सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/चतुर्विंशोऽध्यायः

विकिस्रोतः तः
← त्रयोविंशोऽध्यायः प्रकीर्णाऽधिकारः
चतुर्विंशोऽध्यायः
[[लेखकः :|]]
पञ्चविंशोऽध्यायः →

अथ चतुर्विंशोऽध्यायः॥
उत्सवः
अतःपरं प्रवक्ष्यामि देवेशस्योत्सवक्रमम्॥
वर्षदं सर्वलोकस्य शान्तिदं सर्वपुष्टिदम्॥ 1
राज्ञां विजयदानाय शत्रूणां नाशहेतवे
व्याधिदुर्भिक्षशा न्त्यर्थमुत्सवं कारयेद्बुधः॥ 2
कालश्रद्धानिमित्तार्था(ख्या)उत्सवास्त्रिविधास्स्मृताः
मासेतु यस्मिन्‌ कस्मिंश्छित्प्रतिसंवत्सरं चरेत्॥ 3
एकस्मिन्‌ समयेचैव स तु कालोत्सवो भवेत्
इष्टमासे दिने चेष्टे श्रद्धया क्रियते तु यः॥ 4
स तु श्रद्धोत्सवोज्ञेय स्तस्मात्कालोत्सवो गुरुः
भयप्रदनिमित्तेषु तथाऽनावृष्टिकादिषु॥ 5
क्रियते तत्र शान्त्यर्थं स निमित्तोत्सवस्स्मृतः
प्रतिष्ठादिवसे तीर्थं प्रति संवत्करं चरेत्, 6
कालोत्सव इतिज्ञेयश्शान्त्यर्थं सप्रकीर्तितः
राजराष्ट्राभिवृद्ध्यर्थं राज्ञां चैवाऽभिवृद्धये 7
अत्मनश्चैव पुत्राणां कुर्यादुक्तेषु मंगलम्
राज्ञो जन्मदिने चैव यस्स श्रद्धोत्सवो भवेत्॥ 8
अद्भुताद्युद्भवेशान्तिस्सतु नैमित्तिकोत्सवः
ग्रामादौ चोत्सवस्स्याच्चेत्क्रमेणैवं तु कारयेत्॥ 9
सर्वदुःखार्तिशान्त्यर्थमादौ काळ्युत्सवं चरेत्
अन्वेषां क्रूरदेवानां शिष्टभूतगणस्य च॥ 10
शान्त्यर्थं कारयेत्पश्छास्त्रोक्तं शंकरोत्सवम्
विशस्त्रिगणसान्त्यर्थं सौम्यमार्गेण वास्तुषु॥ 11
चक्रसेनेश संयुक्तं कुर्याद्दुर्गोत्सवं पुनः
सर्वेषामपि देवानां मुनीनामपि सर्वशः 12
पितॄणां च ग्रहाणां च तत्पत्नीनां च सर्वशः
द्विजानामपि शान्त्यर्थं लोकानामपि सर्वशः 13
पुष्ट्यर्थं कारयेत्पश्चाद्देवेशस्योत्सवं क्रमात्
अन्यधा चेद्विनाशस्स्यात्सर्वेषां च न संशयः॥ 14
तस्मात्परिहरेद्विद्वान्‌ ग्रामादौतं विशेषतः

  • * *

विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च 15
ग्रहणेमासनक्षत्रे विष्णुपंचदिनेषु च
उत्सवस्यान्तदिवसे तेषु तीर्थं प्रकल्पयेत्॥ 16
एतेष्वेकं परिग्राह्यं यजमानस्य चेच्छया
विषुवे चायने चैव ग्रहणे सोमसूर्ययोः 17
तत्तत्काले प्रकुर्वीत तीर्थस्नारंतु नान्यधा
अन्यर्क्षेष्वथ पूर्वाह्णेमध्याह्ने वा गुणान्विते॥ 18
एकस्मिन्नेव मासेतु यदि तीर्थदिनद्वयम्
तयोरन्त्यदिने तीर्थमिति पूर्वजदर्शनम्॥ 19
तदेव यदि सूर्यस्य विद्धं चेत्संक्रमादिभिः
वर्जनीयं तथा पूर्वं प्रशस्तमभिधीयते॥ 20
वारद्वयानुषक्ते चे त्तिथौ स्यात्तुपरे तथा
अधिमासः परित्याज्यः कालोत्सवविधौहरेः॥ 21
अर्कवारर्क्ष संयोगस्सर्वदा संप्रशस्यते
श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः 22
योगाश्च सुप्रशस्तास्स्युस्सिद्धामृतवराह्वयाः
तिथिद्वयानुषक्तं चेऽन्नक्षत्रं स्यात्परेऽहनि॥ 23
परस्मिन्‌ दिवसे स्याच्चेद्यावच्च दशनाडिकाः
हीनं चे त्पूर्वदिवसे संकल्प्याऽवभृथं चरेत्॥ 24
उत्तमं तु त्रिसप्ताहं मध्यमं स्याच्चतुर्दश
नवाहं वाऽथसप्ताङह मधमं परिचक्षते॥ 25
त्रिगुणान्युत्सवाहानि कृत्वादौ घोषणं चरेत्
मध्यमे द्विगुणादौ स्यादुत्सवादि दिनेऽधमे॥ 26
अथवाऽवभृथात्पूर्वमेकविंशतिके दिने
ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेत्॥ 27
राहुदर्शनसंक्रान्त्यो स्स्नानं श्रेष्ठं निशास्वपि
क्रियां समाप्य मध्याह्ने रात्रौचेत्सकलं बुधः 28
तावत्कालं विनोदेव नीत्वा तत्तीर्थमाचरेत्
पक्षंत्रयोदशाऽहं वा दिनान्येकादश क्रमात्॥ 29
नवाऽहं वाऽथ सप्ताऽहं पंचाऽहमथ वा पुनः
त्रिदिनं द्विदिनं चैव कुर्यादेकाऽहमेव वा॥ 30
न ध्वजारोहणं कुर्यात्त्य्रहादौतु विशेषतः
उत्सवस्य दिनादौतु घोषये द्विधिपूर्वकम् 31
घोषणादिवसात्पूर्यं कालयेदंकुराऽर्पणम्

  • * *

ध्वजदंडं ततोवक्ष्ये विप्रादीनां यथाक्रमम्॥ 32
वेणुं च जातिवृक्षं च चंपकं क्रमुकं तथा
ध्वजदंडार्थमाहृत्य सर्वेषां क्रमुकं तु वा॥ 33
अन्यैर्वाशुभवृक्षैर्वाकारयेदिति के च न
चतुर्विंशांगुलं नाहं ध्वजदंडमथोत्तमम् 34
तस्मात्तु द्व्यंगुलं हीनं ध्वजदंडन्तु मध्यमम्
विंशत्यंगुलनाहे तदधमं दंडमुच्यते॥ 35
यथालाभपरीणाहमवक्रं परिगृह्य च
ध्वजदंडमृजुं कुर्वाद्विमानसमयायतम्॥ 36
विमानस्याधिकं कुर्या त्पादहीन मथाऽर्धकम्
अध्यर्थं वाऽधिपादं वा मूलादग्रं क्रमात्कृशम्॥ 37
वेणुकं यदि संग्राह्यं भूतवेदांऽगुलायतम्
षडंगुलपरीणाहं वेणुदंडं सुसंस्थितम्॥ 38
तन्मध्ये द्वियमं हित्वा तन्मध्ये वलयं दृढम्
तालद्वयमथाऽयामं यममात्रन्तु विस्तृतम् 39
उत्सेधं भागमुद्दिष्टं दारुभिर्याज्ञिकैस्तुवा
तच्चतुर्थांऽशकं कृत्वा मूलेऽग्रेद्व्यंशकंत्यजेत्॥ 40
मध्ये द्व्यंशं तु कर्तव्यं सुषिरद्वयसंयुतम्
शकलानि त्रीणियोज्य मूलमध्याग्रतःक्रमात्॥ 41
प्रक्षाळ्यमूलमन्त्रेण तन्मंत्रैःप्रोक्षणं चरेत्
दशदर्भयुतं कूर्चमग्रेचैव तु योजयेत्॥ 42
दर्भमालांतरावेष्ट्य दंडोचाऽश्वद्थपत्रयुक्
मध्यांगुलिपरीणाहं दंडद्विगुणमायतम्॥ 43
दंडाग्रे तत्र संयोज्य रज्जुं तत्रैव बन्धयेत्
संव्यपोह्य चतुस्तालं पृष्ठे यूधाधिपस्यतु॥ 44
खानयित्वा ध्वजस्थानं त्रितालं गाढयेव च
मेदिनीं तु समभ्यर्च्य रत्नं बीजानि च क्षिपेत्॥ 45
स्थापयित्वा ध्वजं तत्र ध्वजमंत्रेण मन्त्रवित्
देवदेवं समीक्ष्यैव यष्टिं तत्प्र मुखे न्यसेत्॥ 46
ध्वजदंडमृजुं कुर्याद्दृढं तत्रैव कारयेत्
मूलं त्रितालमुत्सेधं तदध्यर्धन्तु विस्तृतम्॥ 47
तदूर्ध्वे रत्निमात्रन्तु साष्टपत्रं सकर्णिकम्

  • * *

शुद्धकार्पासवस्त्रन्तु समाहृत्य नवं दृढम्॥ 48
उत्तमं षोडशं हस्तं मध्यमं तिथिहस्तकम्
अधमं चतुर्दशं हस्तं त्रिविधं वस्त्रमुच्यते॥ 49
पंचतालं चतुस्तालं त्रितालं विस्तृतं क्रमात्
अग्रं पादं विदित्वा तु मुखं पृष्ठं तथैव च॥ 50
चतुर्भागं पटं कुर्यादेकभागं शिरो भवेत्
वीशस्थानं द्विभागं तु पुच्छमेकांशमुच्यते॥ 51
मध्यमस्याग्रमूलं च यष्टिं सम्यक् प्रयोजयेत्
तन्मध्ये तु लिखेद्वीशं पंचवर्णैरलंकृतम् 52
ध्रुवबेरस्य कंठास्त मुत्तमे चोत्तमं भवेत्
अधमेऽन्त्यन्तु नाभ्यन्तं तयोर्मध्येष्टधा भवेत् 53
एकै मगथमान्तं च नवधा मानमुच्यते
ध्वजदंडस्य वीशस्य षट् शुभानि निरीक्षयेत्॥ 54
यजमानानुकूले च नक्षत्रे च विशेषतः
नवार्धतालमानं वा नवतालमथाऽपि वा॥ 55
अतिभंगं नतं चैव भंगत्रयसमन्वितम्
वामपादे समाकुंच्य दक्षिणं संप्रसार्य च॥ 56
किंचित्संकुचितं पीठात्पर्ष्णीपार्श्वं समुद्धृतम्
पक्षद्वयसमायुक्तं करंडमुकुटान्वितम्॥ 57
श्यामं श्वेतं तथा कृष्णं रक्तं पीतं तथैव तु
एतैस्तु पंचभिर्वर्णैरनुरूपैस्तु शोभनैः॥ 58
गरुडं प्रांजलिं कुर्यात्किंचित्कं प्रेक्षयेद्बुधः
भूषणै रष्टनागैश्च वामहस्ते त्वनन्तकः 59
वासुकिर्यज्ञ सूत्रन्तु कटीसूत्रन्तु तक्षकम्
हारं कर्कोटकं चैव पद्मं दक्षिणकर्णके 60
महापद्मं वामकर्णे शंख च शिरसि क्रमात्
गुळिकं दक्षिणे हस्ते क्रमात्सर्वविभूषणम्॥ 61
मूर्ध्नश्चोपरि कर्तव्यं श्वेतछत्रं तु सुन्दरम्
पार्श्वयोरुभयोश्चापि चामरद्वय संयुतम् 62
पादपार्श्वद्वयेचैव दीपद्वय समन्वितम्
पूर्णकुंभं तयोर्मध्ये लिखित्वा तु विशेषतः, 63
तस्याधस्शंखचक्रे च समालिख्य विशेषतः
मुक्तादामाद्यलंकृत्य पार्श्वयोः कदळीकृतम्॥ 64

  • * *

पूर्वस्मिन्नेव दिवसे कृत्वा नयनमोक्षणम्
देवाऽलयस्याऽभिमुखे प्रपायां मंडपे-थ वा 65
पंचवर्णैरलंकृत्य वितानस्तंभवेष्टनैः
शालिराशिं च कृत्वैव तत्पटन्तु सुसन्न्यसेत् 66
वास्तुहोमं ततःकृत्वा पर्यग्नीकरणं चरेत्
पुण्याहं वाचयित्वैव प्रोक्षयेत्पंचगव्यकैः 67
ऐशान्यामग्निकुंडे तु चौवासन विधानतः॥
आघारं विधिवद्धुत्वा वैष्णवं च सुहूयते॥ 68
हैमपात्रस्थवर्णेन हैमतूल्या विशेषतः
तन्मंत्रं च समुच्चार्य नयनोन्मिलनं चरेत्॥ 69
अंगहोमं ततःकृत्वा दर्शनीयैश्च दर्शयेत्
विष्णुसूक्तं च हुत्वातु तथा पुरुषसूक्तकैः 70
व्याहृत्यंन्तं च हुत्वातु ततः कुंभं प्रगृह्यच
तंतुना परिवेष्टै व कूर्चयुक्तं सहाक्षतम्॥ 71
वदन्वै विष्णुगायत्रीं गायत्रीं गरुडस्य च
`इषे त्वोर्ज्ये'त्वादि जपन्‌ `आप उन्दन्त्वि'ति क्रमात् 72
ततः पुरुषसूक्तं च मंत्रानपि च वैष्मवान्‌
कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः॥ 73
तदंबुना कुशाग्रेण प्रोक्षणैः प्रोक्षणं चरेत्
अपो हिरण्यवर्णाभिः पवमानादिभिस्त्रिभिः 74
`शन्नो देवी'रभीत्युक्त्वा पुरुषसूक्तेन वैष्णपैः
शुद्ध्यर्थं प्रोक्षयित्वा तु पुण्याहमपि वाचयेत् 75
परिषिच्य पावकं पश्चात्तन्मंत्रेण सुहूयताम्
सायमर्चावसाने तु कुंभपूजां समाचरेत् 76
कलशैस्सप्तभिः प्रोक्ष्य बद्ध्वाप्रतिसरं ततः
अंडजादीनि पंचैव धान्यान्यास्तीर्य वस्त्रयुक्‌॥ 77
शयने शाययेच्चैव देववादे शिरस्तथा
हौत्रं प्रशंस्य तत्काले होता हौत्रक्रमेण वै 78
वैनतेयस्य मंत्रेण तन्मूर्त्यावाहनं चरेत्
मूर्तिमंत्रैस्समावाह्य निरुप्याज्याहुतीर्यजेत् 79
`शतधारं कदा'वीति वीशमन्त्रमुदाहृतम्
तथाद्वादशपर्यायं वैष्णवं च सुहूयताम्॥ 80
व्याहृत्यन्तं च कृत्वा तु रात्रिशेषं व्यपोह्य च
आग्नेय्यां न्यस्य भेर्यां च नंदिकेश्वरमाह्वयेत्॥ 81
पुनः प्रभाते धर्मात्वास्नात्मास्नानविधानतः
मुहूर्ते समनुप्राप्ते हृदि बीजाक्षरं न्यसेत् 82
कुंभाच्छक्तिं समावाह्यचाऽर्चयित्वा विधानतः
पुण्याहं वाचयित्वैव समभ्यर्च विवेदयेत् 83
अग्निं प्रज्वाल्य तन्मंत्रैर्जुहुयाद्दशशःक्रमात्
अन्तहोमं वाचयित्वैव समभ्यर्च्य निवेदयेत् 84
उपलिप्य पटं पश्चात्पंचवर्णैरलंकृतम्
धूपदीपैरलंकृत्य शालिपीधं प्रकल्पयेत्॥ 85
चतुरश्रं समं कृत्वा विस्तारं चैकभागकं
शाल्यर्धं तंडुलं प्रोक्तं तदर्धं तिलमाहरेत् 86
चक्रं पश्चिमतो न्यस्य धान्यपीठोपरि स्थितम्
तस्यैवो त्तरतः पार्श्वेविष्वक्सेनं तथैव च 87
धान्यपीठे सुसंस्थाप्य गरुडं पश्चिमामुखम्
न्यस्य भेरीं च पार्श्वे यष्टिं सुसन्न्यसेत् 88
देवदेवं सुसंपूज्य द्विगुणं पूजयेत्ततः
द्विगुणं हविरेवोक्तं देवीभ्यां च तथा भवेत्॥ 89
चक्रादीनां पृथक्कुर्यादासनादीन्‌ पृथक् पृथक्‌
नंदीश्वरं तथाऽभ्यर्च्य हविर्भिश्च निवेदयेत्॥ 90

  • * *

आचार्यो यष्टिमादाय `भूर्भुवस्सुव' रीरयन्‌
`उप श्वासय' मंत्रं च जप्त्वा भेरीं सुताडयेत् 91
वादकस्तु शुचिर्भूत्वा वस्त्रमाल्याद्यलंकृतः
सर्ववाद्यसमायुक्तं भेरीमादाय शास्त्रवित्‌॥ 92
शास्त्रोक्तेन विधानेन चक्राग्रेताडयेत्तदा

  • * *

द्रोणैर्द्रोणार्धकैर्वाऽपि आढकैर्वाऽथ तंडुलैः॥ 93
पाचयित्वा कटाहेतु प्रक्षिपेद्बलिमुत्तमम्
मुद्गनिष्पावतिल्वांश्च लाजाऽपूपौप्रगृह्य च॥ 94
कटाहे तु सुसन्न्यस्य शिष्यस्तं शिरसा वहेत्
अभिवन्द्य ध्वचं पूर्वमादाय समलंकृतम्॥ 95
रथे वा शिबिकायां वा मंत्रेणाऽरोप्य मंगलैः
सह पुष्पं बलिं पात्रे संगृह्याऽनुगतं पुनः॥ 96
चक्रवीशाऽमितान्‌ पश्चान्नाथवद्गमयेत्तदा
आचार्यः पुरतो गत्वा सर्ववाद्यसमायुतम्॥ 97
गर्भगेहस्थदेवानां ब्रह्मादीनां यथाक्रमम्
द्वारेषु द्वारपालेभ्यो धामपालेभ्य एव च॥ 98
अन्येषां परिवाराणां स्वेस्वेस्थाने बलिं क्षिपेत्
आलयस्य बहिर्गत्वा ग्रामे सर्वत्र घोषयेत्॥ 99

  • * *

मध्यमे चालयं यत्र ब्रह्मादीशान्तमाचरेत्
यस्यां दिशि भवेद्धाम तद्दिगादि बलिं क्षिपेत्॥ 100
उत्सवभ्रमणं कुर्यात्प्रादक्षिण्यक्रमेण नै
ग्रामं गत्वातु संप्राप्य संधौ संधौ विशेषतः॥ 101
ध्यात्वा बुद्ध्वाधिपान्मंत्री भूम्यामावाह्य पूर्ववत्
अर्घ्यान्तं च समभ्यर्च्य मुष्ट्यन्नं नामभिर्ददेत्॥ 102
संधौ तत्संधिमादाय प्राच्यां `भूतेभ्य'इत्यपि
देवेभ्यो दक्षिणे पश्चा द्राक्षनेभ्यश्च पश्चिमे॥ 103
नागेभ्यश्चोत्तरे चाऽथ ऊर्ध्वायां दिशि चक्रमात्
`ये भूता'इति मंत्रेण पूर्वं दद्याज्जलं पुनः 104
पुष्पं बलिं तथाऽधावं संदद्याच्चक्रसन्निधौ
यस्यां दिशि विमानं वा ब्रह्माद्येव बलिं ददेत्॥ 105
आचरेदथ वा तस्य दिगीशाद्यं बलिं क्रमात्॥
पश्चिमस्थ विमानं चेद्वरुणादि बलिं क्षिपेत्॥ 106
अथ वा ग्राममध्ये चेद्दत्वा ब्रह्मबलिं पुरः
ततोदिक्पालकानां च तथा भूतबलिं क्षिपेत्॥ 107
दिगीशयोर्द्वयोर्मध्ये महावीथ्यां विशेषतः
संधिर्यदि भवेत्तत्र भूतानां च बलिं क्षिपेत्॥ 108
संध्यन्तरगतां संधिमाचरेद्यदि मोहतः
कर्मणो वास्तुजातानामनर्धं भवति ध्रुवम्॥ 109
प्रागन्तं पश्चिमाद्यं च एकवीथिं च दंडकम्
कुर्यात्तत्रैव चक्राद्यैः पश्चिमाद्यं बलिं ततः 110
वरुणनिर्ऋति वायुभ्यः पश्चिमे तु बलिं तथा
धात्रे यमकुबेराभ्यां सधौ मध्ये बलिं क्षिपेत्॥ 111
इंद्रवापकरुद्रेभ्यः प्राच्यां दद्यात्ततः क्रमात्
उदगन्तैकवीथिश्चेद्दक्षिणाद्यं बलिं क्षिपेत्॥ 112
यमनीलानलेभ्यश्च दक्षिणे मध्यमेऽपि च
ब्रह्मवारुण शक्रेभ्यश्चोत्तरे च बलिं तथा॥ 113
कुबिल पवने शेभ्यो बलिं दद्यात्क्रमेण च
नद्यादिषु विमानं चेत्परितः प्रांगणे ददेत्॥ 114
पूर्वं क्षिप्त्वा बलिं धीमान्‌ पुनस्तस्य च तस्य च
मंत्रमुच्चार्य पूर्वोक्तं गद्यपद्यैश्च घोषयेत् 115
नगरादौ तु गद्यैश्च प्रशंस्योपांशुना बुधः
तत्तन्मंत्रं समुच्चार्य घोषयेत्पटहादिभिः 116
`प्रियतां भगवान्विष्णुस्सर्वलोकेश्वरो हरिः
ब्रह्मेशाभ्यां च सहितश्चोत्सवे नः प्रसीदतु॥ 117
देवाश्च ऋषयस्सर्वे पितरश्च ग्रहादयः
विष्णुलोकगतास्सर्वेनानालोकनिवासिनः 118
सर्वेन्ये देवतास्सर्वाः परिवारगणैस्सह
विश्वे ते विष्णुयागेऽर्स्मि समागच्छन्तु सादराः 119
हव्यं बलिं समादाय भुंजन्तु शुभदायिनः'
इत्युक्त्वा घोषयेत्संधौ चक्रस्याऽभिमुखे पुनः 120
ब्रह्माद्यान्‌ स्वस्वतालैश्च घोषयेद्वादकः पुनः
बलिमेवं च निर्वाप्य प्रदक्षिणव शेन तु, 121
जपन्वै शाकुनं सूक्तं प्रविशेदालयं पुनः
बलिशिष्टं भूतपीठे `सर्वभूतेभ्य' इत्यपि॥ 122
बलिं तत्तोयशेषं च प्रक्षिपेच्चक्रसन्निधौ
धामप्रदक्षिणं कृत्वा ध्वजाद्यैरनपायिभिः॥ 123
शान्तं चक्रं च चत् स्थाने स्थापयेन्मतिमान्‌ पुनः
ध्वजस्थानं प्रविश्यैव ध्वजमादाय मंत्रवित्॥ 124
`स्वस्ति दा'इति मंत्रेण बध्नीयाद्रज्जुना सह
मंत्रेण मतिमान्‌ पश्चात्प्राङ्मुखो वा प्युदङ्मुखः॥ 125
दंडाग्रे योजयेत्पश्चाच्छंखकाहळसंयुतम्
समाबद्ध्य पुनस्स्निग्धं `भूरि'सीति जपं स्ततः॥ 126
अभिमंत्य्र ध्वजं पश्चादासनाद्यैस्समर्चयेत्
पुण्याहं वाचयेत्पश्चान्मुद्गान्नं तु ध्वजस्य च॥ 127
निवेद्य मुखवासं च प्रणाममपि कारयेत्
तत्काले मौद्गिकं चान्नं गरुडस्य निवेदितम्॥ 128
स्त्रियस्सत्बुत्रकामा स्तदश्नीयुर्भक्तिसंयुताः
आयष्मन्तं बलारोग्यवन्तं दान्तं सुलक्षणम्॥ 129
बुद्धिमन्तं यशोवन्तं प्रसूयेयुस्सुतं ध्रुवम्
(ततन्तु तोषयेद्वीशं स्तोत्रैर्ध्यानयुतो गुरुः॥ 130
`नमो नमस्ते पक्षीन्द्र स्वा'ध्यायवपुषे नमः
वाहनाय महाविष्णोस्तार्क्ष्यायाऽमित तेजसे॥ 131
गरुडाय नमस्तुभ्यं सर्वसर्पेंद्रमृत्यवे
वैनतेय महाबाहो महाबल वयोऽधिप 132
विहगेन्द्र नमस्तेऽस्तु समुत्पाटीतकल्पक
आहृताऽमृतकुंभाय जननीदास्यमोचिने॥ 133
सुरासुरेन्द्रजयिने नागेन्द्राबरणाय ते
यदाधारमिदं सर्वं तदाधाराय ते नमः 134
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम्
अक्षिणी चाऽपि गायत्री त्रिवृत्साम शिरस्स्वयम्॥ 135
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे
नमःप्राणादिवायूनामीशाय गरुडात्मने॥ 136
पक्षीन्द्र पक्षविक्षेपतरंगानिलसंपदा
निरस्तासुरसन्नाह समरे शत्रुसूदन 137
प्रतिष्ठितः पटे तुभ्यं नमःप्रणवमूर्तये
कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर॥ 138
दोषानपनयास्माकं गुणानावह सर्वशः
विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि॥' 139
स्तुत्वैवं गारुडं मंत्रं जपेदेकाग्रमानसः)
ध्वजस्यारोहणे यावत्तावस्मूर्त्या विशेषतः 140
त्रिकालं वा द्विकालं वा एक कालमधाऽपि वा
हविस्सम्यङ्निवेद्यैव सप्तविंशति विग्रहैः॥ 141
पूजयित्वा ध्वजं पश्चाद्रात्रौ भूतबलिं क्षिपेत्
`जियमत्युच्छ्रयं धन्यं ध्वजं'चेति ध्वजं तथा॥ 142
ध्वजमूले तथेंद्रादीन्‌ दंडे ब्रह्माणमित्यपि
सूर्येंद्वग्नींस्तु फलकत्रये यष्ट्यां सुदर्शनम्॥ 143
वलये वानुकिं रज्ज्वां त्रिमूर्तीरर्चयेत्ततः
घंटायां चैव ब्रह्माणं दर्भदाम्नि सरस्वतीम्॥ 144
इतिक्रमेण चावाह्य तन्मंत्रैरर्चनं चरेत्
ध्वजारोहणमारभ्य चोत्सवादिदिनादधः 145
सायं प्रातश्च वूजान्ते ध्वजारोहणवद्बलिम्
शिष्येण गुरुणा चाऽथ चक्रस्याऽभिमुखे तथा॥ 146
नित्यं रात्रौ विशेषेण तथा भूतबलिं क्षिपेत्
वीशाऽमितौ विना धीमान्‌ तीर्थान्तं सर्वरात्रिषु 147
चक्रमेव नयेद्विद्वान्‌ बलिरक्षणहेतवे
ध्वजस्यारोपणं यावत्तावन्नित्यं समाहितः 148
त्रिकालं वा द्विकालं वाऽप्येककालमथाऽपि वा
पूर्वोक्तेन क्रमेणैव समभ्यर्च्य निवेदयेत्॥ 149
ध्वजस्यारोहणं रात्रावपि कुर्वन्ति के च न
उत्सवारंभदिवसात्तत्र ये ग्रामवासिनः॥ 150
अन्यकार्यसमासक्तान गच्छेयुस्थ्सलान्तरम्
गच्छेयुरथ वा तीर्थे निवर्तेयुरसंशयम्॥ 151
बहिर्वीथ्यां तु तद्ग्रामे जनास्सर्वे तथैव च
तावान्न तेषां निर्बंधस्समीपस्थेषु यस्स्मृतः 152

  • * *

अहूतव्या उत्सवार्थे देवास्सम्यक् प्रकीर्तिताः
देवादीनां च सर्वेषां तेषां स्थानं प्रवक्ष्यते 153
इंद्रादयो महादिक्षु विदिक्षु च समाश्रिताः
तथैकादश रुद्राश्च द्वादशाऽहस्करा अपि॥ 154
वसवस्स्युरथाऽष्टौ च ओंकारश्च वषट्कृतम्
एते देवास्त्रयस्त्रिंशाः कथिता ब्रह्मणा पुरा॥ 155
अश्विनावपि तत्रेति केचिदाहुर्मनीषिणः
त्रयस्त्रिंशद्देवतानां स्थानमैशान्यमुच्यते॥ 156
अपरे चाऽपि कर्तव्या नदीपार्श्वे विशेषतः
अष्टादशगणानान्तु भुतपीठस्य दक्षिणे॥ 157
देवाश्च ऋषयस्सर्वे पितरो दैत्यदानवाः
असुराश्चैव गन्धर्वा स्तथैवाऽप्सरपांगणाः 158
यक्षाश्च राक्षसाश्चैव नागाभूताः पिशाचकाः
अनावृष्टिगणाश्चैव तथाऽमृतमुचां गणाः॥ 159
मातरश्चैव रोहिण्य स्सूर्या अष्टादश स्मृताः
अष्टादशगणाश्चैते प्रोक्ता वै देवयोनयः 160
अनुक्तानन्यदेवांश्च इंद्रपार्श्वे समर्चयेत्
देवानां चैव पत्नीश्च तत्तत्पार्श्वे समर्चयेत्॥ 161
स्कंदो विघ्नश्च दुर्गा च ज्येष्ठा चैव सरस्वती
तदालये बलिं दद्यात्प्राकारे चोत्तरेऽपि वा 162
परिवारोक्तदेशे तु रोहिण्यो मातरस्तथा
ऋषिपत्नीश्च तास्सप्तऋषिभिस्सह चाऽर्चयेत्॥ 163
सिद्धान्‌ विद्याधरां श्चैव गरुडगन्धर्वकिन्नरान्‌
किपूरुषां श्चारणान्‌ देवान्‌ महादिक्षु समर्चयेत्॥ 164
भूतेभ्यश्चाऽथ यक्षेभ्यः पिशाचेभ्य स्तथैव च
राक्षसेभ्यश्च नागेभ्यस्संधौ संधौ बलिं ददेत् 165
राजवेश्मांगणे मध्ये इंद्रं चैव समर्चयेत्
तस्य दक्षिणपार्श्वे तु जयश्रीकीर्तीस्समर्चयेत्‌॥ 166
उत्सवार्थं विशेषेण संभारानाहरेत्ततः
रथं च शिबिकां चैव यंत्रडोलादिकां स्तथा 167
कारयित्वा च शिल्पोक्तं दीपानन्यान्‌ प्रगृह्य च
भेर्यादीन्यपि वाद्यानि शंखकाहळकानि च॥ 168
ताळवृन्तं ध्वजानन्यान्‌ छत्रचामरबर्हिणः
नर्तकान्‌ गायकानन्यान्‌ यथोक्तं पूर्वमाहरेत्॥ 169
आलयं समलंकृत्य तोरणाद्यैर्विभूष्य च
परिचारान्‌ समाहूय स्वस्वकर्म निवेदयेत्॥ 170
मंटपादीनि सर्वाणि प्रपादीनि च सर्वशः
आस्तानार्थं च नृत्यार्थं कारयेच्छिल्पशास्त्रवित्॥ 171
`अव धू'तेति मंत्रेण ग्रामवीथीर्विशेषतः
विप्रा वेदविदश्शुद्धाश्शोधयेयुर्मनोरमम्॥ 172
`आशासु सप्त'इत्युक्त्वा गव्याद्यै स्सर्वतश्शुभम्‌
समभ्युक्ष्योपलिप्यैव तंडुलानवकीरयेत्॥ 173
कदळीपूगकुंभाद्यैरलंकुर्याद्गृहांऽगणम्‌
वितानाद्यैर्विशेषेण फूषयेत्सर्वतश्शुभम्‌ 174
तद्ग्रामवासिन स्सर्वेऽलंकृता नाऽन्यतत्पराः
नैमित्तिकादिकं हित्वा ध्यायेयुर्मनसा हरिम्॥ 175
तद्ग्रामसीमन्यंतस्थ्सा नित्यकर्मक्रियां विना
नैमित्तिकानि काम्यानि तीर्थान्तं नाचरेद्बुधाः 176
प्रवृत्ते चोत्सवे विष्णोस्सौम्यमार्गेण वास्तुषु
अन्यदेवोत्सवं तत्र नाचरेदिति शासनम्॥ 177
अस्मिन्‌ देवोत्सवे यागे तद्वास्तुषु विशेषतः
संकल्प्य चोत्तरां वेदिं प्रवृत्तेऽन्यानि नाचरेत्॥ 178
यदि चेत्सर्वनाशस्स्यात्कर्ताभर्ता विनश्यति
तस्मात्परिहरेद्धीमान्‌ तीर्थान्तं तेषु वान्तुषु॥ 179
उत्सवादिदिनात्पूर्वं सप्तमे पंचमे ऽथ वा
संस्नाप्य देवदेवेशमंकुराऽर्पणमाचरेत्॥ 180
इति श्रीवैखानसे भगवच्छास्ते भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे चतुर्विंशोऽध्यायः॥