सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/अष्टाविंशोऽध्यायः

विकिस्रोतः तः
← सप्तविंशोऽध्यायः प्रकीर्णाऽधिकारः
अष्टाविंशोऽध्यायः
[[लेखकः :|]]
एकोनत्रिंशोऽध्यायः →

अथाऽष्टाविंशोऽध्यायः॥
प्रायश्चित्तम्
अथास्पृश्यस्पर्शनेतुप्रायश्चित्तं प्रवक्ष्यते
सर्पमूषकमंडूकमार्जारनकुलादिषु 1
गर्भागारं प्रविष्टेषु विण्मूत्रादिविसर्जने
व्यपोह्य तत्पंचगव्यैस्तथाब्लिंगाभिरेव च 2
वैष्णवं विष्णुगायत्रीं शतमष्टोत्तरं जपेत्
ध्रुवं चै वाधितिष्ठत्सु विण्मूत्रादिविसर्जने 3
क्षिप्रं वस्त्रेण संशोद्य मार्जयित्वा कुशेन च
`आपो हिरण्यवर्णा'भिः `पापमानी'भिरेव च॥ 4
संस्रोक्ष्य चार्चयेद्देवमन्यता विपरीतकृत्
स्पर्शेतैरेव बिंबानां शुद्धोदैस्स्नापयेद्विधिः 5

  • * *

उदक्यया सूतिकया रजकेनान्त्यजातिभिः
प्रथमावरणे विष्टे चार्चास्थाने च पर्षदाम्॥ 6
प्रविष्टे चाऽथ संस्पृष्टे दार्भेणोद्दीप्य वह्निना
हुत्वा च वास्तु यज्ञेव पंचगव्यैस्समुक्ष्य च 7
कृत्वा पुण्याहमन्ते तु नित्याग्नौ जुहुयात्ततः
दौवारिकमनुं चैव द्वारपालं च वैष्णवम्॥ 8
बाङ्यावरणपक्षे तु मार्जनेनोपलेपनैः
प्रोक्षणैर्वास्तुयज्ञेव शुद्धिर्भवति सर्वतः 9
अर्चाकाने तु दृष्टेषु चैतेषु विधिना हरिम्
संस्नाप्य पंचगव्यैन्तु शुद्धोदैस्स्नाप्य चाऽत्वरः 10
प्रोक्षणैः प्रोक्ष्य हुत्वा तु पूर्ववच्छार्चयेत्ततः
एतेषु संप्रविष्टेषु चालयाऽभ्यन्तरे तथा 11
तत्स्पृष्टहविषां चैव प्रमादात्तु निवेदने
शोधयित्वाऽथ तद्द्रव्यं यथाविधि विशेषतः 12
वास्तुहोमं च हुत्वाऽथ पर्यग्निकरणं चरेत्
पंचगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत्॥ 13
संस्नाप्य कलशैर्देवं हुत्वा नित्याऽनले ततः
वैष्णवं विष्णुसूक्तं च नृसूक्तं रौद्रमेव च 14
ब्राह्मं च श्रीमहीसूक्ते ब्राह्मणान्‌ भोजयेत्ततः
स्पृष्टेतु चैतैर्बिंबेषु ध्रुवादिषु विशेषतः 15
कृत्वातु पूर्ववच्छुद्धिं वास्तुहोमं च कारयेत्
पर्यग्निपंचगव्याभ्यां शोधयित्वा ततःपरम्॥ 16
संस्नाप्य कलशैर्देवमब्जाग्नौ विधिवत्तदा
महाशान्तिं च हुत्वैव प्रतिष्ठां पुनराचरेत् 17
शूद्राद्यैरनुलोमैश्च स्पृष्टं दत्वा हविस्ततः
पंच गव्यैश्च शुद्धोदैर्देवं संस्नाप्य चादरात् 18
पुण्याहं कारयेत्पश्छाद्द्विगुणं तु निवेदयेत्
महापातकिभिश्चैव चंडालै पुल्कसादिभिः 19
आलये संप्रविष्टे तु तत्स्पृष्ठे विनिवेदिते
सप्ताहं महतीं शान्तिं हुत्वाब्जाग्नौ विधानतः 20
संस्नाप्य कलशैर्देवं प्रतिष्ठां पुनराचरेत्
पुनश्चध्रुवबेरे वा बिंबेष्यन्येषु मंदिरे॥ 21
स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा द्विगुणमेव च
हुत्वा तु महतीं शान्तिं संस्नाप्य कलशैर्विभुम्॥ 22
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्
पतिते चैव पाषंडे चान्यतंत्रेण दीक्षिते॥ 23
प्रविष्टे गर्भगेहे तु वास्तुशुद्धिं विधाय च
हुत्वा तु महतीं शान्तिं प्रतिष्ठां पुनराचरेत्॥ 24
उक्तेष्वेतेषु सततं प्रथमावरणे तथा
द्वितीये वा संचरत्सु मासेऽतीते विशेषतः॥ 25
मासमेकं महाशान्तिं हुत्वा कृत्वा विधानतः
कर्षणादि पुनःकृत्वा प्रतिष्ठां पुनराचरेत्॥ 26
तथा संवत्सरेऽतीते त्यक्त्वा चावाहनादिकम्
कौतुकादींत्सुसंरक्ष्य गर्भागारादि सर्वतः॥ 27
वासयेद्गा विशेषेण मासेऽतीते विशेषतः
सर्वत्र शुद्धिं कृत्वातु हुत्वा मासत्रयं ततः 28
महाशान्तिं तथा कृत्वा कर्षणादि पुनःक्रियाः
बालालयं च संकल्प्य बिंबशुद्धिमाथाचरेत्॥ 29
जलाधिवासनाद्यैश्च तथा वित्तानुसारतः
अशीत्यधिकसाहस्रैस्संस्नाप्य कलशैर्हरिविम्॥ 30
ब्राह्मणान्‌ भोजयित्वैव संपूज्यापि च वैष्णवान्‌
बालालये प्रतिष्ठाप्य देवेशं विधिवत्ततः॥ 31
आलयं चैव सर्वत्र नवीकृत्य विशेषतः
महाप्रतिष्ठां कृत्वैव देवदेवं समर्चयेत्॥ 32
एतैस्संसर्गिणां स्पर्शे सूतिकाक्तैव निष्कृतिः
स्पर्शे तत्संसर्गिणां च शुद्धिस्स्यात्स्नपनादिना॥ 33
ततस्संसर्गिणां चैव न दोषः परिकथ्यते

  • * *

अशौमवद्द्विजस्पृष्टहविषां च निवेदने॥ 34
एकाहं तु महाशान्तिं हुत्वा संस्नाप्य चौदकैः
पुण्याहं वाचयित्वैव पूर्ववच्च समर्चयेत्॥ 35
स्पृष्टेषु चाऽथ बिंबेषु कौतुकादिषु वा ध्रुवे
पूर्ववन्महतीं शान्तिं हुत्वा संस्थापयेत्पुनः॥ 36
प्रविष्टे चालयाद्बाङ्ये सर्वत्र च यथार्हकम्
गौरवं लाघवं ज्ञात्वा सर्वमूह्यैव कारयेत्॥ 37

  • * *

खद्यैतपक्षिजातादिप्रवेशे चाऽलयान्तरे
स्पर्शने चैव बिंबानां कृत्वा पर्यग्नि पूर्ववत्॥ 38
संशोद्य पंचगव्यैस्तु शुद्धोदैरभिषिच्य च
प्रोक्षणैः प्रोक्ष्यनित्याग्नौ छुल्ल्यां वा वैष्णवं हुनेत्॥ 39
बिंबादीन्‌ तत्समीपस्थान्‌ संशोध्यैव च पूर्ववत्
शुद्धोदैस्स्नाप्य पुण्याहं कृत्वोक्तं होममाचरेत्॥ 40
पूर्वमुक्तेषु देशेषु श्वादीनां वा नृणामपि
छेदने ताडने चैव रक्तस्रावे मृतौ तथा॥ 41
तद्व्यपौह्य च तद्देशशुद्धिं कृत्वा विधानतः
वास्तुहोमं च हुत्वैव कलशैस्स्नाप्य सप्तभिः 42
तद्दोषशमनार्थं च महाशान्तिं हुनेत्ततः
अभ्यर्च्य पूर्ववद्देवं हविस्सम्यङ्नि वेदयेत्॥ 43
संभूते त्वालयाद्बाह्ये कृत्वा पर्यग्नि पूर्ववत्
देवं शुद्धोदकैस्स्नाप्य शान्तिं हुत्वा विधानतः 44
संपूज्य वैष्णवांश्चैव पूर्ववत्सम्यगर्चयेत्
देवेशस्य शवे दृष्टे संस्नाप्य कलशैर्हरिम्॥ 45
वैष्णवं विष्णुसूक्तं च पौरुषं जुहुयात्ततः

  • * *

गजाश्वपशुमुखेषु प्रथमावरणे पुनः, 46
मृतेषु तद्व्यपोह्यैव खनित्वा तादृशं स्थलम्
वास्तुहोमं च हुत्वा तु शद्धोदैरभिषिच्य च॥ 47
वैष्णपं विष्णुसूक्तं च पौरुषं जुहुयाद्विधिः

  • * *

प्रस्वेदे रुधिरस्रावे रोदने जल्पने तथा 48
हासे दृष्टे महाबेरे सत्सु धूमादिषु स्वतः
आलयाभिमुखेऽब्जाग्निं साधयित्वाऽथ वैष्णवम्॥ 49
विष्णुसूक्तं नृसूक्तं च ईंकारान्‌ पारमात्मिकम्
हुत्वा संस्नाप्य देवेशं कलशैस्सप्तभिः क्रमात्॥ 50
समभ्यर्च्य हविर्दत्वा ब्राह्मणान्‌ भोज्य सादरम्
वैष्णवांश्च सुसंपूज्य दद्यादायार्यदक्षिणाम्॥ 51

  • * *

तृणवल्मीककीटादावुत्पन्ने तत्र पूर्ववत्
शांतिं पूर्वोदितां हुत्वाभोजयित्वाऽपि ब्राह्मणान्‌॥ 52
देवं बालालये स्थाप्य नवीकरणमाचरेत्
विमाने तु हठाद्भिन्ने पतिते वा विधानतः॥ 53
शान्तिं मासत्रयं हुत्वा कर्षणादि विधाय च
बालालयं च संकल्प्य कृत्वा चाप्स्वधिवासनम्॥ 54
बिंबशुद्धिं तु कृत्वैव संस्नाप्य कलशैर्हरिम्
अशीत्यधिकस्राहस्रैर्यथाविभवविस्तरम्॥ 55
ब्राह्मणान्‌ भोजयित्वैव संपूज्यैव तु वैष्णवान्‌
देवं बालालये स्थाप्य नवीकृत्यालयादिकम्॥ 56
सर्वत्र चाविशेषेण प्रतिष्ठां पुनराचरेत्

  • * *

तत्राऽशनिहते चैव मक्षिकादिफिरावृते॥ 57
संस्नाप्य कलशैर्देवं पूजां कृत्वा विशेषतः
प्रभूतं तु निवेद्यैव हुत्वा शान्तिं विधानतः 58
ब्राह्मणान्‌ भौजयित्वैव पुनस्संधानमाचरेत्॥

  • * *

स्थूपिकीले विनष्टे तु विमानोपरि संस्थिते॥ 59
विमानकल्पवत्कृत्वा पुनस्संधानमाचरेत्
अकाशे प्रतिसूर्यस्य दर्शने वैष्णवं तथा॥ 60

  • * *

सौरं च दशकृत्वन्तु हुत्वाऽभ्यर्च्य विशेषतः
दिग्दाहे वैष्णवं दिग्दैवत्यमाग्नेयमेव च॥ 61
शिलावर्षे वारुणं च वैष्णवं त्रिश्चत्रिंशता
अकाले शशिनः पूर्तौक्षये वा प्रतिदर्शने॥ 62
महोत्पाते च महतीं हुत्वा शान्तिं विधानतः
देवं विशेषतोऽभ्यर्च ब्राह्मणान्‌ भोजयेत्ततः 63

  • * *

आलयाभ्यन्तरे बाह्यप्राकारे वा विशेषतः
रक्तस्त्रीदर्शनेचैवं तं देशं परिशोध्य च 64
देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत्
ध्रुवबेरे कौतुकादौ स्पृष्टे चैव ध्रुवोदिताम्॥ 65
शुद्धिं जलाधिवासं च कृत्वा संस्थापयेत्पुनः
गर्भालये तु सर्पादिदर्शने तद्व्यपोह्य च 66
गोमयेनोपलिप्यैव गव्यैरभ्युक्ष्य पंचभिः
औपासनाग्निमाधाय वैष्णवं शान्तिमाचरेत्‌ 67
पुण्याहं वाचयित्वैव ब्राह्मणान्‌ भोजयेत्ततः
सर्पादौ तु मृते तत्र तद्व्यपौह्योपलिप्य च 68
पंचगव्यैन्तु संप्रोक्ष्य वास्तुशुद्धिं विधाय च
संस्नाप्य कलशै र्देवं चतुर्विंशतिभिस्तदा 69
एकाहं पौंडरीकाग्नौ महाशान्तिं विधाय च
ध्रुवादिषु तु बिंबेषु मुहुस्स्पृष्टेषु तैस्तथा 70
देवं शुद्धोदकैस्स्नाप्य महाशान्तिं विधाय च
पुण्याहं वाचयित्वैव विशेषार्चनमाचरेत्॥ 71

  • * *

मृते प्रासादबाह्ये तु तद्व्यपोह्य च पूर्ववत्
प्रोक्षणैः प्रोक्ष्य च हुनेद्दिग्दैवत्यं च वैष्णदम् 72
पाकस्थाने गोपुरादौ मृते सर्पे व्यपोह्य च
उपलिप्य च नित्याग्नौ वैष्णवं च विशेषतः 73
तत्थ्सानाधिपदैवत्यं दशशो जुहुयाद्विधिः

  • * *

आलयाभ्यन्तरे चैव सर्पत्रावरणेऽपि वा 74
महावातेऽविवृष्टौ वा शत्रुचोराद्युपप्लवे
संस्माप्य कलशैर्देवं वास्तुहोमं विधाय च 75
पर्यग्नि पंचगव्याभ्यां शोधयित्वा विधानतः
पुण्याहं वाचयित्वैव वैष्णवं विष्णुसूक्तकम् 76
नृसूक्तं श्रीमहीमंत्रान्‌ ब्राह्मं रौद्रं विशेषतः
प्राजापत्यं च हुत्वैव ब्राह्मणान्‌ भोजयेद्विधिः 77

  • * *

अथ वक्ष्ये विशेषेण भयरक्षार्थनिष्कृतिम्
चोरैरमित्रैरथ वा परचक्रेण संकुले॥ 78
लोहजप्रतिमानां च तिरोधानं प्रकल्पयेत्
शुचौ देशे सुगुप्ते तु खनित्वा चावटं घनम्॥ 79
सिकताभिः प्रपूर्यैव कुशानास्तीर्य चोपरि
अवटेऽभ्यर्च्य भूदेवी `मपो हि'ष्ठेति प्रोक्ष्य च॥ 80
देवागारं प्रविश्यैव यजमानयुतो गुरुः
देवदेवं प्रणम्यैव समभ्यर्च्याऽनुमान्य च॥ 81
`यावत्कालं भयं भूयात्तावदीश जनार्दन
हरिश्या सहित स्तत्र शयीधा' इति सन्मनुम् 82
वीज्ञाप्य शक्तिं बिंबस्थां ध्रुवबेरेऽवरोपयेत्
बेराभावे तु हृदये समारोप्य विधानतः 83
`परं रंह' इति प्रोच्य पीठादादाय चाऽत्वरः
`प्रतद्विष्णु स्तवत' इत्यवटे न्यस्य रक्षितम् 84
`यद्वैष्णव'मिति प्रोच्य प्राक्छिरश्शाययेत्ततः
अवटं सिकताभिर्वा मृदा वा पूर्व यत्नतः 85
अच्छिद्रं सुदृढं कुर्यादवटं परिरक्षितम्
पश्चादभ्यन्तरं गत्वा देवदेवं प्रणम्य च 86
ग्रथितं पंचदशभिर्दर्भैः कूर्चं प्रगह्य च
द्वादशांऽगुलदीर्घन्तु जीवस्थाने निधाय च॥ 87
ध्रुवबेरात्समादाय तत्कूर्चेऽर्चनमाचरेत्
बालालयं भवेच्छेत्तु अर्चापीठे विशेषतः 88
कूर्चं सन्न्यस्य हृदयात्प्रणिध्यां विनिवेश्यच
कूर्चं तु बिंबवत्स्मृत्वा मनसैवाक्षराणि तु 89
तत्तत्थ्साने तु संस्कृत्य सन्न्यस्याऽवाह्य चार्चयेत्
स्नपनादौ तु संप्राप्ते कुर्यादभ्युक्षणं बुधः 90
मासादूर्ध्वं तु तत्कूर्चं व्यपोह्यान्यं निधापयेत्
काले तु बिंबमुद्धृत्य संशोध्याम्लादिभिस्तदा 91
पुण्याहान्तेकृतेऽस्पृश्य स्पर्शने त्वविलंबितम्
कृत्वा जलाधिवासादीनंकुरार्पणपूर्वकम् 92
आलयाभिमुखे वापि दक्षिणे वा मनोरमे
प्रपायां मंडपेकूटे यत्वाऽब्जाग्निं विधायच 93
तदुत्तरे वास्तहोमं हुत्वाबिंबसमीपतः
पर्यग्निकरणं कृत्वा गव्यैस्संशोध्य पंचभिः 94
अब्जाग्नौ पश्चिमे भागे बिंबार्धाधिकविस्तृताम्
भागोन्नतां यथालोभोन्न तां धान्यैर्विधाय च 95
वेदिं मनोहरां चैव वासांस्यास्तीर्य पंच च
संस्नाप्य कलशैर्दिव्यैश्चतुर्दशभिरेव च 96
पुण्याहान्ते प्रतिसरं बद्ध्वा कौतुकपूर्वकम्
बेराणि देवीसहितं शाययेच्छयने शुभे॥ 97
अवताराणां तु शयनं पृथगेव विधीयते
परिषिच्य च पद्माग्नौ हौत्रशंसनमाचरेत्॥ 98
देवेशस्य च देव्याश्च अवतारगणस्य च
दक्षिणप्रणिधौ चैव पार्षदानामथोत्तरे॥ 99
आवाह्य कृत्वा निर्वापं हुनेदाज्याहुतीःक्रमात्

  • * *

वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च॥ 100
गायत्री वैष्णवी चैव द्वादशाक्षरमेव च
प्राजापत्यं मिंदाहुती विच्छिन्नं जुहुयादयम्॥ 101
शान्तिहोम इति प्रोक्ता महाशान्तिं जगुःपरे

  • * *

षण्माने समतीते तु हुत्वा शान्तिं विशेषतः 102
सक्तुलाजतिलापूपैराज्यमिश्रैस्तु वैष्णवम्
विष्णुसूक्तं च प्रत्येकं शतशो जुहुयाद्विधिः 103

  • * *

श्वेतं रक्तं सरोजातमलाभे बिल्वकच्छदम्
घृताप्लुतं तु वैष्णव्या गायत्य्राजुहुयात्तथा 104
सर्वदैवत्यमन्ते च जुहुयात्पारमात्मिकम्
एनमेके महाशान्तिहोममाचक्षते बुधाः 105

  • * *

पश्चादप्यवताराणां तत्तन्मंत्रं विशेषतः
पृथगष्टोत्तरशतं हुत्वा रात्रिं नयेत्ततः 106
स्नात्वा प्रभाते देवेशं प्रणम्य प्रणवेन तु
बोधयित्वाऽभिवन्द्यैव `करुणाब्धे क्षमस्य मे 107
शतं सहस्रमयुतमसंख्येयं मुहुर्मुहुः
कृतानामपराधाना'मिति संप्रार्थ्य भक्तितः 108
प्राचीन वस्त्रमाल्यादीन्‌ द्यपोह्यन्यैर्विभूष्य च
सर्ववाद्य समायुक्तं शाकुनं सूक्तमुच्चरन्‌ 109
तोयधारां पुरस्कृत्य गच्छेत्तु पुरतो गुरुः
स्थापका देवमुद्धृत कृत्वा धामप्रदक्षिणम् 110
अभ्यन्तरं प्रविश्यैव स्थापयेयुश्च पूर्ववत्
देवपादौ गुरुस्स्पष्ट्वा वैष्णवं विष्णुसूक्तकम्॥ 111
पौरुषं चात्मसूक्तं च जप्त्वा ध्यात्वा विधानतः
ध्रुवाद्वा हृदयाच्छक्तिं प्रणिध्यां तु निवेश्य च 112
कृत्वाऽक्षराणां विन्यासमावाहनमथाचरेत्॥
तदालयगतां श्चैव देवानन्यां त्समाह्वयेत्॥ 113
पुण्याहं वाचयेत्पश्चाद्यथोक्तं पूर्वमाचरेत्
यजमानोपि शुद्धात्मा दद्यादाचार्यदक्षिणाम् 114
पश्चादग्निं परिस्तीर्य शान्तिहोमं समाचरेत्
यथाविभवविस्तारमुत्सवं स्नपनं चरेत् 115
अशक्तस्स्नपनं कुर्यादन्यत्सर्वं च पूर्ववत्
कूर्चादावर्चने हीने तन्निष्कृतिमथाचरेत् 116
एवं चैद्वत्स रेऽतीते पुनस्थ्सापनमाचरेत्
अवतारविशेषस्य पृथक्कुर्यादितीतरे 117
तेषां पुनःप्रतिष्ठा चेत्तत्तद्धोमं तु के चन
इद्थं स्याद्भयरक्षार्थनिष्कृतिस्सर्वसिद्धिता॥ 118

  • * *

अथ वक्ष्ये विशेषेण पुनर्बालालयं बुधाः
महाबेरे विमाने च पतिते जरिते तथा॥ 119
भिन्नेंऽगहीने निहते वात्ययाऽशनिनाऽथ वा
वर्णक्षये स्थलभ्रंशे गर्भगेहस्य चाऽन्यथा॥ 120
पीठगर्भादिनाशे वा अस्पृश्यैर्वा प्रवेशने
उन्नतस्थापनेच्छायां कुर्याद्बालालयं हरेः 121
बालालयेऽभ्यर्च्यमाने संभूते स्थानसंकटे
चंडालाधिष्ठिते चैव स्थाननाशे ह्रदादिभिः 122
अन्यत्र तूचिते देशे कृत्वा पूर्वोक्तमार्गतः
कर्षणादिक्रियास्सर्वा बिंबमानीय चादरात्॥ 123
प्रतिष्ठाप्य तु तत्रैव कुर्यान्मूलालयं ततः
बाह्ये चैव विमानस्य चांगोपांगक्षतौ तथा 124
मक्षिकातृणवल्मीकपादपाद्यैर्विभेदने
विना बालालयस्थानं शक्तिं गृह्य विमानगाम्॥ 125
तदंगदेवतानां च समारोप्य ध्रुवे पुनः
नवीकृत्य विमानोक्तप्रतिष्ठां पुनराचरेत्॥ 126

  • * *

अकृत्वा देवतारोपं महाबेरे विशेषतः
विमानं नाधितिष्ठेत सर्वत्रायं विधिस्स्मृतः 127
विमानध्रुवयोर्नाशे युगपत्तत्रनिष्कृतिः
कौतुकादीन्‌ प्रतिष्ठाप्य विहाय प्रार्थनामनुम्॥ 128
बालालयं प्रकल्प्यैव विधिना तत्र चार्चयेत्
तस्य कालेऽप्यतीते तु तदा तत्र न दोषकृत्॥ 129
यस्यांगस्य भवेद्धानिस्तत्र बालालयं भवेत्
कृत्वा तस्य तु संस्कारं यथोक्तं तत्पुनश्चरेत्॥ 130

  • * *

कौतुकादिविनाशे च दोषयुक्ते ध्रुवे तथा
विमाने च तथा दुष्टे कृत्वा बालालयं पुनः 131
यथालाभेन मानेन बिंबमाहृत्य दारवम्
प्रतिष्ठाप्याऽद्यतरुणालयोक्तविधिना ततः 132
कौतुकादींश्च संकल्प्य प्रतिष्ठाप्यार्चयेत्क्रमात्
अलाभे कौतुकादीनां दोषयुक्ते तु दारवे 133
बिंबमस्यं समाहृत्य प्रतिष्ठाप्यैव दारवम्
तद्बेरं विधिवत्त्यक्त्वा कृत्वा मूलालये पुनः 134
विधिना मूलबेरं तु प्रतिष्ठाप्य समर्चयेत्

  • * *

बालालयस्य संस्थानं वक्ष्ये मूलालयस्य तु॥ 135
मध्यसूत्राद्दक्षिणे च प्रथमावरणे तथा
द्वितीयावरणे वाऽथ मंटपादौ मनोरमे 136
यत्रावकाशस्तत्रैवं बालागारं प्रकल्पयेत्
द्वितीयावरणादूर्ध्वं न बालागारकल्पनम्॥ 137
एकादि तु त्रिहस्तान्तं विस्तारं तु विधीयते
अध्यर्धं चैव पादोनमुत्सेधं द्विगुणं तु वा॥ 138
उत्सेधं पंचधा कृत्वाऽधिष्ठानं चैकमंशकम्
भित्त्युच्चं द्व्यंशमथ च द्व्यंशं तु शिखरं मतम्॥ 139
लुपोपरे तृणाच्छन्नं मृण्मयं कारयेत्सुधीः
भित्तिविष्कंभमानं स्यान्मूलालयसमं तथा॥ 140
द्विगुणं चतुर्गुणं कृत्वा यच्छिष्टं विधिना कृतम्
नालीगृहं भवेद्विंद्यात्तमेव तरुणालयम्॥ 141
मंडपादिषु चेद्भित्त्या सह तस्य यथार्हकम्
नालीगृहं मंडपेन प्रमुखे रहितं तु वा॥ 142
सहिते तु समं कुर्यात्त्रिपादं चार्धमेव वा॥
पूर्वापरयुतं वाऽथ दक्षिणोत्तरमायतम्॥ 143
समं वा तरुणागारं शिल्पशास्त्रोक्तवच्चरेत्
पंचविंशतिभागं तु कृत्वा गर्भालयं ततः 144
मध्ये ब्राह्मं पदं चैकं परितोऽष्टौ तु दैविकम्
मानुषं तस्य परितः पदान्यन्यानि षोडश॥ 145
कौतुकं ब्रह्मणस्थ्साने स्थापयेदुत्तमं भवेत्
दैविके मानुषे स्थाप्य मध्यमं चाऽधमं भवेत्॥ 146
त्रीणि तु स्नपनादीनि बेराणि स्थापयेत्सदा
अन्त्ययोरेव नान्यत्र स्थानभेदः प्रशस्यते॥ 147
प्राणस्थानेतु पीठं स्याद्रम्यमेकत्रिमेखलम्॥
यथालाभायतं तद्वद्विस्तारो त्सेधसंयुतम्॥ 148
रत्नन्यासविहीनं वा कृत्वा विभवविस्तरात्
आलयाग्रेऽथ वा बालागाराग्रे पूर्ववद्बुधः 149
यागशालां तु कृत्वैव तोरणादीन्विधाय च
सुभृत्यैव च संभारानृत्विजोवरयेत्क्रमात्॥ 150
शालामध्ये प्रकल्प्यैव शय्यावेदिं मनोहरम्
चतुरश्रां पादहीनामर्धहीनां विशेषतः 151
तद्भित्त्यातु समां तत्तुरीयांशोत्सेधसम्मित्ताम्
पंचत्रीनथवै काग्निं संकल्प्यैव च पूर्ववत्॥152
पर्यग्नि पंचगव्याभ्यां संशोध्य विधिना ततः
बालागारं यज्ञशालां पुण्याहमपि वाचयेत्॥ 153
हुत्वाग्निकुंडेष्वाघारं प्रधानाग्निं समिंध्य च
गायत्रीं वैष्णवीं चैव वैष्णवं विष्णुसूक्तकम्॥ 154
पौरुषं चैकाक्षरादि श्रीभूसूक्तं च वारुणम्
पंचमंत्रान्‌ जयानभ्यातानान्‌ राष्ट्रभृतस्तथा॥ 155
मिदाहुती च विच्छिन्नमृद्धिं वैष्णवसंयुतम्
प्रत्येकं प्रतिमंत्रं च हुत्वां च समनन्तरम्॥ 156
श्वेताब्जं विष्णुगायत्य्राघृताक्तं बिल्वपत्रकम्
हुनेदष्टोत्तरशतं सर्वदोषविनाशनम्॥ 157
रात्रिपूजावसाने तु देवमभ्यर्च्य यत्नतः
हविर्निवेद्य तां शक्तिं कौतुकादिषु संगताम्॥ 158
महाबेरे समारोप्य कुंभमाहृत्य पूर्ववत्
तंतुना परिवेष्ट्यैव `शुची वो हव्य'मन्त्रतः॥ 159
प्रक्षाल्योत्पवनं कृत्वा `धारास्वि'ति च मंत्रतः
अद्भिरापूर्याभिमृश्य `इदमापश्शिवा' इति॥ 160
वस्त्रयुग्मेन चावेष्ट्य नवरत्नादि विन्यसेत्
उच्चार्यविष्णुगायत्रीं तत्र कार्यं समाचरेत्॥ 161
ततोऽभ्यन्तरमाविश्य देवाऽग्रे धान्यमंडले
सन्न्यस्य कुंभमासित्वा देवाग्रे तूत्तरामुखः॥ 162
समाहितो हरिं ध्यायन्‌ प्रार्थयेन्मंत्रमुच्चरन्‌
`अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च॥ 163
किंचित्कालं च देवेश त्वयाऽत्र स्थीयतां विभो
यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे 164
प्रसादं कुरु तावत्त्वमस्मिन्‌ गेहे जगत्पते'
इत्युक्त्वाब्दमथ द्वौत्रीन्‌ संकल्प्यावधिमादरात्‌॥ 165
देव्यादिसहितं देवमावाह्यांभसि कुंभके
आचार्यश्शिरसा कुंभं धारयन्नग्रतस्त्वियात्॥ 166
तदनु स्थापकाबिंबन्यादाय स्नपनाऽवटे
यज्ञालये प्रतिष्ठाप्य चतुर्दशभिरेव च॥ 167
कलशैस्स्नाप्य वस्त्राद्यैरलंकृत्य समर्च्यच
शय्यावेद्यां धान्यपीठे शयनानि तु पंचवै॥ 168
आस्तीर्य चाऽथ वासांसि बद्ध्वा प्रतिसरं ततः
तथैव शाययेत्कुर्यादुत्तराच्छादनं पुनः 169
परिषिच्य प्रधानाग्निं हौत्रशंसनमाचरेत्
कृत्वा चावाहनादीनि हुनेदग्निषु पूर्ववत्॥ 170
प्रधानाग्नौ स्रुवेणाज्यमादायैव तु वैष्णवम्
गायत्रीं वैष्णपं विष्णुसूक्तं पौरुषमेव च॥ 171
एकाक्षरादिसूक्तं च श्रीभूदैवत्यमेव च
त्रिर्हुत्वा सर्वदैवत्यपर्षदां मंत्रमेव च॥ 172
हुत्वा व्यपोह्य विधिना रात्रिशेषं समाहितः
स्नात्वा प्रभाते देवेशं प्रणम्य प्रमवेन तु॥ 173
विबोध्य दक्षिणां दद्याद्यजमानो मुदान्वितः
ततोऽग्निं साधयित्वा तु गुरुस्स्विष्टकृतं तथा॥ 174
पूर्णाहुतिं च हुत्वैव विसृज्याग्निं विधानतः
धारयन्‌ शिरसा कुंभं शाकुनं सू`क्तमुच्चरन्‌॥ 175
आचार्यः पुरतेगच्छेत्थ्सापकास्तदनस्तरम्
हस्ताभ्यां देवमादाय सर्ववाद्यसमायुतम्॥ 176
सर्वालंकारसंयुक्तं तो यधारापुरस्सरम्
आलयं परितो गत्वा प्रविश्याभ्यन्तरं पुनः 177
विहाय स्थिरराशिं तु सुमुहूर्तेविशेषतः
`प्रतद्विष्णु'रिति प्रोच्य प्राणपीठे हरिंस्मरन्‌॥ 178
प्रतिष्ठाप्य तु देवेशं तस्य दक्षिणवामयोः
श्रियं भुवं च मंत्राभ्यां तयोस्संस्थापयेत्क्रमात् 179
देवपादौ स्पृशन्‌ पश्चाद्विष्णुसूक्तं जपन्‌ गुरुः
कृत्वाऽक्षराणां न्यासादी `निदं विष्णुं'ति ब्रुवन्‌॥ 180
कूर्चेनादाय कुंभस्थां शक्ति`मायातु' मन्त्रतः
`विष्णुमावाहया'मीति कौतुकस्य तु मूर्धवि॥ 181
`श्रियं'च `हरिणीं'चेति देव्यौ दक्षिणवामयोः
संस्राव्यावाहयेद्देवांस्ततः पारिषदानपि॥ 182
कौतुकाद्दक्षिणे वामे स्नपनादीनि कौतुकात्
संस्थाप्य तु समावाह्य तावत्कालं समर्चयेत्॥ 183
स्थापकैस्सह पुण्याहं कृत्वाऽभ्यर्च्यासनादिभिः
हविर्निवेद्य देवेशं हुत्वा होमं च नैत्यिकम्॥ 184
बलिं निर्वाप्य कुर्वीत बलिभ्रमणमेव च
स्नपनं चोत्सवादीनि पूर्ववत्कारयेत्क्रमात्॥ 185
बालालयार्चने कुर्यादर्चनं तु ध्रुवार्चयोः
आवाहनं विसर्गं च हित्वा सर्वं समाचरेत्॥ 186
महानसादिनिर्माणं बालालयविधौ पुनः
सूलालयोक्तवत्कुर्याद्विपरीतं न कारयेत्॥ 187
अज्ञानादर्थलोभाद्पा कालस्यातिक्रमे सति
देवं विशेषतोऽभ्यर्च्यशान्तिं वैष्णवसंयुतम्॥ 188
हुत्वा संपूज्य पूज्यांश्च यजमानो गुरुस्तथा
संप्रार्थ्य देवं कालस्य चाऽवधिं ज्ञापयेत्पुनः 189
भक्तिनम्र स्ततःकुत्याच्छीघ्रंकर्मेदमादरात्
एवं द्वादशवर्षान्तं कारयेच्छ ततः परम्॥ 190
न र मेत हरिस्तत्र तस्मा दुक्तं समाचरेत्
अशक्तश्चेत्तथा कर्तुं बालागालान्तरं पुनः 191
संकल्प्यस्थापयेत्तत्र विपरीतकृदन्यथा
देहाद्देहान्तरप्राप्तौ यथा संस्क्रियते नरः 192
तथा स्थानान्तनप्राप्तौ प्रतिष्ठां कारयेद्धरेः
प्रथमेऽथ द्वितीये ना नष्टे बालालयेऽर्चिते॥ 193
दुष्टे वा येन केनाऽपि मंडपादौ मनोरमम्
देशं तु समलंकृत्य संशोध्य विधिवत्पुनः 194
संस्थाप्य कौतुकादींश्च समभ्यर्च्येद्विधानतः
बालालयं नवीकृत्य तदेव त्वरितं यथा॥ 195
वास्तुशुद्धिं च पुण्याहं कृत्वा संस्थाप्य चार्चयेत्
अयुक्तेतु ततस्तस्मिन्निधायाऽन्यत्र मन्दिरम्॥ 196
पुनः प्रतिष्ठामार्गेण प्रतिष्ठाप्य समर्चयेत्
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारेऽष्टाविंशोऽध्यायः