सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/एकोनविंशोऽध्यायः

विकिस्रोतः तः
← अष्टादशोऽध्यायः प्रकीर्णाऽधिकारः
एकोनविंशोऽध्यायः
[[लेखकः :|]]
विंशोऽध्यायः →

अथैकोनविंशोऽध्यायः॥
भगवदर्चनम्
अतऊर्ध्वं ध्रुवार्चायामर्चनं संप्रवक्ष्यते
मूर्धादि पीठात्सन्न्यस्तपुष्पादीन्यपि शोधयेत्॥ 1
योगवीरार्चनं स्याच्चेत्त्रिकालं स्नानमाचरेत्
प्रातर्मध्याह्नयोर्वाऽथ योगपीठेध्रुवाऽर्चनम्॥ 2
भोगमेव ध्रुवार्चायां प्रातर्मध्याह्न योरपि
त्रिकालं वाऽथ संस्नाप्य ध्रुवार्चायां विशेषतः 3
वस्त्रादीन्यपि संशोध्य पुष्पन्यासं च पूर्ववत्
शिवादीनर्चयित्वातु पादपीठे समन्ततः 4
तथासनाद्यैस्सर्वैश्च त्रिसंध्यं चार्चयेद्बुधः
अर्धयामे तु पूर्वान्तमर्चयित्वा च पूर्ववत्॥ 5
हविर्नि वेदयेच्चैवाऽनुक्तमस्यच्च पूर्ववत्
आवाहनविसर्गौ तुन कुर्यादिति शासनम्॥ 6
अथ वक्ष्येऽर्चनान्तेतु विधानं प्रति कर्मणाम्
सौवर्णमुत्तमं पात्रं राजतं मध्यमे भवेत्॥ 7
अधमं ताम्रपात्रं तु त्रिविधं पात्र मुच्यते
त्रितालमुत्तमं प्रोक्तं द्वितालं मध्यमं भवेत्॥ 8
अधमं त्वेकतालं स्यात्त्रिविधं पात्रविस्तरम्
विस्तारेण समाख्यातं तयोर्मध्यममध्यमम्॥ 9
तस्य मध्ये त्रिभागैकं कर्णिकांऽगुलमुच्छ्रयम्
परेतोऽष्टदलं कुर्यात्कर्णिकोच्छ्रयमानतः॥ 10
द्व्यंगुलं मूलनाहं स्यात्तदग्रं त्वर्धनाहकम्
किंचित्फलांबुजाकारमग्रं कुर्याद्विचक्षणः 11
द्विप्रस्थतंडुलैः पक्वमन्नं तत्रैव निक्षिपेत्
अभिघार्य घृतेनैव अष्टांऽगुलसमुन्नतम्॥ 12
दशांगुलं वा उत्सेधं द्वादशांऽगुलमेववा
तत्पात्रंच समादाय कौतुकाग्रे निधाय च॥ 13
कौतुकाच्छक्तिमादाय चार्चयेदष्टविग्रहैः
`परब्रह्माण मित्युक्त्वा परमात्मानमित्यपि॥ 14
भक्तवत्सलं योगेशं' चतुर्मूर्तिभिरर्चयेत्
प्रातःपुष्पबलिं कुर्यान्मध्याह्नेन्नबलिं तथा॥ 15
साये त्वर्घ्यबलिं कुर्यात्पूर्वमेव प्रचोदितम्
तंडुलैः कुडुबैश्चाऽपि यथालाभमथापि वा॥ 16
श्रुतं चार्घ्यबलिं कुर्यात्पुष्बं तु चतुरंगुलम्
शिष्यमाहूय तत्काले सोष्णीषं सोत्तरीयकम्॥ 17
शिष्यं गरुड वत्स्मृत्वा पात्रमुद्धृत्यतत्र वै
`उदुत्य'मिति मंत्रेण शिष्यस्तच्छिरसि न्यसेत्॥ 18
प्रदक्षिणं ततः कुर्यात्कु र्याच्छब्दरवैर्युतम्
वितानछत्रसंयुक्तं पिंछचामरसंयुतम् 19
धूपदीपसमायुक्तं शनैःकुर्यात्प्रदक्षिणम्
प्रदक्षिणत्रयं कृत्वा प्रविशेदालयं भुधः 20
भूतपीठान्तरे तिष्ठेद्गृह्णीयात्तु तदर्चकः
कौतुकाग्रेतु सन्न्यस्य ओंकारेण निवेशयेत्॥ 21
बल्यग्रं खंडयित्वातु सेनेशाय निवेदयेत्॥
तच्छेषं सोदकं चैव भूतपीठे तु निक्षिपेत्॥ 22
उत्सवं कर्तुकामश्चेत्त्रिसंधिष्वेवमुत्तमम्
सायं प्रातर्मध्यमं स्यात्सायं चैवाऽधमं भवेत्॥ 23
बलिं च बलिबेरं वा कारयेदिति के च न
बल्यर्थं क्लप्तदेवस्य चोर्ध्वमानमुदाहृतम्॥ 24
महाबेरस्य हस्तेन चैकविंशतिकांऽगुलम्
सप्तदशांगुलं विद्याद्द्वादशांऽगुलमेव वा॥ 25
श्रेष्ठमध्यकनिष्ठानि त्रिविधं मानमाचरेत्
अर्चाबेरत्रिभागै कमुत्तमप्रतिमाभवेत्॥ 26
तन्मानस्य दशांशेन त्वेकोनं मध्यमं भवेत्
मध्यमस्य दशांशेन त्वेकोनमधमं भवेत्॥ 27
महतो मूलबेरस्य मुखायामं प्रशस्यते
बल्यर्थं प्रतिमां कुर्यात्सर्वेषां स्थापनं भवेत्॥ 28
सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमगौणतः
रत्नजप्रतिमां कुर्यान्मानोन्मानं न विद्यते॥ 29
उष्णीषं गोलकं ज्ञेयं शिरोमानं त्रिमात्रकम्
केशान्तार्चा समं भागं संगमात्पुटसूत्रकम्॥ 30
पुटसूत्राद्धनुपर्यन्तमेकमेकन्तु भागशः
गलमर्धांगुलं विंद्यान्मात्रार्धं ग्रीवमुच्यते॥ 31
हिक्काहृदयपर्यन्तं मुखं मात्राधिकं भवेत्
हृदयं नाभि तथैवोक्तं तदधस्तात्तु तत्समम्॥ 32
ऊरू च द्विमुखायामं गोलकोत्सेधमिष्यते
चरणं जानुमानं च कालायपुरतो परम्? 33
हिक्कासूत्रादधस्तात्तु बाहुद्विमुखनेत्रकम्
प्रकोष्ठं मुखबन्धं च मुखमर्धाधिकं भवेत् 34
मणिबन्धांगुलस्याऽग्रे मुखयामं प्रशस्यते
चतुर्भुजं च कृत्वा तु मानमेवमुदाहृतम् 35
॥॥॥॥॥॥॥॥॥वकुर्यात्पद्माकारं तु गोलकम्॥

  • * *

अथ वक्ष्ये विशेषेण हविष्पाकं विधानतः॥ 36
पक्त्वा वित्तानुसारेण हवींष्यपि च कल्पयेत्
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः 37
निवेदयित्वा देवेशं कल्याणं कारयेद्बुधः
अवदत्वा? घृतं यत्तु कल्याणमशुभायवै॥ 38
अलाभे चैव सर्वेषां व्रीहीणां तंडुलां स्तथा

  • * *

शतद्वयं पंचविंशद्व्रीहिभिः पूरितं तु यत्
शुक्तिमात्रमिति ख्यातं मानं तेनैव कारयेत्॥ 40
तद्द्वयं तिलमित्युक्तं प्रकुंचं स्यात्तिलद्वयम्
प्रसृतिस्तद्द्वयं प्रोक्तं कुडुबं प्रसृतिद्वयम् 41
अंजलि स्तद्द्वयं प्रोक्तं प्रस्थं स्यादंजलिद्वयम्
पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेत्॥ 42
चतुराढकसंयुक्तं द्रोणमित्यभिधीयते
द्रोणद्वयं भवेत्खारी भारंखारीद्वयं भवेत्॥ 43
द्रोणतंडुलसंयुक्तमुत्तमं हविरुच्यते
तदर्धं मध्यमं प्रोक्तंतदर्धमधमं भवेत्॥ 44
उत्तमोत्तममित्युक्तमष्टद्रोणैन्तु तंडुलैः
अधिकं यद्भवेत्तस्मात्प्रोक्तं सर्वं महाहविः॥ 45
तदर्धैस्तंडुलै स्सिद्धं मध्यमं हविरुच्यते
षड्द्रोणैस्तंडुलै स्सिद्धं हविरुत्तममध्यमम्॥ 46
द्रोणहीनं भवेत्तस्मादुत्तमाधममुच्यते
मध्यमोत्तममित्युक्तं चतुर्द्रोणैस्तु तंडुलैः 47
द्रोणत्रयं भवेद्यत्र कृतं मध्यममध्यमम्
मध्यमाधममित्युक्तं द्रोणद्वयकृतं हविः 48
द्रोणेन तंडुलेनैव निवेद्यऽमधमोत्तमम्
तस्य मध्यममित्युक्तमाढकद्वय सम्मितम्॥ 49
आढकेन तु संयुक्त मधसूधममुच्यते
तंडुलानाढकार्धं तु देवीनां तु प्रकल्पयेत्॥ 50
चरुप्रस्थद्वयं प्रोक्तं हविराढकमुच्यते
प्रस्थं कुडुबसंयुक्तं पिशाचानां बलिर्भवेत्॥ 51
गंधवर्णरसैर्जुष्टाः प्रग्राह्यास्तंडुलास्तथा
प्रक्षाल्य तंडुलान् सम्यक् निष्बीड्य च पुनःपुनः 52
चतुः प्रक्षाळनं कृत्वा `प्रजास्था'लीति मन्त्रतः
`ऊर्जस्व'तीति मन्त्रेण पात्रे प्रक्षिप्य तंडुलान्॥ 53
छुल्ल्यामारोपयेत्पश्चा `द्विष्णवे जुष्ट'मित्यपि
`वाचस्प'तीति मन्त्रेण हविस्स्विन्नन्तु पाचयेत्॥ 54
धूमगन्धरसं स्विन्नमतिपक्वं च शीतलम्
केशकीटापविद्धन्तु त्यजेत्पर्युषितं तथा॥ 55
मुद्गं चैव महामुद्गं कूटस्थं राजमाषकम्
कदली पनसं चैव कूश्मांडं बृहती तथा॥ 56
कंदमूलफलान्यन्ये साराढ्या उपदंशकाः
गुडं दधि समायुक्तमाज्ययुक्तं॥॥॥॥॥॥॥॥॥॥ 57
हविःकृत्वा चतुर्भागमूर्ध्वभागे निवेदयेत्
अधस्तादेकभागेन होमार्थं बलये तथा॥ 58
यदंशं पात्रसंशिष्टं पूजायैव च निर्मितम्
सौवर्णे राजते पात्रे कांच्ये ताम्रे निवेदयेत्॥ 59
अग्नि कार्यावशिष्टं च बलिशिष्टं च यद्धविः
तत्सर्वं पूजकायैव प्रोक्तमेवं मनीषिभिः॥ 60

  • * *

द्वितीयावरणे प्रोक्तमाग्नेय्यां पचनालयम्
अर्चकस्य गृहे वाऽपि पाचयित्वा निवेदयेत्॥ 61
प्रणिधिं चाज्यस्थालीं च प्रोक्षणीपात्रमेव च
अर्घ्यप्रदानपात्रं च कुडुबेन प्रपूरितम्॥ 62
हविःपात्रप्रमाणन्तं बलिपात्रप्रमाणतः
पानीयदानपात्रं च कांस्यं शुक्तिजमेव वा॥ 63
हिरण्मयं वा रौप्यं वा यधाशोभमलंकृतम्
तांबूलदाने प्येवं स्यात्सौवर्णं कांस्यमेव हि॥ 64
दपन्‌णं च प्रदातव्यं ध्रुवानससमं भवेत्
आवाहनार्थप्रणिथिं प्रस्थमात्र प्रपूरितम्॥ 65
कलुषं कृमिशैवालयुक्तं सूत्रविवर्जितम्
गन्धवर्णरसैर्जुष्टमशुचिस्थानमाश्रितम्॥ 66
पंकाश्मदूषितं चैव सामुद्रं पल्वलोदकम्
अग्राह्यमुदकं ग्राह्यमेभिर्दोषैर्विवर्जितम् 67
उत्तमं त्रिगुणै रद्भिस्सानं चाथममुच्यते
अभिषेको नदीभ्नन्तु मध्यमे मध्यमं बवेत्॥ 68
उशीरचन्दनोपेतं यज्जलं पाद्यमुच्यते
एलालवंगतक्कोलजातीफलसमन्वितम्॥ 69
आप आचमनीयार्थमुशीरामयचन्दनैः
आपःक्षीरकुशाग्रादि यवसिद्धार्थतंडुलै॥ 70
तिलव्रीहि समायुक्तैरर्घ्य मष्टांग मुच्यते
चन्दनं चागुरुश्चैव कुंकुमं गन्ध उच्यते, 71
एकं द्वयं त्रयं वापि कर्बूरेण चतुष्टयम्
उशीरचन्टनोपेतं घृतयुक्तं घृताप्लुतम् 72
किंचित्कर्बूरसंयुक्तं धूपमित्युच्यते बुधैः
गोघृतेन कृतं यत्तु दीपमुत्तममुच्यते॥ 73
चतुरंगुलमायामं राजसं दीपमेव हि
दीपं तत्त्य्रंगुलायामं मध्यमं दीपमुच्यते 74
अधमं तु भवेद्दीपमंगुलद्वयसम्मितम्
कापिलेन गृतेनाऽपि कृतं कर्बूरवर्तिकम् 75
दीपं विष्णुप्रियं प्रोक्तं सर्वसिद्धिप्रदायकम्
तामसं तु भवेद्दीपं माहिषेण तु सर्पिषा॥ 76
वृक्षबीजोद्भवस्नेहदीपं पैशाचमुच्यते
तामसं वापि पैशाचमयोग्यं दीपमुच्यते॥ 77
क्षौमं कार्पासजं वस्त्रं वक्षभेदांगसंभवम्
दशहस्तायतं चैव विस्तारं तु द्विहस्तकम्॥ 78
मनोहरं तु सुश्लक्ष्णं विशेषं वस्त्रमुच्यते
बेरायामार्धमानेन वस्त्रविस्तार मुच्यते॥ 79
विस्ताराष्टगुणायामं सदशं तु सलक्षणम्
मयूरपिंछैःकुर्यात्तु चतुस्तालं तु विस्तृतम्॥ 80
अधोमुखं तु कर्तव्यमत ऊर्ध्वमुखं तथा
पंचाऽरत्निप्रमाणेव दंडस्स्यादधमं तथा॥ 81
अधिकं द्वादशांगुल्यं मध्यमेचोत्तमेपि वा
एवं पिंछं समाख्यातं छत्रलक्षणमुच्यते॥ 82
षट्तानं छत्रविस्तारमुत्तमं समुदाहृतम्
मध्यमं पंचतालंस्याच्च तुस्तालमथाधमम्॥ 83
मौक्तिकं तु भवेच्छत्रं वस्त्रेशाऽपि हितं तथा
वस्त्रेण वा तथा कुर्यात्तालपत्रमथाऽपि वा॥ 84
छत्रं त्वधोमुखं प्रोक्तं दंडं पिंछस्य दंडवत्
सुवर्णरत्नसंयुक्तं कुर्यादाभरणादिकम्॥ 85
मुकुटं कुंडलं चैव हारं कैयूरकं तथा
कटकं कटिसूत्रं च पुष्पं वै हारनूपुरे॥ 86
कुर्यादुदरबन्धं च रत्नहारं च मेखलाम्
हारं च कर्णपुष्पं च प्रतिमाया यथार्हकम्॥ 87
चामरै श्चामरं कुर्यात्पिंछैर्वाऽपि मयूरजैः
दंडं हक्तप्रमाणं स्याद्बालदंडप्रमाणकम्॥ 88
हेमरत्नमयं दंडं तारताम्रमयं तथा
अथ वा दारुदंडं स्यान्मयूरपिंछं च योजयेत्॥ 89
एवं तु चामरं प्रोक्तं प्रच्छन्नपटमुच्यते
क्षौमकार्पाससंयुक्तं द्वारमानन्तु कारयेत्॥ 90

  • * *

अथ वक्ष्ये विशेषेण सहस्रधाराविधिक्रमम्
सौवर्णं राजतं वापि ताम्रं वापि स्वशक्तितः॥ 91
उत्तमं षोडशांगुल्यं मध्यमं द्वादशांऽगुलम्
अष्टांऽगुलं तदधमं यथाशक्ति च कारयेत्॥ 92
एतैरंगुलिभिस्सम्यक् भ्रमीकृत्य च चन्द्रवत्
भागं भित्त्युन्नतं प्रोक्तं गोलकं वा विशेषतः॥ 93
सीमावृत्तं तु विस्तारमष्टांगुलमिति स्मृतम्
कर्णि कायामविस्तारं गोलकं तु यवोन्नतम्॥ 94
मध्ये रत्नं सुवर्णं वा यथा शक्ति समर्पयेत्
कर्णिकामभितः कुर्याद्दळान्यष्ट सुसंगतम्॥ 95
परितष्षोडशदळं द्वात्रिंशत्कर्णिकं बहिः
चतुष्षष्टिसमायुक्तं दळं बाह्ये प्रकल्पयेत्॥ 96
दले यवद्वयघनं रेखामपि च कारयेत्
सहस्रसुषिरैर्युक्तं समानोक्तं च कारयेत्॥ 97
षोडशद्वादशाष्टाभिरंगुल्यायामविस्तृतम्
मालं तद्धस्तविस्तारं शंखान्तरसमीकृतम्॥ 98
पद्माकृतिं च कृत्वा तु तौ च नालसमायुतौ
शेषं युक्त्या प्रकुर्वीत जलनिर्गमनं बुधः,, 99
सर्वसौंदर्यसंयुक्तं तथाकारं च कारयेत्
प्रक्षाळ्य पंचगव्येन शोधनीयेन शोधयेत्॥ 100
देवालयस्य पुरितो गोमयेनोपलिप्य च
थान्यराशिं समास्तीर्य वस्त्रं चोपरि विन्यसेत्॥ 101
उत्तरे वास्तुहोमं च पर्यक्निं चैव पूर्ववत्
आचार्यं पूजयेत्तत्र नववस्त्रांगुलीयकाः, 102
तंत्रेंदुमंडलं ध्यात्वा पद्मे पद्मनिधिं तथा
शंखे शंखनिधिं तद्वदावाह्यैव समर्चयेत्॥ 103
पुण्याहं वाचयित्वा तु दक्षिणां च ददेत्पुनः
बिंबशुद्धिं च कृत्वातु मंत्रेणैवाऽभिषिच्य च॥ 104
देवदेवं समभ्यर्च्य हविस्तत्र निवेदयेत्॥
एवं वै कृतपात्राणि देवार्थं च प्रदापयेत्॥ 105
तस्य कायकृतं पापं तत् क्षणादेव नश्यति
सर्वदोषोपशमनं विष्णुभक्तिविवर्धनम्॥ 106
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे एकानविंशोऽध्यायः॥