प्रकीर्णाऽधिकारः/द्वात्रिंशोऽध्यायः
| ← एकत्रिंशोऽध्यायः | प्रकीर्णाऽधिकारः द्वात्रिंशोऽध्यायः [[लेखकः :|]] |
त्रयस्त्रिंशोऽध्यायः → |
अथद्वात्रिंशोऽध्यायः॥
प्रकीर्णकम्॥
अतःपरं प्रवक्ष्यामि ज्येष्ठायामुत्सवक्रमम्
ज्येष्ठे मासि तु संप्राप्ते ज्येष्ठानक्षत्र संयुते॥ 1
विष्णोरेव विशेषस्स्यात्सुगंधं तैलमाहरेत्
तैलक्रमं प्रवक्ष्यामि श्रुणुध्वं मुनिपुंगवाः॥ 2
यागशालां प्रकल्प्यैव सर्वालंकालसंयुताम्
सभ्यं च पौंडरीकं च कारयित्वा सलक्षणम्॥ 3
तद्दिनस्य तु पूर्वेद्युस्तृतीये पंचमेऽपि वा
सप्तमेऽहनि वा चापि अंकुरार्पणमाचरेत् 4
आघारं विधिवत्कृत्वा सर्वकार्यमदः परम्
वेद्यास्तथोत्तरे पार्श्वे भूम्यामपटमाचरेत्॥ 5
चतुस्तालप्रमाणेव विस्तारं निम्नमेव च
निम्नेतु विन्यसेद्भांडं द्विद्रोणपरिमाणकम्॥ 6
``भूः प्रति ष्ठेति मंत्रेण निम्ने भांडं सुनिक्षिपेत्
मलयागुरुदारूणि देवदारु तथैव च॥ 7
यानि चात्र सुगंधीनि देवयोग्यानि तानि वै
गुग्गुलं च समाहृत्य मर्दयित्वाऽसकृत् सकृत्॥ 8
विष्णुऽगायत्रिया भांडे तानि द्रव्याणि निक्षिवेत्
शरावेण पिधायाऽथ मृदा च परिलेपयेत्॥ 9
गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेत्
मंदाग्निना पचेत्तत्तु यावत्तैलागमं भवेत्॥ 10
तावत्कालं पचेद्विद्वान् तैलमाहृत्य संभृतम्
वासितानि तु वस्तूनि परिहृत्य तु तत्र वै॥ 11
सुगंधिदैलभांडं च ध्यान्यपीठोपरि न्यसेत्
पूर्वोक्तेनैव मंत्रेण तंतुना परिवेष्टयेत्॥ 12
पितॄन् सोमं तथाऽभ्यर्च्य वनत्पतिमतः परम्
तैले तस्मिन् विधानेन अर्घ्यान्तमभिपूजयेत्॥ 13
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथैव च
जप्त्वातु विष्णुगायत्रीमष्टोत्तरसहस्रकम्॥ 14
आचार्यस्त्वरितो गत्वा सभ्याग्नेस्तु समीपतः
द्वितालविस्तृतं वृत्तं चतुरंगुलमुन्नतम्॥ 15
कूर्माकृतिवदाकारं बिल्वाद्यैः परिकल्पितम्
- * * 16
प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु
देवकार्येषु सर्वेषु तथान्येषु च कर्मसु 17
कूर्मपीठं तु गृह्णीयादन्यथा निष्फलं भवेत्
असीनः कूर्मपीठे तु सभ्याऽग्नौ जुहुयात्तथा॥ 18
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथेव च
जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च॥ 19
महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेत्
प्रणिध्यां शंखपात्रे वा अग्निमारोपयेत्सुधीः? 20
तैलस्याऽलेपनात्पूर्वं ध्रुवादग्निं समाहरेत्
स्रग्वस्त्रकुंडलाद्यैश्च आचार्यं पूजयेत्ततः 21
परिचारकमाहूय यथार्हं पूज्य तं ततः
उष्णीषं धारयित्वातं परिचारकमूर्धनि॥ 22
सुगंधितैलभांडं तु यत्नेनाऽपि विनिक्षिपेत्
शनैश्सनैश्च गत्वा तु सर्ववाद्यसमन्वितम्॥ 23
सर्वालंकारसंयुक्तं ब्रह्मघोषसमन्वितम्
वीथिं प्रदक्षिणीकृत्य देवस्याऽग्रेतु निक्षिपेत्॥ 24
अर्घ्यान्तमभिपूज्यैव देवेशं संप्रणम्य च
वैष्णवं विष्णुसूक्तं च नरसूक्तं जपेत्क्रमात्॥ 25
तैलेनालेपयेद्देवमाचार्य स्त्वरितस्तथा
देवीभ्यां च ततः पश्चात्तत्तन्मंत्रेण लेपयेत्॥ 26
सर्वेषां परिवाराणां तत्तन्मंत्रैश्च कारयेत्
आचार्यस्त्वरितोगत्वा चौत्सवस्य समीपतः 27
`परिलिखित'मिति मंत्रेण कवचं परिशोधयेत्
जीर्णे भिन्ने च कवचे शिल्पिनैन सुसन्नयेत्॥ 28
प्रक्षाल्य पंचगव्येन जलेन परिशोधयेत्
कृत्वाऽपि वास्तुशुद्धिं च यथोक्तां निष्कृतिं चरेत्॥ 29
विष्णोर्नुकादिमंत्रैश्च संदध्यात्कवचं तथा
दृढीकृत्य तु पूर्वोक्तं यत्नेन परिकल्पयेत्॥ 30
सहस्रकलशैर्देवं स्नापयित्वा यथाविधे
नित्यपूजाविधानेन देवमाराध्य पूर्ववत्॥ 31
महाहविःप्रभूतं वा पायसं च निवेदयेत्
``क्षमस्वेति वदन् भूयः प्रणमेत्पुरुषोत्तमम्॥ 32
ब्रह्मघोषं ततः कुर्याद्दद्यादाचार्यदक्षिणाम्
दिने पक्षे च मासे च तथा संनत्सरे चरेत्॥ 33
यद्यद्रूपं तथाध्यायेत्तत्तद्बिंबेषु योजयेत्
तस्मात्सर्वप्रयत्नेन बिंबरक्षां समाचरेत्॥ 34
- * *
पवित्रारोपणम्॥
अथ वक्ष्ये विशेषण पवित्रारोपणं हरेः 35
सर्वदोषोपशमनं सर्वयज्ञफलप्रदम्
सर्वकामप्रदं चैव सर्वतुष्टिकरं परम्॥ 36
सर्वलोकस्य वृद्ध्यर्थं सर्वलोकस्य शान्तिदम्
यद्यन्मंत्रक्रियाहीनं द्रव्यहीनं च यत्कृतम्॥ 37
तद्दोषशमनायैव पवित्रारोपणं चरेत्
पवित्रारोपणे हीने या पूजा निष्फला भवेत्॥ 38
संक्षोभो जायते तत्र तस्माद्यत्नेन कारयेत्
आषाढे श्रावणे मासि प्रोष्ठपद्यां विशेषतः 39
द्वादश्यां शुक्लपक्षे तु विष्णुपंचदिनेऽथ वा
संसर्पमधिमासं च तिथिवारं च शून्यकम्॥ 40
दशम्येकादशीमिश्रं तद्दिनं च विवर्जयेत्
हरितिथ्यां च निर्दुष्टे पवित्रारोपणं शुभम्॥ 41
नवाहं वाऽथ सप्ताहं पंचाहमथ वा त्य्रहम्
उक्तलक्षणसंपन्नमाचार्यं वरयेत्क्रमात्॥ 42
ऋत्विजो वरयेत्तद्वच्छिष्यां श्च वरयेत्ततः
तद्दिनात्पूर्वरात्रौ तु देवेशं प्रार्थयेद्गुरुः 43
``भगवतो बलेनेति प्रोच्य नम्रांगस्सुसमाहितः
पाद्याद्यैश्च विशेषेण देवमभ्यर्च्य सत्वरः॥ 44
प्रार्थनासूक्तमुच्चार्य वेदाध्ययनमारभेत्
परितो यागशालायाश्शिष्यैः परिवृतोगुरुः 45
चतुर्षु द्वारदेशेषु क्रमात्प्रागादिषु स्वयम्
चतुर्वेदांदिमंत्रांश्च शक्त्याध्ययनमाचरेत्॥ 46
पुण्याहं च ततः कृत्वा मृत्संग्रहणमाचरेत्
अंकुरानल्पयित्वैव मुद्गान्नं च निवेदयेत् 47
औपासनाऽग्निकुंडे तु आघारं विधिवद्यजेत्
वास्तुहोमं च हुत्वा तु गव्यं कृत्वा विधानतः॥ 48
पर्यग्नि पंचगव्याभ्यां योगशालां विशोधयेत्
``तमेकनेमि मित्युक्त्वा ``आमावाजस्य इत्यपि 49
``तन्तुन्तव्वन्निति प्रोच्य ``यन्मेगर्भ इतीरयन्
षड्भिश्च वैष्णवैर्मंत्रैर्विष्णुगायत्रिया तथा॥ 50
पवित्राणि सुसंप्रोक्ष्य विधिना पंचगव्यकैः
``प्रतद्विष्णुस्तवत इति ``इदं विष्णु रितीरयन्॥ 51
विष्णुगायत्रिया पश्चात्पवित्रं संप्रणम्य च
- * * 52
उत्तमं स्वर्णसूत्रं च मध्यमं रौप्यसूत्रकम्
कार्पासमधमं गृह्य सर्वदोषविवर्जितम्॥ 53
सुमंगलीभिर्युग्माभिर्ब्राह्मणीभिर्विशेषतः
अलाभे कन्यकाभिर्वा निर्मितं सूत्रमुत्तमम्॥ 54
गृह्णीयाद्बिंबमानेन चाष्टोत्तरसहस्रकम्
ग्रंथयोंऽगुष्ठमात्रास्स्युस्ताभिर्मालां च कारयेत्॥ 55
वनमाला समाख्याता विष्णोःप्रियतमा भवेत्
विष्णुसूक्तं च जप्त्वातु ``अणोरणीयानिति ब्रुर्न॥ 56
प्रोक्ष्य हारिद्रतोयेन ``इमे धू पेति धूपयेत्
चतुर्वेदादिमंत्रैश्च तोरणाद्यैरलंकृतम्॥ 57
- * *
नभ्याग्निकुंडं कृत्वैव आघारं विधिवद्यजेत्॥ 58
बिंबाध्यर्धप्रमाणेन शय्यावेदिं प्रकल्पयेत्
तिलतंडुलधान्यैश्च धान्यपीठं प्रकल्प्य च॥ 59
दर्भांस्तत्र समास्तीर्य चांडजादीनि चास्तरेत्
``प्रतद्विष्णुरिति प्रोच्य पवित्रं सन्निधाय च॥ 60
पंचमूर्तभिरावाह्य समभ्यर्च्य प्रणम्य च
जप्त्वा प्रतिसरं मंत्रं धूपदीपादि दर्शयेत्? 61
``अतो देवा दिना पश्चाद्देवेशं प्रार्थयेद्गुरुः
पाद्यादिभिस्समभ्यर्च्य धूपदीपादिदर्शयेत् 62
बद्ध्वा प्रतिसरं देवं श्रीभूम्यौ च तथैव च
आचार्यस्यर्त्विजां चैव बद्ध्वाप्रतिसरं तथा॥ 63
``यद्वैष्णवं समुच्चार्य पवित्रं शयनं चरेत्
सूक्ष्मवस्त्रेण चाच्छाद्य चार्पयेत्पुष्बमक्षतम्॥ 64
विष्णुसूक्तं च गोदानसूक्तं चैवाऽत्मसूक्तकम्॥
एकाक्षरादिसूक्तं च वैष्णवं सूक्तमेव च॥ 65
नृसूक्तं रुद्र सूक्तं च दुर्गासूक्तं तथैव च
सारस्वतं तथा सूक्तं रात्रिसूक्तमतः परम्॥ 66
``ऋतं च सत्यं जप्त्वैव ``सहस्रशीर्षमेव च
श्रीभूसूक्तंच जप्त्वैव कारयेद्देशिकोत्तमः 67
दशानां चैव पंचानां सूक्तानां जप उत्तमम्
मध्यमं दशसूक्तानां पंचानामधमं भवेत् 68
प्रागादिदिक्षु च तथा विदिक्षु च चतुर्ष्वपि
क्रमाच्छान्तं खगाधीशं चक्रं शंखं तथैव च॥ 69
विमानपालांश्चावाह्य समभ्यर्च्य विशेषतः
मुद्गान्नं विनिवेद्यैव प्रणामं मुहुराचरेत्॥ 70
सर्वरक्षाकरं चक्रं पवित्रोपरि चार्चयेत्
निवेदयेत्तदान्नेन शान्तादीनां बलिं ददेत्॥ 71
पादौ प्रक्षाळ्य चाचम्य यथोक्तेन विधानतः
हौत्रं प्रशंस्य विधिवदावाहन मथाचरेत्॥ 72
जुष्टाकारं च कृत्वा तु जुहुयाच्च यथाक्रमम्
हावयेत्पंचभिस्सुक्तैस्तत्तद्दॆवत्यमेव च॥ 73
वश्चादग्निं विसृज्यैव रात्रिशेषं नयेद्गुरुः
ततः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः 74
नित्यपूजा विधेरन्ते देवेशं प्रार्थयेद्गुरुः
अष्टोत्तरशतैर्देवं स्नापयेत्कलशैस्ततः॥ 75
अलंकृत्यच देवेशं धूपदीपादिकं ददेत्॥
- * * 76
``उद्यन्तमिति मंत्रेण पवित्रं मूर्ध्नि धारयन्
सर्ववाद्यसमायुक्तं तो यधारापुरस्सरम् 77
प्रदक्षिणं शनैर्गत्वादेवाऽग्रेसन्निधायच
``सुर्य च मंत्रेण शतंजप्त्वा तु पल्लवम्॥ 78
आचार्यस्सुप्रसन्नात्मा स्वात्मरक्षां विधायच
विष्णुसूक्तं समुच्चार्य कनिष्ठादि च रोपयेत्॥ 79
पाद्याद्यैर्देवमभ्यर्च्य मुखवासान्तमादरात्
कुंभांस्तु सप्तदश च अलंकृत्य यथाविधि॥ 80
वेद्यामारोपयेत्कुंभान् स्वस्तिके सन्निधाय च॥
शय्यावेदि च तत्प्राच्यां सभ्यकुंडं प्रकल्प्यच॥ 81
अब्जाऽग्निकुंडमाग्नेय्यामीशे चौपाससं तथा
- * *
औपासनाग्निकुंडे तु आघारं विधिवद्यजेत् 81 1/2
- शय्यावेद्यास्तूत्तरे च त्रिहस्तायतविस्तृताम्॥
चतुरश्रां समां कृत्वायंत्रवेदिं सलक्षणम्
पंचवर्णैर्विशेषण यंत्रं विख्य मनोहरम्॥
अथ यंत्रं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः॥
सर्वरक्षाकरसुदर्शन यन्त्रः:-
आदौ षट्कोणं विलिख्य तन्मध्ये साध्यनाम विलिख्य, ओम् क्ष्राम्, ह्रीम्, श्रीम्, विलिख्य, तत्पार्श्वयोः, इम्, ईम्, इति दृष्टिबीजं, उम्, ऊम्, इति श्रोत्रबीजं च विलिख्य, षट्कोणेषु, सहस्रारहुम् फट् इति सुदर्शनषडक्षरीं विलिख्य, कोणसंधौ ओम् हम् लम् रम् यम्? लिखित्वा, तद्बहिर्वृत्तमष्टदलं विलिख्य, दलेषु ओम् न म स्सु द र्श ना य इति विलिख्य, दलसंधौ ओम् ज य ज य नृ सिं ह इति विलिख्य, तद्बहिर्वृत्तं षोदशदलं विलिख्य, दलमध्ये ओम् न मो भ ग व ते महा सु द र्श नाय स्वाहा इति विलिख्य, दलसंधौ ओम् हुम् न मो भ ग व ते व ज्र व रा हा य स्वा हा इति विलिख्य, तदुपरि वृत्तद्वयं वृत्तद्वयमध्ये अकारादिक्षकारान्तं मातृकावर्णान् विलिख्य, तदुपरि भूपुरद्वयं चतुष्कोणं विलिख्य, चतुर्द्वारेओम् आम्, ह्रीम् क्रोम् इति विलिख्य, तत्तद्दिग्देवताबीजानि लिखित्वा, लम् रम् हम् षम् वम् यम् सम् शम् इति बीजं लिखित्वा, आग्नेया दीशानान्तं प्राणप्रतिष्ठामंत्रं, मंत्रराजगायत्रीं, यंत्रराजगायत्रीं, चविलिख्य, तन्मंत्रेणावाह्यऽभ्यर्च्य सुदर्शनमूल मंत्रं दशसहस्रं जपित्वा, तद्ग्रायत्य्रा तद्दशांशं जपित्वा मंत्रराजं च दशांशं जपित्वा तद्दशांशं तर्पणं तद्दशांशं होमं तद्दशांशं ब्राह्मणभोजनं कारयेत्॥
यंत्रदशांगम्:-
बीजं प्राणं च शक्तिश्च दृष्टिर्वश्यादिकं तथा
मंत्रयंत्रस्य गायत्री बीजस्थापनमेव च
भूतदिक्पालबीजं च यंत्रस्यांगानि वै दश॥
यंत्रगायत्री:-
यंत्रराजाय विद्महे महायंत्राय थीमहि, तन्नो यंत्रः प्रचोदयात्॥
सुदर्शनगायत्री:-
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मत्युमृत्युं नमाम्यहम्॥
- तत्र सर्वत्राऽनुक्रमणिकासु यंत्रस्याऽस्य पाठोदृश्यते॥ मूलग्रंथेत्वस्य मातृकाकोशेन दृश्यते॥ तथाऽपि बहूनां मातृकाकोशानामनुपलं भादस्यस्थितिरत्र ऽ शंकिताऽपि निवेश्यते॥
- * *
परस्तीर्य विधानेन पावकं विधिवद्यजेत्॥ 82
लाजापूपै राज्य मिश्रैर्मूलमंत्रं समुच्चरन्
अष्टात्तरशतेनैव होमयेद्देशिकोत्तमः॥ 83
पुरुषसूक्तं च जुहुयात्ततो द्वात्रिंशसंख्यया
पश्चादग्निं परिस्तीर्य ``क्षयस्वेति प्रणम्य च॥ 84
एवं प्रतिदिनं कुर्यादन्ते देवं तु रोपयेत्
सायं संध्यामुपासित्वा यागशालां प्रविश्य च॥ 85
सभ्याऽग्निं पौंडरीकाग्निं चासाद्याघारमाचरेत्
अब्जाग्नौ शान्तिहोमं च हुत्वैव गुरुरत्वरः 86
कुंभं विना महाशान्तिहोमं के चिद्वदन्तिहि
वेद्यां तु पुरतस्तिष्ठन् प्राणायामादिकं चरेत्॥ 87
नवमूर्तिभिरावाह्य दिक्पालानावहेत्क्रमात्
अष्टोपचारैरभ्यर्छ्य मुद्गान्नं विनिवेदयेत्॥ 88
पानीयाचमनं दत्वा मुखवासं ददेत्ततः
``आपो वा इति मंत्रेण पवित्रं धारयेद्घटम्॥ 89
``अग्नावग्निरिति प्रोच्य पवित्रं चाऽग्निकुंडके
कुंडस्यैव तु मानेन समलंकृत्य पावकम् 90
``पवित्रंतु इति प्रोच्य पवित्रं धारयेद्गुरुः
समिंथ्यैव तु सभ्याग्निं परिषिच्य विधानतः॥ 91
हौत्रं प्रशंस्य विधिवत्समिद्भिर्हावयेद्गुरुः
तदालयगतान् श्चैव देवानावाहयेत्क्रमात्॥ 92
जुष्टाकारं ततः पश्चात्स्वाहाकालं ततः परम्
विष्णुसूक्तं सुहुत्वा तु पुरुषसूक्तमतः परम्॥ 93
चरुं लाजां स्तथापूपानाज्यमिश्रांश्च हावयेत्
पश्चात्तु वैष्णवैर्मंत्रैश्चतमष्टोत्तरं यजेत्॥ 94
ईंकारादींस्ततः पश्चात्पारमात्मिकसंयुतम्
अष्टाशीतिं ततो हुत्वा तत्तद्दैवत्यमेव च॥ 95
सर्वदैवत्यमंत्रांश्च धातादीन् पंच वारुणम्॥
मूलहोमं ततो हुत्वा तथान्ते परिषिच्य च॥ 96
यागशालाचतुर्द्वारे चतुर्वेदानथोच्चरेत्
ऐशान्यां तु विशेषेण जपेदष्टाक्षरं मनुम्॥ 97
द्वादशाक्षरमंत्रं च गायत्रीं वैष्णवं तथा
नारायणाख्यगायत्रीं पारमात्मिकमित्यपि॥ 98
व्यापकत्रयसंयुक्तं विष्णुगायत्रिया युतम्
ततश्च वैष्णवं जप्त्वा ``यो वा भू तेति पंचकम्॥ 99
पुष्बांजलिं जपित्वैव न्यसेद्देवस्य पादयोः
नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः 100
ततः प्रभाते धर्मात्मा स्नात्वा संध्यामुपास्य च
यागशालां प्रविश्यैव देवेशं प्रार्थयेत्ततः॥ 101
``भूरग्नय इति प्रोच्य वेदिं संप्रोक्ष्य चात्वरः
कुंभाराधनहोमादीन् सर्वं पूर्ववदाचरेत्॥ 102
कुंभमाराधयेत्पूर्वं बिंबपूजा त्वनन्तरम्
पश्चाद्धोमं प्रकुर्वीत बलिदानं ततः परम्॥ 103
एवं कुर्याद्विधानेन दिनं प्रति गुरूत्तमः
समाप्ते तु दिने सायं पूर्णाहुति मथाऽचरेत्॥ 104
तदग्निं त्रियहादूर्ध्वं साधयेदग्निकुंडके?
- * * 105
कुंभमादाय शिरसा तोयधारापुरस्सरम्
प्रदक्षिणं शनैर्गत्वा देवाऽग्रे सन्निधाय च॥ 106
``हिरण्य पवमाना द्यैःकुंभतोयेन प्रोक्षयेत्
देवमभ्यर्च्य पाद्याद्यैः प्रभूतं च निवेदयेत् 107
पानीयाचमलं दत्वा मुखवासं ददेत्पुनः
क्षमामंत्रं समुच्चार्य ``क्षम स्वेति नमेन्मुहुः 108
यजमानोऽपि शुद्धात्मा भक्तिनम्रस्समाहितः
आचार्यं पूजयेत्तत्र गंधमार्याऽनुलेपनैः 109
पंचांगभूषणैश्चैव दुकूलैश्च नवैस्तथा
ततो गुरुः प्रसन्नात्मा प्रयुंज्यादाशिषस्तदा॥ 110
तदुक्तं भगवत्प्रोक्तं प्रतिगृह्णीयुरादरात्
एवं कुर्वीत प्रत्यब्दं पवित्रारोपणं हरेः॥ 111
इहलोके सुखीभूत्वा स याति परमां गतिम्
- * *
प्रियतां भगवान्विष्णुः प्रार्थनासूक्तमुच्यते॥ 112
``कनिक्रदापिमंत्राश्च शाकुनं सूक्तमीरितम्
``स्वस्तिनो मिमीतेत्युक्त्वा स्वस्तिसूक्तमिति स्मृतम्॥ 113
``शुद्धा इमे पशव इति गोसूक्तं समुदाहृतम्
``ऋतं च सत्यं चेत्यादि अघमर्षणमुच्यते॥ 114
``अणोरणीया नित्युक्त्वासूक्तं प्रोक्षणमीरितम्
``अपो हिरण्यवर्णाश्च पवमान इति त्रयः॥ 115
प्रोक्षणं सूक्तमिति तु केचिद्वैकल्पिकं जगुः
``या जाता इति मंत्राश्च ओषधीसूक्तमुच्यते॥ 116
``कृणुष्व पाज इत्यादि सूक्तं प्रतिसराह्वयम्
(``अतोदेवादि षड्भिस्तु वैष्णवं सूक्तमुच्यतेः) 117
``अतोदेवादि षण्मंत्राष्,ड्वैष्णवपदाह्वयाः
``विष्णोर्नुकादि षण्मंत्रा विष्णुसूक्तमुदीरितम्॥ 118
``सहस्रशीर्षा पुरुष इति पौरुषसूक्तकम्
``हिरण्य वर्णा इत्यादि श्रीसूक्तं सर्वकामदम्॥ 119
``भूमिर्भूम्नेत्यादिमंत्रा भूमिसूक्तमुदाहृतम्
``उप श्वासय इत्यादि दुंदुभीसूक्तमुच्यते॥ 120
``सुपर्णोऽसि गरुत्मानित्युक्तं सूक्तं च गारुडम्
``हिरण्यगर्भइत्यादि ब्रह्मसूक्तमुद्हृतम्॥ 121
``इंद्रं वो विश्वत इति इंद्रसूक्तमिहोच्यते
``अग्ने नयेत्यादिषड्भिरग्निसूक्तं प्रचक्षते॥ 122
``आयातुदेव इत्यादियमसूक्तंप्रकीर्तितम्
``नमस्सुते निर्ऋते सूक्तंनैरृतमुच्यते॥ 123
``अस्तभ्नाद्यामृषभइति वारुणसूक्तकम्
``पीवोन्नांरयि वृधस्सुमेधाइति वायवम्॥ 124
``अद्भ्यस्तिरोधाइत्यादि कौवेरं सूक्तमुच्यते
``स्तुहि श्रुतं गर्तइति रुद्रसूक्तं प्रकीर्तितम्॥ 125
``ओमासश्चर्षणीत्यादि सूक्तं सारस्वतं भवेत्
``विश्वजितेधनइति विश्वजित्सूक्तमुच्यते॥ 126
``रात्री व्यख्यदित्यादि रात्रिसूक्तमुदाहृतम्
``जातवेदसइत्यादि षड्दुर्गासूक्तमुच्यते॥ 127
``आ गोदानादिति प्रोच्यगोदानं सूक्तमुच्यते
``एकाक्षरमिति प्रोच्य सूक्तमेकाक्षरादिकम्॥ 128
``आत्मात्मा परमेत्यादि आत्मसूक्तं प्रकीर्तितम्
- * * 129
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तमतः परम्
श्रीभूसूक्तं च पंचैतं पंचसूक्तमिहोच्यते॥ 130
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तमतः परम्
एकाक्षरादि सूक्तं च पंचसूक्तं जगुःपरे॥ 131
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तं च वैष्णवम्
एकाक्षरादिसूक्तं च विष्णुगायत्रिया सहा॥ 132
आहत्य सप्तभिश्चैतैस्सप्तसूक्तं समीरितम्
रुद्रसूक्तं ध्रुवसूक्तं दुर्गासूक्तं ततः परम्॥ 133
रात्रिसूक्तं तथा सूक्तं सारस्वतमपि क्रमात्
विश्वजित्सूक्तमथ च सहस्रशीर्षमित्यपि॥ 134
अघमर्षणसूक्तं च गोदानं सूक्तमेव च
आत्मसूक्तेन संयुक्तं दशमूक्तमुदाहृतम्॥ 135
दशसूक्तं पंचसूक्तं कृत्वा संहृतमेव च
एवं भवेत्पंच दशसूक्तमिति संज्ञा प्रभाषिता॥ 136
- * *
अतःपरं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः
मंडलाराधनं नित्यं पुण्याहं स्नपनं चरेत्॥ 137
चत्पारिंशद्धिनादूर्ध्वं मंडलं दिनपंचकम्
पुण्याहं विधिवत्कृत्वा व्रीहिभिस्तंडुलोपरि॥ 138
नवं कलशमादाय पूर्वोक्तेन विधानतः
समभ्यर्च्य जपं कुर्याद्ब्राह्मणैर्ब्रह्मवादिभिः॥ 139
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तमतः परम्
श्रीभूसूक्तं तथा पंचशान्तिं चैव पृथक् पृथक् 140
चतुरावर्त्य जप्त्वा तु स्नापयेद्ध्रुवमच्युतम्
तथैव कौतुकादींश्च स्नापयेद्विधिना बुधः 141
दध्योदनं गुडान्नं च पायसं च विशेषतः
निवेद्य देवदेवस्य मुखवासं प्रदापयेत्॥ 142
आचार्यदक्षिणां दद्यादृत्विजां च तथैव च
प्रतिष्ठादिनमारभ्य मंडलान्तं दिनं प्रति॥ 143
एवमेव क्रमेणैव कारयेत्तु विशेषतः
मंडलार्धं तु कुर्याच्छेन्मध्यमं तत्प्रचक्षते॥ 144
मंडलान्ते विशेषेण कारयेद्द्विजभोजनम्
सभ्याग्निकुंडं कृत्वैव पुण्याहमसि वाचयेत् 145
आघारं विधिवद्धुत्वा वैष्णवं सूक्तमेव च
विष्णुसूक्तं ततो हुत्वा पुरुषसूक्त समन्वितम्॥ 146
श्रीभूसूक्तं समुच्चार्य पंचशान्तिमतः परम्
पारमात्मिकमींकाराद्यष्टाशीतिं क्रमाद्धुनेत्॥ 147
अष्टाक्षरं समुच्चार्य तथैव द्वादशाक्षरम्
पूर्णाहुतिं ततो हुत्वा अन्तहोमश्चहूयते॥ 148
संस्नापयेच्छ कलशैरष्टाधिकशतैःक्रमात्
वर्णयुक्तंध्रुवं बेरं प्रोङयेत्स्नापयेन्नतु॥ 149
द्वादशाराधनं कुर्यान्मध्ये मध्ये विधानतः
ग्रामं प्रदक्षिणीकृत्य सर्ववाद्यसमन्वितम्॥ 150
पक्षिराजोपरि स्थाप्य रक्षादीपं च दर्शयेत्
जीवस्थाने सुसंस्थाप्य प्रणामं कारयेत्ततः 151
एवं यःकुरुते भक्त्या मंडलाराधनं हरेः
सर्वान् कामानवाप्यैव स याति परमांगतिम्॥ 152
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे॥ द्वात्रिंशोऽध्यायः॥