प्रकीर्णाऽधिकारः/त्रयोविंशोऽध्यायः
| ← द्वाविंशोऽध्यायः | प्रकीर्णाऽधिकारः त्रयोविंशोऽध्यायः [[लेखकः :|]] |
चतुर्विंशोऽध्यायः → |
अथत्रयोविंशोऽध्यायः॥
उत्सवचक्रम्
अतःपरं प्रवक्ष्यामि पूर्वोद्दिष्टं सुदर्शनम्
सुदर्शनस्य चोद्दिष्टं प्रमाणं च विशेषुः॥ 1
महाबेरस्य मानेन नवांगुलमिति स्मृतम्
तस्य वृत्तं समुद्दिष्टमराश्चैव तु त्य्रंगुलम्॥ 2
वृत्तं पट्टस्य विस्तारमेकांगुलमुदाहृतम्
तन्मध्ये चारकूटं स्यादेकांऽगुलमुदाहृतम् 3
अरा द्वादश उद्दिष्टा एतच्चक्रस्य वै तथा
अधमं मार्गमालोक्य प्रोक्तमेतत्प्रमाणकम्॥ 4
तत्र मध्यं प्रमाणन्तु वक्ष्यामि श्रुणुतादरात्
महाबेरस्य हस्तेन द्वादशांऽगुलमुच्यते॥ 5
तद्वृत्तं तस्य हस्तेन द्वादशांऽगुलमुच्यते
वृत्तं तस्य समुद्दिष्टमारकूटं द्वियंगुलम्॥ 6
वृत्तपट्टस्य विस्तारमेकांऽगुलमुदाहृतम्
अष्टौ च चतुरंगुल्या? दुद्दिष्टाश्च समासतः॥ 7
अराष्षोडश उद्दिष्टाश्चक्रस्यैव तु मध्यमे
कूर्मं वाऽप्यथ सिंहं वा पद्मं वाऽप्यथ कालयेत्॥ 8
अधस्ताद्योगदंडं च एकांगुलमुदाहृतम्
उभयोः पादयोश्चैव सिंहेनैव तु कारयेत्॥ 9
आयसेनैव वा कुर्याद्दारुणा वा तथैव च
सर्वत्र सुंदरं कुर्यात्सजानन? विधीयते॥ 10
एतल्लक्षणमुद्गिष्टं चक्रस्यैव प्रमाणतः
मधूच्छिष्टेन विधिना कुर्याद्वै तत्र तत्र तु॥ 11
विदध्याद्देव देवस्य हेति प्रवरमुत्तमम्
प्रमाणं च तु सर्वत्र तत्त्रिभागं विशेषतः॥ 12
स्थापनां मूर्तिमंत्रं च चक्रस्य श्रुणुतर्षयः
- * *
अथाऽतस्संप्रवक्ष्यामि वैष्णवं चक्रमुत्तमम्॥ 13
त्रिविधं चक्रमुद्दिष्टं ब्रह्मणा परमेषिना॥
कालचक्रं वीरचक्रं सहस्रविकचं क्रमात्॥ 14
करोद्धृतं वीरचक्रं देवस्य मुखमानतः
सर्वाजिनां समूहन्त बजं खत्रयमन्ततः? 15
देवस्य मुखमानं स्याद्द्वादशाऽष्टारचिह्नितम्
ज्वालापंचकसंयुक्तं कराग्रे दक्षिणे चरेत्॥ 16
मयं महीमयं दिव्यमष्टारं द्वादशारकम्
एभिर्मन्त्रैस्समभ्यर्च्य रक्षार्थं मोक्षशान्तये 17
- * *
कालचक्रं प्रवक्ष्यामि औत्सवं सर्वशान्तिदम्
ध्रुवबेरमुखायामं द्विगुणायामविस्तृतम्॥ 18
वृत्तं च षड्गुणं प्रोक्तं क्षतान्तं तत्सुवृत्तकम्
वृत्तस्य पट्टविस्तारं त्रियंगुलमिति स्मृतम्॥ 19
षडंगुलसमायाममारकूटं तु त्य्रंगुलम्
यवा कारकरा ज्ञेया उभयत्र प्रवेशता॥ 20
अरकूटेऽथ सिंहं वा मकरं वाऽथ पद्मकम्
ज्वालात्रिकं वा कर्तव्यं ज्वालापंजकमेव वा॥ 21
शताऽष्टारं निंशतिं वा उत्तमे सम्यगाचरेत्
चतुष्पंचद्विपंचाशन्मध्यमे समुदाहृतम् 22
द्वात्रिंशद्वा चतुर्विंशदधमे संप्रयोजयेत्
एवं स्यात्कालचक्रन्तु उत्सवार्थं प्रकल्पयेत्॥ 23
चक्राधस्तात्तथा नालं द्वादशांऽगुलमाचरेत्
चक्रद्विगुणदंडन्तु खदिरं चाऽसनं भवेत्॥ 24
याज्ञिकैरथ वा वृक्षैः कारयेदत्र शासनम्
षडंगुलायतविस्तारां फलकां संप्रकल्पयेत्॥ 25
वृत्तं वा चतुरश्रं वा लंबदामसमायुतम्
त्रियंगुलसमुत्सेधं संधयेत्तरिकोपरि॥ 26
तदधस्तात्तु ताटिं च कुंभलंबकसंयुतम्
अष्टांऽगुलसमुत्सेथं कारयेदिति शासनम्॥ 27
अंतस्सुषिरसं कृत्वा?दंडाग्रे चाऽध एव वा
कूरदंडेन संयोज्य फलकोफलपद्मकम् 28
लता प्रस्थतरं वापि कारयेदिति शासनम्
पद्मं तु त्य्रंगुनायामं विस्तारमधिकांऽगुलम्॥ 29
पालिकोपरि सिंहौ द्वावुभयोः पार्श्वयोश्चरेत्
चक्रं संवहमानौ तौ यावत्तत्र च कालयेत्॥ 30
तयोर्मानं समुद्दिष्टं पंचांऽगुलमिति स्मृतम्
दंडमध्येन कुर्यात्तद्दंडमूले षडंगुलम्॥ 31
पीठं षडंगुलोत्सेधं चतुरंगुलमेव वा
वृत्तं वा चतुरश्रं वा सरोजदळकर्णयुक्॥ 32
षाढशांऽगुलमायामं विस्तारं संप्रकीर्तितम्
कर्णिकामध्यमे नाळमष्टांऽगुल समायुतम्॥ 33
नाळदंडेन संयोज्य बंधयेदष्टबन्धनैः
हारवत्सुदृढं कुर्यादवक्रमृजुसंयुतम्॥ 34
एवं कृत्वा यथामार्गं स्थापनं सम्यगाचरेत्
- * *
सहस्रविकचं चक्रं पुरुषाकारमाचरेत्॥ 35
रक्ताभं नीलवर्णं च नवतालेन मानतः
द्विभुजं मुकुटोद्बन्धं चक्रचूळिनमाचरेत्॥ 36
सुदर्शनं तथा चक्रं सहस्रविकचं तथा
अनपायिनमित्येवं मूर्तिमंत्रैस्समर्चयेत्॥ 37
- * *
शतधारं कालचक्रं सर्वासुरविमर्दनम्
सर्वविघ्नहरं चेति कालचक्रं समर्चयेत्॥ 38
- * *
कालचक्रं प्रवक्ष्यामि सर्वाऽसुरविनाशनम्
षट्ट्रिंशदंगुलं वापि षट् पंचाशच्छताऽष्टकम्॥ 39
विस्तारायामतोमानमुत्तमाधममध्यमम्
मानांऽगुलेन तद्ग्राह्यं तक्षकं वर्तुलं भवेत् 40
सहस्रारा अष्टशतं त्रिशतं षष्टिमेव वा
अराःक्रमेण संयुक्ता उत्तमाऽधममध्यमाः॥ 41
चतुर्विंशत्तथा ज्वालाष्षोडश द्वादशाऽथ वा
दशसप्तांगुलं पंच वृत्तं पट्टस्य संयुतम्॥ 42
चक्रप्रभेहकं भागं पीठं पद्मकमाचरेत्
दंडादीनि विना तस्य पद्मं पीठस्ययोजयेत् 43
एतदुक्तं महच्चक्रं सर्वारिष्टविनाशनम्
- * *
चक्रस्य स्थापनं मार्गं प्रवक्ष्यामि तपोधनाः 44
अंकुरानर्पयित्वातु कारयेदक्षिमोचनम्
तथाऽधिवासनं कृत्वा गव्यानामधिवासनम् 45
यागशालां तथा कृत्वा भूषयेत्तोरणान्वितम्
शय्यावेदिं च तन्मध्ये चाऽध्यर्धायामविस्तृतम् 46
तत्तुर्यांशोदयां वेदिं कृत्वा तां चतुरश्रकम्
प्राच्यामाहवनीयं च कुंडमौपासनाग्निवत् 47
प्राच्यां तु स्नानवेदिं च कृत्वाचैव विचक्षणः
अथाऽधिवासितं चक्रमादायेवाभिषिच्य च॥ 48
अग्निं संसाध्य पूर्वोक्तं कुंभं संसाथयेत्पुनः
चक्रस्याऽभिमुखे कुंभं धान्यपीठोपरिक्रमात्॥ 49
सन्न्यस्य तु गुरुर्धीमान् यदितं भावयेत्तथा
ग्रामं प्रदक्षिणं कृत्वा शालायां स्थापयेत्तथा॥ 50
हृत्पद्ममध्ये चक्रेशं द्विभुजं प्रांऽजलीकृतम्
रक्ताभं कृतवस्त्राभं ध्यात्वासम्यक् प्रपूर्य च॥ 51
तस्मात्कुंभे समावाह्य पूर्वोक्तमभिपूज्य च
वेद्यां संस्नाप्य तच्चक्रं कलशैस्नापयेत्तदा॥ 52
समल कृत्य वक्त्राद्यैर्धान्यपीठोपरिक्रमात्
सन्न्यस्य कुंभं संयुक्तं बद्ध्वा प्रतिसरं ततः॥ 53
शाययित्वा तथा चक्रं हौत्रं सम्यक् प्रशंस्य च
चक्रांगान्यायधांऽगानि मूर्तिमंत्रान् प्रचक्षते॥ 54
पश्चादग्निं परिस्तीर्य वैष्णवैर्मन्त्र संयुतैः
`भूमाननोऽग्रे वन्द्यान'हुत्वा गायत्रिसंयुतम्॥ 55
शतमष्टोत्तरं हुत्वा रात्रिशेषं व्यपोह्य च
स्नात्वा प्रभाते पूर्वोक्तं चक्रमादाय पूर्ववत्॥ 56
ग्रामं प्रदक्षिणं कृत्वा कुंभेनासादयेत्तथा
मंडपे दक्षिणे पार्श्वे कृतपीठे विशेषतः॥ 57
रत्नं निक्षिप्य पूर्वोक्तमंत्रेण स्थापयेत्तदा
चक्रमंत्रौ सुसन्न्यस्य बीजान् सन्न्यस्य पूर्ववत्॥ 58
कुंभाच्छक्तिं तथाऽवाह्य पूजयेदासनादिभिः
पायसाद्यैर्नि वैद्याऽथ गुरुं सम्यक् प्रपूजयेत्॥ 59
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे त्रयोविंशोऽध्यायः॥