सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/चतुर्दशोऽध्यायः

विकिस्रोतः तः
← त्रयोदशोऽध्यायः प्रकीर्णाऽधिकारः
चतुर्दशोऽध्यायः
[[लेखकः :|]]
पञ्चदशोऽध्यायः →

अथ चतुर्दशोऽध्यायः॥
दशावतारकल्पः (वामनः)
अथाऽतस्संप्रवक्ष्यामि वामनस्य क्रमं यथा
वैरोचनसुतोह्युग्रो बली च बलिनां वरः॥ 1
तद्बलस्याऽपहारार्थं काश्यपाज्जायते हरिः
हरिर्वामनरूपोऽभूच्छत्री दंडी च वेदवित्॥ 2
वटबीजेन सदृशः केवलं सूत्रदंडभृत्‌
वर्तमाने महायज्ञे बलेर्वैरोचनेः पुरा॥ 3
तद्यज्ञशालां संप्राप्य वटुरूपो महाहरिः
त्वं देहि त्रिपदीं मह्यं गामित्यूचे स्वमायया॥ 4
बलिश्च त्रिपदं तस्मैप्रादात्तोयसमन्वितम्
हस्तेजले पतत्याशु भद्रं रूपमवाप्य च॥ 5
देवस्त्रैविक्रमं रूपं सर्वं लोकं तदाऽग्रहीत्
त्रिविक्रमप्रतिष्ठायां विशेषस्संप्रवक्ष्यते॥ 6

  • * *

वसन्त्विमाने वा भद्रके हस्तिभद्रके
दीर्घशारे महाकूटे स्थापनं सर्वसिद्धिदम्॥ 7
दशतालेन मानेन देवदेवं प्रकल्पयेत्
सव्यं पादं स्थितं कुर्याद्दक्षिणं चोद्थितं भवेत्॥ 8
चतुर्भुजं प्रकुर्वीत संयुतं वाऽष्टभिर्भुजैः
दक्षिणे शार्ङमालंब्य भूम्यां चैव प्रस्र्य च॥ 9
शरं च दक्षिणे हस्ते खड्गं चैव तथा भवेत्
गदा वामकरे प्रोक्ता तथा खेटकमेव च॥ 10
चक्रशंखेतथा कुर्यादूर्ध्वबाहोर्विचक्षणः
एवमेव प्रकुर्वीत वसुहस्तं प्रकल्पयन्‌॥ 11
सस्यश्यामनिभं कुर्याद्धर्ष वेगसमन्वितम्
सर्वाभरण संयुक्तं कीरीटादिविभूषितम्॥ 12

  • * *

इंद्रं सस्यनिभं कुर्याद्वामपार्श्वे च सुस्थितम्
दक्षिणे धर्मराजं च पुष्पमालाधरं पुनः॥ 13
दक्षिणे भित्तिपोर्श्वे तु ब्रह्माणं च प्रकल्बयेत्
हस्ताभ्यां कुंभयोश्चैव पादप्रक्षाळनं चरेत् 14
तस्यपादांबुजे चैव जातां गंगां च सुन्दरीम्
प्रांजलीकृत्य हस्ताभ्यां नाभेरूर्ऴ्वं शरीरगौ॥ 15
पार्श्वयोरुभयोश्चाऽपि चंद्रादित्यौ च पूर्ववत्
जांबवन्तं तथा भेरीं ताडयस्तं नराकृतिम्॥ 16
इंद्रं श्यामनिभं कुर्याद्यममंजनसन्निभम्
आदित्यं चाऽग्नि वर्णं च चन्द्रं श्तेतं तथा चरेत्॥ 17
पीतवर्णं बलिं कुर्यान्नीलाभं जांबवन्तकम्
ब्रह्माणं पीतवर्णं च श्यामवर्णां च जाह्नवीम्॥ 18
एवं वर्णक्रमेणैव चित्राभासं च कारयेत्
पूजकौ तु प्रकुर्वीत तथा शक्रबृहस्पती॥ 19
शंखं दक्षिणतः कुर्याच्चक्रं वामे समर्चयेत्
अमूर्तं वा समूर्तं वा कल्पयित्वा यथाक्रमम्॥ 20
शुक्रं शुक्लनिभं कुर्यात्पीतवर्णं बृहस्पतिम्
महीं दक्षिणतः पार्श्वेस्थितामेवं प्रकल्पयेत्॥ 21
उदङ्मुखीं च कुर्दीत पद्महस्तां च दक्षिणे
वामे प्रसारितां चैव सर्वरत्न विभूषिताम्॥ 22
तस्याःपूर्वे तथा कुर्यात्प्रह्लादं चोत्तरामुखम्
जटामुकुटसंयुक्तं सर्वाभरणभूषितम्॥ 23
हृदयेंऽजलिसंयुक्तं शुकवत्रनिभांबरम्
तस्यचोत्तरपार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे॥ 24
असुरेन्द्रं तथाऽसीनं विनतं पश्चिमामुखम्
ब्रह्मांजलि समायुक्तं कीरीटादिविभूषितम्॥ 25
एवं वैरोचनिं कुर्यात्पुष्पांबरधरंपरम्
नमुचिं च समासीनं पादपीठाऽवलंबिनम्॥ 26
वामपार्श्वे समासीनं पूर्वभित्तिसमाश्रयम्
कल्पयित्वा यथामार्गं शुक्रं चैव समागतम्॥ 27
वामपादं समासीनं दक्षिणं कुंचितं तथा
अभयं दक्षिणं हस्तं वामं कट्यवलंबितम्॥ 28
सर्वाभरण संयुक्तं पश्चिमामुखमेव च
तस्य चोत्तरपार्श्वेतु पक्षिराजं प्रकल्पयेत्॥ 29
दक्षिणामुखसंयुक्तं शुक्रेमुष्टिप्रहारिणम्
एवं गर्भगृहे प्रोक्तं विधिना कारयेद्बुधः॥ 30
मंडपे निम्नितस्थाने अनन्तं चोत्तरामुखम्
हृदयेंऽजलिसंयुक्तं स्थितमेवं प्रकल्पयेत्॥ 31
फणैस्तु पंचभिर्युक्तं सर्वाभरणभूषितम्
उत्तरे भित्तिपार्श्वेतु वासुकीं च प्रकल्पयेत्॥ 32
अन न्तवत्तथा कुर्याद्धर्ष वेगसमन्वितम्
एवमेव विधानेन कल्पयित्वा यथाक्रमम्॥ 33
श्यामवर्णां तथा देवीं प्रह्गादं पीतमेव च
कनकाभं बलिंचैव नमुचिं च तथै व च॥ 34
शक्रं तु पूर्ववत्कुर्यात्पंचवर्णं खगाधिपम्
अनन्तं पीतवर्णं च वासुकिं श्याममेव च॥ 35
एवं स्थानक्रमेणैव कूटयुक्तेन कारयेत्
अथ वा भित्तिपार्श्वे तु चित्राऽभासेऽधमाऽधमम्॥ 36
त्रिविक्रमं प्रवक्ष्यामि यथा कुर्याज्जगत्त्रये
एकं जानुसमं कुर्याद्द्वितीयं नाभितस्समम्॥ 37
तृतीयं तु ललाटान्तं त्रिविधं स्यात्त्रिविक्रमम्
महीं देवीं तथा चैव प्रह्लादं तु बलिं तथा॥ 38
नमुचिं च तथा शुक्रं गरुडं च तथा चरेत्
अनन्तं वासुकीं चैव मष्टांऽगस्थापनं चरेत्॥ 39॥

  • * *

`विष्णुं त्रिविक्रमं चेति त्रिलोकेशमतः परम्
विश्वेश्वरं त्रिमूर्ति च सर्पाधार' मितीरयेत्॥ 40
`पीतवर्णं गुरुं चैव तैष्यं चैव बृहस्पतिम्'
`समुचिं कनकाभं च पीतवाससमित्यपि॥ 41
श्यामलांगमिति प्रोक्तं' मूर्तिमंत्रं यथाक्रमम्
`हरिणीं च तथा पौष्णीं क्षौणींचैव तथा महीम्॥' 42
`प्रह्लादं वीर्यवित्तं च विष्णु भक्तं महाबलम्'
`असुरेंद्रं बलिं चेति वदान्यं वीर'मेव च॥ 43
शुक्रस्य पूर्वमेवोक्तं गरुडस्य विधानतः
`काश्यपं गरुडं चैव वैनतेयं खगाधिपम्॥ 44
`सहस्रशीर्षं शेषं च नागराजमितीर्य च
अनस्तं' च समुच्चार्य शेषस्यावाहनं चरेत्॥ 45
`वासुकीं नागराजं च काद्रवेयं मनोरमम्
एवं मूर्तिक्रमश्चैव मष्टांऽगस्थापने चरेत्॥ 46
प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेत्
त्रिविक्रमप्रतिष्ठायामन्वाहार्ये विशेषतः॥ 47
तथा हौत्रं प्रशंस्यैव मूर्त्यावाहनमाचरेत्
जुष्टाकारं च कृत्वैव पूर्ववत्सर्वमाचरेत्॥ 48
`यो वा त्रिमूर्ति'रित्येवं शतमष्टाऽधिकं यजेत्
कर्षणादिप्रतिष्ठान्तं पूर्ववत्सम्यगाचरेत्॥ 49
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे चतुर्दशोऽध्यायः॥