प्रकीर्णाऽधिकारः/दशमोऽध्यायः
| ← नवमोऽध्यायः | प्रकीर्णाऽधिकारः दशमोऽध्यायः [[लेखकः :|]] |
एकादशोऽध्यायः → |
अथ दशमोऽध्यायः॥
अंकुरार्पणम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिकर्मणाम्
देवदेवस्य विष्णोन्तु विधिना चांऽकुरार्पणम्॥ 1
नवमे सप्तमेवाऽपि पंचमे वात्य्रहेऽथ वा
आलयाऽभिमुखे वापि ऐशान्ये चोत्तरेऽपि वा॥ 2
रुद्रहस्तं द्विजातीनां नृपाणां नवहस्तकम्
वैश्यानां मुनिहस्तन्तु शूद्राणां पंचहस्तकम्॥ 3
षोडशस्तंभ संयुक्तं चतुर्द्वारसमायुतम्
मंडपं वाऽत कूटं वा प्रपां वा विधिना चरेत्॥ 4
गोमयाऽलेपनं कृत्वा `शाम्य'न्त्विति च? मंत्रतः
श्वेततंत्तुलचूर्णं वा सुधाचूर्ण मथापि वा॥ 5
सूक्ष्मचूर्णं च कृत्वा तु वालुकैर्मिश्रितं तथा
प्राग्रगं चोत्तराऽग्रं च `सोमंरा'जेति मन्त्रतः॥ 6
युग्मं च स्रायित्वातु दर्शनीयं च सुन्दरम्
चक्रवालाद्यलंकृत्य पालिकांऽकुरशोभितैः? 7
मध्येचक्रं च कृत्वातु दर्शनीयं च कारयेत्
वितानै स्त्संभवेष्टैश्च दर्भमालाद्यलंकृतम्॥ 8
धर्मं ज्ञानं च वैराग्य मैश्वर्यं च चतुष्टयम्
अंतस्त्संभ चतुष्कोशे स्थापयेदधिदेवताः॥ 9
बाह्यानां द्वादशादित्या द्वादशानांतु देवताः
अर्चयित्वा यधान्याय्यं तत्तद्विधिमधाऽचरेत्॥ 10
पंचहस्तं त्रिहस्तं वा एकहस्त मथाऽपिवा
पंचविंशत्पदं कृत्वा मध्ये ब्रह्मासनं चरेत्॥ 11
संचारार्थं फवन्त्यष्ट परितश्च पदानि वै
प्रागादिमध्यमाः प्रोक्ता द्वारा श्चत्वार एवच॥ 12
शेषितार्कपदे धीमान् पालिकानां स्थितिं चरेत्
व्रीहिभि स्तंडुलैर्वापि पंक्तिं कुर्या द्विधानतः 13
षोडशांऽगुल मायामं यथालाभसमुन्नतम्
त्रिवेदिसहितं कुर्या द्वेदाश्रं ब्राह्म मासनम्॥ 14
पूर्वद्वारोत्तरे शेषं दक्षिणद्वारपूर्वके
वक्रतुंडस्य पीठं स्या त्पश्चिमद्वारदक्षिणे॥ 15
पंक्तीश मुत्तरद्वार पश्चिमे सोमपीठकम्
कुंभे वाऽथ समभ्यर्च्ये त्तत्पूर्वेशान्त मर्चयेत्॥ 16
षण्णां पीठं प्रकल्प्यैव ब्रह्मण श्चोक्तवच्चरेत्॥
ऐन्द्रादिच तथैशान्तं जयाद्यप्सरसोऽर्चयेत्॥ 17
आढकं वा तदर्धं वा पादं वा तंडुरैः पृथक्
बाह्येऽष्टांऽगुलिविस्तारे पीठे वा स्थंडिलेऽपिवा॥ 18
चतुरश्रं सुवृत्तं चत्रिकोणं धनुराकृति
दंडाकारं च पद्माभं वस्वश्रं समवृत्तकम्॥ 19
जयादीनां क्रमात्पीठं पालिकाबाह्यत श्छरेत्
दिक्पालानान्तुशक्तश्चे न्मंडलानि तु कारयेत्॥ 20
भूम्यां वा पूजये त्तद्वत्कुशकूर्चेषु सत्वरः
चतुरश्रं त्रिकाणं च सुवृत्तं वज्रमेव च 21
अर्धचंद्रं च षट्कोणं वृत्तं नूपुरमेव च
दिगीशमंडलाकार मन्येषां चतुरश्रकम्॥ 22
अश्वद्थपल्लवं दूर्वां कुशं चाबद्ध्य मध्यमे
पालिकादीन् क्रमेणैव मृदा वापूरये च्छुचिः॥ 23
गायत्रीमंत्र मुच्चार्य प्रणवेनाऽदायमंत्रवित्
मेदिनीमंत्र मुच्चार्य चैशान्यादिषु पालिकाः॥ 24
सन्न्यस्यैव ततः कुंभान् द्वारवामे च सन्न्यसेत्
`राकामहं' समुच्चार्य द्वारदक्षिणतः पुनः 25
`सिनीवा'लीति मंत्रेण आचार्य स्सन्न्य सेत्क्रमात्
जातिक्रमेण चैशास्तं पालिकानां पदे पदे॥ 26
ब्रह्मणो दक्षिणे पार्श्व आचार्य श्चोत्तरामुघः
ब्राह्ममासन मास्थाय देवदेव मनुस्मरन् 27
ब्रह्माद्यान् हृदयात्पूर्वं प्रणिध्यां सन्निवेशयेत्
स्थंडिलोपरि कूर्चेषु पात्रा दावाहयेत्क्रमात्॥ 28
चतुर्मुखं चतुर्बाहुं सर्वाऽभरण बूषितम्
अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितम्॥ 29
कुंडिका मक्षमालांच वहन्तं दक्षवामयोः
पद्मासनस्थं हेमाभं श्यामवस्त्रंच पद्मजम्॥ 30
मूर्तिमंत्रैस्समावाह्य ब्रह्माणं प्राङ्मुखं यजेत्
प्राग्द्वारे प्राङ्मुखं चैव दक्षिणद्वारके तथा॥ 31
प्रत्यग्द्वारविमानेऽपि चोत्तरद्वारके तधा
अब्जजं प्राङ्मुखंचान्यान् यथाविधि च संस्मरेत्॥ 32
भवनं प्राङ्मुखादीनां प्राङ्मुखश्च प्रजापतिः
पंक्तिमध्ये समभ्यर्च्ये द्ब्राह्ममंत्रं समुच्चरन्॥ 33
हेमांगं पीतवस्त्रं च द्विभुजं पद्मधारिणम्
स्धितं करंडिकामौळिं शेषं तत्पश्चिमामुखम्॥ 34
अनन्तं सर्वनागाना मधिपं वारुणीपतिम्
फणसप्तकसंयुक्तं सिताभं प्रांजलिं स्मरेत्॥ 35
प्रवालाभं गजमुख मासीनं चोत्तरामुखम्
कदलीचूतपनसपाशांऽकुशधरं प्रभुम्॥ 36
एकदंष्ट्रं चतुर्बाहुं वग्रतुंडं स्मरेद्बुधः
पीतांबरे तं श्यामाभं खड्गखेटकधारिणम्॥ 37
द्विभुजं करंडिकामौळिं पंक्तीशं प्राङ्मुखं स्मरेत्
सितं श्यामांबरं सौन्युं द्विभुजं दंडधारिणम्॥ 38
करंडमकुटसंयुक्तं सुस्थितं दक्षिणामुघम्
(अभ्राभांरक्तवस्त्रान्तां द्विहस्तांबुजधारिणीम्॥ 39
सर्वभूषाभूषितांगां जयामैन्द्रपदेऽर्चयेत्
नीलाभां पीतवस्त्रां तां द्विकरांबुजधारिणीम्॥ 40
भूषाभूषितसर्वांगां विजया मनलेऽर्चयेत्
कुमुदाभां हरिद्वस्त्रां द्विकरांपंकजांकिताम्॥ 41
नानाभूषाभूषितांगां विंदां याम्यपदेऽर्चयेत्
धातकीपत्र संकाशां नीलनीलांबराऽवृताम्॥ 42
द्विकरा मंबुजधरां नंदांनैर्ऋतिपदेऽर्चयेत्
धौताभां पीतवस्त्रां तां द्विहस्तांऽबुजधारिणीम्॥ 43
पुष्पाभरणसंयुक्तां पुष्टिकां वारुणेऽर्चयेत्
स्वर्णाभां रक्तवस्त्रां तां द्विहस्तांऽबुजधारिणीम्॥ 44
कुमुद्वतीं भूषितांगां वायव्ये चार्चयेत्क्रमात्
रक्ताभा मभ्रसंकाशवसनां भूषणैर्वृताम्॥ 45
द्विकरा मंबुजधरां सौम्ये चोत्बलकां यजेत्
हाटकाभां हरिद्वस्त्रां पद्मसंयुतबाहुकाम्॥ 46
सर्वालंकार संयुक्तां विशोगा मर्चयेत्ततः)
रक्ताभां हाटकाभां च हरिणीं नीलवर्णकाम्॥ 47
धातकीपद्र संताशां कुमुदोत्पलसन्निभाम्
अशोकाभां क्रमादेता द्विभुजाः पद्मधारिणीः 48
विपरीतांबरधरा स्सुखासीना स्तदासनाः
जयाद्यास्सर्वभूषांऽगा ध्यायेदत्रेति केचन॥ 49
मेदिनीं चैव राकां च सिनीवालीं स्मरेद्बुधः
मेदिनीं पीदवस्त्रांतां श्यामांगीं द्विभुजां स्थिताम्॥ 50
हस्तयोः पालिकां धृत्वा सुकेशीं तद्दिगाननाम्
पूर्णचन्द्रप्रियां देवीं पूर्णचन्द्रनिभाननाम्॥ 51
हेमांगीं रक्तवस्त्रांतां राकां कुंभधरां स्थिताम्
शेषं तद्वच्छिनीवालीं सितांऽगीं श्यामलांबराम्॥ 52
शरावं दधतीं मन्ये मेदिनीसदृशां तथा
ध्यात्वातत्तत्पदे सम्यगासीनां वाथ चाऽर्चयेत्॥ 53
बीजेसोमं तथा ध्यात्वा हस्ताभ्यां बीजधारिणम्
स्थानकं वाऽथचाऽसीवं चोत्तरे दक्षिणामुखम्॥ 54
एवं ध्यात्वा ततोदेव मासनादिभिरर्चयेत्
हवि स्सम्यङ्मि वेद्यैव बलिं वा दापये द्बुधः 55
जयादीनां क्रमाद्वर्णः प्रादक्षिण्यक्रमेणतु
- * * *
वितस्तिः पालिकोत्सेधं तदर्धं विपुलं मुखम्॥ 56
अधोविपुलनाहेन मध्यनाहं दशांऽगुलम्
कुंभोदयं तु तत्तुल्यं रसमात्रं मुखायतम्॥ 57
कुंभोष्ठमिव वक्तव्यं कुंभकुक्षिर्दशांऽगुलम्
आश्रमद्वार संयुक्तं शेषं तत्पालिकासमम्॥ 58
तारोत्सेधं शरावं स्यान्मुखं तत्पालिकासमम्
आलयस्योत्तरे वाऽपि ऐशान्ये वा विशेषतः॥ 59
गोमयेनोपलिप्यैव मेदिनीं तु समर्चयेत्
चक्रं शान्तं समभ्यर्च्य हरेत्तज्जठरे मृदम्॥ 60
कांस्यपात्रे नुसन्न्यस्य शिष्यस्य शिरसि न्यसेत्
ग्रामं प्रदक्षिणं कृत्वा आलयं वा प्रदक्षिणम्॥ 61
पालिकादीन् प्रपूर्यैव गायत्रीमंत्र मुच्चरन्
ऐशान्यादिषु कोणेषु स्थापये त्ताश्च पालिकाः॥ 62
द्वारवामे तु कुंभं स्याच्छरावं द्वारदक्षिणे
नववस्त्रैस्समावेष्ट्य पालिकादीन् समर्चयेत्॥ 63
कंकुमुद्गयवाश्चाऽपिनिष्पावा स्सर्षपास्तथा
चणका स्तिलतिल्वाश्च पात्रेधान्यानिचाहरेत्॥ 64
हविःपात्रं तु संगृह्य वायव्ये सोम मर्चयेत्
पुण्याहं वाच्य तत्काले तूर्यघोषण माचरेत्॥ 65
`इमेबी'जेति मंत्रेण वापयेदंकुरां स्ततः
विष्णुसूक्तं समुच्चार्य यजमानयुतो गुरुः 66
`सोमं रा' जेति मंत्रेण वापयेदंकुरां स्ततः॥
वारुणं मंत्रमुच्चार्य जलनेकं तु कारयेत्॥ 67
शूद्रस्तु यजमानश्चे न्नपपस्त्रैर्गुरुं पुनः
संपूज्य दक्षिणां दत्वाततस्तेनैव वापयेत्॥ 68
प्रणवेना र्कपत्रैर्वातथा चैरंडपत्रकैः
आच्छादये द्यावदन्तं त्रिकालाभ्यर्चनं मतम्॥ 69
अत्र देवान् विसृज्यैव गुप्तेदेशे निधापयेत्
वस्त्रैर्नवै स्समाच्छाद्य पालिकादीन् समर्चयेत्॥ 70
अमावास्याव्यवहिते कुर्या त्सद्योंऽकुरार्पणम्
संक्रमव्यवधानेऽपि सद्य एवेति के च न॥ 71
सद्योंऽकुरश्चे द्रात्रौ वा दिवावाऽपि च कारयेत्
तथा सर्वक्रियां कृत्वा पुष्पैर्वा तंडुरै स्तथा॥ 72
वापयेत्कर्मण स्तस्यसद्य एवतु कारयेत्
पात्राऽलाभेशरावेवा यथालाभं च कारयेत्॥ 73
अर्चयेत्तंडुलान् शुद्धान् सद्यःकालांऽकुरार्पणे
गृह्णीया त्पालिका एव नवपंचैककल्पने॥ 74
ब्रह्मणोऽभिमुखेचैकं शेषान्तु परितोदिशि
तत्तद्दिगीश मभ्यर्च्य तत्तन्मंत्रेणचाऽर्चयेत्॥ 75
एष एव विशेषस्स्या दन्यत्सर्वं खिलोक्तवत्
लक्षणं च तथैवोक्तं तत्रैव च गुणाऽगुणाः॥ 76
अजस्रदीपदानं तु सर्वत्र विधिना चरेत्
कर्मान्ते जलमध्येतु निक्षिपे द्विजयांऽकुरान्॥ 77
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे दशमोऽध्यायः