प्रकीर्णाऽधिकारः/त्रयस्त्रिंशोऽध्यायः
| ← द्वात्रिंशोऽध्यायः | प्रकीर्णाऽधिकारः त्रयस्त्रिंशोऽध्यायः [[लेखकः :|]] |
चतुस्त्रिंशोऽध्यायः → |
अथत्रयस्त्रिंशोऽध्यायः॥
अर्चावतारमहत्त्वम्॥
अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः
पंचधाऽवस्थितं रूपं परव्यूहादिभेदतः 1
अनुग्रहाय लोकानां भक्तानामनुकंपया
परव्यूहादिभेदेन देवदेवः प्रवर्तते॥ 2
आद्येन पररूपेण व्यूहाख्येनेतरेण तु
तथाविभवरूपेण नानाभावमुपेयुषा॥ 3
अंतर्यामिस्वरूपेण चतुर्थेन तथा पुनः
अर्चावताररूपेण पंचधाऽवस्थितो हरिः 4
अनौपम मनिर्देस्यं पुनस्स भजते परम्
विश्वाप्यायनकं कांत्या पूर्णेंद्वयुतुल्यया॥ 5
परंधाम परंज्योतिस्सर्वशक्तिमयोऽमलः
निर्द्वंद्वो निर्विकल्पोऽच्छोनित्योऽचिन्त्यस्सनातनः 6
अप्रमेयो निराद्यन्तो दृश्योऽदृश्यो ह्यतीन्द्रियः
सुसूक्ष्मत्वादनिर्देश्यस्सर्वज्ञस्सदसद्विभुः॥ 7
आनादिमत्परं ब्रह्म सर्वहेयविवर्जितम्
व्यापि यत्सर्वभूतेषु स्थितं सदसतोः परम्॥ 8
शंखचक्रगदापद्मदिव्यायुधपरिष्कृतः
सहस्राऽदित्यसंकाशे पकमे व्योम्नि संस्थितः॥ 9
नित्यमुक्तैकसंभाव्यश्चतुर्भुजधरोहरिः
अन्यूनानतरिग्तैस्स्वैर्गुणैष्षड्भिरलंकृतः 10
समस्समविभक्तांगस्सर्वावयवसुन्दरः
दिव्यैराभरणैर्युक्तस्सुधाकल्लोलसंकुलैः 11
श्रिया नित्यानपायिन्या सेव्यमानो जगत्पतिः
- * * 12
पंचधातु पुनर्व्यूहः प्रोच्यते श्रुतिसम्मतः
देवो विष्ण्वादिभेदेव पंचधा व्यवतिष्ठते॥ 13
``स वा एष पुरुषः पंचधा पंचात्मेति च श्रुतिः
तथा``पोपूयमानः पंचभिस्स्वगुणैरिति॥ 14
आदिमूर्तिस्तु पंचानां विष्णुर्भेदाश्च तस्यतु
चतस्रः पुरुषाद्यास्स्युर्मूर्तयो भिन्नलक्षणाः॥ 15
``तद्विष्णोश्श्रमापनुदाय चतुर्गुणायेति चश्रुतिः
तस्माद्ब्रह्म चतुष्पादित्युच्यते वेदवेदिभिः॥ 16
पादादर्धात्त्रिपादाच्च केवलाच्छक्तिभेदतः
क्रमेण धर्मज्ञानैश्वर्यवैराग्याख्यैर्गुणैर्युताः 17
भवन्तिमूर्तयस्तस्माच्चतस्रो विषयैर्निजैः
चातुरात्म्यादादिमूर्तेश्चतस्रस्तत्रमूर्तयः॥ 18
विष्णुश्चैव महाविष्णुस्सदाविष्णुरिति क्रमात्
व्यापी नारायण इति तन्नामानि ततःक्रमात्॥ 19
विष्णोरंशस्तु पुरुषो महाविष्णोस्तु सत्यकः
सदाविष्णोरच्युतस्स्याद्य्यापिनोंऽशोऽनिरुद्धकः॥ 20
धर्मादिभिर्ब्रह्मगुणैश्चतुर्धाभेद ईरितः
- * *
तृतीयं विभवाख्यन्तं विश्वमन्तरमध्यमम्? 21
नानाकारक्रियाकर्तृ रूपं वक्ष्ये महात्मनः
विभवा मत्स्यकूर्माद्या हयग्रीवादयो मताः॥ 22
- * *
अन्तर्यामिस्वरूपं तु तुरीयमिदमुच्यते
नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा॥ 23
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः
इत्युक्तश्श्रुत्यभिहितो हृदयांऽबुजमध्यमे॥ 24
ज्वलन्महाग्नौ विश्वार्चिर्ज्वालान्ते विश्वतो मुखे
आपादतलचूडाग्रं सन्तापयति सन्ततम्॥ 25
शिखा तत्र च पीताभा तन्वी नीवारशूकवत्
मध्ये शिखायास्तस्याश्च ज्योतिः प्रज्वलितं महत्॥ 26
स्वसंकल्पविशेषेण तप्तजांबूनदप्रभः
पीतांबरधरस्सौम्यस्सुप्रसन्नश्शुचिस्मितः 27
पद्माक्षो रक्तनेत्रास्यपाणिपादश्चतुर्भुजः
चक्रशंखाऽभयधरः कटिन्यस्तान्यहस्तकः 28
श्रीवत्सांको महाबाहुस्सर्वाभरणभूषितः
हृदि तिष्ठति सर्वात्मा श्रीभूमिभ्यां च पार्षदैः॥ 29
भ्रामयन् सर्वभूतानि यंत्रारूढानि मायया
अन्तर्यामीति विज्ञेयस्सर्वकारणकारणः॥ 30
- * *
अन्यदर्चास्वरूपं तु सर्वोत्तरफलप्रदम्
नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनोहरेः॥ 31
तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः
विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः॥ 32
अर्चात्मन्येव सर्वेषामधिकारो निरंकुशः
विशेषभक्तिहेतुत्वात्प्रतिमाराधनं परम्॥ 33
अर्चावतारस्सर्वेषां बांधवो भक्तवत्सलः
अर्चावतारविषये मयाप्युद्देशतस्तथा॥ 34
उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि
विचित्रा देहसंपत्तिरीश्वराय निवेदितुम्॥ 35
कल्पिता ब्रह्मणा पूर्वं हस्तपादादिसंयुता
मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति॥ 36
मुधा चित्तं नतद्गामि यदन्यत्किमितोऽधिकम्
सा जिह्वा या हरिं स्तौति तच्चित्तं केशवार्पितम्॥ 37
तत्कर्मचार्चनं तस्य तदन्यत्तु निरर्थकम्
सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम्॥ 38
दुर्विचिन्त्यं यतःपूर्वं तत्प्राप्त्यर्थमिहोच्यते
वातोर्मिचंचलं चित्तमनालंबनमस्थिरम्॥ 39
सूक्ष्मत्वाद्ब्रह्मणोऽजस्य निग्राह्यं ग्राह्मधर्मणः
सम्यगभ्यस्यतोऽजस्रमुपबृंहितशक्तिमत्॥ 40
जन्मान्तरशतस्याऽपि ब्रह्मग्राह्येव जायते
यद्यस्तरायदोषेण नापकर्षो विचिन्त्यते॥ 41
योगिनो योगरूढस्य तालाग्रात्पतनं यथा
तदाऽप्नोति परं ब्रह्मक्लेशेन महताऽपि च॥ 42
जन्मान्तराऽभ्यासोद्धेन विज्ञानेन समाधिना
विष्ण्वाख्यं ब्रह्मदुष्प्रापं विषयाक्रान्तचेतसा॥ 43
मनुष्येणाऽल्पसारेण तत्प्राप्तौ साधनं त्विदम्
सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम्॥ 44
कृत्वाऽत्मनः प्रीतिकरीं सुवर्णरजतादिभिः
तामर्चयेत्तां व्रणमेत्तां नमेत्तां विचिन्तयेत् 45
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम्
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां
प्रकीर्णाऽधिकारे त्रयस्त्रिंशोऽध्यायः॥