प्रकीर्णाऽधिकारः/चतुस्त्रिंशोऽध्यायः
| ← त्रयस्त्रिंशोऽध्यायः | प्रकीर्णाऽधिकारः चतुस्त्रिंशोऽध्यायः [[लेखकः :|]] |
पञ्चत्रिंशोऽध्यायः → |
अथ चतुस्त्रिंशोऽध्यायः
स्वयंव्यक्तादि स्थानपंचकम्॥
अत ऊर्ध्वं प्रवक्ष्यामि स्थलपंचकल्पनम्
देवदेवो महाबाहुर्हरिर्नारायणस्स्वयम्॥ 1
येन येन प्रकारेण आविरास्तेधरातले
अर्चावताररूपेण भक्तसौलभ्यहेतवे॥ 2
स्वयंव्यक्तं च दिव्यं च सैद्धं पौराणमेव च
पौरुषं चेति कथितं स्थलानां पंचकं बुधैः 3
स्वयंव्यक्तं तु तत्प्रोक्तं यत्राऽसौ हरिव्ययः
स्वेच्छया लोकरक्षाये भूम्यामाविर्भवेत्स्वयम्॥ 4
न तत्र देवदेवस्य प्रतिष्ठा विधिसम्मता
न चाऽपि कर्षणं नाऽपि बिंबशुद्ध्यादिकाः क्रियाः॥ 5
बिंबेन सह देवेशस्सन्निधत्ते यतस्स्वयम्
यानदिच्छा वसेद्भूमौ तावत्कालं समर्चितः॥ 6
स्वयंव्यक्तस्थले पूजा सर्वलोकशुभप्रदा
स्वयंव्यक्तस्थलान्यत्र चत्वार्यासत भूतले॥ 7
यत्र वैखानसं शास्त्रमाश्रित्य परमं शुभम्
अर्चयामो जगद्योनिमहमन्ये च ते त्रयः 8
मरीचिर्मंधरे विष्णुमर्चयामास केशवम्
सर्वदेवोत्तमं देवं श्रीनिवासेऽत्रिरर्चयत्॥ 9
काश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रेऽप्यहं भृगुः
यादृशीवर्तते पूजा या बिंबानां च संस्थितिः 10
न किं चित्तामतिक्रम्य पूर्वोक्तां तु समाचरेत्
स्वयमाविरभूद्देवो यत्र भक्तानुकंपया॥ 11
कर्तव्यमखिलं तत्र तन्निदेशेन कल्प्यते
न वाप्युच्छास्त्रकरणं प्रवर्तयति माधवम्॥ 12
तस्मात्सर्वप्रयत्नेन पूर्वैराचरितं चरेत्
अन्यथा चेत्तु कुर्वाणो देवायैवापराध्यति॥ 13
यन्मायामोहितं सर्वं यस्यान्तं केऽपि नो विदुः
तस्य देवस्य माहात्म्यं वक्तुं शक्नोति को भुवि 14
यद्यदा चरितं तत्र तत्सर्वं शास्त्रमेव हि
तत्राऽपि च विशेषोऽस्ति प्रायश्चित्तादिदर्शने॥ 15
सर्वं प्रामादिकं कुर्यात्तत्र शास्त्रं प्रवर्तकम्
श्रुतिस्मृती उभेतस्य परमाज्ञां वदन्ति ही॥ 16
स्वयंव्यक्तस्थले पूजा सर्वलोकशूभावहा
स्वयं व्यक्तो जगन्नाथस्तादात्म्येन शिलादिषु॥ 17
स्वयं भक्तजनाभीष्टान् विचार्यैव प्रयच्छति
न ह्यत्र साधनापेक्षा स्वयंन्यक्तस्ततो वरः॥ 18
- * *
देवैः प्रतिष्ठितो यत्र हरिराविर्बभूव हि
तद्दिद्यस्थलमुद्दिष्टं देवो दिव्य उदीर्यते॥ 19
स्मृता देवास्त्रयस्त्रिंशत्तावत्कोटीमिता अपि
सर्वे ते फलकामास्स्युर्वे प्रपद्यन्ते यथा हरिम्॥ 20
तांस्तथा भजते देवो यतोऽसौ करुणानिधिः
फलार्थिनो यदा देवाः प्रतिष्ठ्याप्य हरिं क्रमात्॥ 21
समभ्यर्च्य च संप्राप्य वांभितं तदनन्तरम्
लोकानुग्रहहेतो र्वै तादृशं देवमन्दिरम्॥ 22
चिरस्थायि च संकल्प्य यथार्हं समपूजयन्
दिव्यस्थलस्थदेवो हि देवानां सन्निधापनात्॥ 23
अत्यन्तं पुष्टिवः प्रोक्तस्सर्वशान्तिकरस्सृतः
दिव्यस्थलस्थपूजा तु शतयोजनविस्तृतम्॥ 24
पुनाति परितो देशं नाऽत्र संदेह इष्यते
- * *
दिव्यस्थलानि कथितान्यसंख्येयानि भूतले॥ 25
न हि देवास्स्वयं भूमाववतीर्य कलौ क्वचित्
प्रतिष्ठां देवदेवस्य कुर्वन्ति कुहिचिद्ध्रुवम्॥ 26
दिव्यस्थलानि भूभागे कळौ तु विरलानि वै
भविष्यन्ति बहून्यत्र लुप्तबूजानि सत्तमाः 27
दिव्यस्थलकृता पूजा शास्त्रसिद्धा न संशयः
नोच्छास्त्रं तु प्रतिष्ठादि कुर्वन्तिदिवि देवताः 28
देवाश्च देवलोकेऽपि कृत्वा वैष्णवमन्दिरम्
आराध्य च जगन्नाथं प्राप्नुवन्ति फलं बहु॥ 29
या तु भूमितले पूजा तादृशी दिविजा न वै
कर्मभूमिस्तु संप्रोक्ता भूमिर्द्यौर्न हि तत्समा॥ 30
संचिंत्य पुण्यं पापं वा भूमौ लोकान्तरेनराः
गमिष्यन्तिततो ज्यायान् भूभागस्सर्वकर्मसु॥ 31
ततो देवाः प्रतिष्ठाप्य चार्चयित्वा रमापतिम्॥
अर्चावताररूपेण स्वयं तीर्णाः पुनः पुनः 32
भूमिस्थानखिलान् जंतून् तार्ययिष्यन्त्यनुग्रहात्
अतो विप्रास्सदा यज्ञैर्दानैश्च तपसा मुहुः॥ 33
तोषयिष्यन्ति देवान्वै तेषामानृण्यहेतवे
देवा निसर्गरिपवो मनुष्येषु भवन्त्यपि॥ 34
आराधनेन देवस्य चोपकुर्वन्ति मानवान्
इदमेव हरेः पूजाबलं संपादितं फलम्॥ 35
सर्वेऽपि सात्त्विका यान्ति तुष्यन्ति स्वार्जितैः फलैः
न द्विष्यन्ति रिपून्वापि तत्रो दाहरणं सुराः॥ 36
यथा च्यवनधर्मा स्यात्स्वर्गस्स्वर्गाश्रितोऽथ वा
तथादिन्यस्थलानिह न स्युश्शाश्वतिकानि तु॥ 37
दिव्यस्थलेषु सर्वत्र दिव्येनैवागमेन तु
वैखानसेन पूजाऽसीत्साहि श्रौती च सम्मता॥ 38
प्रायश्चित्तोचितान्यत्र निमित्तानि यदातदा
शास्त्रोक्तं कारयेदेव नान्यथा कारयेद्विधिः॥ 39
- * *
ये तु पूर्वार्जितैरेव तपोभिः परमात्मनि
रक्तात्मानस्तपस्सिद्धास्संकल्प्य स्वतपःफलम् 40
देवदेवं जगन्नाथं नारायणमनायम्
प्रतिष्ठाप्य क्वचिद्बिंबे समभ्यर्च्य विशेषतः॥ 41
उज्जीवनाय लाकानां प्रदास्यन्तीह पूजनम्
स देशस्सैद्ध इत्युक्तस्सैद्धा तत्रार्चनोच्यते॥ 42
न हि सिद्धास्तपस्सिद्धिं कुर्वन्ति विभलां क्वचित्
यस्याऽनुग्रहमिच्छन्तस्तपस्यन्तीह साधवः॥ 43
यं प्रसादयितुं विप्रा यज्ञदानादि कुर्वते
तस्यैवाराधनं हित्वा किं सिद्धास्संप्रकुर्वते॥ 44
ते सिद्धास्ते महात्मानस्ते सन्त न्ते तपस्विनः
ये स्वकर्मफलं देवं विदित्वा श्रीपतिं हरिम्॥ 45
प्रतिष्ठाप्य तु तद्रूपमर्चयन्ति निरन्तरम्
न ह्यन्यः प्रापणे हेतुरर्चनान्मुक्तिहेतवे॥ 46
सैद्धस्थले तु या पूजा सर्वशान्तिकरी स्मृता
पंचाशद्योजनं तस्य परितः पावयेन्महीम्॥ 47
सिद्धप्रतिष्ठिता देशा बहवो विदिताः पुरा
उत्पद्यन्ते भविष्यन्ति सन्तिसिद्धा धरातले॥ 48
सैद्धस्थलानि भूयांसि भविष्यन्ति च सन्ति च
सिद्धा वैखानसं शास्त्रमाश्रित्यैव स्वनिर्मितम्॥ 49
देवं संपूजयन्तीह तत्प्रायः प्रचलत्यपि
न हि सिद्धाः प्रकुर्वन्तिकिंचिदुच्छास्त्रमापदि॥ 50
तस्मात्सर्वप्रयत्नेन सर्वं सिद्धाश्रितस्थले
कुर्याद्वैखानसं शास्त्रमाश्रित्य सकलाः क्रियाः॥ 51
सिद्धा जानन्ति शास्त्रार्थान् सिद्धा जानन्ति चागमान्
सिद्धास्समर्चयन्त्येव वैखानसविधानतः 52
यदि सिद्धाश्रितो देशःपूज्यतेऽन्यैः प्रमादतः
राजा तं तु विचार्यैव पुनर्वैखानसैःक्रमात्॥ 53
सत्वरं याजयेत्कृत्वा प्रायश्चित्तं यथाविधि
सैद्धमेके स्थलं प्राहुरार्षमेतच्च सम्मतम्॥ 54
- * *
अथ पौराणिको देशः कथ्यते यत्र यत्र वै
गाधा पौराणिकी भूयात्तत्पुराणस्थलं मतम्॥ 55
अज्ञातकर्तृकाण्यत्र स्मर्यन्ते प्रायशो बहु
स्थलानीमानितत्तानि?पुराणानि प्रचक्षते॥ 56
पुराणानि त्वनन्तानि स्थलानि पृथिवीतले
भवन्त्यथ कलौ प्राप्ते लुप्यन्ते तान्यनेकशः 57
दशयोजनपर्यन्तां भूमिं तु परितस्सकृत्
पुनाति देशः पौराणस्तत्र किं चिन्न हीयते॥ 58
स्वयंव्यक्तादयस्सर्वे पौराणाः कीर्तिता अपि
स्वयंव्यक्तादिभेदेन व्यवहारस्य दर्शनात्॥ 59
पुराणत्वं च तेषां स्यादन्यत् पौराणमुच्यते
पुराणस्थलदेवस्य प्रतिष्ठा विधिसम्मता॥ 60
प्रतिष्ठिते त्वविधिना स्थरे नैव रमेद्धरिः
न हि वृद्धास्समर्चन्ति बिंबमुच्छास्त्रनिर्मितम्॥ 61
न हि पौराणिके देशे यजमानस्य गौरवम्
अर्थस्य गौरवं चापि दर्शनीयं महात्मभिः? 62
यदि पश्येद्विसूढात्मा रौरवं नरकंव्रजेत्
एष एव विशेषस्स्यादन्यत्सैद्धवदाचरेत्॥ 63
पुराणस्थलपूजा तु शास्त्रदृष्टेन वर्त्मना
प्रमादेतु समीकार्यान तेन स्याद्व्यतिक्रमः 64
- * *
मानुषं पंचमं प्रोक्तं स्थलं यत्र विशेषतः
ग्रामे वा नगरे वापि शास्त्रोक्ते सुमनोरमे॥ 65
प्रतिष्टाप्यार्चके विष्णुस्सर्वदेवेश्वरेश्वरः
ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैर्वान्यैर्नरोत्तमैः॥ 66
वैखानसेन शास्त्रेण पंचरात्रेण वा पुनः
मानुषस्थलपूजा तु योजनं परितस्थ्सलम्॥ 67
पापयेत्तस्य तु प्रोक्ताशक्तिरन्यातु तावती
मनुष्याः पुण्यकर्माणस्तत्र तत्र दिने दिने॥ 68
प्रेरिता भगवद्भक्त्याधनिनो निर्धना अपि
निर्माय भगवद्गेहं प्रतिष्ठाप्य श्रियःपतिम्॥ 69
अर्चयन्ति विशेषेण वैखानसविधानतः
विशालः पृथिवीभागः कालोऽनादिरन्तकः 70
शास्त्रं चाप्यतिगंभीरं भक्ताश्च बहवो हरौ
तस्मात्सर्वप्रयत्नेन सर्वस्याऽप्यनुशासनम्॥ 71
प्रोक्तं विखनसा पूर्वं भगवच्छास्त्रमुत्तमम्
अनॆनैव प्रकारेण सर्वत्राराधयेद्धरिम्॥ 72
भक्ताश्च बहुधा शास्त्रं प्रशंसन्तीदमेव ही
तदुक्तेनैव विधिना कल्पयेदालयादिकम्॥ 73
यथा मानाधिकरणे मया प्रोक्तस्स विस्तरः
यत्र वा दृश्यते भेदो भगवच्छास्त्रशिल्पयोः 74
शिल्पशास्त्रं परित्यज्य भगवच्छास्त्रतश्चरेत्
प्रधानमेतच्छास्त्रं स्याद्भगवद्गेहकल्पने॥ 75
न तच्छास्त्रमनादृत्य कार्यं किं चित्समाचरेत्
लोभान्मोहादथाऽज्ञानाच्छास्त्रेऽस्मिन्न धृतं चरेत्॥ 76
अतिक्रम्याऽपि शास्त्रं तत्पूजा निष्भला भवेत्
यजमानो विपद्येत तस्मादत्रोक्तमाचरेत् 77
तेनैव तु विधानेन प्रतिष्ठादिकमाचरेत्
ऐहिकामुष्मिकं यस्मात्फलद्वयमवाप्यते॥ 78
ग्रामे विष्ण्वर्चनाहीने विष्ण्वर्चाहीनवेश्मनि
तीर्थपानं सुरापानमन्नं गोमांसभक्षणम्॥ 79
देवधामविहीनं तु श्मशानं ग्राम उच्यते
गृहं च चितितुल्यं स्याद्यत्र नाराध्यते हरिः 80
यो मोहादथ वाऽलस्यादकृत्वा देवतार्चनम्
भुंक्ते स याति नरकान् सूकरेष्वसि जायते॥ 81
केशवार्चागृहे यस्य न तिष्ठति शूभप्रदा
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत्॥ 82
बिंबशुद्ध्यादिकं कृत्वा शास्त्रोक्तविधिना पुनः
कलान्यासादिकं सर्वं विधाय परमेश्वरः 83
प्रतिष्ठाप्यार्च्यते यत्र परितो योजनावधि
पूयतेऽनुग्रहाद्विष्णोः स देशोऽप्राकृतस्स्मृतः॥ 84
तत्र पार्षदसंयुक्तश्श्रिया लक्ष्म्या समन्वितः
यथा च परमे व्योम्नि सन्निधत्ते तथा हरिः॥ 85
तत्र देवास्त्रयस्त्रिंशत्पितरः पन्नगाश्च ये
साध्या विद्याधरा यक्षास्सर्वा वै देवयोनयः 86
सर्वसंवत्समृद्धिस्स्यात्पर्जन्यो वर्षुको भवेत्
वायुर्वाति सुखं तत्र सूर्यस्तपति तेजसा॥ 87
चंद्रमाश्शीतलैर्देशं सेवते किरणैस्तथा
भूमिस्सस्यवती च स्यात्प्रसन्नं च नभो भवेत्॥ 88
नक्षत्रग्रहताराश्च प्रसादाभिमुखास्समे
राजन्वती प्रजा च स्यात्पशुपुत्रसमन्विता॥ 89
न व्याधिजं भयं किं चिन्नापि ज्वरकृतं तथा
न व्याळजं भयं वापि भवेदत्रन संशयः 90
नोपप्लवो नृपाणां वा मृगाणां वाऽप्यपां भवेत्
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रास्तत्र निवासिनः 91
स्वे स्वे कर्मण्यभिरता भवेयुस्सुखजीविनः
आग्निहोत्राश्च हूयन्ते तप्यन्तेऽत्र तपांसि च॥ 92
दीयन्ते भूरिदानानि यत्र देवो हरिस्प्वयम्
अप्राकृतमिमं देशं सन्निधानाच्छ्रियः पतेः 93
प्राकृतं यो वदेन्मूढस्स याति नरकं ध्रुवम्
अप्राकृतमिमं देवं नरो यश्चापनिह्नुते॥ 94
चंडालस्स तु विज्ञेयो निष्कृतिर्नास्य दृश्यते
महापातकीनां तद्वद्दृष्टं पातकिनामपि॥ 95
उपपातकिनां चापि प्रायश्चित्तं विशेषतः
शास्त्रापलापिनां नैव प्रायश्चित्तं प्रदृश्यते 96
यस्तु सामान्यभावेन मन्यतॆ स्थलमीदृशम्
ब्रह्महत्यामवाप्नोति भ्रूणहत्यां तथैव च॥ 97
स्वर्णस्तेये च यत्पापं सुरापाने च यद्भवेत्
गुरुतल्पस्य गमने यच्चपापमुदीरितम्॥ 98
वृषलीगमने यच्च पापं सर्वं तदश्नुते
नास्ति शास्त्रात्परं ज्ञानं नस्यात्तस्मात्प्रवर्तकम्॥ 99
तस्मात्तस्यावमानेन सद्यः पतति दूषकः
तस्मिन् देशे विशेषेण सर्वेभागवता हरौ 100
देवपादोदकादीनि पीत्वा यास्यन्तिसद्गतिम्
न हि सर्वोऽपि सर्वत्र स्वयंव्यक्तस्थलादिकम् 101
गत्वैवाराधयेद्विष्णुं सदा तच्चाप्यसंभवि
अत एव कृपासिंधुर्भगवान् भूतभावनः॥ 102
अर्चावताररूपेण ग्रामे ग्रामे गृहे गृहे
अवतीर्य महाबाहुर्भक्तसौलभ्यहेतवे॥ 103
अर्च्यते शास्त्रविधिना तत्र कार्योन संशयः
तस्मादप्राकृतं देशं न ब्रूयात्प्राकृतं नरः॥ 104
न च सामान्यभावेन तं पश्येद्यदि पश्यति
नश्यत्येव न संदेह इति शास्त्रविनिश्चयः 105
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां
प्रकीर्णाऽधिकारे चतुस्त्रिंशोऽध्यायः॥