प्रकीर्णाऽधिकारः/एकोनत्रिंशोऽध्यायः
| ← अष्टाविंशोऽध्यायः | प्रकीर्णाऽधिकारः एकोनत्रिंशोऽध्यायः [[लेखकः :|]] |
त्रिंशोऽध्यायः → |
अथैकोनत्रिंशोऽध्यायः॥
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण ध्रुवबेरस्य निष्कृतिम्
ताम्रजं शैलजं चैव मूर्तिकं दारवं त्विति॥ 1
चातुर्विध्यं ध्रुवस्यात्र पूर्वमेव मयोदितम्
षण्मानसहितं कृत्वासनालं पादपद्मकम्॥ 2
कृत्वा तु ताम्रजं बिंबं कौतुकस्योक्तवर्त्मना
कृत्वाऽक्ष्युन्मोचनं चाऽधिवासान् संस्थाप्य चाचलम्॥ 3
स्थापयेत्सह देव्यौच शुद्ध्यर्थं प्रतिपर्वतु
शुद्धोदैरभिषिच्यैव भूषणैश्च विभूष्यच॥ 4
पुष्पन्यासं च कृत्वैव सर्वान् परिषदः क्रमात्
शैलानेव प्रकुर्वीत यथा शातातपोऽब्रवीत्॥ 5
शैलं ध्रुवं तथा चित्रं चित्रार्धं वा विधाय च
पूर्वोक्तेन विधानेन परं संस्कृत्य तत्क्रमात्॥ 6
देव्यावन्यांश्च देवांश्च तदालयगतानपि
तद्द्रव्येण प्रकुर्वीत ध्रुवं षण्मानसंयुतम्॥ 7
कृत्वाऽक्ष्णोश्च भ्रुवोस्तद्वदोष्ठयोरुभयोरपि
करपादतले चैव नखेषु मुकुटेऽपि च॥ 8
भूषणेषु विधानेन तत्तद्वर्णेन लेपयेत्
मृण्मयं दारवं वा चेत्तद्द्रव्येणैव देवताः॥ 9
तदालयगताः कुर्यादन्यथा विपरीतकृत्
अथ वा वर्णहीनं तु शैलं सर्वत्र कारयेत्॥ 10
अर्धचित्रस्य शैलस्य हीनेष्वं गेषु चैव हि
प्रत्यंगेषु तथोपांगेष्वनिष्टं तद्भवेदिह॥ 11
बालागारेऽथ तच्छक्तिं नीत्वा बिंबं समाहरेत्
भूमौ पिधाय तस्योर्ध्वे पद्माऽग्निं परिकल्प्य च॥ 12
हुत्वा च महतीं शान्तिं शिलाग्रहणवत्तथा
तत्तदंगसमुत्पत्तिं युक्त्या तक्ष्णा तु कारयेत्॥ 13
हीने महांगे तद्बेरमयुक्तं चेत्समीकृतौ
त्यक्त्वा तद्विधिना बेरं पुनरन्यत्समाहरेत्॥ 14
बेरं संधानयोग्यं यस्त्यजेत्पापी भवेत्स हि
विनष्टं च भवेत्सर्वंसंधानं शक्तितश्चरेत्॥ 15
ध्रुवबेरमथाऽर्चां च कर्तुं पूर्वमिवद्वयम्
अशक्तश्चेद्ध्रुवार्चान्तु कृत्वा चैकं स्वशक्तितः 16
प्रतिष्ठाप्यार्चयेत्सम्यगिति के चिन्मनीषिणः
एकबेरप्रतिष्ठायामेष एव विधिस्स्मृतः 17
अशक्तश्चेद्ध्रुवं बेरमर्चाबेरमथाऽपि वा
सहितं रहितं वाऽथ देवीभ्यांस्थाप्य चार्चयेत्॥ 18
मृदालये ब्रह्मस्थाने ध्रुवार्चाबेरमाहरेत्
तं देवीसहितं कृत्वा विमानं च विशेषतः॥ 19
शैलं तु कर्तुमिच्छेच्चे द्देवो दैविकमाश्रयेत्
यथा तथा प्रकल्प्यैव विमानं कौतुकं पुनः 20
लोहजं जंगमं कृत्वा ब्रङ्मस्थाने समाचरेत्
कौतुकं शैलजं चेत्तु स्थावरं त्वेव स्थापयेत्॥ 21
लघुबेरं प्रतिष्ठाप्य विमाने मृण्मयेऽर्चिते
कर्तुमिच्छेद्ध्रुवं बेरं विमानं चैव शैलजम्॥ 22
विमानं परिकल्प्यैव विधिना हस्तमानतः
देवीभ्यां सहितं देवं दैविकांशे विधाय च॥ 23
पूर्वार्चितां गृहीत्वैव बेरं कौतुककर्मणि
तस्योत्तरे चौत्सवादीन् प्रतिष्ठाप्य समर्चयेत्॥ 24
पूर्वं ध्रुवार्चाबेरेतु अर्च्यमाने मृदालये
शिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छया॥ 25
रक्षार्थं तस्य बेरस्य शिल्पिस्पर्शनिवृत्तये
काष्ठेन पंजरं कृत्वा बालागारं दृढं ततः॥ 26
संशोध्य शल्यं चाधस्ताद्युक्त्या परमाया पुनः
विमानं युग्महस्तेन तद्बेरस्य वशादपि॥ 27
यथाविभवविस्तारं सौधं कृत्वा सुरक्षयेत्
तद्बेरसममध्यर्धं द्विगुणं चतुरश्रकम्॥ 28
अधमं मध्यमं तद्वदुत्तमं त्रिविधोदितम्
कृत्वा तस्य चतुर्भागं त्रिभागं चार्धमेववा॥ 29
गर्भागारं भवेच्छेषं भित्तिविष्कंभमेव च
समंटपं विमानं तु पूर्ववत्कारयेद्विधिः॥ 30
शिलेष्टकाविमाने तु वर्गस्यान्ते परस्य वा
कारयेन्मिश्रमथ चेदशक्तः कर्तुमीदृशम्॥ 31
अधिष्ठानस्य चोर्ध्वं हि यथेष्टस्थानके पुनः
मिश्रद्रव्येण कुर्यात्तु शक्तिलोभं न कारयेत्॥ 32
वर्णक्षयेध्रुवे दोषसंफदे स्फुटितादिभिः
अल्पदोषेऽपि वाशक्तिं ध्रुवबेरस्थितां तदा॥ 33
कुंभेंऽभसि समावाह्य तत्कुंभं कौतुकादि च
समादाय विधानेन मालिकायां तु मंडपे॥ 34
सन्न्यस्य कौतुकादौ तु समावाह्य समर्चयेत्
काले कुंभे समारोप्य क्रियास्सर्वास्समाचरेत्॥ 35
अतीते द्विदिने कुंभमन्यदादायचाऽत्वरः
कुंभाच्छक्तिं समादाय कुंभेऽन्यस्मिन् विधालतः॥ 36
अर्चयेत्त्रिदिने चैवं कुंभसंशोधनं चरेत्
पश्चाच्च वर्णलेपादीन् कृत्वा संशोद्य चैवहि॥ 37
वास्तुहोमं च पुण्याहं ध्रुवशुद्धिं च कारयेत्
कुंभं बिंबं समादाय प्रविश्याऽभ्यन्तरं ततः॥ 38
कौतुकादीन् सुसंस्थाप्य न्यासादींश्च विधाय च
कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेत्॥ 39
ध्रुवात्पुनः कौतुकादिष्वावाङ्य तु समर्चयेत्
दोषाणां गोरवान्मासादूर्ध्वं कालेत्वपेक्षिते॥ 40
देवं बालालये स्थाप्य शोधयेन्मृण्मयं पुनः
यावच्छूलं पुनश्शैलं शिलान्तं शोधयेत्क्रमात्॥ 41
- * *
नवषट्पंचमूर्तीनां विमाने दोषसंयुतम्
यत्तलं तत्तलं गृह्य बालस्थानं प्रकल्प्य च॥ 42
कौतुकादीन् सुसंस्थाप्य विधिना सम्यगर्चयेत्
पश्चात्तले तु निर्दुष्टे कौतुकादीन् प्रगृह्य च॥ 43
स्थापयित्वा पुनश्चैव विधिनाऽपि समर्चयेत्
- * *
अथ वक्ष्ये जीर्णबेरपरित्यागविधिं क्रमात्॥ 44
ध्रुवस्यांगविहीने तु त्यजेत्तत्सद्य एव हि
कर्त्राराधकयोर्ग्राह्यमन्यथा स्यान्महद्भयम्॥ 45
तस्मात्सर्वप्रयत्नेन जीर्णं संशोध्य सर्वतः
नववस्त्रैस्समाच्छाद्य बद्ध्वा च कुशरज्जुभिः 46
ब्राह्मणैर्वाहयित्वैव नदीं स्फारां समुद्रगाम्
अशोष्यं वा जलाधारमन्यन्नीत्वाऽथ तत्तटे॥ 47
प्रपां कृत्वाऽग्निमाधाय चौपासनमतन्द्रितः
आघारान्ते तु जुहुयाद्वैष्णवं शतशस्ततः॥ 48
``दद्भ्यस्स्वाहेत्यंगहोमं व्याहृत्यन्तं हुनेद्भुधः
वस्त्रबंधं विमोच्यैव प्राङ्मुखोदङ्मुखो गुरुः 49
वारुणं वैष्णवं चैव प्रक्षिप्यैव च तज्जले
स्नायात्संस्मृत्य देवेशं दारवे तु विशेषतः॥ 50
दग्ध्वाऽग्निनाथ तद्भस्म निक्षिपेत्तादृशे जले
देव्यादीनां पर्षदां च तत्तन्मंत्रं सवैष्णवम्॥ 51
हुनेज्जलेक्षिपेत्पश्चाद्दद्यादाचार्य दक्षिणाम्॥
- * *
अथ चेत्कौतुकादीना मंगहानिस्तदुच्यते॥ 52
- * *
महांगानि शिरः कुक्षि वक्षः कंठान् प्रचक्षते॥
पादौहस्तौ बाहवश्चेत्यंगानि प्रवदन्तिहि 53
अंगुल्यः कर्णनासाद्याः प्रत्यंगानि विदुर्बुधाः
शिरश्चक्रं च पीठं च प्रभामंडलमेव च 54
उपांगान्यूचिरे भूषणायुधांबरपूर्वकान्
- * *
तत्रोपांगस्य हीने तु कुंभं संसाध्य पूर्ववत्॥ 55
आवाह्य कुंभे तच्छक्तिं बिंबं संधाय पूर्ववत्
कृत्वा जलाधिवासादीन् वास्तुहोमं विधाय च॥ 56
संशोद्य पंचगव्यैश्च कुशोदैश्च विशेषतः
सप्तभिः कलशैस्थ्साप्य कुंभस्थां शक्तिमादरात्॥ 57
समावाह्य पुनर्बिंबे विधिना सम्यगर्चयेत्॥
- * *
प्रत्यंगहीने तच्छक्तिं महाबेरेऽवरोप्य च॥ 58
उध्रुत्य बिंबं संप्रोक्ष्य पंचगव्यैः कुशोदकैः
तुल्यलोहेन संधाय चाऽधिवास्य कुशादिषु॥ 59
पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत्
- * *
अंगहीनेतु संधानयोग्यं संधाय पूर्ववत्॥ 60
अर्चयेदन्यथा युक्तेहीने वाऽपि महांगके
भूमौ पिधाय तद्बेरं तदूर्ध्वे जुहुयात्क्रमात्॥ 61
अंगहोमं महाशान्तिमपोह्यैव च तद्दिनम्
उद्धृत्य बिंबं प्रक्षाल्य पंचगव्यैः कुशोदकैः 62
त्रिरग्नौ संपरिक्षिप्य शोधयेदाम्लवारिणा
राजतं द्विस्सकृद्रौक्मं दहेदग्नाविति क्रमः 63
कृत्वातेनैव द्रव्येण बिंबं पूर्ववदुत्तमम्
पुनःप्रतिष्ठां कृत्वैव कारयेदर्चनं क्रमात्॥ 64
पटे कुड्येऽथ वा लिख्य बेरे विधिवदर्चिते
जीर्णमालोक्य तच्छक्तिमारोप्यैवार्कमंडले॥ 65
नवीकृत्य पुनस्तस्मिन् प्रतिष्ठाप्य समर्चयेत्
- * *
आचार्येण च येनादौ कर्षणाद्याः कृताः क्रियाः॥ 66
प्रतिष्ठा वा कृता विष्णोस्तेनैवान्यांश्च कारयेत्
नित्यार्चनोत्सवादींश्च प्रायश्चित्तादिकानपि॥ 67
तदभावे च तत्पुत्रं पौत्रं नप्तारमेव च
तद्वंशजं वा तच्छिष्यं तन्नियुक्तमथान्ततः॥ 68
आचार्यसन्निधौ नाऽन्यमाचार्यं वरयेत्क्वचित्
वरयेद्यदि राष्ट्रस्य राज्ञश्चाऽपि महद्भयम्॥ 69
भवेच्च निष्फला पूजा सर्वं कार्यं विनश्यति
तस्मात्सर्वप्रयत्नेन न कुर्याद्गुरुसंकरम्॥ 70
अज्ञानादर्थलोभाद्वा कृते त्वाचार्यसंकरे
अब्जाऽनले महाशान्तिं हुत्वा संप्रार्थ्यवै गुरुम्॥ 71
याचयित्वा ``क्षमस्वेति पूजयित्वा विशेषतः
पनस्तेनैव तत्कर्म कारयेदिति शासनम्॥ 72
आचार्यदीनामलाभे तु तद्रूपं लेखयेत्पटे
तत्सन्निधौ युक्तमन्यमाचार्यं वरयेत्तथा॥ 73
एकस्मिन्नालये स्याच्चेत्सन्निपातस्तु कर्मणाम्
आचार्यं संप्रणम्यैव तत्पुत्राद्यैर्विधानतः 74
कारयेत्तदलाभेतु कारयेत्तंत्रतो गुरुः
- * *
पूर्वं तु योगमार्गेण प्रतिष्ठाप्यार्चिते पुनः 75
देवीभ्यां सह पश्चात्तु कारयेत् स्थापनं यदि
आभिचारिकमेव स्याद्राजराष्ट्रविनाशकृत्॥ 76
- * *
ध्रुवकौतुक संयुक्ते पूज्यमाने पुरा ततः
विमानध्रुवयोर्नाशे ब्रह्मस्थाने ध्रुवार्चनम्, 77
कौतुकं चोत्सवस्थाने स्थापयेदिति के चन
स्थानके चासनं कुर्याच्छयनं वाऽपि चेच्छया॥ 78
असनेशयनं कुर्यात्थ्सानकं न तु कारयेत्
शयने नाऽसनं चैव स्थानकं कारयेद्विधिः 79
कौतुकं स्थितमासीन मौत्सवं कारयेत्तथा
असीनं कौतुकं कुर्यात्थ्सितमौत्सवमेव वा॥ 80
स्नपनं बलिबेरं च स्थितं सर्वत्र कारयेत्
अवतारगणस्यैव मूर्तीनां पंचकस्य च 81
अन्योन्यसंकरेणैव स्थापने कौतुकस्य च
महत्तरो भवेद्दो, स्तद्दोषशमवाय वै 82
हुत्वा तु महतीं शान्तिं यथास्थाने तु स्थापयेत्
अथ वक्ष्ये विशेषेण शान्तिपंचककल्पनम्॥ 83
नराणां पापबाहुल्यादपराधविशेषतः
देवास्सृजन्त्यद्भुतानि तेषु दृष्टेषु सत्वरम्॥ 84
कुर्याच्छान्तिं यथोक्तांतु विपरीते त्वनर्थकृत्
कर्त्राराधकयोश्चैव राज्ञो राष्ट्रस्य वास्तुवः 85
संक्षोभो जायते सद्यो विनाशो भवति ध्रुवम्
द्वादशाहाऽन्तरे तस्माच्छान्तिं कुर्याद्विधानतः॥ 86
अतीते द्वादशाहेतु महाशान्तिपुरस्सरम्
संपूज्य वैष्णवान् शक्त्यादत्वा वै भूरिदक्षिणाम्॥ 87
आरभेदुत्तरं कर्म मासेऽतीते विशेषतः
सप्ताहं तु महाशान्तिं हुत्वा विप्रशतं तथा 88
भोजयित्वा च देवेशमनुमान्य तु कारयेत्
षण्मासे समतीते तु रमते तत्र नोहरिः 89
तस्मात्सर्वप्रयत्नेन कुर्याच्छान्तिं यथोदिताम्
- * *
भौमाऽन्तरिक्षदिव्याख्यभेदात्त्रिविधमद्भुतम्॥ 90
- * *
ग्रहयुद्धश्च भेदश्च विकारो ग्रहमंडले
सर्वग्रासोपरागश्च दुर्भिक्षश्चाऽक्षभेदनम्॥ 91
एवमादीनि दिव्यानि त्वद्भुतानि प्रचक्षते
- * *
आंतरिक्षाणि चार्केंद्वोः परिवेषो निरन्तरः॥ 92
वर्णान्तरेण बाहुल्यात्परिवेषस्तथाविधः
रात्राविंद्रधमर्देवसद्म चाकाशमंडले॥ 93
अशन्युल्कादिपातश्च राहुपुच्छादिदर्शनम्
नक्षत्रपतनं केतोर्धूमस्येंद्रस्य दर्शनम्॥ 94
गंधर्वनगरस्याऽपि दर्शनं पतनं तु वा
प्रतिसूर्याऽब्जनक्षत्रदर्शनं संप्रचक्षते॥ 95
- * *
भौमान्यनेकथोक्तानि चरस्थिरविभेदतः
देशकालस्वभावादिविरुद्धं प्रसवादिकम्॥ 96
पृषदंशकसर्पाश्वयोनिजानां विशेषतः
गोनागमहिषाद्येषु तिर्यक्षु जननं तथा 97
कृमिकीटपतंगेषु विष्किरेष्वंडजादिषु
विवर्णाकारवासादिराश्रयादिस्तथालये॥ 98
रक्तस्त्रीदर्शनादीनि चाद्भुतानि चरेषु तु
- * *
दिव्यानि चान्तरिक्षाणि तेषामत्रोत्तमोत्तमम्॥ 99
नाराणि चोत्तमानि स्युर्माहिषाद्यानि मध्यमम्
सरीसृपादिषु भवान्यथमानि वदन्तिहि॥ 100
- * *
रोदनं हसनं जल्पो ज्वलनं परिवर्तनम्
स्वेदश्च रुधिरस्रावः कृमिकीनादिसंभवः॥ 101
अकालस्फोटनं धूमश्चांगकंपनमेव च
स्वापनास्वादनेचैव तृणवल्मीक संभवः॥ 102
प्रतिमायां भवेच्चेत्तु रक्तस्त्रीदर्शनं तथा
पाषंडप्रतिलोमान्त्यजातिभिः पतितैस्थथा॥ 103
सृगालादिभिरस्पृश्यैस्स्पर्शने च प्रवेशने
स्थूणाविरोहणे चैव चलने परिवर्तने॥ 104
तथापसर्पणे चैव कवाटशयनाऽसने
भित्त्यायुधांऽबरे तद्वदग्निहोत्राद्युपस्करे॥ 105
विमाने च विकारश्च मक्षिकावृक्षपातने
प्रवर्तने चोपसर्पे पर्णपुष्पफलेषु च॥ 106
शाखादौ विपरीतस्य दर्शनं च विशेषतः
रक्तस्रावो जलस्रावश्चाद्भुतानि स्थिरेषु तु॥ 107
तेषु गर्भकृहे चैव पीठे चैव भवानि तु
राज्ञोराष्ट्रस्य विप्राणां नाशकानि विशेषतः॥ 108
कर्त्राराधकयोर्नाश इति शातातपोऽब्रवीत्
प्रासादजानि राज्ञां स्युः प्रासादेऽपि विशेषतः॥ 109
अधिष्ठाने च पादे च प्रस्तरे च गलेऽपि च
शिखरे च भवानि स्युःक्षत्रियाणां क्रमेण तु॥ 110
अभिषेकस्य योग्यस्य युवराजस्य चैव हि
अभिषिक्तस्य सम्राजश्चाऽत्याहितकराणि तु॥ 111
प्रथमावरणे वैश्यजातीनां मंत्रिणां तथा
पुरोहितस्य तन्मंडलाधिपानां महद्भयम्॥ 112
शूद्रजातिविपद्धेत्द्वुतीयावरणादिषु
सस्यनाशो गजाश्वादिपशुनाशस्च जायते॥ 113
पुरोधसश्चाऽग्निकुंडे ब्रह्मस्थाने द्विजन्मनाम्॥
रुद्रालये तु सर्वेषां नृपस्य तु गुहालये॥ 114
सेनेशानां विपत्ति स्स्याद्वक्रतुंडालये तथा
श्य्रालये राजपत्नीनां दुर्गास्थानेऽन्ययोषिताम्॥ 115
मातृस्थानेऽन्त्यजातीनामोषधीनां कुबेरके
नृपवाहनशस्त्रोपजीविनां भास्करालये॥ 116
अन्यदेवालये तत्तद्भोक्तानामपि लक्षयेत्
आस्थानमंडपसङामंडबप्रांगणेषु च॥ 117
महानसे नृपावासे क्रीडास्थाने विशेषतः
आचार्ययजमानादिपदार्थिनिलयेषु च॥ 118
चैत्यवृक्षादिषूद्भूता रक्तस्त्रीदर्शनादयः
वल्मीकाद्याश्च फलदास्तत्तद्दिश्युक्तमार्गतः 119
- * *
भौमेषु देवबेरार्चापीठगर्भगृहार्ते
जातादोषान्तु संप्रोक्ता उत्तमोत्तमसंज्ञिताः 120
उत्तमास्तुपुनर्जाताः प्राकारेमुखमंडपे
मध्यमाः प्रथमावरणे शेषेषूक्तास्तथाधमाः 121
तथा राजांगणे चोत्तमोत्तमाः परितस्ततः
अंकणेषूत्तमा अंतर्वास्तुके मध्यमास्स्मृताः॥ 122
अधमा वास्तुनो बाह्ये तारतम्यमिति स्मृतम्
- * *
दिव्यान्तरिक्षयोर्नास्ति चिकित्सा शान्तिरिष्यते॥ 123
भौमेषु तु चरेष्वत्र निमित्तं च निमित्तिनम्
देशान्तरे वासयित्वा शान्तिंतत्र समाचरेत्॥ 124
स्थिरेषु प्रतिमानां तु रोदने हसने तथा
ज्वलने च तथा देवं संस्थाप्य तरुणालये॥ 125
तद्बेरस्थां समारोप्य शक्तिं तत्र विधानतः
शान्तिं कृत्वा पुनः कुर्यात्थ्सापनं चार्चनं क्रमात् 126
परिवृत्तौ पुनस्थ्साप्य कुर्याच्छाऽन्त्यादि पूर्ववत्
स्वेदे च रुधिरस्रावे सर्वं रोदनवच्चरेत्॥ 127
कृमिकीटपतंगानां कृणादीनामथोद्भवे
आरोप्य पूर्ववच्छक्तिं पुनस्संधाय युक्तितः॥ 128
शान्त्यादीनाचरेदेवमकालस्फोटनादिके
- * *
बेरार्चापीठके तद्वदालयाऽभ्यन्तरेपे च॥ 129
वल्मीकाद्युद्भवे देवं संस्थाप्य तरुणालये
यावद्दोषं खनित्वैव गव्यैरभ्युक्ष्य पंचभिः॥ 130
संशोध्य सर्वं संधाय पुनस्थ्सापन माचरेत्
- * *
प्रासादबाह्ये चोत्पन्ने विवरे विशदीकृते॥ 131
पेषयित्वा मरीच्यादिजलेनापूर्य चाश्मना
आलिप्य शर्करां कुर्या च्छान्तिं दिव्यप्रचोदिताम्॥ 132
पुनरप्युदिते कुर्यादेवमेव तुयुक्तितः
- * *
मक्षिकादर्शने तत्त्यद्व्यपोह्यत्वविलंबितम्॥ 133
शोधयित्वा ततश्शान्तिमारभेत विचक्षणः
- * *
अस्पृश्यस्पक्शने तद्वत्कृत्वा शान्तिं समाचरेत्॥ 134
- * *
स्थूणाविरोहणादौ च पुनस्संधाय चाचरेत्
- * *
हठाद्वृक्षाधिपतिने शान्ति स्तत्त्यागपूर्विका॥ 135
- * *
राजांगणे समुत्पन्ने राजानं सबलं पुनः
वेश्मान्तरं वासयित्वा शान्तिं कृत्वा यथोचिताम्॥ 136
अभिषिच्य पुनर्युक्तॆदिने राष्ट्रं प्रवेशयेत्
अथोत्तमोत्तमस्योत्तमस्य स्यान्मध्यमस्य च॥ 137
अधमस्याऽपि चास्पृश्यस्पर्शनस्य यथाक्रमम्
क्रमेणाद्भुतशान्तिस्तु प्रभूता महती तथा॥ 138
शान्तिश्शुद्धिरिति प्राज्ञैः पंचधा शान्तिरुच्यते
- * *
आलयाभिमुखे तद्वदैशान्यां चोत्तरेऽथ वा॥ 139
पर्वताग्रे तटाकस्य तीरे वा मंडपं प्रपाम्
कूटं वा षोडशस्तंभसंयुक्तां सुमनोहरम्॥ 140
चतुर्हस्तप्रमाणान्तस्त्संभान्तरसमायुताम्
तानोन्नताचलायुक्तां? कृत्वा मध्ये विधानतः॥ 141
कुंडं श्रामणकोक्तं तु कृत्वाऽधो द्वादशांगुलम्
खनित्वैव च त्प्राच्यां द्विहस्तायत विस्तृतम्॥ 142
हस्तमात्रसमुत्सेधं कृत्वा स्थंडिलमुत्तमम्
प्रागादिषु चतुर्धिक्षु क्रमेणाहवनीयकम्॥ 143
अन्वाहार्यं चावसथ्यं गार्हपत्यं च कारयेत्
अग्नेयादिषु कोणेषु कुंडान्यौपासनानि च॥ 144
कृत्वाद्वारेषु विधिना तोरणादि प्रकल्पयेत्
पूर्मकंभैरंकुरैश्च कदलीभिर्ध्वजैरपि॥ 145
स्तंभ वेष्टनकाद्यैश्च दर्भमालाभिरेव च
अलंकृत्य वितानाद्यैर्यथाविभवस्तरम्॥ 146
स्थंडिले धान्यराशिं तु कृत्वा तस्य च मध्यमे
पद्ममष्टदलं कृत्वा तंडुलैस्तस्य मध्यमे॥ 147
सौवर्णं राजतं ताम्रं कृण्मयं वा स्वशक्तितः
द्वात्रिंशत्प्रस्थसंपूर्णं कंभमादाय शास्त्रवत्॥ 148
तंतुना परिष्ट्यैव यवान्तरमनन्तंम्
वस्त्रयुग्मेन संवेष्ट्य भूषणणैश्च विभूष्य च॥ 149
सौवर्ण मंगलान्यष्टौ तथा पंचाऽयुधानि च
वर्णचिह्नानि तादृंशि चाहीनान्यंगुलादपि॥ 150
रत्नानि हेम रजतं ताम्रं कांस्यं तथा त्रपु
सीसाऽयस्तीक्ष्णुकान्तानि ग्रहरूपाणि चैव हि॥ 151
निक्षिप्याऽपूर्य तोयेव शुद्धेन तु विधानतः
कर्पूरचंदनोशीरलवंगैलादिकानपि॥ 152
गंधद्रव्याणि चान्यानि न्यस्य चूतादिपल्लवान्
तन्मुखं तु पिधानेव पिदध्यात्सदृशेनवै॥ 153
आचार्यमृत्विजश्चापि वृत्वा शास्त्रविधानतः
नववस्त्रोत्तरीयाद्यैः पंचांगार्पितभूषणैः 154
अलंकृत्याऽग्निकुंडेषु हुत्वाऽघारं यथोदितम्
मध्ये सूर्यं तथेंद्रादि भार्गवांगारकौ तथा 155
मंदं गुरुं पावकादि चंद्रराहुध्वजान् बुधम्
प्रदक्षिणवशेनैव ध्यात्वावाङ्याऽर्चये त्ततः 156
अष्टाक्षरेणाऽयुतं वा सहस्रं चाष्टसंयुतम्
अभिमृश्य विधानेन ग्रहयज्ञोदितेन वै॥ 157
हुनेच्च तत्तद्दैवत्यं समिच्चरुघृतैः क्रमात्
हुत्वाष्टोत्तरसाहस्रं ततो वैखानसाऽनले॥ 158
घृताप्लुतैर्बिल्वदलैरष्टोत्तर सहस्रकम्
हुनेदष्टाक्षरं नित्यं तथा बिल्वसमिद्घॆतैः 159
दूर्वापूपव्रीहितिलचरुलाजाऽब्जसक्तुभिः
वैष्णव्याचैव गायत्य्रा पूर्ववज्जुहुयाद्गुरुः 160
घृतेनाष्टाक्षरेणैव सहस्रं चाष्टसंयुतम्
हुत्वान्ते तु घृतेनैव वैष्णवं विष्णुसूक्तकम्॥ 161
जुहुयात्पौरुषं सूक्तं नृत्तैर्गेयैश्च घोषयेत्
यथादिशं चतुर्वेदान्नित्यमध्यापयेत्क्रमात्॥ 162
कल्पसूत्रमथौखेयं प्रणीतं गुरुणा पुरा
स्वाध्यायो यत्र यत्रोक्तस्तत्राध्येयं विधानतः 163
ऋत्विग्भ्यो दक्षिणां दद्यादेवं सप्ताहमाचरेत्
यदि देवालये दोषः कुंभपार्श्वेथ स्थंडिले॥ 164
देवं तं स्थाप्य चाभ्यर्छ्य निवेद्य च महाहविः
देवस्याभिमुखे हुत्वा होममन्ते यथाविधि॥ 165
नवाहं वाथ स्ताहमुत्सवं कारयेद्विधिः
दिव्यान्तरिक्षयोः कुंभजलेना प्लावयेन्नृपम् 166
भौमेषु तत्थ्सलं प्राक्ष्य शिष्टतोयेन वै नृपम्
तत्पत्नीं चाभिषिंचेच्च गुरुं संपूज्य पार्थिवः 167
सुवर्णपशुभूम्यादीन् दद्यादृत्विग्भ्य एव च
दक्षिणां बहुलां दद्याज्जीवो यज्ञस्य दक्षिणा॥ 168
यदि राजगृहे दोषः कृत्वा मंडपमन्तिके
पूर्ववद्ग्रहयज्ञं च होमं श्रामणकेऽनले॥ 169
कुंभस्य साधनं कृत्वा सप्ताहान्ते प्रभुं तथा
स्नापयेत्कुंभतोयेन प्रतिष्ठान्तक्रमेण वै॥ 170
दक्षिणां गुरुपूर्वेभ्यो दत्वा कृत्वांऽकुराऽर्पणम्
शुभेऽनुकूलॆ नक्षत्रे कृत्वा चैवाभिषेचनम्॥ 171
प्रविशेत्पूर्वगेहं तु धर्मसिद्ध्यैगुरूदितः
एष एव विधिः प्रोक्तो गृहिणामपि सम्मतः॥ 172
राज्ञां परार्थवृत्तित्वात्सोऽत्र तु प्रकृतीकृतः
- * *
सर्वग्रासोपरागादिदिव्याद्भुतशमायवै॥ 173
यथाशक्ति ब्राह्मणेभ्यस्स्वर्णं भूमिं पशूनपि
दद्यात्तथा विशेषेण दक्षिणां भूरिसम्मिताम्॥ 174
अनावृष्टिनिवृत्त्यर्थं कुंभं संगृह्य पूर्ववत्
सर्वतीर्थं समावाह्य समभ्यर्च्याग्रतो हरेः॥ 175
ध्यान्यपीठे तु सौवर्णं पद्ममष्टदलैर्युतम्
हेमपात्रे तु सन्न्यस्य देवमावाह्य तत्र च॥ 176
अभ्यर्च्य तस्य चोर्ध्वेतु पीठे कुंभं निधाय च
कुंभमूले तु सुषिरं सूचीमात्रं विधाय च॥ 177
तद्धारया त्वविच्छिन्नरूपया सेचयेद्धरिम्
समिद्भिर्वैतसीभिस्तु पालाशीभिरथाऽपि वा॥ 178
अष्ठोत्तरसहस्त्रं तु जुहुयात्पंजवारुणम्
अग्नौ श्रामणके पश्चाद्दिशाहोमेषु पूर्ववत्॥ 179
अष्टात्तरसहस्रं तु प्रत्येकं पंचवारुणम्
समिद्भिर्जुहुयाद्विद्वान् वैतसीभिर्यधाविथि॥ 180
समिद्भिः पुनराज्येन वैतसीभिः पृथग्घुनेत्
अष्टाधिकसहस्रं तु ``इंद्रं प्रणयन्त मित्यपि॥ 181
श्रामणाग्निं विधायैकं दक्षिणे तस्य वज्रिणम्
आवाह्य तु समभ्यर्च्य ``शचीसहायेति होमयेत्॥ 182
देवं विशेषतोऽभ्यर्च्य कारयेत्स्नपनादिकम्
एवं ज्ञात्वा विधानेन तत्तत्कर्मसु गौरवम्॥ 183
त्य्रहादि त्रिंशद्घस्रान्तं श्रामणाग्नौ यथाविथि
दिने दिने पूरयित्वा कुंभं तेनैव सेचयेत्॥ 184
सर्वान्ते देवमास्नाप्य समभ्यर्च्य हविर्ददेत्
कर्मान्ते स्यान्महावृष्टिस्तस्माद्यत्नेन कारयेत्॥ 185
अथ वा वर्ष कामी वा मोक्षार्थी पशुकामनः
सर्वोपद्रवशान्त्यर्थी विजयार्थी विशेषतः 186
स्नपनालयमासाद्य अलंकृत्य च पूर्ववत्
कर्मगौरवमाज्ञाय संभृत्य बहुधा पयः॥ 187
पूजयेत्प्रथमं यत्नादाचार्यं सहि धारकः
आचार्यस्सुप्रसन्नात्मा श्वभ्रात्प्राच्यां तु तंडुलैः 188
कृत्वा पंक्तिं दक्षिणोत्तरायतां विपुलान्तराम्
श्वभ्राद्दक्षिणतः कृत्वा कुंडं श्रामणकस्य तु 189
अग्निमाधाय कुंभां स्तु नव संवेष्ट्य तंतुना
अद्भिः प्रक्षाळ्य चोत्पूय कुशकूर्चेन चाऽत्वरः 190
क्षीरेण पूरयित्वैव चोत्बूतेन क्रमेण वै
पंक्तिं निधायाऽपिधानैरपिधायोपरि क्रमात्॥ 191
वस्त्रेणाच्छादयेच्छ्वभ्रंपूजान्तेभ्यर्च्य वै हरिम्
स्वस्तिसूक्तेन चानम्य संस्थाप्य श्वभ्रमध्यमे॥ 192
अर्चनोक्तविधानेन सर्वं पूर्वनदायरेत्
तंतुना वेष्टिते क्षीरं कृहीत्वाकरके पूनः 193
विष्णुसूक्तेन ``चेषेत्वेत्याद्यैर्मंत्रैः क्रमाद्गुरुः
तया संस्नापयेद्देनमुक्तयो क्षीरधारया॥ 194
तथैव परिषिच्याऽग्निं मंत्रै``र्विष्णोर्नुकादिभिः
``अतोदेवादिभिस्तद्वदष्टार्ण मनुना तथा॥ 195
जुहुयाद्विष्णुगायत्य्रा अष्टाधिकसहस्रकम्
अथ वा स्नपनं यावत्तावदुद्वर्त्य मन्त्रतः 196
हारिद्रेन तु चूर्णेन संशोध्याम्लादिभिस्ततः
गंधोदेन सुसंस्नाप्य प्लोतेन विमृजेत्ततः 197
वस्त्रादिभिरलंकृत्य समभ्यर्च्य विधानतः
पायसादि हविर्दद्याद्दप्यादाचार्यदक्षिणाम्॥ 198
अनेन सर्वान् कामांश्च लभेताऽविशयं नरः
- * *
ध्रुवबेरार्चने चेत्तु संस्नाप्य प्रमुखे घटम्॥ 199
तस्मादानीय तत्रैव स्नापयेदुक्तगौरवात्
सप्तपंचत्य्रहान्यत्र क्षीरस्नानं प्रकल्पयेत्॥ 200
एवं घृताभिषेकं च कारयेत्सदृशं फलम्
इमामद्भुताशान्तिंतु काश्यपाद्याः प्रचक्षते॥ 201
- * *
अथ प्रभूतशान्तिं तु प्रवक्ष्यामि तपोधनाः
पूर्ववन्मंटपादीनि कारयित्वा यथाविधि॥ 202
विशाहोमं चकृत्वैव श्रामणाऽग्नौ यथोदितम्
कुंभं संसाध्य च प्राग्वत्सप्ताहान्ते विशेषतः 203
अष्टोत्तरशतं वाऽष्टचत्वारिंशदथाऽथ वा
संगृह्य कलशानान्तु समभ्यर्च्यऽभिषेच्य च॥ 204
देवं विशेषतोऽभ्यर्च्य हविर्दद्यादयं विधिः
- * *
महाशान्तिक्रमं वक्ष्ये विना कुंभस्य साधनम्॥ 205
अग्नौ श्रामणके बिल्वपत्रैराज्याप्लुतैःक्रमात्
अष्टाधिकसहस्रं वै हुनेदष्टाक्षरेण तु॥ 206
आज्येन वैष्णवं विष्णुसूक्तं पौरुषमेव च
हुत्वा त्य्रहान्ते संस्नाप्य शुद्धस्नपनवर्त्मना॥ 207
समभ्यर्च्य हविर्दद्यान्महाशान्तिरियं भवेत्॥
- * *
औपासनाग्नावेकाहं हुत्वा शान्तिं विधानतः॥ 208
ब्राह्मणान् भोजयित्वैव दद्यादाचार्यदक्षिणाम्
अथ शुद्धिविधिं वक्ष्ये वास्तुहोमं हुनेत्ततः॥ 209
बिल्वपत्रादिभिर्हुत्वा पृथगष्टोत्तरं शतम्
पुण्याहान्ते गुरुं पूज्य भोजयेद्ब्राह्मणानपि॥ 210
सर्वत्रतु विकल्पेन घटसंस्कारमाचरेत्
- * *
अथातस्सर्वशान्तिस्स्यादपमृत्युभये तथा॥ 211
ग्रहकोपे महाव्याधौ परचक्रभये तथा
अर्थबंधुविनाशे च दुर्भिक्षे च पराजये॥ 212
अभिचारभये चैव तापत्रयनिपीडने
विरुद्धेऽचात्मनः प्राप्ते सर्वशान्तिं समाचरेत्॥ 213
सप्ताहं वा नवाहं वा द्वादशार्णेन वै पृथक्
अष्टोत्तर सहस्रं तु जुहुयाद्विधिना क्रमात्॥ 214
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां
प्रकीर्णाऽधिकारे एकोनत्रिंशोऽध्यः॥