प्रकीर्णाऽधिकारः/तृतीयोऽध्यायः
| ← द्वितीयोऽध्यायः | प्रकीर्णाऽधिकारः तृतीयोऽध्यायः [[लेखकः :|]] |
चतुर्थोऽध्यायः → |
अथ तृतीयोऽध्यायः॥
विमानभेदाः॥
अथविन्यासरूपाणि प्रवक्षन्तेयथाक्रमम्
श्रीवत्संप्रथमंप्रोक्तं नन्द्यावर्तंद्वितीयकम्॥ 1
तृतीयंस्वस्तिकंविंद्याच्चतुर्थंभद्रकंस्मृतम्
दंडकंपंचमंत्वाहु र्वेदिकंषष्ठमुच्यते॥ 2
कुंभकंसप्तमंविंद्या दष्टमंपद्मकंतथा
नवमंस्याद्रथपदं दशमंतुप्रकीर्णकम्॥ 3
एतेषामाकृतिंवक्ष्ये यथावदनुपूर्वशः
न्यत्रदंडकात्सर्वं बहिर्वीधीसमन्वितम्॥ 4
तस्यचास्तगन्तैश्चिह्नै श्श्रीवत्साद्यंविधीयते
एकप्राचीनवीधीक मुदीचीनाऽन्यवीथिकम्॥ 5
श्रीवत्समितिविज्ञेयं सर्वविद्यासमंमतम्
मध्येकोणं चतुर्द्वारं प्रागीशादिप्रदक्षिणम्॥ 6
तन्निगन्तोजवीथीकं नन्द्यावर्तमितिस्मृतम्
स्वस्तिकंत्वोजवीथ्यन्तं भद्रंमध्यप्रतोळिकम्॥ 7
एकप्राचीनकंदंडं चतुरश्रंतुवेदिकम्
वृत्तंकुंभकमुद्दिष्टं पद्मकंस्याद्द्विवेदिकम्॥ 8
ब्रह्मकोशाऽष्टकद्वारवीथीरथपदाकृतिः
प्रागुदक्प्रवणंचैव प्रकीर्णकमुदाहृतम्॥ 9
द्विद्वारंवाचतुद्वान्रं मनस्तोयुक्तितोभवेत्
अयुक्तद्वारदेवस्य भजनंनाभिधीयते॥ 10
दंडकस्तेनमानेन योनिग्रहणमुच्यते
शरीरमंगंप्रत्यंगं ज्ञात्वायोनिंप्रकल्पयेत्॥ 11
ग्रामंशरीरमंगंस्स्या द्देवद्विजपरिग्रहम्
प्रत्यंगमंगंसंवृत्तं विमानभवनादिकम्॥ 12
दंडेनपूर्वयोर्वादं हस्तेनाऽन्यत्रधीयते
दंडेविस्तारमायाम मेकैकंगुणयेत्त्रिभिः॥ 13
एकैकंषष्टिभिहिन्त्वा शिष्टंयोनिंसमादिशेत्
हस्तेनद्वयसंसर्गे त्रिगुणंवसुभिहन्रेत्॥ 14
शेषंयोनिंविजानियाद्ध्वजधूमादिकंक्रमात्
सर्वत्रकल्पयेद्योनिं तयोर्वर्गफलेनवा॥ 15
योनेर्महादिशाश्रेष्ठा दिविसप्तत्रिगहिन्ता
प्रवीणंचतुरश्रंस्या च्चेषाणामायतंविदुः॥ 16
अष्टषट्चतुरंशास्स्यु रितरेषांयथाक्रमम्
एवमायामयोगस्तु प्रत्यंगस्यैवकल्पयेत्॥ 17
अंगेद्विगुणमायामं पादन्यूनमधाधिकम्
अर्धंनवाहयेन्न्यून मधिकंतुविधीयते॥ 18
आत्मावास्तुशरीरस्य विस्तारादधिकंविदुः
पादायामशिखावापि द्विगुणंवाविशेषतः॥ 19
समंवासर्वतःकुर्या च्चरीरंदंडकादृते
वर्धयेदधिकायामं दंडषोडशकेनवा॥ 20
दंडे अष्टगुणंकुर्या दायामंयुक्तितोऽथवा
अंगमागमविस्तारो दंडभेदोऽपियोज्यते॥ 21
अन्यत्रदंडनेछिंद्याच्चरेषुतुविशेषतः
पातंविस्तारसूत्रेषु विदुस्सूत्रद्वयेऽपिवा॥ 22
कंठसूत्रद्वयेवापि प्रत्यंगेनैव कारयेत्
विधिभेदंतुकर्तव्यं ब्रह्मभागेविशेषतः॥ 23
एवंक्रमेण शास्त्रज्ञॆश्शरीरं संप्रकल्पयेत्॥ 24
विष्णुस्थापनम्
सहस्रभूसुरादूर्ध्वे ब्रह्मांशेवायुदेशके
पंचमूर्तिविधानेन स्थापयित्वाजनार्धनम्॥ 25
वैखानसै महाभागै र्वैदिकार्चनतत्परैः
वेदान्तवेदिभिर्विप्रैंर्चये त्पुरुषोत्तमम्॥ 26
शंकरादि स्थापनम्
ईशानईश्वरंचैव सोमेशानाऽवथापिवा
पश्चिमेकेशवस्थान मैशान्यांशंकरालयम्॥ 27
अनुकल्पंविकल्पंच कल्पंचैवत्रिधाभवेत्॥
भूपरीक्षादियत्कर्म अनुकल्पमितिस्मृतम्॥ 28
देवादीनांमुनीनांच कल्पयेत्तुविकल्पकम्
गभेन्मृदालयेयत्र प्रतिष्ठायांतुकल्पकम्॥ 29
एवंदेशंविनिश्चित्य मूलस्थानंचनिर्दिशेत्
निर्मितेऽत्रविमानस्यचो त्सेधार्थंसमन्तुवा॥ 30
जलास्तंवाशिलान्तं वाखानयेदुचितंसुधीः
विस्तारायामसीमान्ताद्बाह्येखात्वादृढायच॥ 31
एकहस्तंद्विहस्तंवा त्रिहस्तंवाऽधिकंक्रमात्
वालुकैर्विश्वतःपूर्य दृढीकरणमादिशेत्॥ 32
बालालयंतुशक्तानामशक्तानांविनाभवेत्
ध्रुवार्चायाःप्रतिष्ठाचे द्बालागारंनकल्पयेत्॥ 33
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे तृतीयोऽध्यायः