सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/चतुर्थोऽध्यायः

विकिस्रोतः तः
← तृतीयोऽध्यायः प्रकीर्णाऽधिकारः
चतुर्थोऽध्यायः
[[लेखकः :|]]
पञ्चमोऽध्यायः →

अथचतुर्थोऽध्यायः॥
अद्येष्टका स्थापनम्॥
अथाऽतस्संप्रवक्ष्यामि वास्तुनःप्रथमेष्टकाम्
साधयित्वापूर्वरात्रौ चतस्रःप्रथमेष्टकाः 1
शिलायांमृण्मयेवाऽथ कुर्याल्लक्षणसंयुताः
शैलादोषविनिर्मुक्ता स्सुपक्वाअथमृण्मयाः॥ 2
विस्तारेणेष्टकाःप्रोक्ता षट्पंचचतुरंगुलाः
उत्तमादिक्रियादेव विस्तारद्विगुणायताः॥ 3
विस्तारार्थंघनंप्रोक्त मिष्टकानांप्रमाणतः
आलयाऽभिमुखेचैव प्रपांकृत्वाविचक्षणः॥ 4
तन्मध्येवेदिकांकृत्वा हस्तमात्रप्रमाणतः
विस्तारंतत्समंचौन मुत्सेथंतुतदर्धकम्॥ 5
सभ्याग्निं विधिवत्कृत्वातु विधिनाघोरमाचरेत्
भूमियज्ञंचकृत्वातु कलशैस्सप्तभिःक्रमात्॥ 6
संस्नाप्यनववस्त्रेण चाच्छाद्यशयनोपरि
कौतुकंबन्धयित्वातु शयनेशाययेत्ततः॥ 7
हुत्वातुपौरुषंसूक्तं विष्णुसूक्तमतःपरम्
चतुर्वेदादिमंत्रांश्च श्रीभूसूक्तेयजेत्क्रमात् 8
इष्टकावाशिलावाऽथ तन्नामाद्यक्षरंस्मरेत्
नृत्तैगेन्‌यैश्चवाद्यैश्चरात्रिशेषंनयेत्क्रमात्॥ 9
प्रभातेपूजयेत्पूर्वमाचार्यंशिल्पिभिस्सह
आचार्योमंत्रयोग्यस्तु शिल्पिभिःकर्मयोग्यकैः 10
द्वारस्यदक्षिणेपाशेन्व्‌स्थानमस्यप्रशस्यते
सुमुहूर्तेन्यसेद्विद्वानिष्टकांश्चतुरःक्रमात्॥ 11
विन्यासेतुचतुर्दिक्षु चतुर्वेदादिमस्त्रतः
तेषांमध्येतदागर्ते पूरयेदुदकेनतु॥ 12
तत्रैवनवरत्नानि विल्यसेदनुपूर्वशः
गभन्‌न्यासविधिः
अथवक्ष्येविशेषेण गभन्‌न्यासविधिक्रमम्॥ 13
प्रासादोगभन्‌संयुक्तः कुरुतेसर्वसंपदम्
तस्मादादौप्रकर्तव्यः गभन्‌न्यासस्समृद्धिदः 14
त्रयःप्रासादमूलेस्या त्पूर्वंतुप्रथमेष्टके
उपानोपरिमध्यंस्या त्प्रतेरुपरिचान्ततः॥ 15
भूगतंशूद्रजातीना मुपानेनृपवैश्ययोः
प्रतेरुपरिविप्राणा मानुलोम्येनकारयेत्॥ 16
सर्वेषांभूगतंकार्यं सर्वसिद्धिकरंशुभम्
ऐन्द्रपावकयोर्मध्ये प्राग्द्वारेषुप्रकल्पयेत्॥ 17
द्वारस्यदक्षिणेकुर्यात्पश्चिमैपितधैवहि
कवाटार्गलयोगेवान्य स्तव्यंगभन्‌भायनम्॥ 18
फेला
तथाताम्रमयीफेला स्फाटिकावाप्रशस्यते
पादविष्कंभविस्तारां फेलांतत्त्वपदांचितां॥ 19
खंडस्फुटितवजान्य्‌सा॥
घनंविंशतिभागैकं तदर्धार्धांशमेववा॥ 20
विस्तारस्यचतुभान्‌गं कोष्ठभित्त्युच्छ्रयंभवेत्
उत्तमंतुसमोत्सेधं त्रिपादंमध्यमंस्मृतं 21
अथमंचार्धमुत्सेधं त्रिविधंतत्प्रचक्षते
त्रिभागैकविधानंस्या द्द्विभागंभागिकंभवेत्॥ 22
अन्तरेचांऽगुलायामं तदर्धंभिन्नत्तिकम्
संयोगार्धविहीनंस्या द्विधानेऽभ्यन्तरेतथा॥ 23
प्रक्षाल्यपंचगव्येन विशुद्धंगभन्‌भाजनम्
आलयात्प्रमुखेचैव मंटपेसमलंकृते॥ 24
गोमयेनोपलिप्यैव पुण्याहंवाचयेत्ततः
रक्तबीजानिधातूंश्च सन्न्यसेन्मस्त्रवित्तमः॥ 25
वैष्णवंविष्णुसूक्तंच पौरुषंसूक्तमुच्चरन्‌
`विष्णुर्योनि'मित्युक्त्वातु गभंन्‌त्रनिधापयेत्॥ 26
इतिश्रीवैखानसे भगवच्छास्त्रेभृगुप्रोक्तायां संहितायां
प्रकीर्णऽधिकारे चतुर्थोऽध्यायः