सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/एकत्रिंशोऽध्यायः

विकिस्रोतः तः
← त्रिंशोऽध्यायः प्रकीर्णाऽधिकारः
एकत्रिंशोऽध्यायः
[[लेखकः :|]]
द्वात्रिंशोऽध्यायः →

अथैक त्रिंशोऽध्यायः॥
संप्रोक्षणत्रयम्॥
अथ वक्ष्यामि तत्रोक्तप्रायश्चित्तस्य संग्रहम्
जलसंप्रोक्षणं चैव लघुसंप्रोक्षणं तथा॥ 1
महासंप्रोक्षणं चेति प्रायश्चित्तं त्रिधा स्मृतम्
निमित्ते समनुप्राप्ते ज्ञात्वा गौरवलाघवम्॥ 2
वक्ष्यमाणक्रारेण सद्यस्संप्रोक्षणं चरेत्
संप्रोक्षणविधानस्य न कालनियमस्स्मृतः 3
न कुर्यान्मासनक्षत्र तिथिवाराद्यवेक्षणम्
तस्मान्निमित्ते संप्राप्ते सद्यस्संप्रोक्षणं चरेत्॥ 4
देशकालाद्यवेक्षाया निमित्ते सति गौरवम्

  • * *

बहुबेरेषु चैकस्मिन्‌ स्थावरे जंगमेऽथ वा॥ 5
अर्चनायां विहीनायां कालाऽतीते विपर्यये
निर्माल्यपूजने चैव निवेदितनिवेदने॥ 6
एकाहेऽप्यर्चनाहीने नित्यस्नापनवर्जने
बलिहोमादिहीनेच नित्योत्सवविवर्जने॥ 7
प्राकाराभ्यन्तरे प्राप्ते प्रमादादशुभे सति
अस्पृश्यागमने तत्र चंडालाद्यैः प्रवेशने॥ 8
श्वकुक्कुट वराहोष्ट्रगर्दभानां प्रवेशने
उदक्यया सूतिकया पाषंडाद्यैरथापि वा॥ 9
कुंडगोळव्रतभ्रष्टतुरुष्कादिप्रवेशने
अन्यसूत्रिद्विजैस्स्पृष्टे मोहादज्ञानतोऽपिवा॥ 10
महावातहते बिंबे संसिक्ते वर्षबिंदुभिः
विण्मूत्ररुधिरस्रावे बहुजल्पे च मैथुने॥ 11
एवमादिनिमित्ते तु जलसंप्रोक्षणं चरेत्
नैवासंप्रोक्षिते बिंबे हरिर्वसति निश्चयः 12
तस्माद्बिंबविशुद्ध्यर्थं संप्रोक्ष्यैव समर्चयेत्

  • * *

दोषाधिक्ये समुत्पन्ने लघुसंप्रोक्षणं चरेत्॥ 13
राष्ट्रक्षोभे च दुर्भिक्षे तंत्रसंकरदूषणे
शूद्रैर्वाऽथानुलोमैर्वापाषंडैर्भ्रमितैरपि॥ 14
उदक्यया सूतिकया पतितैर्वाऽथ पातकैः
चंडालाद्यैः प्रविष्टे च गर्भागारे विशेषतः॥ 15
सूतैर्वा कुंडगोलाद्यैस्तथा देवलकादिभिः
श्वकुक्कुट वराहाद्यैः प्रविष्टे गार्दभादिभिः 16
उलूकगृध्रकाकाद्यैः प्रविष्टेऽन्तर्गृहे तथा
तुरुष्काद्यैःप्रविष्टे वा शुक्रणोणितयोरपि॥ 17
विण्मूत्रादेर्विसर्गे वा गर्भागारेर्धमंडपे
त्य्रहादूर्ध्वं विहीने तु पूजने दीपवर्जने॥ 18
एक रात्रमतिक्रम्य देवेग्रामांतरस्थिते
आग्निदाहेऽशनीपाते गर्भागारेऽर्धमंडपे॥ 19
अन्यसूत्य्रर्चिते बिंबेस्पृष्टे वा बुद्धिपूर्वकम्
अन्यैरनुक्तैर्दोषैश्च लघुसंप्रोक्षणं चरेत्॥ 20

  • * *

महानिमित्ते संप्राप्ते महासंप्रोक्षणं चरेत्
द्वादशाहात्समारभ्य वत्सरान्तं विधानतः 21
हीनायामर्चनायां च नित्ये नैमित्तिके तथा
क्रियाहीने विपर्यासे हीने मासोत्सवादिके॥ 22
नित्यस्नपनहीनेऽपि मात्रादानविहीनके
बलिहोमादिहीने च संप्राप्ते शास्त्रसंकरे॥ 23
एवमादिषु हीनेषु वत्सरान्तं प्रमादतः
पर्षदां परिवाराणामाश्रितालयसेविनाम्॥ 24
ध्वजारोहणपूर्वं तु कृते कालोत्सवादिके
विप्रादिमरणे प्राप्ते देवागारे विशेषतः 25
गर्दभाऽश्वलुलायोष्ट्रश्वसूकरमुखे मृते
गजादिमृगनाशे च देवागारे प्रमादतः 26
चंडालाद्यन्त्यजातीनां मरणे वा विशेषतः
शूद्रैर्वाथानुलोमैर्वा पाषंडैः पतितादिभिः 27
संस्पृष्टे वैष्णवे बिंबे तुरुष्काद्यैर्मलिम्लुचैः
स्पृष्टे चंडालकाद्यैर्वा महापातकदूषितैः 28
विमानेऽशनिपातॆ वा महोल्का पतनेऽपि वा
लोहितो पलवर्षे च वांसुवर्षे विशेषतः 29
भूकंपाच्चलिते बिंबे वल्मीकस्य समुद्भवे
शिथिलिभवने वापि चाष्टबंधे विशेषतः 30
जीर्णे स्तंभादिपतने देवागारेन वीकृते
अग्निस्पर्शे च बेरस्य मनुष्यप्रसवे तथा॥ 31
सुथाकर्मणि सर्वत्र गर्भगेहादिके पुनः
बिंबेषु गर्भगेहे वा कृमिकीटादिदर्शने॥ 32
हसने रोदने चैव भाषणे च विशेषतः
स्वेदशोणितयोर्वापि दर्शने वर्णसंक्षये॥ 33
विमाने मंडपे वाऽथ यत्र कुत्रापि वा हरेः
देवागारे समुत्पन्ने दोषेष्वेतेषु वा पृथक्॥ 34
दुर्भिक्षे राष्ट्रसंक्षोभे दुर्निमित्तेषु चैव हि
दुस्स्वप्ने भूमिकंपे वा परराजाद्युपद्रवे॥ 35
भूगुप्ते चोद्धृते बिंबे चिरमन्यालये स्थिते
अतिक्रम्य त्रिरात्रं तु देवे ग्रामान्तरे स्थिते॥ 36
कुंडगोलकसूताद्यैर्दीक्षितैरर्चने कृते
अनुक्तानि च कर्वाणि दुरितान्यद्भुतानि च॥ 37
दृष्ट्वातु यजमानश्च ये तत्परिसरे जनाः
ग्रामस्थिता चनाश्चैव राजा राष्ट्रं च यत्नतः 38
ज्ञात्वा शास्त्रोक्तविधिना दोषजं भक्तितः फलम्
महासंप्रोक्षणं कुर्यान्महादोषापनुत्तये॥ 39
महदोषेषु सर्वत्र महाशान्तिर्विथीयते
पूर्वं स्थापितबिंबस्य न साधारणहेतुना॥ 40
स्यात्पुनस्थ्सापनं तस्मान्महासंप्रोक्षणं चरेत्
महासंप्रोक्षणविधेर्नूतनस्थापनस्य च॥ 41
स्वल्पो भेद इति प्रोक्तमृषिभिः काश्यपादिभिः

  • * *

जलसंप्रोक्षणविधिं प्रवक्ष्यामि तपोधनाः 42
यजमानाऽभ्यनुज्ञातो गुरुस्स्नात्वा विधानतः
आलयाभिमुखे वाऽपि दक्षिणे वा मनोरमे॥ 43
स्थंडिले सैकते शुद्धे पुण्याहाग्निमुखात्वरम्
वास्तुहोमावसाने च दोषदुष्टं तु यत् स्थलम्॥ 44
पर्यग्निपंचगव्याभ्यां संस्क्रत्य विधिना बुधः
बिंबं पुरुषसूक्तेन कलशैरभिषिच्य च॥ 45
षट्‌द्रोणधान्य राशौ तु पंचकुंभान्निधाय च
वस्त्रयुग्नेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेत्॥ 46
नाळिकेराम्रपत्राद्यैरलंकृत्य पृथक् घटान्‌
पंचसूक्तं जपित्वैव पंचशान्तिभिरेव च॥ 47
पंचमूर्तिभिरावाह्य समभ्यर्च्याऽष्टविग्रहैः
पश्चादग्निं परिस्तीर्य पंचसूक्तं हुनेत्सुधीः 48
ईंकारादींश्च जुहुयादष्टाशीतिमतः परम्
पंचवारुणमंत्रैश्च महाव्याहृतिभिस्सह॥ 49
पश्चादग्निं विसृज्यैव गुरवे दक्षिणां ददेत्
निष्काहीनसुवर्णं च वस्त्राभरणकुंडलान्‌ 50
पश्चात्कुंभजलेनैव प्रोक्षयित्वा समन्त्रकम्
प्रभूतं च निवेद्यैव नित्यार्चनमथाऽचरेत्॥ 51
अनेन विधिना दोषा नश्यत्येव न संशयः
तद्बिंबे देवसान्निध्यं भवेदित्याह चांगिराः॥ 52
एतावानेव संप्रोक्तो जलसंप्रोक्षणक्रमः

  • * *

लघुसंप्रोक्षणं कुर्याद्यजमानेन वै गुरुः 53
यथार्हं पूजितः पूर्वमारंभदिवसादधः
त्य्रहे वा द्वियहे वापि कृत्वा चैवांकुरार्पणम्॥ 54
औपासनाग्नौ श्वोभूते वास्तुहोमं विधाय च
पर्यग्नि पंचगव्याभ्यां शोधयित्वा समंततः॥ 55
अभिषिच्य च देवेशमष्टोत्तरशतैर्घुटैः
शोथयित्वा विधानेन वस्तुवास्तुपरिच्छदान्‌॥ 56
पश्चात्पद्माग्निमासाद्य कृताघारं विधानतः
कुंभपूजां ततः कुर्यात्सम्यक् ध्यानयुतो गुरुः॥ 57
द्वात्रिंशत्प्रस्थसंपूर्णान्‌ कुंभानाहृत्य शोभनान्‌
तंतुना वेष्टयित्वा तु तोयैरापूर्य मंत्रत॥ 58
षड्भारधान्यरोशौ तु वेद्यां सप्तदश क्रमात्
वस्त्रयुग्मेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेत्॥ 59
निष्कत्रयकृतांस्तत्र नव रत्नानि यत्नतः
रत्नालाभे सुवर्णं वा प्रत्येकं निक्षिपेद्घटे॥ 60
गंधपुष्पैस्समभ्यर्च्य नाळिकेराम्रपल्लवैः
आयुधैःपंचभिस्तद्वत्तोरणैरष्टमंगलैः 61
अलंकृत्य गुरुर्धीमान्‌ त्पृष्ट्वा कूर्चेन तान्‌ घटान्‌
पंचसूक्तं पंचशान्तिं ततो द्वादशसूक्तकम्॥ 62
सारस्वतादिसूक्तं च दिक्सूक्तं पंचवारुणम्
स्वस्तिसूक्तं जपित्वैव तथैवौषधिसूक्तकम्॥ 63
नवमूर्तिभिरावाह्य देवीभ्यां सह पार्षदैः
द्वात्रिंशद्विग्रहैस्सम्यगभ्यर्च्य तु निवेदयेत्॥ 64
पौंडरीकाग्निमासाद्य परिषिच्य च पावकम्
पंचसूक्तेन जुहुयाद्व्यापकत्रयमन्त्रतः॥ 65
अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा
ईंकारादींश्च जुहुयादष्टाशीतिमतः परम्॥ 66
धातादिं मूलहोमं च पंचवारुणमेव च
हुत्वा कूश्मांडहोमं च पंचवारुणमेव च 67
पंकजैर्बिल्वपत्रैर्वा विष्णुगायत्रिया ततः
अष्टोत्तरशतं हुत्वा पश्चादग्निं विसर्चयेत्॥ 68
पश्चाद्गुरुः पूजितस्सन्‌ वस्त्राभरणकुंडलैः
कुंभमादाय शिरसो ग्राममालयमेव वा॥ 69
प्रदक्षिणं परीत्याऽथ देवदेवस्य सन्निधौ
कूर्चेनादाय तत्तोयं प्रोक्षयेत्पंचमूर्तिभिः॥ 70
``शुची वो हव्य मंत्रेण प्रोक्षयेत्सर्वमन्दिरम्
उपचारैस्समभ्यर्च्य ``क्षमस्वेति प्रणम्य च॥ 71
महाहविः प्रभूतं वा देवेशाय निवेदयेत्
ब्राह्मणानां सहस्रं च भोजयेद्गुरुणा सह॥ 72
गुरवे दक्षिणां दद्यात्सुवर्णं पंचनिष्ककम्
प्रदद्याद्भूमिमिष्टां च प्रोन्मिषत्सस्यमालिनीम्॥ 73
दशदानं ततः कृत्वा नित्यार्चनमथाऽचरेत्
एवं यः कुरुते भक्त्या लघुसंप्रोक्षणं हरेः॥ 74
विष्णुसान्निध्यमाप्नोति दोषशांतिश्च जायते
राजराष्ट्राभिवृद्धिश्च जगत्पुष्टिकरं भवेत्॥ 75
लघुसंप्रोक्षणविधिर्मया प्रख्यापितः किल
काश्यपाद्यैश्च मुनिभिरेवमेव प्रचोदितः 76

  • * *

महासंप्रोक्षण विधौ विशेषो वक्ष्यते मया
जलाधिवासरहितं नेत्रोन्मीलनवर्जनम् 77
प्रतिष्ठोक्तविधानेन सर्वं पूर्ववदाचरेत्
नेत्रयोस्तेजने तद्वद्दृष्टिदोषे विशेषतः 78
जलाधिवासनं कुर्यादक्ष्णोरुन्मीलनं पुनः
महाशान्तिविधानस्य विशेषोऽत्र प्रकीर्तितः 79
जंगमप्रतिमास्सर्वा अधिवासपुरस्सरम्
प्रोक्षयित्वा विधानेन देवं पूर्ववदर्चयेत्॥ 80
महानिमित्ते संप्राप्ते यजमानार्थितो गुरुः
प्रतिष्ठोक्तदिने विद्वान्‌ ऋत्विग्भिर्ललक्षणान्वितैः 81
वस्त्रैराभरणैश्चापि पूर्वोक्तमिव भूषितः
प्रोक्षणादिवसात्सूर्वमंकुरार्पणमाचरेत् 82
द्रव्याण्यपि सुसंभृत्य यागशालां प्रविश्य च
कदळीपूगमालाद्यैः पताकाद्यैरलंकृताम्॥ 83
तन्मध्येकल्पयेद्वेदिं शयनार्थं विधानतः
तस्यास्तु पूर्वदिग्भागे कुंभवेदिं सलक्षणम्॥ 84
परितश्चाऽग्निकुंडांश्च पौंडरीकं च कारयेत्
देवालयं च संशोध्य मृष्टसिक्तोपलेपनैः॥ 85
आचार्यस्सुप्रसन्नात्मा यजमानार्थितो मुहुः
स्नात्वास्नानविधानेन गायत्रीं च सहस्रशः 86
जप्त्वा द्वादशसूक्तानि पुण्याहमपि वाचयेत्॥
वास्तुहोमं ततः कृत्वा कुंडे त्वौपासने गुरुः 87
पर्यग्नि पंचगव्याभ्यां संशोध्यैव च सर्वतः
गार्हपत्यादिकुंडेषु क्रमादाघारमाचरेत्॥ 88
पक्वबिंबसमाकारघटानां पंचविंशतिम्
तंतुना त्रिवृता वेष्ट्य शोधयित्वा सुधूपितान्‌॥ 89
आदाय मंत्रवद्दिव्यं जलमाहृत्य यत्नतः
पूताभिरद्भिरापूर्य नाळिकेराम्रपल्लवैः 90
अलंकृत्य तथा कूर्चैर्गंधपुष्पाक्षतादिभिः
यवैर्वाह्रीहिभिर्वाऽथ वेद्यां द्वादशभारकैः 91
आस्तीर्य तेषु संस्थाप्य पृथग्वस्त्रेण वेष्टयेत्
सौवर्णप्रतिमास्तत्र पंचनिष्ककृताः पृथक्॥ 92
गजकूर्मादिरूपाणि नवरत्नादि च क्षिपेत्
ध्यानमार्गेण कुंभेषु मध्यमादिषु चक्रमात्॥ 93
नवमूर्तिक्रमेणैव मंत्रेणावाहयेद्गुरुः
वेद्यधस्थेषु कुंभेषु चें दादीनष्टदिक्पतीन्‌ 94
आवाह्य गंधपुष्पाद्यैस्समभ्यर्च्य निवेदयेत्
सहस्रकलशैस्स्नाप्य स्नपनोक्तप्रकारतः 95
सौवर्णं कौतुकं बद्ध्वा प्रतिष्ठोक्तविधानतः
शय्यावेदिं समभ्युक्ष्य पंचतल्पान्‌ प्राकल्प्यच॥ 96
शालिव्रीहियवैश्चापि षड्भारैश्च पृथक् पृथक्
तदर्धैस्तंडुलैश्चाऽथ तदर्धैश्च तिलैस्तथा॥ 97
उपर्युपरि चास्तीर्य चर्मजादीन्‌ समास्तरेत्
शयने शाययेद्वेद्यामौत्सवं बिंबमुक्तवत्॥ 98
कूर्चाधिवासं कुर्वीत ध्रुवमात्रं यदिक्रमात्
वेदानध्यापयेद्दिक्षु ``ऋचां प्राचीरिति श्रुतिः 99
गार्हपत्यादिकुंडेषु प्रतिष्ठोक्तविधानतः
ऋत्विग्भिः कारयेद्धोमं तत्तद्दैवत्यपूर्वकम्॥ 100
गुरुस्सभ्याग्निमासाद्य परिषिच्य च पावकम्
पंचसूक्तं क्रमेणैव महाव्याहृतिपूर्वकम्॥ 101
व्यापकत्रयमंत्रं च विष्णुगायत्रिया पुनः
अषोत्तरशतं हुत्वा व्याहृत्या च तथैव च॥ 102
ततोऽब्जाग्निं समासाद्य पंचसूक्तैस्सहैव तु
धातादिमूलहोमं च पंचवारुणसंयुतम्॥ 103
महाशांत्युक्तमंत्रांश्च त्रिरावर्त्य हुनेत्ततः
कुंभवेदिं समासाद्य समभ्यर्च्याऽष्टविग्रहैः॥ 104
स्पृष्ट्वा कूर्चेन तत्कुंभान्‌ ऋत्विग्भिस्सह वै गुरुः॥
आत्मसूक्तं जपित्वैव पंचसूक्तमतः परम् 105
स्वस्तिसूक्तं च दौर्गं च रात्रिमेकाक्षरं तथा
अष्टदिक्पालसूक्तानि पंचशांतिमतः परम्॥ 106
``आपो हिरण्यवर्णाभ्यां पावमानीभिरेव च
जप्त्वा द्वादशसूक्तं च ततस्सभ्याऽनले क्रमात्॥ 107
हौत्रप्रशसनं कुर्यात्सर्वं होत् तु पूर्ववत्
चतुर्मूर्तिक्रमेणैव सहस्राहुतिना सह॥ 108
``यद्देवाद्यैश्च कूश्मांडैस्सर्वदैवत्यमन्त्रकैः
हुत्वातु दोषशान्त्यर्थं लोजैस्तद्वत्तिलैरपि॥ 109
सापूपैर्विष्णुगायत्य्रा हुत्वाकुंडेषु पूर्ववत्
अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा॥ 110
परिषेगं ततः कृत्वा पौंडरीके विशेषतः
पद्मैर्वा बिल्वपत्रैर्वा विष्णुगायत्रिया ततः 111
अषोत्तरसहस्रं तु घृतेनाप्लुत्य वै हुनेत्
पारमात्मिकमंत्रैश्च ईंकाराद्यैश्च यत्नतः 112
अष्टाशीतिं ततो हुत्वा महाव्याहृतिपूर्वकम्
हुत्वा तद्दोषनाशाय राजराष्ट्राभिवृद्धये॥ 113
सभ्याग्निं पौंडरीकाग्निं हित्वान्येष्वंतहोमकम्

  • * * 114

नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः
प्रातस्स्नात्वा विधानेन कलशैस्स्नपनं चरेत्॥ 115
पंचसूक्तैश्च संस्नाप्य पंचशान्तिसमन्वितम्
पश्चाद्देवमलंकृत्य सुवस्त्राभरणादिकैः 116
गंधपुष्पैस्सुगंधैश्च यापन्नेत्रमनःप्रियम्॥
मुहूर्ते समनुप्राप्ते कुंभमादाय देशिकः॥ 117
स्वस्तिसूक्तं जपन्‌ ग्राममालयं वा प्रदक्षिणम्
कृत्वा देवाग्रतः कुंभं ध्यान्यपीठे निवेशयेत्॥ 118
यजमानेन शक्त्यावै गुरुस्संपूजितस्तदा
कूर्यादनंतरोक्तांश्च संस्कारान्‌ भगवत्प्रियान्॥ 119
वस्त्रेराभरणैश्शुभ्रैः कुंडलैश्च विशेषतः
यजमानस्सुसंपूज्य पशुभूम्यादिभिर्गुरुम्॥ 120
गुरवे दक्षिणां दद्यान्निष्काणामेकविंशतिम्
ऋत्विग्भ्यश्च तथा दद्यात्सुप्रीतो भगवान्‌ हरिः॥ 121
गुरुः पश्चात्समावाह्य समभ्यर्च्याष्टविग्रहैः
महाहविर्नि वेद्यैन पायसापूपसंयुतम्॥ 122
साज्यं सव्यंजनं दत्वा मुखवासं निवेदयेत्
पुष्पांजलिं ततो दत्वा ``क्षय स्वेति प्रणम्य च॥ 123
सहस्रं ब्राह्मणानां च भोजयेच्छांतिहेतवे
दशदानं विशेषेण देवप्रीतिकं भवेत्॥ 124
एवमाद्वादशाब्दात्तु प्रतिष्ठामाचरेत्ततः
पुनस्थ्सापनसंस्कारात्प्रायश्चित्तं न हीतरत्॥ 125
तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेत्
एवं यःकुरुते भक्त्या विष्णोस्संप्रोक्षणत्रयम्॥ 126
प्रतिष्ठाफलमासाद्य वैष्णवं लोकमाप्नुयात्
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे एकत्रिंशोऽध्यायः॥