मुखांश्च समर्चयेत्
वायव्यादीशपर्यस्तं दक्षिणाऽभिमूखान् क्रमात्॥ 45
शुक्रं चैव भृगुं शान्तं तथा सप्तऋषीनपि
भागीरथीं कुबेरं च चन्द्रं भूतानि चाऽर्चयेत्॥ 46
द्वारे द्वारे च धात्रादीन्‌ द्वारदेवांत्समर्चयेत्
विमानं परितो भ्यर्च्य न्यक्षादीनर्चयेत्क्रमात् 47
देवस्याऽग्रे प्रसन्नात्मा पूजयेदनपायिनः
भूतद्वयं तथा तार्क्ष्यं तथा चैवाऽमितं बुधः॥ 48
चक्रशंखाऽरविंदानि देवस्याऽग्रेऽर्चयेद्बुधः॥
वेदानध्यापयेद्दिक्षु `ऋचां प्रा'चीरिति श्रुतिः॥ 49
संभारवेद्यामास्तीर्य धान्यं वस्त्रोवरिक्रमात्
हेमादिपात्रे रत्नादीं त्सन्न्यस्यैवाऽधिदैवतम्॥ 50
विष्णुमभ्यर्च्य विधिना कारयित्वाऽधिवासनम्
विष्णुसूक्तं समुच्चार्य वस्त्रेणाऽच्छादयेद्बुधः॥ 51
पश्चाद्धोतारमाहूय यथोक्तगुणसंयुतम्
पादौप्रक्षाळ्य चाऽचम्य कूर्चयुक्तं समाहितम्॥ 52
अलंकुर्याच्च पुष्पाद्यैः पंचांगोचितभूषणैः
सभ्यस्य पूर्वभागे तु पश्चिमाऽभिमुखःस्थितः॥ 53
सभ्याध्वर्युं समीक्ष्यैव होता प्रणवमुच्चरेत्
`होतरेहि' पदे उक्तेततो होता समुच्चरेत्॥ 54
`अध्वर्यो देव'तेत्युक्त्वा पादौ प्रक्षाळ्य चाऽचमेत्
पूर्ववत्तत्र चस्थित्वा `ओं नमः प्रवक्त्रे' ब्रुवन्॥ 55
होता च नाम शर्मान्तं संयोज्यैव समुच्चरेत्
`भूते भविष्य'तीत्युक्त्वा ब्रूया`द्धिं'कारपूर्वकम्॥ 56
`भूर्भुवस्सुव' रित्येव प्राङ्मुखश्च प्रदक्षिणम्
अदध्यात्समिधोऽध्वर्युः प्रत्योंकारं ततोऽनले॥ 57
होत्राऽ`ग्ने महा'मित्युक्तेप्रभौः प्रवर इष्यते
राज्ञो वा राजपत्म्या वा तथाऽमात्यस्य वा भवेत्॥ 58
ग्रामश्चेद्यजमानस्तु वसिष्ठप्रवरं वदेत्
अथ वा कारयेद्विद्वान्‌ काश्यप्रवरं वदन्‌॥ 59
वैश्यादन्यत्र जातीयो यजमानो भवेद्यदि
तस्य तु प्रवरं हित्वा काश्यपप्रवरं वदेत्॥ 60
तत `आयातु भगवा'नुक्त्वा पश्चिमदिङ्मुखः
विष्ण्वादि भूत पर्यन्तं सर्वमूर्ती स्तदाऽह्वयेत्॥ 61
ननधोक्तेन मार्गेण पार्षदानाह्वयेद्बुधः
आवाहन क्रमेणैव निरुप्याऽऽज्याहुतीर्यजेत्॥ 62
सभ्याग्निं च परिस्तीर्य प्राणायामादिपूर्वकम्
`स्वस्तिचै'वेति हुत्वातु तथा चैव `प्रजापतेः' 63
`अग्निर्धीमत'येत्युक्त्वा `आदित्येभ्य'स्तथैव च
`विश्वेभ्यो देवेभ्य'श्चैव `मरुद्गणेभ्य'एव च॥ 64
`भूरग्नये'चैवमाद्याश्चतस्रो व्याहृतीर्यजेत्
दशभिश्सतशस्त्वेतैस्सहस्राहुतिरुच्यते॥ 65
स्रुवेण स्रावयन् विद्वानविच्छिन्नं समाचरेत्‌
विष्णुसूक्तं समुच्चार्य सूक्तं पौरुषमेव च॥ 66
श्रीसूक्तं भूमिदैवत्य मतोदेवादि वैष्णवम्
एकाक्षरादिसूक्तं तु विष्णुगायत्रिया युतम्॥ 67
एतैन्तु सप्तभिस्सूक्तैश्चतुरावर्त्य हूयताम्
एतत्कर्तुमशक्तश्चेत्सकृद्वात्र समाचरेत्॥ 68
अष्टाऽक्षरेण मंत्रेण द्वादशाक्षरकेण वा
वैष्णवं विष्णुगायत्रीं जुहुयादिति के चन॥ 69
ततश्चाऽहावनीयाऽग्निकुंडे सम्यग्यथाक्रमम्
यजेत्पुरुषसूक्तं तु षोडशावर्त्य यत्नतः॥ 70
अन्वाहार्वाऽग्निकुंडे तु विष्णुसूक्तं सुहूयताम्
ब्राह्मंच व्याहृतीश्चैव जयादीन्‌ जुहुयात्क्रमात् 71
श्रीसूक्तं वैष्णवं चैव जुहुयाद्गार्हपत्यके
आवसद्थ्ये विशेषेण वैष्णवं रुद्रसूक्तकम्॥ 72
महीसूक्तं च जुहुयत्सूक्तमेकाऽक्षरादिकम्
पौंडरीके तु जुहुयात्पारमात्मिकसंयुतम्॥ 73
रक्ताब्जं बिल्वपत्रं च श्वेताब्जानामसंभवे
घृतेनाऽप्लुत्य जुहुयाद्विष्णुगायत्रिया बुधः॥ 74
समिदाज्यं चरु र्लाजा स्सर्षपाश्च यवास्तथा
तिलं तिल्वं तथा मुद्गा माषास्सक्तुर्गुडं तथा॥ 75
मध्वपूपा दधि क्षीरं होमद्रव्यमितीरितम्
एतैस्सप्तदशद्रव्यै र्वैष्णवं जुहुयाद्बुधः॥ 76
जुह्वाचैवोपजुह्वा च विष्णुसूक्तं सुहूयताम्
सभ्ये च वौंडरीके च स्विष्टाकारं विना चरेत्॥ 77
अग्निष्वाहवनीयादिष्वन्तहोमं समाचरेत्
ऋगादींश्च चतुर्दिक्षु वेदानध्यापयेत्क्रमात्॥ 78
एवमध्ययनं प्रोक्त`मृचां प्राची'रिति श्रुतिः
नृत्तैगेन्‌यैश्च वाद्यैश्च रात्रिशेषं नयत्क्रमात् 79
ततःप्रभाते धर्मात्मा स्नात्वास्नानविधानतः
ब्रह्मयज्ञं च कृत्वा तु जपेत्सूक्तानि द्वादश॥ 80
पादौ प्रक्ष्याळ्य चाऽचम्य देवानुद्धाप्य मंत्रवत्
पूर्ववस्त्रं विसृज्यैव पुनरन्यद्विभूष्य च॥ 81
ब्रह्मस्थाने विशेषेण पीठं सम्यक् प्रकल्पयेत्
तदूर्ध्वे कल्पयेद्विद्वान्‌ नवभागं विभज्य च॥ 82
पूर्वोक्तेन क्रमेणैव रत्नन्यासे समाचरेत्
सुधया परिपूर्यैव क्षौमेनाऽच्छादयेद्बुधः॥ 83
यजमानस्तु तत्काले आचार्यादीन्‌ प्रणम्यच
सपादनवनिष्कं च गुरवे दक्षिणां ददेत्॥ 84
प्रत्येकं स्थापकादीनां पंचनिष्कं ददेत्तदा
सभ्याध्वर्योर्विशेषेण होतुश्चाऽपि तथैव च॥ 85
पौंडरीकस्य चाऽध्वर्योः प्रत्येकं पंचनिष्ककम्
अन्येष्वाहवनीयादिष्वध्वर्यूणां चतुभन्‌वेत्॥ 86
पषन्‌द्धामसु चाध्वर्योरन्येषां च पृथक् पृथक्
निष्कं पादाधिकं दद्यात्संपूर्णमिति पठ्यते॥ 87
आचार्यस्य नियोगेन दक्षिणादानमीरितम्
यजमानस्स्वतंत्रेण न कुर्यादिति शासनम्॥ 88
हन्त्यल्पदक्षिणो यज्ञो यजमानं विशेषतः
अदक्षिणं तु यजनं निष्फलं त्विति शासनम्॥ 89
मुहूर्ते समनुप्राप्ते वाद्यघोषसमन्वितम्
तोयधारासमायुक्तं स्वस्तिसूक्तं समुच्चरन्‌॥ 90
आचार्यः कुंभमादाय व्रजेत्पूर्वं ततःक्रमात्
नयेयुस्थ्सापकाः पश्चाद्देवं देप्यादिसंयुतम्॥ 91
प्रदक्षिणं शनैगन्‌त्वा देवागारं प्रविश्य च
पीठस्य दक्षिणे भागे धान्यपीठे प्रकल्पिते 92
आचार्यस्सन्न्यसेत्कुंभं देवं चादायचाऽत्वरः
कौतुकं ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः॥ 93
`भूरसि भूं'त्युक्त्वा पीठे देवं सुयोजयेत्
तस्य दक्षिणपाशेन्व् तु श्रीदेवीं स्थापयेद्बुधः 94
तथैव वामपाशेन्व् तु भूमिं कुर्यात्प्रतिष्ठिताम्
देवस्य वामभागे तु स्थापयेद्बिंबमोत्सवम्॥ 95
स्नापनं बलिबेरं च दक्षिणे स्थापयेद्बुधः
विष्णुसूक्तं च जप्त्यैव पुरुषसूक्तयुतं तथा 96
ध्रुवसूक्तं वैष्णवं च देवीभ्यां च पृथक् पृथक्
श्रीभूसूक्तं पृथक् जप्त्वा पश्चान्न्यासं समाचरेत् 97
`सुवभुन्‌वभून्‌'रित्युक्त्वा चाऽक्षराणि विशेषतः
पादयोरन्तरे विद्वान्‌ यकारं विन्यसेत्ततः 98
बिंबस्य हृदये सम्यङ्न्यसेद्बीजाऽक्षरं परम्
रुक्माभं परमं बीजं सर्वकारणकारणम् 99
तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतम्
पद्मासनस्थं देवेशं श्रीवत्काऽलंकृतोरसम्॥ 100
शंखचक्रधरं सौम्यं सर्वाऽभरण भूषितम्
`ओ'मित्येकाक्षरं ब्रह्म प्रणवः परिपठ्यते॥ 101
`श्री'कारं श्रिय इत्युक्त्वा `ल'कारं भुव इत्यपि
कूर्चेनाऽदाय तत्तोयं कुंभस्थं शक्तिसंयुतम्॥ 102
`इदं विष्णु'स्समुच्चार्य समादाय समाहितः
`आयातु भगवा'नुक्त्वाध्रुवबेरस्य मूर्धवि॥ 103
विष्णुं च पुरुषं सत्यमच्युतं चाऽनिरुद्धकम्

  • * *

`अचले देवदेवेशो व्याप्य तिष्ठ'तीति श्रुतिः॥ 104
`श्रिये जा'तेति मंत्रेण श्रियमावाहयेद्बुधः
`मेदि'नीति च मन्त्रेण हरिणीं सम्यगाह्वयेत्॥ 105
कौतुकेचौत्सवेचैव स्नापने बलिबेरके
प्रणिधिमुद्धृत्य तत्काले दीपाद्दीपमिव क्रमात्॥ 106
ध्रुवबेरात्समावाह्य कूर्चेनाऽवाहयेत्क्रमात्
नवधा मार्गमालोक्य यथेष्टं कर्तुरिच्छया॥ 107
अविच्छिन्नाऽर्चनं नित्यं विधिनैव प्रकल्पयेत्
अशक्तश्चेत्तथाकर्तुं प्रतिष्ठां नैव कारयेत्॥ 108
आढ्यस्सर्वसमस्त्यागी चिकीर्षुर्विष्णुमन्दिरम्
स्वार्थं कृत्वा त्रिधैकांशं कुटुंबार्थे विधाय च॥ 109
अंशाभ्यामवशिष्टाभ्यां विमानार्चनमारभेत्
आपद्यपि च कष्टायां न द्रुह्येदात्मने बुधः॥ 110
अविच्छिन्ना यथा पूजा विधिना संप्रवर्तते
तथा प्रकल्पयेद्विद्वान्‌ भूमिभोगेन वै स्थितिम्॥ 111
अर्चकस्याऽर्चनाऽर्थं च कुटुंबार्थं च यत्नतः
अत्यन्तपुष्कलां भूमिं बहुसस्योचितां तथा॥ 112
करग्रहादि रहितामर्चकाय समर्पयेत्
ततश्च ताम्रपट्टादौ लेख्य सीमाविनिश्चयम्॥ 113
देवनाम्नैव तां भूमिं दद्यादर्चकजीविकाम्
इदमग्रे प्रकुर्वीति तदधीना स्थितिर्हरेः 114
पिता हरिस्तु भगवानर्चकः पुत्र उच्यते
पुत्रस्यन लिखेन्नाम सन्निधाने पितुःक्रमात्॥ 115
अर्चकस्सुप्रसन्नात्मा हरिदेव हि केवलम्
अथ वा विलिखेद्विद्वान्‌ नाम्ना वा पूजक स्य च॥ 116
तथाऽर्चकस्य चाऽवासमालयस्य समीपतः
शिलाभिस्सुदृढं कृत्वा वासायाऽस्य प्रशस्यते॥ 117
अक्लेशेन यथा जीवेदर्चकस्सुसमाहितः
यावच्चन्द्रदिवानाथं तथा कुर्यात्प्रयत्नतः॥ 118
अर्चके क्लेशयुक्तेतु क्लिश्यते भगवान्‌ हरिः
अर्चके तु सुसंतुष्टे तदा तुष्टो जनार्दनः॥ 119
रूपद्वयं हरेः प्रोक्तं बिंबमर्चक एवच
बिंबे त्वावाहनादर्वाक्सदा सन्निहितोऽर्चके॥ 120
पुनर्विचिन्त्य धर्मात्मा यजमानो मुदाऽन्वितः
शक्तिलोभमकृत्वैव करोति विभवान्तरम्॥ 121
पंचपर्वसु संक्रान्तौ पुण्याहेष्वितरेषु च
विशेष पूजनार्थंच हविरर्थं च यत्नतः॥ 122
स्नपनार्थं चोत्सवार्थं प्रायश्चित्तार्थमेव च
नटनर्तकदासीनांगायकानां चशक्तितः 123
विद्यार्थिनां च भक्तानामन्यस्य विभवस्य च
वृत्तिं तुपरिकल्प्यैव भूरूपां पुरतो हरेः॥ 124
ददात्याचार्यहस्ते तु मन्त्रोदकपुरस्सरम्

  • * *

अन्येषां विभवानां चतथैवाऽन्यपदार्थिनाम्॥ 125
तत्तन्नाम्नैव भूम्यादिं दापयेद्देशिकोत्तमः
आचार्यस्यापि तन्नाम्ना कल्पयेद्वृत्तिमुत्तमाम्॥ 126
एवं यः कुरुते भक्त्या ऐहिकामुष्मिकं फलम्
पशुभृत्यादिभोगांश्च वाहनादीन्‌ विशेषतः॥ 127
सुवर्णरत्नधान्यादीनत्यन्तं समवाप्नुयात्
तस्य कायकृतं पापं तत्‌क्षणादेव नश्यति॥ 128
यं यं कामयते सर्वंतं तमाप्नोत्यसंशयम्
पूर्वजातिगतास्तस्य पितरः पितुरन्वये॥ 129
मातृपक्षे च येजातास्तस्य मातामहादयः
सर्वेपि त्रिदिवं यान्ति मोदन्ते त्रिदिवे चिरम्॥ 130
ततो यास्यन्ति वैकुंठं निस्समाभ्यधिकं महः
यस्सम्यक्पालयेदेतदधिकं यश्च वर्धयेत्॥ 131
आद्येष्टकादि निर्माणफलमेव प्रपद्यते
सर्वाशुभविनाशं च लब्ध्वाचेष्टमवाप्य च॥ 132
अन्ते विमानमारुह्य विष्णोर्याति परं पदम्
किं बहूक्तेन विधिना न दैवं केशवात्परम्॥ 133
तं विष्णुं पूजयेन्नित्यं सर्वसाधनसाधनम्
सर्वमुक्तिप्रदं नित्यं सर्वकामफलप्रदम्॥ 134
ग्रामाग्रहारयोस्सम्यगर्चनं तत्र वासिनाम्
सर्वसिद्धिप्रदं नित्यं पुत्रपौत्रप्रवर्धनम्॥ 135
सामान्यमग्नि होत्रं स्यादनग्नीनां तपोधनाः
साऽग्नीनामप्यविज्ञातप्रायश्चित्ताय कल्पते॥ 136
तस्मात्कुर्यादविच्छिन्नमर्चनं सर्वयत्नतः॥ 136 1/2
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे द्वादशोऽध्यायः॥