प्रकीर्णाऽधिकारः/त्रयोदशोऽध्यायः
| ← द्वादशोऽध्यायः | प्रकीर्णाऽधिकारः त्रयोदशोऽध्यायः [[लेखकः :|]] |
चतुर्दशोऽध्यायः → |
अथ त्रयोदशोऽध्यायः॥
नवषट्पंचमूर्तिविधानम्
अत ऊर्ध्वं प्रवक्ष्यामि नवषट्पंचमूर्तिकम्
विष्णुं च पुरुषं सत्यमच्युतं चाऽविरुद्धकम्॥ 1
नरनारायणाभ्यां तु वाराहं नारसिंहकम्
एवं तु नवमूर्तिस्तु स्थापयित्वा यधाविधि॥ 2
विष्ण्वादिपंचमूर्तीस्तु अदिमूर्तिंतथाक्रमात्
स्थापये त्तत्क्रमेणैव षण्मूर्तिकमिहोच्यते॥ 3
विष्ण्वादीनां तु पंचानां स्थापनं पंचमूर्तिकम्
दशावतारकल्पः
मत्स्यः कूर्मोवराहश्च नारसिंहोऽथ वामनः 4
रामो रामश्च रामश्च कृष्णः कर्किरिमे दश
- * *
सर्गकाले तु भगवान् सृष्ट्वा विखनसं गुरुम्॥ 5
वेदानुपादिशत्तस्मै लोकसंरक्षणक्षमान्
पुरा मध्वादयः काले संभूय भुवि राक्षसाः 6
अपाहरंस्तु तान् वेदान् बलात्कृत्व विधिं मुहुः
तदा तु सोमकं हन्तुं राक्षसं रणविक्रमम्॥ 7
अंतर्हितमकूपारे मात्स्यं भावं गतो हरिः
हत्वा तु सोमंकं पश्चाद्वेदानब्जभुवे ददौ॥ 8
ग्रामादिषु च सर्वत्र मध्यमे पश्चिमेऽपिवा
हस्तिपृष्ठविमाने तु कुंभाकारविमानके॥ 9
द्वितालेनोत्तमं कुर्यान्मानमेतदुदाहृतम्
अवतारस्य सर्वस्य कौतुकं स्याच्छतुर्भुजम्॥ 10
विशेषमत्र वक्ष्यामि प्रधानेऽब्जाऽवले क्रमात्
हौत्रप्रशंसनं कृत्वा देवतावाहनं चरेत्॥ 11
`मत्स्यं च जलजं चेति भद्रं क्रीडात्मकं'तथा
एवमादिभिरावाह्य चान्यत्पूर्ववदाचरेत्॥ 12
`यस्स्वयं सृष्ट'मित्युक्त्वा शतमष्टोत्तरं यजेत्
यथोक्तेनैव मार्गेण संस्थाप्य विधिनाऽर्चयेत्॥ 13
कूर्मः
देवाऽसुरार्थं _मृते कृतयुगे हरिः
कच्छपस्समभूद्धर्तुं मंधरं तं महाऽचलम्॥ 14
ग्रामादौ वास्तुमध्ये च पर्वताऽग्रे विशेषतः
नन्द्यावर्तविमाने वा फेळाकारविमानके॥ 15
एकतालेन मानेन कूर्मरूपं विधीयते
कूर्मरूपं ध्रुवं कुर्यात् कौतुकं तु चतुर्भुजम्॥ 16
प्रतिष्ठां पूर्ववत्कुर्याद्गार्हपत्ये विशेषतः
हौत्रमत्र प्रशंसन्ति मूर्तिमस्त्रमथोच्यते॥ 17
`अकूपारं कूर्मरूपं विष्णुं च वसुधाधरम्'
`अकूपारं जलं कूर्मं कच्छपं'त्विति के च न॥ 18
समावाह्य तु तैरेव निरुप्याज्याहुतीर्यजेत्
`रायामीश'स्समुच्चार्य शतमष्टाऽधिकं यजेत्॥ 19
उक्तवत्थ्सापयेद्विद्वान् विधिना सम्यगर्चयेत्
मत्स्यकूर्मौ द्विधा प्रोक्तौकिं चिद्भेदं प्रचक्षते॥ 20
द्विभुजौ केचिदिच्छन्ति केचिदिष्टभुजौ बुधाः
वराहः
देवमानुषतिर्यंच स्थ्सावरा जंगमा स्तथा 21
पुरासृष्टा यथा सर्वे चत्वारो भुवि जंतवः
जरायुजांडजोद्भिज्जन्वेदजाश्चेति जातितः॥ 22
एवं प्रवर्तमाने तु हिरण्याक्षो महाबलः
रसातलमगाद्धृत्वा चराचरधरां महीम्॥ 23
महावराहवपुषा तां तदोद्धृतवान् हरिः
वराहस्त्रिविधः प्रोक्तो देवस्याऽविष्कृतौ पुनः 24
क्रमादादिवराहश्च वराहः प्रलयात्मकः
यज्ञवाराह इत्येवं त्रिविधिस्संप्रकीर्तितः॥ 25
विमाने पर्वताऽकारे श्रीप्रतिष्ठितके तथा
दशतालेन मानेन देवं सूकरमाचरेत्॥ 26
- * *
चतुबान्हुसमायुक्तं शंखचक्रधरं परम्
वामपादं समाकुंच्य महीमुद्धृत्य सादरम् 27
दक्षिणं चंडितं कुर्यान्महीमूरौ समाचरेत्
महीं च श्यामवर्णां तु कुर्याच्चैव विधानतः॥ 28
एवमादिवराहन्तु कारयेल्लक्षणाऽन्वितम्
- * *
अवान्तरमनुप्राप्य यदा तु प्रलयं हरिः॥ 29
तत्तोयमुपसंहर्तुं वराहं रूपमास्थितः
ततः प्रलयवाराहं पुराभूतं च कारयेत्॥ 30
शंखचक्रधरं सौम्यं पीतांबरधरं हरिम्
दक्षिणं चाऽभयं हस्तं वामं कट्यवलंबितम्, 31
महीं तु दक्षिणे कुर्यात्सश्यामनिभां तथा
सुखाऽसनक्रमेणैव चासीनां वा स्वलंकृताम्॥ 32
एवं प्रलयवाराहं कारयेत्तु विचक्षणः
- * *
हिरण्याक्षःपुरा रक्षो बलवान् बलिनां वरः॥ 33
वरेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषकोऽवृधत्
अवातरत्तदा विष्णुवन् रसूकरमूर्तिमान्॥ 34
हत्वा सदैत्यं सबलं पश्चाद्यज्ञान्न्यवर्तयत्
तस्माद्यज्ञवराहं तु तंच कुर्याद्विधानतः 35
श्वेतं यज्ञवराहं तु श्रीभूमिभ्यां सहैव वा
सुखासने समासीनं कुर्याल्लक्षणसंयुतम्॥ 36
- * *
त्रयाणां च वराहाणां स्थापने भेद उच्यते
पूर्वोक्तेन क्रमेणैव सर्वं कृत्वा विशेषतः 37
सभ्याग्निकुंडे रात्रौतु हौत्रशंसनमाचरेत्
`वराहं वरदं विष्णुमुर्वीसंधारणं तथा॥ 38
वज्रदंष्ट्र'मिति प्रोच्य देवमादिवराहकम्
`महीं तां पृथुलामुर्वी'मिति देवीं महीं क्रमात्॥ 39
आवाहयेद्यथान्यायमन्वत्सर्वं समाचरेत्
`वाराहं प्रलयहरं भूतेशं विष्णुमेव च 40
जगत्त्रयात्मकं' चोक्त्वा वराहं प्रलयात्मकम्
`वराहं देवरूपं च यज्ञेशं यज्ञवर्धकम् 41
विष्णुं' चेति तथा देवं यज्ञवाराहमाह्वयेत्
आवाहनादिसर्वत्र पूर्ववत्कारयेद्बुधः 42
`क्ष्मामॆका'मिति मंत्रेण यजेदष्टोत्तरं शतम्
हरेरुक्तविधानेन सर्वं पूर्ववदाचरेत्॥ 43
नारसिंहः
हिरण्यकशिपुर्नाम दैत्यानां प्रबलोऽभवत्
वरेण गर्वाद्दैत्येंद्रो हिरण्यकशिपुस्तदा 44
देवैर्मृगैर्मनुष्यैर्वा जीविभिर्वाप्यजीविभिः
दिवा वा यदि वा रात्रौ वधो मे न भवेदिति॥ 45
लोकानुद्वेजयमास तदा तं दैत्यसत्तमम्
हन्तुकामः कृतोद्योगश्चिन्तयित्वा हरिः प्रभुः 46
तत्पालितपुराद्बाह्ये महापर्वतमस्तके
रक्षसा पीडितैर्देवैः प्रार्थितः करुणानिधिः 47
नरसिंहवपुर्भूत्वा दिवा रात्रिं व्यपोह्य च
संध्याकालेऽवधीत्तन्तु भुवंगे स नखायथः 48
बाह्यमाभ्यस्तरं हित्वा जीवाजीवैर्नखैश्शुभैः
एवं दैत्यवधं कृत्वा पर्वतेऽन्तरभूत् हरिः॥ 49
ततस्तमर्चयेद्भक्त्या विजयार्थं विवृद्धये
पर्वताकृतिके वापि श्रीप्रतिष्ठितकेऽपिवा॥ 50
दशतालेन मानेन नरसिंहं प्रकल्पयेत्
- * *
गिरिजं स्थूणजं चैव सुदर्शननृसिंहकम् 51
तथा लक्ष्मीनृसिंहं च पाताळनरसिंहकम्
तथा पुच्छनृसिंहं च नृसिंहं षड्विधं विदुः 52
सिंहासने समासीनं सर्वाभरण भूषितम्
नारसिंहं चतुर्बाहुं शंखचक्रधरं परम् 53
पादौ द्वौ च समाकुंच्य न्यस्य सिंहासने स्थितम्
प्रसार्य हस्तौ द्वौ जान्वोस्तयोरूर्ध्वे निधाय च॥ 54
वस्त्रेण चोरू बद्ध्वैवमासीनं गिरिजं तथा
श्रियं कनकवर्णाभां मेदिनीं श्यामसन्निभाम् 55
ब्रह्मेशौ वन्दमानौ तु दक्षिणोत्तरयोः क्रमात्
वाहनं सामवेदं च प्रमुखे संप्रकल्पयेत्॥ 56
साम श्यामनिभं कुर्यात्सर्वाभरणभूषितम्
भूमीशो नामगन्धर्वो शैषिकस्थानमाश्रितः॥ 57
कारयेदुक्तवर्णन्तं सर्वाभरणभूषितम्
- * *
स्थूणजं संप्रवक्ष्यामि स्थूणादाविर्बभौ हरिः 58
वामपादं समाकुंच्य दक्षिणं संप्रसार्य च
चतुर्भुजधरं देवं शंखचक्रेच कारयेत्॥ 59
हस्तं तु दक्षिणं पूर्वं कुर्याद्दानकरं तधा
वामहस्तं प्रबद्ध्यैव ऊरौ च तु सुविन्यसेत्॥ 60
सटाकन्धरसंयुक्तं तीक्ष्णदंष्ट्रं भयानकम्
शंखकुंदेंदुधवळं सर्वाभरणभूषेतम्॥ 61
- * *
सुदर्शननृसिंहस्य लक्षणं संप्रवक्ष्यते
सूर्यकोटिप्रतीकाशं चक्रं विमलमुज्ज्वलम्॥ 62
बृहद्भानुपुरद्वंद्वं चक्रमध्ये प्रकल्पयेत्
चक्रमध्ये समासीनं नृसिंहमरुणप्रभम्॥ 63
अत्यन्तभीषणाकारं भक्तानामभयप्रदम्
चक्रायुधं चतुर्बाहुं देवदेवं प्रकल्पयेत्॥ 64
- * *
वक्ष्येलक्ष्मीरृसिंहस्य लक्षणं मुनिसत्तमाः
वामपादं समाकुंच्य दक्षिणं संप्रसार्य च॥ 65
वामोरौ श्रियमासीनां प्रांऽजलीकृतवास्तकाम्
वामहस्तेन देह्यश्च कुर्वन्तमुपगूहनम्॥ 66
दक्षिणं त्वभयं कुर्यात्पराभ्यां शंकचक्रके
- * *
पाताळनारसिंहाख्यमासीनं पूर्ववत्तथा॥ 67
फणैस्तु पंचभिस्सम्यक् छन्नमूर्धानमेव च
दक्षिणाऽदक्षिणं हस्तं वरदं कटीकं तथा 68
- * *
वक्ष्ये पुच्छनृसिंहस्तु पुच्छयुक्तं तु कारयेत्
अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितम्॥ 69
दक्षिणं पादमाकुंच्य सर्वाभरणभूषितम्
- * *
नारसिंहमिदं कृत्वास्थापनारंभमाचरेत्॥ 70
तत्रचाऽहवनीयाऽग्नौ हौत्रशंसनमाचरेत्
`नारसिंहं तपोनाथं महाविष्णुं महाबलम्॥ 71
भक्तवत्सल' मित्युक्त्वा नरसिंहं समाह्वयेत्
`तपोनिधिं' समुच्चार्य शतमष्टाऽधिकं यजेत्॥ 72
स्नपनं चोत्सवं चैव हरेरिव विधानतः 72 1/2
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे त्रयोदशोऽध्यायः॥