सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/त्रिंशोऽध्यायः

विकिस्रोतः तः
← एकोनत्रिंशोऽध्यायः प्रकीर्णाऽधिकारः
त्रिंशोऽध्यायः
[[लेखकः :|]]
एकत्रिंशोऽध्यायः →

अथत्रिंशोऽध्यायः॥
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण तंत्रसंकरनिष्कृतिम्
वैष्णपस्यान्यतंत्रेण संकरे दोषमादिशेत्॥ 1
ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य संक्षयः
तद्दोषशमनायैव सांकर्यमपहाय च॥ 2
पद्मावले वैष्णवं च विष्णुसूक्तं च पौरुषम्
पारमात्मिकमींकारा द्यष्टाशीतिं विशेषतः 3
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा
दोषगौरवमुद्दिश्य हुत्वा पूर्ववदाचरेत्॥ 4
वैष्णवं द्विविधं शास्त्रं मुनिभिः परिकीर्तितम्
वैखानसं पंचरात्रं वैदिकं तांत्रिकं क्रमात्॥ 5
वैखानसं वैदिकं स्याद्वैदिकैरर्चितं द्विजैः
ऐहिकामुष्मिकफलप्रदं सौम्यं प्रकीर्तितम्॥ 6
पंचरात्रमथाग्नेयमवैदिकमतात्त्विकम्
तापादिपंचसंस्कारदीक्षावद्भिस्समर्चितम्॥ 7
अश्रीकरमथ प्रोक्तंकेवलामुष्मिकप्रदम्
सौम्यं सर्वत्र संपूज्यं ग्रामादिषु विशेषतः 8
ब्राह्मणानां च गेहेषु सौम्ये नै वार्चयेद्धरिम्
आग्नेयमर्चयेत्तद्वदवास्त्वंगालये तथा॥ 9
पर्वतादिष्वरण्येषु विविक्तेषु स्थलेषुच
विप्रावासे जनावासे नैव कुर्यादनेन तु॥ 10
सौम्ये वैखानसे मार्गे यद्याग्ने येन संकरः
पंचरात्रेण संप्राप्तो राजा राष्ट्रं विनश्यति॥ 11
तद्दोषशमानायैव पद्माग्नौ जुहुयात्क्रमात्
महाशान्तिं विधानेन सप्ताहं वा त्य्रहन्तु वा॥ 12
अष्टाधिकशदैश्चैव संस्नाप्य कलशैस्ततः
अभ्यर्च्य देवदेवेशं संपूज्यैव तु वैष्णवान्‌॥ 13
भोजयित्वा ब्राह्मणांस्तु कारयेत्पूर्ववर्त्मना
पंचरात्रविधानेन प्रतिष्ठाप्यार्चनेकृते॥ 14
कालेनान्तरिते तस्मिन्‌ कुर्यात्सौम्य प्रवेशनम्
सौम्यत्वाद्राजराष्ट्राणां तत्स मृद्धिकरं भवेत्॥ 15
पद्मानले महाशान्तिं हुत्वादौ च ततःक्रमात्
वैखानसेन विधिनाविमानं बिंबमेव च॥ 16
संस्कृत्य चोचितैस्सर्वैस्कंस्कारैः कर्षणादिभिः
प्रतिष्ठाप्य तदारभ्य सर्वं तेनैव चाचरेत्॥ 17
आलयाश्रितदेवानां परिवारस्य पर्षदाम्
पूजायामप्यमुख्यायां संकरो नैव सम्मतः॥ 18

  • * *

महात्म्यं किमुवक्ष्यामि शास्त्रस्य महतोऽस्य वै
नाऽलं देवास्त्रयस्सेन्द्रा अनन्तोऽप्युपवर्णितुम्॥ 19
श्रुणन्तु मुनयस्सर्वे शास्त्रमाहात्म्यमुत्तमम्
यावच्छक्ति प्रवक्ष्यामि ज्ञातं गुरुकृपाबलात्॥ 20
पुरा चतुर्मुखो ब्रह्मासिसृक्षुरखिलं जगत्
सुप्तोद्थितश्चिरं कालं प्राक्रामीत्सर्गकर्मणि 21
विसस्मार यदा धाता निद्रयाक्रान्तमानसः
वेदांत्सर्गप्रधानांस्तु सृष्टिर्नैवप्रवर्तते॥ 22
चिन्तातुर स्तदा ब्रह्मा मूढः कर्तव्यकर्मणि
बहुधा ध्यायमानस्तुन लेभे कारणं स्वतः 23
स्वशक्त्या यद्विधेयं स्यात्सर्वं चक्रे विमूढधीः
न हि तत्कारणं लेभे वेदविस्मरणं तु यत् 24
चिराच्छिंतां तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः
हृत्पद्ममध्ये पुरुषं परमेण समाधिना 25
चिन्तयामास वै विष्णुमृग्यजुस्सामरूपिणम्
तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः 26
ननाम च तदा विष्णुं शंखचक्रगद्धरम्
अर्चयामास देवेशं पाद्याद्यैर्विग्रहैस्समैः॥ 27
मुहुर्मुहुः प्रणम्याऽथमूर्थ्ना देवं जगत्पतिम्
निर्व्याजकरुणालेशाद्देवस्य विमलान्तरः 28
तुष्टावजगदीशानं नारायणमजं विधिः
``जितंते पुंडरीकाक्ष नमस्ते विश्वभावन॥ 29
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज
देशकालपरिच्छेदरहितानन्त चिन्मय॥ 30
सत्यज्ञानसुखानन्दस्वरूप परमेश्वर
पंचव्यूह चतुर्व्यूहान न्तव्यूहात्मविग्रह॥ 31
विष्णो पुरुष सत्याच्युताऽनिरुद्ध जगत्पते
नित्यमुक्तजनावासपरमव्योमनायक॥ 32
श्रीभूनीलादिसंसेव्य दिव्यमंगलविग्रह
शंखचक्रगदावाणे भक्ताभयवरप्रद 33
कीरीट हार केयूर कटकांगदभूषित
ग्रैवेयकपरिष्कार कटीसूत्रविराजित॥ 34
तुळसीमालिकाराजद्विशालोरस्थ्सलांऽचित
प्रलंबयज्ञसूत्राढ्य कौस्तुभाभरणोज्ज्वल॥ 35
सर्वलोकेश्वराऽचिन्त्य श्रीवत्सकृतलक्षण
दिव्यायुधसमासेव्य पीतांबरसुशोभित॥ 36
नित्यनिर्यत्ननिरन्ध्रविसारिकरुणारस
मन्दस्नितमुखांभोज मधुराधरपल्लव॥ 37
रुक्माभ रक्तनेत्रास्यपाणिपाद सुखोद्वह
सुभ्रूललाटसुभग सुनस स्वायतेक्षण॥ 38
वृत्तपीनायतभुज तनुमध्य महाहनो
विलासविक्रमाक्रान्त त्रैलोक्यचरणांऽबुज 39
ज्ञानशक्ति बलैश्वर्यवीर्य तेजोविधेऽनघ
नमस्ते विष्णवे तुभ्यं पुरुषाय नमो नमः 40
समस्सत्यस्वरूपाय अच्युताय नमो नमः
नमोऽनिरुद्धरूपाय वासुदेवाय शार्ङ्गिणे 41
नमश्चिदात्मनेऽनन्त शान्तरूपाय धन्विने
शासते निरपेक्षाय स्वतंत्रायाधिकारिणे॥ 42
अच्युतायाऽविकाराय तेजसां निधये नमः
प्रधान पुरुषेशाय वेदवेद्याय वेदिने 43
नमः पर व्यूहरूप नमो विभवविग्रह
अन्तर्यामिन्नमस्तेऽस्तु नमोऽर्चारूप शाश्वत॥ 44
सहस्रशीर्षं पुरुषं सहस्राक्षं निरंजनम्
सहस्रपादं त्रातारं शरणं त्वांगतोऽस्म्यहम्॥ 45
माता त्वं मे पिता त्वं मे भ्राता त्वं मे सखामम
सर्वं त्वमसि विश्वात्मंस्त्वयि सर्वं प्रतिष्ठितम्॥ 46
संसारसागरं घोरमनन्तं क्लेशभाजनम्
त्वामेव शरणं पाप्य निस्तरन्ति मनीषिणः 47
न हि ते गोप्य ते किंचिन्न ह्यन्त्यविदितं तव
त्वं साक्षी देहिनामेकस्सर्वं व्याप्य त्वमेधसे॥ 48
न ते रूपं न करणं कारणं नास्ति तेऽनघ
त्वं शास्ता सर्वलोकानां स्रष्टापाता हरन्‌ हरे॥ 49
अहं भवश्च ते ब्रह्मन्‌ प्रसादक्रोधजावुभौ
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्॥ 50
विज्ञानं तदिदं प्राप्तं ब्रह्मत्वं च यदार्जितम्
सर्वं तव कटाक्षस्य लेशोऽयं मधुसूदन॥ 51
तमसाक्रान्तचित्तस्य विस्मृता निगमा मम
अवेदविहितस्सर्गो मया कर्तुं न शक्यते॥ 52
प्रसीद परमेशान वेदभिक्षां प्रयच्छ मे
इति चिन्तयतस्तस्य बभूवाऽवाविलं मनः॥ 53
ततस्तुभगवान् ब्रह्मा वेदराशिमवाप्तवान्
सस्मार निखिलान्वेदान्‌ सांगानुपनिषद्गणम्॥ 54
पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः
चतुष्षष्टिकलाश्चैव विद्यास्थानानि यानि च॥ 55
अंतर्हितानां खननाद्वेदानान्तु विशेषतः
स विभुः प्रोच्यते ब्रह्मा विखना ब्रह्मवादिभिः 56
वैखानसश्च भगवान् प्रोच्यते स पितामहः
जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना॥ 57
प्राणाच्च चक्षुषस्तद्वदभिमानाच्च मर्मणः
हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः॥ 58
समानाच्च तथापानादृषिश्रेष्ठानिमान्‌ दश
दक्षं मरीचिनं नीललोहितं भृगुमेन च॥ 59
तथांऽगिरसमत्रिंच पुलस्त्यं पुलहं तथा
वसिष्ठं चक्रतुं चैव क्रमादसृजदब्जभूः॥ 60
नव ब्रह्माण एवै ते विनास्युर्नीललोहितम्
वेदानां व्यसनादर्पाक् प्राग्रूपं मिलितं तु यत्॥ 61
तांतु वैखानसीं शाखायेतानध्यापयन्मुनिः
नाम्ना विखनसं प्राहुर्यं च शातातपं तथा॥ 62
भृग्वंगिरोमरीच्यत्रिपुलस्त्यपुलहाःक्रतुः
तथा वसिष्ठोदक्षश्च नव ब्रह्माण ईरिता॥ 63
(नव ब्राह्माण एवैते विन्यान्ये नीललोहितम्)
एते विखनसश्सिष्याश्श्रुतिस्मृतिविधानतः
तच्छिष्यास्तु महात्मानो मुनयस्तत्त्वदर्शिनः॥ 64
वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः
के चिद्गृह्याणि वै चक्रुर्गृह्यश्रौतात्मकानि तु॥ 65
धर्मशास्त्राणि केचित्तु पुराणानि च के चन
इतिहासां स्तथाकल्पान् प्रोचुरन्ये महर्षय? 66
के चिद्व्याकरणं केचिन्न्यायमन्ये तथेतरत्
वाङ्मयं सकलं सर्वं शास्त्रबद्धं प्रचक्रिरे॥ 67
तांतुवाखानसीं शाखां स्वसूत्रे विनियुक्तवान्
पद्मभूःपरमो धाता तस्मिन्नाराधनत्रयम्॥ 68
तांतु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान्
चक्रेऋगादिभेदैस्तु व्यसित्वा तु पृथक् पृथक्॥ 69
आदिकाले तु भगवान्‌ ब्रह्मातु विखना मुनिः
यजुश्शाखानुसारेण चक्रेसूत्रं महत्तरम्॥ 70
वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितम्
यत्सूत्राद्यन्तमध्येषु भगवान्‌ विष्णुरव्ययः 71
यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तत्
वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः॥ 72
सर्वैस्सधर्मोनुष्ठेयो नाऽत्र कार्याविचारणा
स्वसूत्रस्य परित्यागादन्यसूत्रसमाश्रयात्॥ 73
सद्यःपतति वै विप्रोन वेदस्य समाश्रये
सूत्रं वैखानसं यत्तु वेदस्संप्रतिपद्यते॥ 74
एतद्वैखानसं सूत्रमन्यसूत्राऽनपेक्षितम्
एतद्वैखानसं सूत्रं सर्ववेदार्थसंग्रहः॥ 75
वैष्णवं सर्वविप्राणां साम्न्यमभिधीयते
वैखानसस्य सूत्रस्य चाग्नेश्श्रामणकस्य च॥ 76
नारायणस्य देवस्य माहात्म्यं नावबुध्यते
यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते॥ 77
तथा सर्वेषु सूत्रेषु सूत्रमेतत्प्रशस्यते
अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्चशाश्वताः॥ 78
गायत्री वैष्णवा विप्रास्सप्तैते बहुपावनाः
अधीतेषु च वेदेषु सांगेषु लभते फलम्॥ 79
तत्फलं लभते सद्यस्सूत्रमेतत्पठन्‌ द्विजः
अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः॥ 80
ते सर्वे सूत्रमाश्रित्य चैनं गच्छन्ति माधवम्
शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च॥ 81
वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परम्
आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाद्विशेषतः॥ 82
मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः
यस्मिन्नेव तु संप्रोक्ते सूत्रे विखनसा पुरा॥ 83
वनस्थानां तु सर्वेषां विधिश्श्रामणकाभिधः
वानप्रस्थास्ततस्स्वर्वे येद्विजाश्चान्यसूत्रिणः॥ 84
तत्सूत्रविध्यमष्ठानात्स्मृता वैखानसा अमी
किं बहूक्तेन विधिना सर्वं वैखानसं जगत्॥ 85
परस्मिन्‌ व्योम्नि यच्चाऽर्के यत्तेजस्तुत्रयीमयम्
तद्वैखानः परं ब्रह्म इति वेदादधीमहि॥ 86
शास्त्रमेतच्च सूत्रं च सर्वेषामपि जीवनम्
ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः॥ 87
ते विष्णुसदृशा ज्ञेयास्सर्वेषामुत्तमोत्तमाः
वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् 88
नारायणस्स्वयं गर्भेमुद्रां धारयिते निजाम्
विप्रा वैखानसाख्याये तेभक्तास्तत्त्वमुच्यते॥ 89
एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजीनः
विष्णोःप्रियतमा लोके चत्वारः परिकीर्तिताः 90
अश्वद्थःकपिला गावस्तुळसी वैष्णवा द्विजाः
द्विजेषु ब्राह्माणाश्श्रेष्ठा ब्राह्मणेषु च चैष्णवाः॥ 91
वैष्णवेषु परं श्रेष्ठा ये वैखानससूत्रिणः
वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा॥ 92
गंगां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते
मूलमस्यापि शास्त्रस्य सार्धकोटिप्रमाणतः
उपादिशत्स भगवान्‌ अस्मभ्यं नैमिशे वने॥ 93
इति संक्षेपतः प्रोक्तं महत्त्वं सूत्रशास्त्रयोः
तस्माद्वैखानसा विप्रास्संपूज्या भगवत्प्रियाः 94
पूजान्ते स्नपनान्ते च तथान्ते चोत्सवस्य च
आचार्यमर्चकं चापि सर्वान्‌ वैखानसांस्तथा॥ 95
प्रथमं पूजयित्वैव पश्चात्कार्यं समाचरेत्
यःपूजकमनादृत्य विप्रं वैखानसं हठात् 96
तीर्थं गृहीतुं प्रथम्च्छेत्स पतति ध्रुवम्
यः पूजकमनादृत्य विप्रं वैखानसं पुनः 97
प्रसादं देवदेवस्य प्रथमं तु जिघृक्षति
ब्रह्महत्यामवाप्नोति तत्बूजा निष्पला भवेत्॥ 98
यः पूजकमनादृत्य विप्रं वैखानसं पुनः
यादृशीमपि देवाग्रे वांछत्यपचितिं जनः 99
चतुर्वेद्यपि सो विप्रस्सद्यश्चंडालतां व्रजेत्
तत्पूजा निष्फला च स्याद्राजराष्ट्रं विनश्यति 100
षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा
आलये भगवत्पूजा सौम्येन विधिना कृता 101
सर्वसंपत्करी सा स्याज्जगतामिति शासनम्
तत्रार्चने तु शुद्धात्मा पूजकः परितोषितः 102
तेन राजा च राज्यं च यजमानश्च नान्वयः
सर्वलोकश्च संतुष्टो वर्धते ब्रह्मतेजसा॥ 103
अग्रं वृक्षस्य राजानोमूलं वृक्षस्य पूजकाः
तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति॥ 104
फलं वृक्षस्य राजानः पुष्पं वृक्षस्य पूजकाः
तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलम्॥ 105
देवस्यं ब्राह्मणस्वं च सन्मानं पूजकस्य च
यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातुकम्॥ 106
दुर्बलानामनाथानां बालवृद्धतपस्विनाम्
अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः॥ 107
राजा पिता च माता च राजा च परमो गुरुः
राजा च सर्वभूतानां परित्राता गुरुर्मतः॥ 108
दावाग्निदवदग्धानां राजा पूर्णमिवांभसा
समुद्रमिव तृप्यन्ति ब्राह्मणा वेदवादिनः 109
दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिभिः
राजा दहति दिडेन विप्रो दहति मन्युवा॥ 110
मन्युप्रहरणा विप्राश्चक्र प्रहरणो हरिः
चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेत्॥ 111
अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च
दंड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः 112
आपद्यपि च कष्टायां नावमान्यो हि पूजकः
अर्चकेन तु तुष्टेन यदुक्तं देवसन्निधौ 113
तद्वाक्यं तु ह रेर्वाक्यं नावमान्यो हि पूजकः
अर्चकं कोपयेद्यस्तु स हि देवस्य कोपकृत्‌॥ 114
देवेशं तोषयेद्यस्तु स हि पूजकतोषकृत्
गंधं पुष्पं तथा माल्यं तांबूलं चाक्षतादिकम्॥ 115
प्रसादं चापि देवस्य प्रथमं पूजकोऽर्हति
षडंगविदुषां चैव क्रतुप्रवरयाजिनाम्॥ 116
वैखानसः पुनात्यग्रे गोष्ठीं विप्रशतस्य तु
फलाभिसंधिरहितं सर्वं कर्माऽखिलं कृतम्॥ 117
ब्रह्मार्पणधिया कुर्यात्स भवेद्वैष्णवोत्तमः
नान्यं देवं नमस्कुर्यान्नान्यं देवं प्रपूजयेत्॥ 118
अर्चयेत्सततं ध्यायेन्नारायणमनायम्
कायेन मनसा वाचा स तु वैष्णव उच्यते॥ 119
तिर्यक्पुंड्रधरं चैव पाषंडिनमवैष्णवम्
देवाग्रे पूजयेऽन्नैव तद्वैष्णवविमानना॥ 120
अभ्यर्च्या विष्णुभक्ता हि वैष्णवा भगवत्प्रियाः
अवैष्णवस्य पूजा तु तेषामग्रे सुदारुणा॥ 121
तस्मात्सर्वप्रयत्नेन त्यजेद्दूरादवैष्णवम्
येतु सामान्यभावेन मन्यन्ते पुरुषोत्तमम्॥ 122
रुद्रादिभिस्सहाज्ञा नात्तेऽपि ज्ञेया अवैष्णवाः
नरेषु ब्राह्मणाश्श्रेष्ठा ब्राह्मणेषु विपश्चितः 123
विपश्चित्सु कृतधियस्तेषु कर्तार एव च
कर्तृषु ब्रह्मविदुषो ये हि भक्ताजनाक्दने॥ 124
विष्णुभक्तेषु सर्वत्र श्रेष्ठा वैखानसास्स्मृताः
तस्मात्संपूज्य सर्वादौ भक्त्या वैखानसं द्विजम्॥ 125
विष्णुभक्तं ततः पूज्य यथावर्णानुपूर्व्यशः
गोष्ठीं समर्चयेत्काले भोज्याश्चाऽन्ये द्विजातयः॥ 126
स्त्रीयः पूज्या विधानेन वैष्णप्यो वैष्णवाश्रयाः
न हि साधारणि सृष्यिर्वैष्णवीति विचिन्तयेत्॥ 127
जन्मांतरसहस्रेषु तपोध्यानसमाधिभिः
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते॥ 128
न ह्यभागवतैर्विष्णुर्ज्ञ्रातुं स्तोतुं च तत्त्वतः
द्रष्टुं वा शक्यते मूढाः प्रवेष्टुं कुत एव हि 129
तद्भक्तिभाविताः पूता नरास्तद्गतचेतसः
भवन्तिवै भागवतास्ते विष्णुं प्रविशन्ति च॥ 130
अनेक जन्मसंसारचिते पापसमुच्चये
वार्षिणे जायते पुंसां गोविंदाभिमुखी मतिः॥ 131
प्रद्वेषं याति गोविंदे द्विजान्‌ वेदांश्च निंदति
यो नरस्तं विजानीयादासुरांशसमुद्भवम्॥ 132
पाषंडेषु रतिः पुंसां हेतुवादानुकूलता
जायते विष्णुमायातः पतितानां दुरात्मनाम्॥ 133
यदा पापक्षयः पुंसां तदा देवद्विजातिषु
विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला॥ 134
यथा स्वल्पान शेषस्तु नराणां पापसंचयः
भवन्ति ते भागवता निश्श्रेयशपरा नराः॥ 135
भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे
हस्तावलंबनो ह्येको भक्तिक्रीतो जनार्दनः॥ 136
कर्मणा मनसा वाचा प्राणिनां योऽनसूयकः
भावसक्तश्च गोविंदे विष्णौ भागवतो हि सः॥ 137
यो ब्राह्मणांश्च वेदांश्च नित्यमेव नमस्यति
न द्रोग्धा परवित्तादे स्सहि भागवतः स्मृतः॥ 138
सर्वान्‌ देवान्‌ हरिं वेत्ति सर्वान्‌ लोकांश्च केशवम्॥
तेभ्यश्च नाऽस्यमात्मावं स हि भागवतस्स्मृतः 139
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः
तरुपाषाणकाष्ठादीन्‌ भूम्यंभोगगनं दिशः 140
आत्मानं चापि देवेशाद्व्यतिरिक्तं जनार्दनात्
यो न जानाति पुण्यात्मा स हि भागवतस्स्मृतः 141
सर्वं भगवतो भागो यद्भूतं भव्यसंस्थितम्
इति यो वै विजानाति स हि भागवतस्स्मृतः 142
भवभीतिं हरत्येष भक्तिभावेन भावितः
भगवानिति यद्भावस्स तु भागवतस्स्मृतः 143
भावं न कुरुते यस्तु सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा स तु भागवतस्स्मृतः 144
बाह्यार्थनिरपेक्षो यो भक्त्या भगवतः क्रियाम्
भावेन निष्पादयति ज्ञेयो भागवतो हि सः॥ 145
नारयो यस्य सुस्निग्धा न चोदासीनवृत्तयः
पश्यतस्सर्वमेवेदं विष्णुं भागवतस्स हि॥ 146
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः
तां गतिं न नरायान्ति यां तु भागवता नराः॥ 147
योगच्युतैर्भागवतै द्देवराजश्शतक्रतुः
अवाङ्निरीक्ष्यते नज्रीकिमु ये योगपारगाः॥ 148
यज्ञनिष्पत्तये वेदा देवा यज्ञपतेः कृते
तत्तोषणाय यतते स हि भागवतस्स्मृतः 149
येन सर्वात्मना भक्त्या विष्णौ भावो निवेशितः
युक्तत्वात्कृतकृत्यत्वात्स हि भागवतस्स्मृतः॥ 150
व्रतिनां यज्ञपुरुषः पूज्यो विष्णुरसंशयः
स्त्रीयश्च स्वं च भर्तारमृते पूज्यन्न दैवतम्॥ 151
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः
वैखानसानामाराध्यस्तपोभिर्मधुसूदनः॥ 152
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम्
एवमाश्रमिणां विष्णुस्सर्वेषां च परायणम्॥ 153
न दानैर्नतपोभिश्च प्रीयते भगवान्‌ हरिः॥
वर्णाश्रमाचारवता यथा स परितुष्यति॥ 154
वर्णाश्रमाचारवता पुरुषेण परःपुमान्‌
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः॥ 155

  • * *

अत्रानुक्तेषु दोषेषु प्रायश्चित्तं प्रवक्ष्यते
पौंडरीकाग्निमासाद्य परिषिच्य च पावकम्॥ 156
षट्कृत्वो वैष्णवं तद्वच्चतुष्कृत्वश्च व्याहृतीः
अष्टाक्षरं चाष्टकृत्वस्तथा च द्वादशाक्षरम्॥ 157
हुत्वा द्वादशकृत्वस्तु विष्णुसूक्तं च पौरुषम्
एकाक्षरादिसूक्तं च श्रीभूसूक्तद्वयं हुनेत्॥ 158
देवं संस्नाप्य चाऽभ्यर्च्य हविस्सम्यङ्नि वेदयेत्,
अनेन विधिना तत्र शान्तिर्भवति शोभना 159

  • * *

हादोषेषु च पुनरुक्तहोमैस्सहैव तु
पारमात्मिकमींकाराद्यष्टाशीतिं विशेषतः 160
हुत्वा च सर्वदैवत्यमष्टाभिश्च शतैर्घटैः
देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्॥ 161
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे त्रिंशोऽध्यायः॥