सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/एकविंशोऽध्यायः

विकिस्रोतः तः
← विंशोऽध्यायः प्रकीर्णाऽधिकारः
एकविंशोऽध्यायः
[[लेखकः :|]]
द्वाविंशोऽध्यायः →

अथैकविंशोऽध्यायः॥
विशेषार्चनम्
अथातस्संप्रवक्ष्यामि विष्णुपंचदिनानि च
श्रवणं द्वादशी शुक्ले कृष्णे चार्धे च द्वादशी 1
पूर्णिमा चाऽप्यमावास्या पंचैतानि दिनानि वै
पूर्वोक्तेन विधानेन अंकुरानर्बयेत्क्रमात्॥ 2
बद्ध्वा प्रतिसरं तत्र पूर्वरात्रौतु शाययेत्
प्रातस्सन्ध्यार्चनान्तेतु स्नापनोक्तक्रमेणवै॥ 3
समभ्यर्च्य निवेद्यैव पूर्वस्थाने निवेशयेत्
मार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः 4
प्रातस्सन्ध्यावसानेतु पूर्वमास्थानमंडपे
संस्थाप्य चतुरो वेदान्‌ क्रमेणाध्यापयेत्सदा॥ 5
पूजयेद्देवदेवेशं सप्तविंशतिविग्रहैः
एकादशीमुपोप्यैव महापातकनाशिनीम्॥ 6
ततःप्रभाते द्वादश्यां स्नात्वास्नानविधानतः
मृण्मयानि तु भांडानि पुराणानि परित्यजेत्॥ 7
मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा यथार्हकम्
स्नापनोक्तक्रमेणैव स्नापयित्वा यथाविधि॥ 8
आसनादिभिरभ्यर्च्य पायसं च निवेदयेत्
पानीयाचमनं दत्वा मुखवासं ततःपरम्॥ 9
पुरुषसूक्तेन संस्तूय ग्कामं चैव प्रदक्षिणम्
धामप्रदक्षिणं कृत्वा जीवस्थाने निवेशयेत्॥ 10
संवत्सरेऽर्चने हीने नित्यनैमित्तिकादिषु
तत्सर्वं पूर्णमित्याहुर्द्वाशीपूजने कृते॥ 11
पौषे तु पूर्णिमायां वै विष्णुपंचदिनोक्तवत्
अर्चयित्वातु देवेशं गव्यं क्षीरं निवेदयेत्॥ 12
सोऽपि संवत्सरफलं लभते नाऽत्र संशयः॥
माघमासे पुनर्वस्वो राघवोऽजायत स्वयम्, 13
तत्तस्तस्यामपोष्यैव रामं वा विष्णुमेव वा
ग्रामं प्रदक्षिणं कृत्वा स्नापयित्वा निवेदयेत्॥ 14

  • * *

तिलपद्मविधिं वक्ष्ये श्रुणुध्वं मुनिपुंगवाः
माघमासे तु पंचम्यां पूर्वपक्षे विशेषतः 15
पूर्वरात्रै तु देवेशमर्चयित्वा यथाविधि
हवींष्यपि निवेद्यैव बद्ध्वा प्रतिसरं पुनः॥ 16
पूर्ववच्छाययित्वैव रात्रिशेषं नयेत्क्रमात्
प्रभाते देवमुद्धाप्य कलशैस्स्नापयेत्पुनः 17
मंडपं वाऽथ कूटं वा प्रपां वाऽथ यथोचितम्
गोमयेनोपलिप्यैव पंचवर्णैरलंकृतम् 18
तस्मिन्‌ संस्थाप्य देवेशं प्रणम्यैवाऽनुमास्य च
प्रमुखे धान्यराशौ तु द्विहस्तायतविस्तृते॥ 19
कृष्णाजिनं समास्तीर्य नववस्त्रेस्समास्तरेत्
तदूर्ध्वेतु विकीर्यैवषड्द्रोणं तिलमेव हि॥ 20
द्रोणत्रयं द्वये वाऽपि मंडलाकालवत्तथा
अष्टभिश्चदलैर्युक्तं तिलपद्मं समालिखेत्॥ 21
त्रिणिष्केन तदर्धेन निष्कमात्रेण वा पुनः
स्वर्णपद्मं च कृत्वातु तिलपद्मे तु विन्यसेत् 22

  • * *

आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश
इंद्रादीशानपर्यन्तं शालिराश्युपरि न्यसेत्॥ 23
अढकं तैलमाहृत्य तदर्धंच घृतं तथा
पश्चिमे दधिमन्न्यस्य देवदेवं प्रणम्य च॥ 24
आत्मसूक्तं च जप्त्वातु पूजयेदष्टविग्रहैः
प्रणम्य देवदेवाय पद्ममध्येतु पूर्ववत्॥ 25
प्राच्यादि पुरुषादींश्च चतुर्मूर्तिभिराह्वयेत्
एकादशोपचारैश्च पूजयित्वा यथार्हकम्॥ 26
इंद्राद्यैशान्तमावाह्य देग्देवानर्चयेत्तत
`अतोदेवा'दिसंयुक्तं विष्णुसूक्तं जपेत्पुनः॥ 27
बिंबे देवं समारोप्य चान्यानुद्वासयेत्क्रमात्
यजमानोऽथ तत्काले दद्यादाचार्यदक्षिणाम्॥ 28
विष्णुभक्तियुतं शास्तं दयाद्यात्मगुणैर्युतम्॥
वेदपारायणपरं सर्वावयवसंयुतम्॥ 29
विप्रमाहूय तत्काले देवस्य नियतोऽग्रतः
ध्यात्वा देवेशमाचार्यो देवदेवस्य सन्निधौ 30
तिलपद्मं ददेत्तस्मै सर्वलोकहिताय वै
स्तोत्रैर्गेयैश्च वादैश्च स्तुत्वा देवं समर्चयेत्॥ 31
देवं याने समारोप्य सर्वालंकारसंयुतम्
देवालयं परीत्यैव जीवस्थाने निवेशयेत्॥ 32
एवे यःकुरुते भक्त्या विष्णवे परमात्मने
सर्वान्‌ कामानवाप्नोति वैष्णवं लोकमश्नुते॥ 33

  • * *

फाल्गुने मासि फल्गुन्यां श्रिया सार्थं जनार्दनम्
स्नापयित्वोत्सवं कृत्वा समभ्यर्छ्य निवेदयेत्॥ 34

  • * *

चैत्रेमासि तथा चैत्य्रां कुर्याद्दमनकोत्सवम्॥
पूर्वस्मिन्नेव दिवसे रात्रिपूजावसानके॥ 35
भद्ध्वा प्रतिसरं तत्र देवेशाय निवेदयेत्
वसस्तं काममभ्यर्च्य पायसान्नं निवेदयेत्॥ 36
देसस्य दक्षिणे पार्श्वे मालां दमनकींन्यसेत्
प्रभाते देवमुद्धाप्य स्नापयित्वाऽर्चयेत्तथा 37
देवस्य पुष्पमन्त्राभ्यां दद्याद्भक्ति समन्वितम्
सर्वेषां परिवाराणां दद्यात्तन्मंत्रमूर्तिभिः॥ 38
ग्रामं प्रदक्षिणं कृत्वा संस्थाप्यास्थानमंडपे
समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः॥ 39

  • * *

वैशाख्यां पौर्णमास्यां वै स्नापयित्वा समर्चयेत्

  • * *

ज्येष्ठे तु स्नापयेद्देवं नववस्त्रं प्रदापयेत्॥ 40
सोऽपि संवत्सरफलं प्राप्नुयादेव मानवः

  • * *

अर्घ्यदानं प्रशस्तं स्याद्देवस्याषाढमासके॥ 41

  • * *

श्रावणे मासि सक्षत्रे श्रवणे तु विशेषतः
उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः 42
अतःपरं प्रवक्ष्यामि जयन्त्युत्सवलक्षणम्
जयन्ती श्रावणे मासि कृष्णपक्षेऽष्टमी शुभा॥ 43
रोहिणीसहिता ज्ञेया सर्वपापहरा तिथिः
तस्यां जातो जचगन्नाथो जगत्पालन कांक्षया 44
चन्द्रस्योदयकालेतु मध्यरात्रे स्वलीलया
तस्मिन् वै दिवसे कृष्णमर्चयित्वा प्रयत्नतः॥ 45
उत्सवं कारयेद्यस्तु विष्णोस्सालोक्यतां व्रजेत्
अष्टमी रोहिणीयुक्ता रहितावा विचक्षणैः 46
अविद्धैव सदा ग्राह्यासप्तम्या सर्वदा तिधिः
आदित्योदयवेलायां कलामात्राऽष्टमी यदि॥ 47
सातिथिस्सकला ज्ञेया निशीथव्यापिनी भवेत्
नागविद्धा यथा नंदा वर्जिता श्रवणाऽन्विता॥ 48
तथाष्टमीं पूर्वविद्धां सर्क्षां वापि परित्यजेत्
अविद्धैवाऽष्टमी ग्राह्या तां सुपुण्यामुपावसेत्॥ 49
रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी
अर्धरात्रादधश्चोर्ध्वं गलया वापि पूर्ववत्॥ 50
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी

  • * *

तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे 51
पंचमे वा त्य्रहेऽवापि विधिवा चांकुरार्पणम्
पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके॥ 52
बद्ध्वा प्रतिसरं तत्र शयने शाययेद्धरिम्
तस्यां तिथावर्धरात्रे कृष्णमेवं विशेषतः॥ 53
पुष्पांजलिं ततः कुर्याच्छ्रिया युक्तो जनार्दनः
भूमिभारापहाराय लोकेजातो जगत्पतिः 54
इति संचिंतयेद्देवं वैष्मवं मंत्रमुच्चरन्
सर्वालंकारसंयुक्तं मंडपं च प्रदक्षिणम्॥ 55
पुरस्तान्मध्यमे वापि चास्थाने वाप्यलंकृते
तन्मध्ये विष्टरे स्थाप्य देवदेवं प्रणम्य च 56
तैलं हरिद्रचूर्णं च कलशान्‌ संप्रपूर्य च
स्थंडिले विन्यसेत्तत्र देवदेवं समर्चयेत्॥ 57
तैलेनाऽभ्यंजनं कृत्वा चूर्णेनोद्यर्तनं चरेत्
नादेयं गंधतोयं च पुष्पोदं चाक्षतोदकम्॥ 58
कुशोदकं तु संभृत्य कलशान्‌ पंच विन्यसेत्॥
`अतो देवा'दिभिर्मन्त्रैस्स्नापयेत्पुरुषोत्तमम्॥ 59
पाद्याद्यर्ङ्यान्तमभ्यर्च्य देवदेवं प्रणम्य च
`हिरण्यगर्भ' इत्युक्त्वागवां क्षीरं निवेदयेत्॥ 60
मुखवासं च दत्वैव प्रणामं च ततश्चरेत्
निवेदितं तु तत् क्षीरं वंध्यापुत्रप्रदं भवेत् 61
पीत्वाप्रसूते पुत्रं च आयुष्मन्तं बलान्वितम्
नीत्वा घृतं च तैलं च मुखवासयुतं तथा॥ 62
देवस्य दर्शयित्वा तु ब्राह्मणेभ्यः प्रदीयताम्
देवदेवमलंकृत्य भक्तानामात्तचेतसाम्॥ 63
यथा वै यजमानस्य तथा प्रियकरं भुधैः
सर्ववाद्यसमायुक्तं सर्वालंकारसंयुतम्॥ 64
ग्रामं वाऽप्यालयं वापि प्रदक्षिणमथाचरेत्
आलयं संप्रविश्यैव कलशैस्स्नावयेद्बुधः॥ 65
आचार्यदक्षिणां दत्वा सोदकं देवसन्निधौ
प्रभूतं तु निवेद्यैव मुखवासं ददेत्पुनः, 66
एवमेवं तथा कुर्यादुत्सवं प्रतिवत्सरम्
भुक्तिमुक्तिप्रदमिदमृषिभिः परीकीर्तितम्॥ 67
अपरेऽथ दिने वाऽपि कारयेदुत्सवं भुधः
यद्यन्मन्त्रक्रियालोपो वैष्णवैर्हूयते तथा॥ 68
एकस्मिन् वत्सरे हीने देवदेवं प्रणम्य च
स्नपनं पंचविंशद्भिः कलशैश्शुद्धमानसैः 69
शान्तिहोमं च हुत्वातु पुण्याहमपि वाचयेत्
उत्सवं द्विगुणं कुर्याद्दक्षिणां च स्वशक्तितः॥ 70

  • * *

श्रावणे द्वादशीयोगे मापि भाद्रपदे तथा
संवत्सरार्चादोषस्य शान्त्यर्थं केशवस्य तु॥ 71
अस्मिन्‌ मासे विशेषेण पवित्रारोपणं हरेः
सर्वदोषोपशमनं सर्वकामाभिवृद्धिदम्, 72
मासेऽस्मीन्नारभेतैव श्रवणव्रतमुत्तमम्
त्रिभिर्वर्षैस्त्रिभिर्मासैरुपोष्य च महत्पलम्॥ 73

  • * *

आश्वयुजमासे चाश्व्यर्क्षे देवेशं स्नापयेत्ततः
अर्घ्यदानं प्रशस्तं स्याद्देवदेवस्य शार्जिणः 74

  • * *

अथाऽतः कृत्तिकादीपदानलक्षणमुच्यते
कार्तिक्यां पूर्णिमायान्तु यदृक्षन्तु प्रवर्तते॥ 75
तदृक्षं दीपऋक्षं स्यात्कालापेक्षा न विद्यते
रव्यस्तमयवेलायां दीपारोपणमाचरेत्॥ 76
देवस्य सन्निधौ स्तंभे देवालयसमोच्छ्रये
अधिके वा महादीपं महास्नेहं प्रकल्पयेत्॥ 77
त्रिपादं वा तधर्धं वा दीपदंडं समाहरेत्
वेणुं वा क्रमुकं वाऽपि ताळं वा नाळिकेरकम्॥ 78
मधूकं तिंत्रिणीकं चेत्यन्यैस्सारद्रुमैस्तथा
शताष्टदीपसंयुक्तंमुत्तमोत्तममुच्यते॥ 79
उत्मे मध्यमं दीपं शतसंख्याक्रमं विदुः
उत्तमाधमदीपं स्यान्नवतिर्द्व्यधिका तथा॥ 80
मध्यमोत्तममुक्तं स्यादशीतिश्चतुरस्तथा
मध्यमे मध्यमं चैव षट्सप्ततिरथोच्यते॥ 81
मध्यमाधमदीपन्तु अष्टषष्टिरिति स्मृतम्
अधमोत्तमदीपन्तु षष्टिसंख्यां वदन्तिहि॥ 82
द्विपंचाशत्प्रदीपांश्च कुर्यादधममध्यमे
अधमाधममेवेदं चत्वारिंशत्प्रदीपकम् 83
अशक्तानां यथाशक्ति दीपं तत्रैव योजयेत्
दंडेतु सुषिरे योज्यं चतुर्दिक्षु क्रमेण वै 84
भूतपीठस्य पूर्वेतु दीपस्थानं विधीयते
`पद्मकोशप्रतीकाश' इति श्रुत्यामुदाहृतम्॥ 85
तस्मात्सर्वप्रयत्नेन पद्मं कुर्यात्सलक्षणम्
विस्तारायामतुल्यं स्याच्चतुस्तालप्रमाणतः॥ 86
गोलकांगुलमुत्सेधं चतुरश्रं प्रकल्पयेत्
तत्रैव शालिभि स्तिर्यक्पद्ममष्टदलान्वितम्॥ 87
तन्मध्ये तालमात्रेण समवृत्तं सकर्णिकम्
एकांगुलसमुत्सेधं तत्रैवोपरि तंडुलैः 88
सति पद्मं समुत्फुल्लं नववस्त्रं समास्तरेत्
पुष्पं तस्योपरि न्यस्य कल्बयेत्पद्ममंडलम्॥ 89
दलेष्वभ्यर्च्य च वसून्‌ मध्ये धर्मं समर्चयेत्
आलयाभिमुखे कुर्यात्प्रपां चैवातिसुन्दरम्॥ 90
आस्थानमंडपे वाऽपि कल्पयेत्पद्ममंडलम्
सौवर्णं राजतं ताम्रं मृण्मयं वास्वशक्तितः॥ 91
शरावं प्रस्थसंपूर्णं समाहृत्य विचक्षणः
किंचित्कर्पूरसंयुक्तं पिचुवर्तिसमन्वितम् 92
गव्यं घृतं समादाय स्थापयेत्पद्ममध्यमे
आचार्यस्सुप्रसन्नात्मा नववस्त्रोत्तरीयकः 93
`श्रियॆजा'तेति मंत्रेण दीपस्योद्दीपनं चरेत्
प्रतीच्यां पद्ममध्येतु श्रियं ध्यात्वा समाह्वयेत्॥ 94
एकादशोपचारैश्च पूजयित्वा समाहितः
श्रीदेवीं मनसा ध्यात्वा श्रीसूक्तं च समुच्चरन्‌॥ 95
दीपमादाय हस्ताभ्यामप्सरोभिर्विशेषतः
दीपानन्यांत्समादाय तो यधारासमन्वितम्॥ 96
गेयध्वनिसमायुक्तं नृत्तवाद्यसमन्वितम्
प्रदक्षिणं ततः कृत्वा गर्भागारं प्रवेशयेत्॥ 97
देपस्य दक्षिणे पार्श्वेस्थापयेन्मंत्रवित्तमः
देवदेवं समानीय मंडले स्थाप्य चाऽत्वरः॥ 98
कुर्याद्दशोपचारांश्च समभ्यर्च्येद्विधानतः
`श्रीये जा'तेति मन्त्रेण दीपानुद्दीपयेद्बुधः॥ 99
गर्भगेहेच सोपाने प्रासादे मुखमंडपे
प्रासादशिखरे वाऽपिग्रीवायां चरणेऽपि च॥ 100
प्राकारेषु च सर्वत्र तथैव स्नपनालये
पुष्पसंचयदेशे च द्वारे चास्थानमंडपे॥ 101
अन्येष्वपि च सर्वत्र दीपानुद्दीपयेत्क्रमात्
कार्पासतूलं संबद्ध्य शरावेषुघृतेन वै॥ 102
पूर्वोक्तेनैव मंत्रेण चोद्दीपनमथाचरेत्
नृत्तगेयादिवाद्यैश्च घोषयित्वा प्रयत्नतः॥ 103
तच्छरावस्थदीपं च बलिपीठस्य पश्चिमे
अधिदेवं समाराध्य निक्षिपेद्दीपमंडपे 104
`शुभ्राज्योति'रिति प्रोच्य दंड्राग्रेऽन्यांश्च निक्षिपेत्
निवेद्य बहूधा देवं पृथुकादीन्विशेषतः॥ 105
भक्ष्याणि गुडमिश्राणिप्रभूतं च महाहविः
ग्रामं प्रदक्षिणं कृत्वा सर्वालंकारसंयुतम् 106
पुनर्देवं समादाय जीवस्थाने निवेशयेत्
सोऽपि संवत्सरफलं प्राप्य गच्छेत्परं पदम्॥ 107
ग्रहणाराधनम्
अथाऽतस्संप्रवक्ष्यामि सूर्यसोमोपरागयोः
अर्चनादिविधिं सम्यक्‌ देवदेवस्य शार्ङिणः॥ 108
सूर्यग्रहे चतुर्यामं त्रियामं तु विधुग्रहे
नाऽश्नन्ति हव्यकव्यानि देवताः पितरस्तथा॥ 109
आलये तु हरेः पूजां न त्यजन्ति महर्षयः
हविर्निवेदनं हित्वापूजां सर्वां समाचरेत्॥ 110
ग्रहणे वर्तमानेतु स्नापयेत्पुरुषोत्तमम्
कोटियज्ञफलं प्राप्य ब्रह्मलोके महीयते॥ 111
ग्रस्ताऽस्तग्रहणे कुर्यात्स्नपनं तु परेऽहनि॥
तथा ग्रस्तोदये कुर्यादिति शातातपोऽब्रवीत्॥ 112
सर्वधा वरमाने तु ग्रहणेस्नपनं चरेत्
ग्रहणं संक्रमो हस्तिच्छाया च विषुवादिकम्॥ 113
युगादि व माद्यास्तु पुण्यकालाः प्रकीर्तिताः
निषेथः कथितः प्राज्ञैर्हविर्दासवदुत्सवे 114
नित्यार्चनं चोत्सवं च स्नपनात्पूर्वमाचरेत्
स्नापयित्वा हृषीकेशं हविर्दानं प्रशस्यते॥ 115
वास्तुशुद्धिं सदा कुर्याद्ग्रहणे चन्द्रसूर्ययोः
पुराणानि च भांडानि त्यक्त्वान्यानि समाहरेत्॥ 116
कुशाग्राणां समुत्‌क्षेपाद्वाससां शुद्धिरिष्यते॥
अपक्वानां च वस्तूनां न पक्वं परिगृह्णते॥ 117
अदृश्यमुपरागन्तु नोपरागं प्रचक्षते॥
दीक्षितस्य तथाऽन्यस्य स्नानं स्यात्स्पर्शमोक्षयोः 118
यावानाद्यन्तकालस्स्यात्तावताकीर्तयेद्धरिम्
मौनी जपादिकं कुर्यादूर्ध्वपुंड्रधरश्शुचिः॥ 119
सप्तवाताहतं वस्त्रमार्द्रं धृत्वा न दोषभाक्
ग्रहणे भगवत्सेवा सर्वाऽशुभविनाशिनी॥ 120
दद्याद्धानानि शक्त्या वै सकामो हरिमन्दिरे
तदनन्तं भवेत्साक्षी यत्राऽनन्तो हरिस्स्वयम् 121
प्रभूतं तु निवेद्याऽथ भुंजीयात्तदनन्तरम्
रात्रौ श्राद्धं प्रकुर्वीत ग्रहणे तन्नदोषकृत्‌॥ 122
दूषिते तूक्तकाले तु तस्याऽपगम एव च
विपरीते महान्‌ दोष इति शास्त्रविदो विदुः 123
न निशीथात्परं श्राद्धमापत्स्वपि विधीयते
स्नानमाशौचिनां नित्यं तेऽपि दानं च कुर्व 124
न जपो न तपस्तेषामशुद्धा मोक्षणे पुनः
यदा राश्यन्तरं राशेः काले संक्रमते रविः 125
तदा तु पुण्यकालस्स्यात्स्नपनाद्यत्र कारयेत्
कटकेविंशतिः पूर्वं मकरे विंशतिः परे 126
पुण्यान्तु घटिकाः प्रोक्ता स्तत्र ग्रहणवच्चरेत्॥
यदाऽस्तमयवेलायां संध्यायां संक्रमोरवेः॥ 127
पूर्वेऽह्णि पुण्यकालस्स्यादपराह्णात्परस्स्मृतः
अर्धास्तमित आदित्ये तथा चाऽर्धोदिते सति 128
पाश्चात्यपूर्वघटीकास्तिस्रस्संध्या प्रकीर्तिताः॥
उपरागेऽपि कुर्याद्वै उत्सवेऽवभृथं हरेः॥ 129
विधुग्रहे निशां सर्वामहोरात्रं रविग्रहे
त्यजेच्छुभे तदा कुर्यान्नैव दीपोत्सवं हरेः॥ 130
पश्चान्निशीथाद्ग्रहणे दीपं दास्यन्ति के च न
अविद्धेपर्वणि प्रोक्तं दीपदानं शुभावहम्॥ 131
ग्रहणेऽपि भवेद्दीपमविद्धा पूर्णिमा न चेत्
अपर्वण्यर्पितं दीपं हन्ति पुण्यं पुरातनम्॥ 132
मासर्क्षेष्वन्यपुण्वर्क्षे विष्णुपंचदिने तथा
अर्चनार्थाय देवस्य कालो मध्याह्न उच्यते॥ 133
काम्ये तु सुमुहूर्ते स्यात्पूजनं नाऽन्यधा चरेत्॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे एकविंशोऽध्यायः॥