प्रकीर्णाऽधिकारः/एकादशोऽध्यायः
| ← दशमोऽध्यायः | प्रकीर्णाऽधिकारः एकादशोऽध्यायः [[लेखकः :|]] |
द्वादशोऽध्यायः → |
अथैकादशोऽध्यायः॥
भगवत्प्रतिष्ठाविधिः
अथाऽत स्संप्रवक्ष्यामि प्रतिष्ठाविधि मुत्तमम्
सुप्रशस्ते मुहूर्ते वै प्रतिष्ठां कारयेद्बुधः॥ 1
आचार्यलक्षणम्
वैखानसेन सूत्रेण निषेकादिक्रियाऽन्वितान्
विप्रान् वेदविद श्श्रेष्ठान् धार्मिकान् ज्ञापतत्परान्॥ 2
सौम्यान् जितेंद्रियान् शुद्धान् विष्णोराराधने परान्
ऊहापोहविधानेन ध्वस्तसंशयमानसान्॥ 3
पत्न्यपत्ययुतान् शान्तान् स्नानशीलान् सुरूपिणः
आहूय पूज्यतत्रैकं सर्वकार्योपदेशकम्॥ 4
आचार्यं वरयित्वैव तेनोक्तं सर्व माचरेत्
भूमिः परीक्षिता येन गुरुणा विधिपूर्वकम्॥ 5
कर्षणादिप्रतिष्ठान्तं कर्म तेनैव कारयेत्
ऊर्ध्वेप्याचार्यकर्माणि तत्र तेनैव कारयेत्॥ 6
तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा
तस्यैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा 7
सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरम्
तदनुज्ञात मितर माचार्यत्वे नियोजयेत्॥ 8
अन्यधा चे न्महान्दोषो राजा राष्ट्रं च नश्यति
क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकरः॥ 9
अग्निहोत्रा न सीदन्ति स्वाध्यायो न प्रवर्तते
विपरीतानि चान्यानि भविष्यन्त्यधरोत्तरम्॥ 10
तस्माच्छास्त्रोक्तविधिना सर्वकर्माणि कारयेत्
श्वेतगंधानुलेपैश्च श्वेतपुष्पांऽगुलीयकैः॥ 11
आचार्यादीन् समफ्यर्च्य नमस्कृत्य स्वदैववत्
`कर्मेदं मे कुरु'ष्वेति याचे दाचार्य मादरात्॥ 12
शिष्य स्समर्पयेत्सर्वं भरमाचार्यपादयोः॥
आचार्य स्सुप्रसन्नात्मा शिष्याऽनुग्रहतत्परः॥ 13
तथैवेति सुसंकल्प्य कुर्याच्चैवांऽकुरार्पणम्
अंकुरार्पणकादूर्ध्व मारंभदिवसादधः॥ 14
कूश्मांडहोम मब्जाऽग्नौकारयेद्गुरुरत्वरः
शुद्धदन्तनखश्चैव श्वेतवस्त्रोत्तरीयकः 15
त्रिषवणस्नाननिरतो हविष्याशी जितेंद्रियः
एवं क्रमेणवै विद्वान् ऋत्विग्फि स्सार्थमाचरेत्॥ 16
* * *
अरणीं स्रुक्च्रुवौचैव जुहूमुपभृतं तथा
मंगलानि च दर्वीं च तोरणानि यथाक्रमम्॥ 17
- * *
न्यग्रोधप्लक्षा पश्वद्थं पितृवृक्षयुतं तथा
तोरणार्थं समाहृत्य लक्षणेन समन्वितम्॥ 18
- * *
अथाऽष्टमंगलं वक्ष्येद्वितालायतमेव च
प्रादेशविस्तृतं कुर्यात् षडंगुल मथाऽपि वा॥ 19
घनं स्या च्चतुरंगुल्य? मत वा द्व्यंगुलंभवेत्
तस्य मध्ये लिखे द्विद्वान् तत्तद्रूपं पृथक् पृथक्॥ 20
श्रीवत्सं पूर्णकुंभं च भेरी मादर्शनं तथा
मत्स्ययुग्मांकुशौ शंख मावर्तं चाष्टमंगलम्॥ 21
- * *
आवर्तलक्षणं वक्ष्ये पंचविंशत्पदं तथा
ईशादिनैर्ऋतान्तन्तु पदं त्रिस्त्रिःक्रमेण च॥ 22
पूर्वमध्यमपाश्चात्यपदान्येवतु योजयेत्
वायुव्ये त्वग्निकोणान्त मुदङ्मध्यमदक्षिणे॥ 23
अन्तरालपदांश्चाऽष्टौ विनैव तु विचक्षणः
एतैश्च सप्तदशभि रावर्त मभिधीयते॥ 24
शंखचक्रगदाचापा असिः पंचायुधान्यपि
स्रुच स्स्रुवस्य दंडं तु प्रादेशत्रय मायतम्॥ 25
मूलं प्रादेशमात्रं स्या दग्रनाहं तदर्धकम्
अग्रे बिल्वफलाकारं प्रादेश प्रतिमंडलम्॥ 26
द्व्यंगुलं स्यात्तदास्यन्तु कर्तं माषद्वयाऽवधि
स्रुवमेवं प्रकुर्वीत द्विप्रादेश मथाऽपिवा॥ 27
जुहूदंडसमायामं चतुर्विंशतकांगुलम्
नाहं तदर्ध मित्युक्तं पद्मस्य मुकुळोपमम्॥ 28
षडंगुलं तु तस्याग्रं नाहं तस्य विचक्षणः
युगांगुलाग्रविस्तार मष्टांऽगुल मथायतम्॥ 29
शेषं तु त्य्रश्र मित्युक्तं विस्तृतोन्नत मंगुलम्
मध्यगर्तानुपूर्व्येण जुह्वाश्चैवक्रमं विदुः॥ 30
पश्चादुपभृतं कुर्या त्प्रादेशत्रय मायतम्
प्रादेशं नाहमित्युक्तं मूलादग्रं तदर्धकम्॥ 31
आनुपूर्व्यात्कृशं दंडं गळान्तमिति संज्ञितम्
ऊर्ध्वे प्रादेशमायामं चतुरश्रं षडंगुलम्॥ 32
तदूर्ध्वेऽर्धांगुलाऽयामं कंठ मेवं प्रचक्षते
शेषं तु त्य्रश्रकं कुर्या त्तत्र तेनैव कारयेत्॥ 33
उन्नतास्यांगुलार्धं स्याद्भित्त्युच्चमिति कथ्यते
ओष्ठ मेकांगुलं ज्ञात्वा तन्मध्येनिम्न माचरेत्॥ 34
पूर्णचन्त्राकृतिं कृत्वा प्रादेशं तस्य नाहकम्
निम्नं चतुर्यवागाढ मग्रान्तस्तु क्रमाद्बुधः॥ 35
अथ दर्व्यास्तथाऽयामं चतुर्विंशतिकांऽगुलम्
षडंगुलं तदग्रं स्या त्पुच्छं पंचांऽगुलं भवेत्॥ 36
शेषं त्रयोदशांऽगुल्यादंड मित्युच्यते क्रमात्
* * *
मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम्॥ 37
मूलादग्रं क्रमाद्वृत्तं पुंरूप मीतिकथ्यते
दर्भैर्मालां च कृत्वैव तस्यां पर्वणि पर्वणि॥ 38
द्वौद्वौदर्भौ विविक्षिप्य द्वितालं लंबयेत्क्रमात्
- * *
द्वितालायामसंयुक्तं खादिरं दंडमेव च॥ 39
दशांऽगुलपरीणाहं समवृत्तं तथैव हि
शाखांऽगुलसमायुक्तं मूलादग्रं तु बन्धयेत्॥ 40
तत्ताम्रायसपट्टैर्वाबन्धयित्वा विचक्षणः
तन्मूले सुषिरं कृत्वा गोलकं तत्प्रमाणकम्॥ 41
एवन्तु मन्थदंडस्स्या त्कुर्या त्तच्छास्त्रपारगः
शमीजात मथाऽश्वद्थ मरण्यर्थं प्रगृह्य च॥ 42
षडंगुलं तु विस्तारं गोलकं तु घनं भवेत्
दैर्घ्यं तस्य द्वितालं स्यात्फलकां कारयेद्बुधः॥ 43
तथैवोपरि पट्टिं च कृत्वा तत्र विचक्षणः
मौंज्यैव त्रिवृतां रज्जुं मंथनार्थाय कारयेत्॥ 44
- * *
दशाऽष्टनवभिर्हस्तैर्वस्त्र मायत मुच्यते
त्रिचतुःपंचतालं वाविस्तृतं वस्त्रमुच्यते॥ 45
गव्यं घृतं चाहरेत कापिलं तु गवादिषु
आजं च माहिषं त्याज्यं पक्षातीतं च वर्जयेत्॥ 46
* * *
पादौप्रक्षाळ्यचाऽचम्य पूर्वोदङ्मुख एववा
ब्राह्ममासस मास्थाय वैष्णवं मन्त्रमुच्चरन्॥ 47
परिस्तरणकूर्चादीन् समिथादीन् प्रगृह्यच॥
कूर्चं प्रदक्षिणाऽवर्तं गृह्णीया द्विधिवित्तमः॥ 48
प्रमुखे दक्षिणे वाऽपि यागशालां प्रकल्पयेत्
यागशाला
षोडशस्तंभसंयुक्तं मंडपं कूटमेववा॥ 49
प्रपां वा तत्र कुर्वीत मध्ये कूटं च कारयेत्
निम्नोन्नतं विभज्यैव जलस्थलसमीपकम्॥ 50
पूर्वोक्तेन विधानेन अलंकृत्य यथाक्रमम्
मध्ये वेदिं प्रकल्प्यैवबिंबाध्यर्ध प्रमाणतः॥ 51
तद्बहिःपूर्वभागेतु सभ्यकुंडं प्रकल्पयेत्
सभ्यस्य पूर्वभागेतु कुंड माहवनीयकम्॥ 52
उत्तरेवापुनः कुर्या दौपासनविधानतः
सभ्यस्य दक्षिणे कुंडं पौंडरीकं प्रकल्पयेत्॥ 53
वेद्यास्तु दक्षिणॆकुंड मन्वाहार्यं प्रकल्पयेत्
नैर्ऋते देवतास्थानं कल्पयेत्त द्विचक्षणः॥ 54
वैद्यान्तु पश्चिमे भागे गार्हपत्यं प्रकल्पयेत्
वायव्ये संचयस्थानं कल्पये त्तद्विधानतः॥ 55
वेद्यास्तथोत्तरे भागे त्वावसध्यं प्रकल्पयेत्
ऐशान्ये स्नापनश्वभ्रं कल्पये त्तद्विधानतः॥ 56
सभ्यस्य पौंडरीकस्य मैखलात्रयमुच्यते
अन्येषां चैव कुंडानां मेखलाद्वयमेव हि॥ 57
एकैकवेद्या विस्तार मुन्नतं चतुरंगुलम्
सभ्यस्य मध्यमं पंच पद्मस्याधष्षडंगुलम् 58
औपासननोर्थ्ववेद्यास्स्या दुन्नतं तु द्वियंगुलम्
दक्षिणोत्तरयोश्चैव संस्थानं ब्रह्मसोमयोः॥ 59
द्वादशांऽगुलसंयुक्तं चतुरश्रं सुवृत्तकम्
शल्यलोष्टतुषांऽगारतृणभस्मादिहीनया॥ 60
मृदा वा वालुकै स्तत्र पृथक्कुंडं प्रकल्पयेत्
यागस्थानस्य पूर्वेतु प्रपां कृत्वा विचक्षणः 61
नयनोन्मीलनाऽर्थाय यागशालां प्रकल्पयेत्
नयनोन्मीलनम्
उक्तक्रियावसाने तु बेर मादायचाऽत्वरः॥ 62
शिल्पिना शास्त्रमार्गेण कारयेदक्षिमोचनम्
देवस्य प्रमुखे कुर्या द्धान्यराशिं विशेषतः 63
हेमश्रुंगां रौप्यखुरां सवत्सां कांस्यदोहनाम्
सवत्सांगां समादाय देवस्य प्रमुखे न्यसेत्॥ 64
घृतं मधुदधिक्षीरं गृहीत्वा कांस्यभाजने
रुक्मंतत्रैव निक्षिप्य दीपयुक्तं तु विन्यसेत्॥ 65
हेमपात्रैस्तु सूचीभ्यां रजतैर्वापि चाहरेत्
हूळिकां ताटनींचैव शीलां लोहमयस्यवै॥ 66
बिंबस्य चोत्तरे पार्श्वे वास्तुहोमं यजेत्ततः
पर्यग्नि चैव कृत्वातु प्रोक्षये त्पंचगव्यकैः 67
उत्तराभिमुखो देहघुद्धिं कृत्वा गुरुस्ततः
हूळिकां ताटनींचैव गृहीत्वा मन्त्रपूर्वकम्॥ 68
`विष्णुस्त्वां रक्ष'त्वित्युक्त्वा विष्णुसूक्तं च संस्मरन्
पटस्य चान्तर्देवस्य मूर्धादीन् संस्पृशेत्क्रमात्॥ 69
विष्णुगायत्री मुच्चार्य तत्र कर्म समाचरेत्
देवीभ्यां च क्रमेणैव तत्तन्मस्त्रं जपेत्तदा॥ 70
पश्चात्तुपात्रे सूचीभ्यां कृहीत्वा चाऽक्षिमोचनम्
षण्मंडलानि संस्कुर्यादधिदेव मनुस्मरन्॥ 71
पक्ष्मवर्म च रक्तंच श्वेतं कृष्णं च तैजसम्
एतैस्तु मंडलं ध्यात्वा दृढीकृत्वाऽत्वरः क्रमात्॥ 72
हित्वाऽर्कराहुसौराणा मुदयन्तु द्विलोचने
नयनोन्मीलनं कुर्यात्सर्वसंपत्समृद्धये॥ 73
अन्धनक्षत्रके कुर्या त्सर्वनाशं न संशयः
पुरुषसूक्तं जपित्वैव दक्षिणे नयने न्यसेत्॥ 74
तधैव वामनेत्रेतु वैष्णवं मंत्र मुच्चरन्
तत्सूक्ताभ्यां विशेषेण श्रीभूम्योश्च समाचरेत्॥ 75
देवस्यांऽगं स्पृशन् हुत्वा मौलिमालादिपूर्वकम्
तथा देव्योश्च हुत्वातु दद्भ्यस्स्याहादिना पृथक्॥ 76
विमानं नूतनं चेत्तु स्धूप्यादीनां हुतं चरेत्
पर्षदां मूर्तिमंत्रेण कारयेन्मन्त्रवित्तमः॥ 77
वैष्णवं विष्णुसूक्तंच स्विष्टाऽकारं च हूयताम्
गोदानसूक्त मुच्चार्य कवादीनभिमृश्य च॥ 78
पटं पश्चा द्विसृज्यैव गवादीन् संप्रदर्शयेत्
गवादिद्रव्य मादाय दद्याच्च गुरवे ततः॥ 79
- * *
कौतुकादी न्विशेषेण पूर्वोक्तेन क्रमेणवै
बेरपीठे च संपाद्य रत्नादीनि विनिक्षिपेत्॥ 80
रत्नं धातूंश्च बीजानि सुवर्णं चा ऽत्र निक्षिपेत्
एवं संस्थाप्य मतिमान् संताप्यैव दृढं यथा॥ 81
ध्रुवबेरोक्तवत्कृत्वा नयनोन्मीलनं चरेत्
- * *
पश्चाज्जलाऽधिवासादीन् कुर्या त्तन्मंत्रपारगः 82
पंचगव्यं प्रगृह्यैव प्रोक्षयित्वा विचक्षणः
`वसोःपवित्र' मित्युक्त्वातत्र कार्यं सम्चरेत्॥ 83
पश्चात् क्षीरं समादाय प्रोक्षयित्वा समाहितः
`शन्नो देवी'रितिप्रोच्य तेन कर्म समाचरेत्॥ 84
अर्थदर्शी प्रगृह्यैव देवस्याऽग्रे निधायच
प्रदीप मर्पये द्वद्वान् जले तत्राऽधिवासयेत्॥ 85
एवंचाऽत्राऽधिवास्यैव चास्यबेरेषुवै पुनः
पंचगव्याऽधिवासं च तथा क्षीराऽधिवासनम्॥ 86
एतद्द्वयं विना तत्र कुर्यात्तोयाऽधिवासनम्
ग्रामे सर्वत्र तद्रात्रौ प्रभूतं निक्षिपेद्बलिम्॥ 87
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे एकादशोऽध्यायः॥