प्रकीर्णाऽधिकारः/अष्टादशोऽध्यायः
| ← सप्तदशोऽध्यायः | प्रकीर्णाऽधिकारः अष्टादशोऽध्यायः [[लेखकः :|]] |
एकोनविंशोऽध्यायः → |
अथाऽष्टादशोऽध्यायः॥
भगवदर्चनम्
अथ वक्ष्ये विशेषेण विष्णोरर्चनमुत्तमम्
`प्रवः पान्तम'न्धेत्यादि श्रुतिभिर्विहितं तथा 1
यच्चोक्तं गुरुणा सूत्रे समासेन महर्षिणा
तेनैव विवृतं शास्त्रे सार्धकोटी प्रमाणतः॥ 2
अस्माभिस्तु सुसंक्षिप्तं चातुर्लक्षप्रमाणतः
तदर्चनक्रमं वक्ष्ये श्रुणुध्वमृषिसत्तमाः॥ 3
- * *
वैखानसेन सूत्रेण निषेकादि क्रियान्वितः
ऋत्विगुक्तगुणोपेतस्सुपुष्टांगस्समाहितः॥ 4
गृहस्थो ब्रह्मचारी वा भक्त्यैवाऽर्चनमाचरेत्
द्रव्यैरनेकैस्संपाद्यं तथानन्तोपचारकैः॥ 5
आशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम्
मनुष्यैःकिमुवक्तव्यं दरिद्रैरदृढात्मभिः 6
यथाशक्ति ततः कुर्यात्तस्माद्बहुभिरर्चकैः
बहुभिः परिचारैश्च तथै वान्यपदार्थिभिः॥ 7
निर्वर्त्यं पूजनं विष्णोश्श्रद्धाभक्तिसमन्वितैः
तस्मान्नवविधा ग्राह्या अर्चकाः परिचारकाः 8
उत्तमे तूत्तमं प्रोक्तमर्चकानान्तु विंशतिः
अशीतिः परिचाराणामुत्तमे मध्यमं ततः 9
परिचाराणां चतुष्षष्टिदर्चकाष्षोडश स्मृताः
उत्तमे त्वधमं प्रोक्तमर्चका द्वादश स्मृताः 10
पंचाशत्परिचाराश्च मध्यमे चोत्तमं पुनः
चत्वारिंशत्परिचराः पूजकाश्चाष्टकीर्तिताः॥ 11
मध्यमे मध्यमं प्रोक्तमचन्काष्षडुदीरिताः
पंचविंशत्परिचरा मध्यमे त्वधमं पुनः 12
चत्वारः पूजकास्तत्र परिचारास्तु षोडश
त्रयोऽर्चकाः परिचरा नव स्युरधमोत्तमे 13
पूजकौ द्वौपरिचराश्चत्वारोऽधममध्यमे॥
एकोऽर्चकः परिचरौ द्वौप्रोक्तावधमाधमे॥ 14
- * *
आचार्यस्स्यादुपद्रष्टा देवस्सान्निध्यकारकः
अर्चनाद्यखिलं कार्यं तन्नियोगेन कारयेत्॥ 15
स हि कार्यस्य निर्णेता गोप्ताधर्मस्यदेशिकः
अर्चको देवदेवस्य कुर्यान्मन्त्रासनादिषु 16
उपचाराननन्तांश्च विधिना शास्त्रचोदितान्
अर्चकस्य सहायन्तु किंकरः परिचारकः 17
बहुकार्यकराश्चैते ग्राह्यास्तु परिचारकाः
सम्माजन्नकरश्चैव तथा स्यादुपलेपकः॥ 18
दीपोद्दीपयिता चौव पोत्रशोधनकारकः
पानीय वाहकश्चैव पुष्पापचयकारकः॥ 19
धूपदीपादिकर्ता च गन्धपेषणतत्परः
तत्तत्परिच्छदाहर्ता तथैव बलिवाहकः॥ 20
एवमादीनि कार्याणि कुर्वन्ति परिचारकाः
पाचकः परिचारस्स्यात्पचनालयसंगतः 21
हविष्पाकविधानज्ञश्शौचाऽचारपरायणः
एतान्वैखानसानेव वृणेत्सर्वान् पदार्थिनः 22
अलाभे तत्र सर्वेषा माचार्यं चार्चकान्पुसः
वैखानसानेव वृणॆन्नक्युदर्यादन्यसूत्रिणः 23
अवैखानस विप्रस्तु पूजयेदालये हरिम्
स वै देवलको नाम सर्व कर्मबहिष्कृतः॥ 24
परिचारांन्तु वृणुयादलाभे त्वन्यसूत्रिणः
दीक्षितानेवसद्वृत्तानागमोक्तविधानतः 25
यजमानस्सदाध्यात्मरतो मोक्षार्थचिन्तकः
धनी सर्वसमस्त्यागी भक्तियुक्तः प्रसन्नधीः 26
शास्त्रोक्तेन विधानेन विष्णुलांछनलांछितः
देवस्य नित्यपूजार्थमुत्सवार्थं विशेषतः॥ 27
तथान्यविभवार्थं च दापयेद्धनसंचयम्
आचार्याज्ञाप्रतीक्षस्स्यातॄजकॆ हितचिन्तकः 28
परिचारे प्रसन्नश्च किंकरेषु दयापरः
तीर्थप्रसादसेवी च निर्माल्येषु कृतादरः 29
इति लक्षणसंपन्नाः प्रभवन्त्यालयार्चने
- * *
अथार्चकः प्रमन्नात्मा पंचकालपरायणः॥ 30
ब्राह्मेमुहूर्ते चोद्थाय नारायणमनुस्मरेत्
कृत्वा सूत्रोक्तविधिना शौचादीनि यथाविधि 31
स्नात्वा स्नानविधानेन धृत्वा धौतांऽबरे पुनः
ऊर्ध्वपुंड्राणि संधार्य विधिना केशवादिभिः॥ 32
धृत्वा पवित्रपद्माक्षतुळसीमणिमालिकाः
धृत्वोभयपवित्रे च तथा सन्ध्यामुपास्य च 33
उष्णीषेण च पंचागभूषणैन्सुविभूषितः॥
समाप्य नित्यकर्माणि महामंत्रादिकं जपन्॥ 34
अरुणं तु जपित्वैव नारायणमतः परम्
प्रणम्य यंत्रिकांचैव कराभ्यां परिगृह्य च॥ 35
बाह्वोश्शिरसि वा न्यस्य भक्त्या परमया युतः
संगतः परिचारैश्च यजमानेन सादरम्॥ 36
सर्ववाद्य समायुक्त स्सर्वमंगलशोभितः
क्रममाणश्शनैर्विद्वान् देवागारं प्रति व्रजेत्॥ 37
`प्रतद्विष्णु'रिति प्रोच्य चाऽलयं परितःक्रमात्
युग्मप्रदक्षिणं कुर्याद्देव देवमनुस्मरन्॥ 38
- * *
युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकम्
आयुग्मं तु परीत्याऽपि तथाऽयुग्मं प्रणम्य च॥ 39
प्रेक्षेतोद्यन्तमादित्यं जपेद्द्वादशसूक्तकम्
छायालंघनदोषन्तु न तत्र स्यात्प्रदक्षिणे॥ 40
देवाऽगारं प्रविश्यैव तत्तन्मन्त्रमनुस्मरन्
द्वारदेवान् प्रणम्याऽथ `निरस्तं रक्ष'मस्त्रतः॥ 41
गृहीत्वा यन्त्रिकां चैव `हिरण्यपाणि' मुच्चरन्
कवाटे तु सुसंयोज्य `दिवं' वीति समुच्चरन्॥ 42
कवाटोद्घायनं कृत्वा प्रविशेदन्तरं बुधः
`अतो देवा' इतिप्रोच्य देवं वीक्ष्यप्रणम्य च॥ 43
परिचारकमाहूय दीपानुद्दीपयेत्क्रमात्॥
प्रणवं मंत्रमुच्चार्य तत्र कार्यं समाचरेत्॥ 44
त्रिस्संप्रहार्य पाणिभ्यां `शाम्यन्त्वि'त्यादि चोच्चरन्
आदर्शं गाश्च कन्याश्च हस्त्यश्वादीन् शुभोदयान्॥ 45
ब्राह्मणान्वेदविदुषो नर्तकांश्चैव गायकान्
देवस्य पुरतस्थ्साप्य मुखमंडप एवचा॥ 46
प्रच्छन्न पटमुद्वास्य कृत्वा नीराजनं तथा
सर्ववाद्यसमायुक्तं दर्शयेद्धरये मुदा॥ 47
धारोष्णं चैव गोक्षीरं नवनीतं सशर्करम्
देवेशाय निवेद्याऽथ कुर्याद्यवनिकां पुनः॥ 48
`भूः प्रपद्ये' समुच्चार्य देवेशं प्रणमेन्मुहुः
`परं रं'हीति मंत्रेण शयनस्थं श्रियःपतिम्॥ 49
`भूरसी भू'रिति प्रोच्य जीवस्थाने निवेशयेत्
तस्मिन् कालेतु ये भक्त्या सेवन्ते पुरुषोत्तमम्॥ 50
तेषां पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि
ततश्शिष्यं समाहूय विनयान्वितमादरात्॥ 51
सम्मार्जनादिकर्माणि गुरुस्तस्मै समादिशेत्
`अव धूति'मिति प्रोच्य गर्भगेहादि सर्वतः 52
मार्जन्या मार्जयेच्छिष्यः प्रादक्षिण्यक्रमेण वै
पांस्वादीन् परिहृत्यापि प्राकारान्तं च सर्वशः 53
`आशा'स्विति समुच्चार्य गोमयेनोपलेपयेत्
पंचगव्यैस्तु संप्रोक्ष्य रंगवल्लीस्समाचरेत् 54
`आ मा वाजस्य' मंत्रेण यथोक्तेन विधानतः
सर्वण्यपि च पात्राणि शोधयेत्सुमनोरमे॥ 55
तो यसंग्रहणार्थं तु नियुक्तः पूजकेन तु
घटमादाय शिष्यस्तु `दुहतां दिव'मुच्चरन्॥ 56
नदीतटाककूपानां पूर्वाऽलाभे परं व्रजेत्
उपस्थाय जलं स्मृत्वा जाह्नवीं लोकपावनीम्॥ 57
`आज्यमभिगृह्णा'मीति चाप्पवित्रेण वाससा
गृहीत्वोत्पूतमाधावं गायत्रीमुच्चरन् पुनः 58
अलंकृत्यघटं सम्यक् क्षौमेनाच्छाद्य तन्मुखम्
गजे शिरसि वा क्षिप्त्वा सर्ववाद्यसमायुतम्॥ 59
पुनरालयमाविश्य कृत्वा चैव प्रदक्षिणम्
`सोमं राजान' मुच्चार्य गर्भगेहे तु दक्षिणे॥ 60
विन्यसेच्च ततः कुंभं त्रिपादोपरि शोभिते
एलोशीरादिचाहृत्य गन्धद्रव्यं यथाविधि॥ 61
दद्यादर्चकहस्ते तु गृहीत्वा तत्तु पूजकः
पूर्णकुंभे तु निक्षिप्यतोयं तदधिवासयेत्॥ 62
अलाभे कुशदूर्वैर्वा तुळसीदलमिश्रितैः
- * *
अभिमृश्य ततः कुंभ `मिदमापश्शिवा'इति॥ 63
सूत्रोक्तविधिना कृत्वा पुण्याहं विधिवत्तदा
`शुचि वो हव्य'मंत्रेण संभारान् प्रोक्षयेत्क्रमात्॥ 64
- * *
शोधयित्वातु निर्माल्यं `नश्यस्तु जगता'मिति
`अहमेवेद'मुक्त्वा तु पीठपुष्पं च शोधयेत्॥ 65
`पूतस्तस्य' समुच्चार्य वेदिमद्भिस्सुशोधयेत्
ध्रुवस्य पादपुष्पस्तु विष्णुगायत्रिया तथा॥ 66
पंचभिर्मूर्ति मंत्रैश्च दत्वा देवं प्रणम्य च
देवनिर्माल्यशेषेण विष्वक्सेनं विभूष्य च॥ 67
अन्यन्निर्माल्यमादाय शुचिस्थानेऽप्सु वा क्षिवेत्
पूजनार्थांश्च संभारान् यथाशक्ति सुसंभरेत्॥ 68
ततस्समाहितो भूत्वासंभारार्चनमारभेत्
तत्तत्थ्सानेषु पात्राणि यथार्हं स्थापयेद्बुधः 69
स्नानार्थमग्निकोणे स्यादर्घ्यर्थं नैर्ऋतेऽपि च
पाद्यार्थं वायुदेशे स्यादाचमार्थमथेशके॥ 70
शुद्ध्यर्थमेकं मध्ये तु पंचपात्रमिदं क्रमात्
त्रिपादोपरे निक्षिप्ते विशाले ताम्रभाजने॥ 71
`अग्निश्शु'चीति मन्त्रेण स्थापयेच्च हरिं स्मरन्
कुर्याच्च पात्रसंस्कारं शोषणादि यथाविधि॥ 72
उद्धरिण्यां गृहीत्वातु प्रणवेन जलं तदा
निक्षिप्य तुळसीं तस्यां पुष्पं वा धारणं चरेत्॥ 73
वारिकुंभमुखे ब्रह्मा तदधो रुद्र ईरितः
वरुणस्तु जले ध्येयस्तथै वावाहनं चरेत्॥ 74
त्रिपादे चंद्रमावाह्य चादित्यं चोर्ध्वभाजने
वसिष्ठसोमयज्ञांगानिंदुं मन्द्रं क्रमेणवै॥ 75
आग्नेयादिक्रमेणैव पंचपात्रेषु चाह्वयेत्
कर्पूरोशीरकं चैव गंधानेलालवंगकम्॥ 76
स्नानद्रव्यमिदं प्रोक्तं स्नानपात्रे तुनिक्षिपेत्
विष्णुपर्णं पद्मदलं दूर्वां श्यामाकमेव च॥ 77
प्राद्यद्रव्याणिसंपाद्य पाद्यपात्रे तु निक्षिपेत्
कुशाऽक्षततिलव्रीहियवमाषांस्तथैव च॥ 78
प्रियंगूंश्चैव सिद्धार्थानर्घ्यपात्रे तु निक्षिपेत्
एलोशीरलवंगादिं स्तक्कोलानीति च क्रमात्, 79
क्षिपेदाचामपात्रे तु शुद्धतोये ततःक्रमात्
पुष्पाणि गंधान्विन्यस्येद्यथालाभमथापिवा॥ 80
अलाभेतत्तदुच्चार्य तुळसीं वा विनिक्षिपेत्
`धारा'स्विति च मंत्रेण पात्राण्यद्भिः प्रपूरयेत्॥ 81
`इदमापश्शिवाः' प्रोच्य सुरभिमुद्रां प्रदर्श्य च
पात्राभिमंत्रणं कुर्याद्दसदिग्बंधनं चरेत्॥ 82
विष्णुगायत्रीमुच्चार्य तत्रकार्यं समाचरेत्॥
घंटायां चैव ब्रह्माणं नादे वेदान्समर्चयेत्॥ 83
तज्जिह्वायां षडास्यस्तुसूत्रेनागांत्समर्चयेत्
ऊर्ध्वेवीशं च शंखारी पार्श्वयोस्तस्यचार्चयेत् 84
नाळे चैव महादेवमिति घंटाऽधिदेवताः
त्रिपादस्योत्तरेस्थाप्य विमलन्तु पतद्ग्रहे॥ 85
वरुणं शंखकुक्षौ तु मूले तु पृथिवीं तथा
धारायां सर्वतीर्थांश्च शंखे चन्द्रं समर्चयेत्॥ 86
उद्धरिण्यां च पानीयपात्रे सोममथार्चयेत्
आसने धर्ममावाह्यप्लोते त्वष्टारमेव च॥ 87
अंबरे सूर्यमावाह्य चोत्तरीये निशाकरम्
भूषणे षण्मुखं चैव यज्ञसूत्रे निशाकरम्॥ 88
पुष्पे पुल्लं तथा गन्धे मुखवासे च मेदिनीम्
अक्षते काश्यपं धूपे बृहस्पतिमधाह्वायेत्॥ 89
दीपे श्रियं घृते सामतैले पितॄंत्समर्चयेत्
उपधाने तथाछत्रे पादुके शेषमर्चयेत्॥ 90
यन्त्रिकायां च मार्तांडं सिद्धार्थे सोममर्चयेत्
कुशाऽग्रे जाह्नवीं चैव तिलेषु पितृदेवताः॥ 91
तंडुले रविमावाह्य दध्नि चावाहयेद्यजुः
क्षीरेऽथर्वाणमावाह्य मधुपर्के ऋचं तथा॥ 92
मात्रायां शर्वमावाह्य हविःपात्रे दिवाकरम्
हविष्णु पद्मगर्भं च पानपात्रे निशाकरम्॥ 93
उपहारादिपात्रेषु दिवाकरमथार्चयेत्
ज्येष्ठामावाह्य मार्जन्यां नर्तकेशर्वमर्चयेत् 94
गायके सामवेदं च नंदीशं वादकेऽर्चयेत्
पांचजन्यं च शंखे तु गणिकास्वप्चरस्त्स्रियः॥ 95
गरुडं परिचारेषु समावाह्य ततः क्रमात्
अनुक्तेषु तु द्रव्येषु विष्णुमावाह्य कारयेत्॥ 96
तत्तद्द्रव्याऽधिपे स्मृत्वातत्तद्द्रव्यसमीपतः
तत्तद्द्रव्यधरत्वेन चतुर्भिर्विग्रहैर्यजेत्॥ 97
तत्तत्कर्मसु काले वै यथार्हमुपयोजयेत्
तत्काले प्यथ वाऽवाह्यतस्मिन् कर्मणि योजयेत्॥ 98
ततोऽर्चकः प्रसन्नात्माध्यात्वात्मानं जनार्दनम्
देवस्य दक्षिणेभागे कूर्मपीठे समाहितः॥ 99
बिंबार्हं संस्थितो वाऽपि समासीनोऽथ वा पुनः
ध्यात्वा ध्यानविधानेन जप्त्वाचार्यपलंपराम्॥ 100
योगशास्त्रोक्तमागेन्ण प्राणायामादिकं चरेत्
भूतशुद्धिं विधायादौ न्यासानन्यांत्समाचरेत्॥ 101
अकारादिक्षकारान्तमक्षराणि यथाविधि
सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासं समाचरेत्॥ 102
`ब्रह्म ब्रह्मन्तरात्मे'ति हृदयं चाऽभिमर्शयेत्
`द्यौर्द्यौर'सीति चोच्चार्य मूर्धानं चाभिमर्शयेत्॥ 103
`शिखे उद्वर्तया'मीति स्पृशॆच्चैव शिखां तथा
`देवानामायुधै'रुक्त्वा कवचं बन्धयेत्ततः॥ 104
`नारायणाय विद्मह' इति दशदिग्भन्धनं चरेत्
`सुदर्शनम'भीत्युक्त्वा दक्षिणे तु सुदर्शनम्॥ 105
`रविपा'मिति वामे च शंखं च बिभृयात्करे
`सूर्योसि च द्रोऽसी'त्युक्त्वा नेत्रयोर्दक्षवामयोः 106
सूर्याचंद्रमसोश्चैव मंडले सन्न्यसेद्बुधः
`अहुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्र'मित्यपि 107
अंगुष्ठादिकनिष्ठान्तं करन्यासं समाचरेत्
`अन्तरस्मिन्निम'इति ब्रह्माणं च हृदि न्यसेत् 108
प्राणानायम्य संकल्प्य तिथिवारादिकीर्तयेत्
- * *
ततो मंत्रासनं विद्वान् संकल्प्य च यथाविधि 109
`प्रतद्विष्मुस्सवत'इति इति त`थाऽस्त्वासन'मित्यपि
पुष्पदभन्कुशेष्वेकं पीठान्ते चाऽसनं ददेत् 110
`विश्वाधिकाना'मित्युक्त्वा स्वागतं तु समाचरेत्
`मनोऽभिमन्ता'मन्त्रेण देवेशमनुमान्य च 111
`त्रीणि प'देति मंत्रेण दद्यात्पाद्यं पदद्वये
`आमावाजस्य'मंत्रेण स्पृश्यमघंन्य् प्रदाय च 112
देवस्य दक्षिणे हस्ते स्पृश्यं स्सृश्याघन्य्मुच्यते
`शन्नोदेवी'रिति प्रोच्य दद्यादाचमनीयकम् 113
`देवस्य'त्वेति मंत्रेण चादर्शं दर्शयेत्ततः
अन्नाद्याय समुच्चार्य दन्तधावनमाचरेत् 114
हिरण्मयं वा रौप्यं वा दन्तकाष्ठं षडंगुलम्
जौदुंबरं वा संपाद्य यथालाभं समाचरेत्॥ 115
`इदं ब्र'ह्मेति मंत्रेण जिह्माशोधनमाचरेत्
`यन्मे गर्भे'समुच्चार्य गंडूषं क्षाळनं तथा 116
`शन्नोदेवी'रिति प्रोच्य दद्यादाचमनं ततः
`विचक्रमे' नमुच्चार्य मुखवासं प्रदापयेत् 117
पूर्ववस्त्रं विसृज्यैव परिधाप्याऽन्यवाससा
ग्रीवायाः पृष्ठतः कुर्यादवकुंठनमादरात्॥ 118
केशान्विकीर्य मंत्रज्ञो वामभागे च सुस्थितः
`उवानहा'विति प्रोच्य पुरस्तात्पादुकेन्यसेत् 119
`भूःप्रपद्ये' समुच्चार्य प्रणम्य जगतां पतिम्
`पर ब्र'ह्मेति मंत्रेण समादाय तु कौतुकम्॥ 120
स्वस्तिसूक्तं ततो जप्त्वा `प्रतद्विष्णु'रिति ब्रुवन्
स्नानपीठे सुसंस्थाप्य पाद्यमाचमनं ददेत्॥ 121
अतो देवादिमंत्रैस्तु तैलमालिप्य मूर्धनि
तथैव विष्णुगायत्य्रा सर्वांऽगाण्यनुलेपयेत् 122
`परिलिखित'मिति मन्त्रेण सर्वांगमपि शोधयेत्
आम्लेन खंडशीकेन शर्क राभिर्यथोचितम् 123
अलाशोधनं कुर्याच्छ्रीपत्रामलकांबुना
शालिपिष्टेन गंधाद्यैरंगशोधनमाचरेत्॥ 124
विशदं शोधयित्वातु संस्नाप्योष्णेन वारिणा
`वारीश्चतस्र'इत्युक्त्वा शुद्धोदैरभिषेचयेत्॥ 125
`नमो वरुण'इत्युक्त्वा गोक्षीरैरभिषेचयेत्
`भूरानिलय'मंत्रेण स्नापयेद्गन्धवारिणा 126
`अग्निमीळे'समुच्चार्य मधुना स्नानमाचरेत्
`सीनीवा'लीति मन्त्रेण हारिद्रोदकसेचनम् 127
तत्तद्द्रव्यान्तरे चैव भवेच्छुद्धोदकाप्लपः
पुनर्गंधोदकॆनैव `गंधद्वारा' मुदीर्य च 128
स्नापयेद्देवदेवेशं तूर्यघोषपुरस्सरम्
चतुर्वेदादिमंत्रैश्च शुद्धोदैस्स्नापयेत्पुनः॥ 129
`मित्रस्सुपर्ण'इत्युक्त्वा विमृज्य प्लोतवासना
पूर्ववस्त्रं विसृज्यैप परीधाप्य तथेतरत् 130
पाद्यमाचमनं दद्यात्पूर्वोक्तेन विधानतः
प्रणम्य देवदेवेशं दत्वापुष्बांजलिं ततः 131
`भूरसि भू'रित्युच्चार्य जीवस्थाने निवेशयेत्
`त्रिर्देव'मंत्रमुच्चार्य दृश्याघन्य्न्तु समर्पयेत्॥ 132
- * *
ततःप्रोक्ष्य ध्रुवस्थानं गायत्रीमन्त्रमुच्चरन्
`संयुक्तमेत'दुच्चार्य ध्रुवकौतुकयोन्ततः॥ 133
संबंधार्थं न्यसेत्कूर्चं कौतुकाग्रं विधानतः
गायत्य्रा ध्रुवपीठन्तु प्रोक्ष्य शुद्धेन वारिणा॥ 134
`विष्णवे नम'इत्युक्त्वा देवदेवमनुस्मरन्
ध्रुवस्य पादयोर्मध्ये पुष्पन्यासं समाचरेत्॥ 135
प्रागादि च न्यसेत्तत्र पादक्षिण्यक्रमेण वै
चतुर्थ्यन्तेन पुष्पाणिपुरुषं सत्यमच्युतम्॥ 136
अनिरुद्धमिति ्रोच्य महादिक्षु चतुर्षु च
आग्नेयादि तथा न्यन्येद्विदिक्षु च क्रमेण वै॥ 137
कपिलं चैव यज्ञं च नारायणं पुण्यमेव च
प्रथमावरणं चै तद्द्वितीयावरणे ततः 138
पूर्वोक्तेन क्रमेणैव वाराहं नारसिंहकम्
वामनं त्रिविक्रमं चैव सुभद्रं च ततः परम्॥ 139
ईशितात्मानमित्युक्त्वा सर्वोद्वहमतः परम्
सर्वविद्वेश्वरं चेति समभ्यर्च्येद्बहिर्मुखान्॥ 140
तृतीयावरणे तत्तद्दिगीशांश्च समर्चयेत्
श्रीफूम्योर्मूर्तिमंत्रैश्च देव्योरपि समाचरेत्॥ 141
एवं ध्रुवस्य पीठे तु पुष्पन्यास उदाहृतः
- * *
अथ कौतुकपीठे तु पूर्वोक्तेन क्रमेण वै॥ 142
प्राच्यां सुभद्रमावाह्य हयात्मकमतः परम्
रामदेवं पुण्यदेवं सर्वं चैव सुखावहम्॥ 143
संवहं सुवहं चेति प्रथमावरणेऽर्चयेत्
द्वितीयावरणे तद्वन्मित्र मत्रिं शिवं ततः॥ 144
विश्वं सनातनं चैव सनर्थनमतः परम्
सनत्कुमारं सनकमर्चयेच्च बहिर्मुखान् 145
तृतीयावरणे तद्वल्लोकपालांत्समर्चयेत्
प्रणवादि नमोऽन्तं स्यादर्चनं न्यास उच्यते॥ 146
एकादशभिरष्टाभिरुपचारै स्तथार्चयेत्
तत्र देव्योश्च विधिना ध्रुवतेव्योरिवाचरेत्॥ 147
- * *
मार्कंडेयं भृगुं चैव देवदक्षिणवामयोः
ब्रह्माणं शंकरं तद्वद्भित्तिपार्श्वे समर्चयेत्॥ 148
देवेशाभिमुखानेतान्यथाविधि समर्चयेत्
द्वारार्चनं समारभ्य शिष्यः कुर्याद्गुरूदितः 149
द्वारे द्वारे द्वारदेवान् द्वारपालांत्समर्चयेत्
विमानपालान् लोकेशां स्तथा चैवऽनपायिनः॥ 150
परिवारां स्तथान्यांश्च विष्णुभूतान्तमेव च
तत्तन्नाम्ना समभ्यर्च्य `भूरानिलय' मन्त्रतः॥ 151
द्वारप्रक्षाळनं कृत्वा दक्षिणे मध्यवामयोः
धर्मं ज्ञानमथैश्वर्य मावाह्य सुसमर्चयेत्॥ 152
सर्वत्र द्वारवामे तु रक्षार्थं शान्तमर्चयेत्
ततो यवनिकां कुर्याद्द्वारे क्षौमादिनिर्मिताम्॥ 153
स्त्रियश्शूद्रान्तु पतिताः पाषंडा वेदनिन्दकाः
देवतान्तर भक्ताश्च पापरोगादिपीडिताः॥ 154
अभिशस्ताश्च ये पापाश्शास्त्रेषु तु विनिंदिताः
पूजाकाले तु नार्हन्ति सेवितुं हरिमव्ययम्॥ 155
- * *
ध्यानमाविश्य तत्काले पूजकस्सुसमाहितः
आत्मसूक्तं जपित्वैव साक्षान्नारायणो भवेत्॥ 156
विष्णुं व्यापिनमात्मान मखंडानंदचिन्मयम्॥
रुक्माभं रक्तनेत्रास्यपाणिपादं सुखोद्वहम्॥ 157
किरीटहारकेयूरकुंडलांगदभूषितम्
शंखचक्रधरं देवं वरदाऽभयचिह्नितम्॥ 158
श्रीवत्सांकं महाबाहुं कौस्तुभोद्भासितोरसम्
शुकपिंछांबरधरं प्रलंबब्रह्मसूत्रिणम्॥ 159
दिव्यायुधपरीवारं दिव्यभूषाविभूषितम्
देवीभ्यां परिवारैश्च सेव्यमानं जगत्पतिम्॥ 160
ध्यायेत्सन्निहितं बिंबे नारायणमनामयम्
यथाबेरं तथा थात्वा न्यासकर्म ततश्चरेत्॥ 161
- * *
`सुवर्भुवर्भू'रित्युक्त्वा मूर्ध्नि नाभौ च सादयोः
बिंबस्य व्याहृतीर्न्यस्येद्व्याहृतिन्यास उच्यते॥ 162
पादयोरन्तरे पीठे यकारं च ततोन्यसेत्
अकारं हृदयेन्यस्य चादिबीजं ततःपुनः॥ 163
आवेष्ट्य प्रणवेनैतान् प्रणामं पुनराचरेत्
पुष्पगन्धाक्षतैर्युक्तं शुद्धोदैरभिपूरितं 164
प्रणिधिं चौर्ध्वमुद्धृत्य दीपाद्दीपमिवक्रमात्
`इदं विष्णुरिति'प्रोच्य `चायातु भगवा'निति॥ 165
प्रणवात्मकमव्यक्तं दिव्यमंगळविग्रहम्
ध्रुवात्प्रणिधितोये तु कूर्चेवावाहयेद्धरिम् 166
तद्व्याप्तं तो यमादाय कौतुकस्य तु मूर्ध नि
प्रणवेन समास्राव्य कूर्चेवावाहयेद्गुरुः 167
मूर्तिमंत्रांत्समुच्चार्य तत्र कार्यं समाचरेत्
देव्यौ चैव तथाऽवाह्य सम्यगभ्यर्चयेद्बुधः 168
तथैवावाहयेद्विद्वान् विधिना चोत्सवादिषु
कैतुकाद्बलिबेरस्य केचिदावाहनं विदुः॥ 169
- * *
अलंकारासनं पश्चात्संकल्स्य च यथाविधि
असनं मंत्रवद्दद्याद्देवेशमनुमानयेत्॥ 170
पाद्यमाचमनं चाऽपि दद्यात्पूर्वोक्तमंत्रतः
`तेजोवत्क्याव'वमंत्रेण वस्त्रं क्षौमादिचार्पयेत्॥ 171
`भूतो भूतेषु' मंत्रेण भूषणैश्च विभूष्य च
`सोमस्य तनूर'सीत्युक्त्वाधारयेदुत्तरीयकम्॥ 172
अष्टाक्षरेण मन्त्रेण चोर्ध्वपुंड्रं च धारयेत्
`अग्निं दूतमि'ति प्रोच्य यज्ञसूत्रं समर्पयेत्॥ 173
`तद्विष्णो'रिति मन्त्रेण पुष्पाद्यैः पूजयेत्ततः
मूर्तिमंत्रांत्समुच्चार्य केशवादिभिरेव वा॥ 174
अष्टोत्तरशतैस्तद्वदष्टोत्तरसहस्रकैः
अनन्तैनान्मभिः पूज्योऽनन्तनामा भवान् हरिः॥ 175
`तद्विप्रास' इति प्रोच्य चन्दनेनाऽनुलेपयेत्
`परोमात्र'येत्युच्चार्य धूपमाघ्रापयेत्ततः 176
`विष्णोः कर्माणि' मंत्रेण दीपं तस्मै प्रदर्शयेत्
`त्रिर्देव'इति मंत्रेण दद्यादघंन्य् च पूर्ववत् 177
उपचारेषु सर्वेषु प्रियमघंन्य् हरेस्स्मृतम्
तस्मान्निवेदयेद्धीमान् मधुपकोन्पमं शुभम्॥ 178
अचमनन्तु तस्यान्ते पूर्वमन्त्रेण कारयेत्
द्रोणतंडुलमादाय तदर्धं पादमेववा॥ 179
तंडुलार्थतिलैर्युक्तं मुखवासफलान्वितम्
गृहीत्वा कांस्यपात्रेतु देवस्याऽग्रे निधाय च 180
दशन्येद्देवदेवस्य `सोमं राजान'मुच्चरन्
देवार्पितैस्तु निर्माल्यैः पूजयित्वाऽर्चकं ततः 181
`घृतात्प'रीति मंत्रेण दशन्यित्वाकरं हरेः
अर्चकाय प्रदेयं स्यान्मात्रादानमिति स्मृतम् 182
बहुशो दक्षिणां दद्याद्दानसाद्गुण्यसिद्धये॥
`देवस्य'त्वेति मन्त्रेण परिगृह्य तदर्चकः 183
उपयुंज्यात्कुटुंबार्थे स हि दायहरो हरेः
देवद्रव्योवभोगे तु यश्शास्त्रैदोन्ष ईरितः॥ 184
वैखानसानां तद्दोषा नाऽस्ति देवप्रसादतः
प्रणम्य देवदेवेशं मंत्रैर्वेदादिसंभवैः॥ 185
स्त्रोत्रैश्च विविधैन्त्सुत्वा पादे पुष्पांजलिं क्षिपेत्
दशन्येद्विविधाकारान् दीपान्मंत्रेण तत्र तु॥ 186
कुंभदीपं समादाय देवाग्रे तु विनिक्षिपेत्
वाराहं नारसिंहं च चामनं च त्रिविक्रमम्॥ 187
दलेष्वभ्यर्च्य विधिना दीपे लक्ष्मीं समर्चयेत्
वर्तिकायां श्रियं चैव धूमेऽभ्यर्च्यभवं तथा 188
प्रोक्ष्योपचारैरभ्यर्छ्य पुष्पगन्धादिभिः क्रमात्
`शुभ्रा ज्योति'रिति प्रोच्य कराभ्यां परिगृह्य च, 189
प्रदक्षिणं त्रिवारं तु दर्शयन् भ्रामयेद्धरिम्
सर्ववाद्यसमायुक्तं तं दीपं परिगृह्य च 190
शिष्यो वा गणिका वापि देवाऽगारं परीत्य च
विसृजेच्चैव तं दीपं पृष्ठे यूथाधिपस्य च 191
तद्दीपदर्शनान्नॄणामायुश्श्रीपुत्रसंवदः
संभवन्ति न सन्देहो विष्णोर्नी राजनं ही तत्॥ 192
चित्रैश्चवालव्यजनै स्तत्काले वीजयेद्गुरुः
दर्बणं चामरं छत्रं व्यजनं चतुरंगकम्॥ 193
नृत्तं गीतं च वाद्यं च वैष्णवं मंत्रमुच्चरन्
देवस्य दर्शयित्वातु स्तोत्रं वेदैःक्रमाच्चरेत् 194
तथा नानाविधैस्तोत्रैश्श्रावयेदच्युतं हरिम्
अनुक्तं चैव यत्सर्वमूहयित्वा समाचरेत्॥ 195
श्रीभूम्योहृन्दये न्यस्य तत्तद्बीजाक्षरं पृथक्
तत्सूक्ताभ्यां षोडशोपचारैरभ्यर्चयेत्क्रमात्॥ 196
उत्चवादेश्च पूर्वोक्तं सर्वमर्चनमाचरेत्
ततोभोज्याननं चैव संकल्प्य च यथाविधि॥ 197
घृतं मधु गुडं चैव पयो दधि समन्वितम्
प्रस्थमात्रं तु संग्राव्यां मधुपकन्मिहोच्यते॥ 198
`यन्मधुन'इति मंत्रेण मधुपकंन् निवेदयेत्
पश्चादाचमनं दत्वाशिष्यं कार्ये नियोजयेत्॥ 199
`अथाऽवनीद'मंत्रेण शोधयित्वा स्थलं ततः
मंडलं चतुरश्रं च कारयेत्बरिचारकः 200
हविः पात्राणि संशोध्य रविमभ्यर्छ्य तेषु वै
अभिघार्य घृतेनैव हविस्तत्र तु निक्षिपेत् 201
`अमृतोपस्तरणम'सीत्यत्र कार्यं समाचरेत्॥
उपदंशादिकं तत्र गुडं दधि फलानि च 202
निक्षिप्य विष्णुगायत्य्रा पृथक्पात्रेष्वसंकरम्
`यत्ते सुसीम' मन्त्रेण गोघृतेनाऽभिघार्य च 203
देवस्याऽग्रे तु निक्षिप्य त्रिपादेषु यथाविधि
हविरर्पणकाले तु न सेव्यो हरिरुच्यते॥ 204
तस्माद्वैखानसान् हित्वा ब्राह्मणा अन्यसूत्रिणः
न विशेयुस्तथाऽन्ये च तत्काले विष्णुमंदिरम्॥ 205
कवाटं बन्धयेत्पश्चात् घंटानादं च कारयेत्
तूर्यघोषादिकं कुर्यान्मृडुवाद्यप्रियो हरिः 206
ततोऽर्चकः प्रसन्नात्मा देवदेवमनुस्मरन्
हविःपात्रेषु तुळसीं निक्षिप्याऽष्टाक्षरेण तु॥ 207
पुष्पैरभ्यर्च्य संप्रोक्ष्य प्रणवैः परिषिच्य च
अभिमृश्यान्नसूक्तेन सुरभिमुद्रां प्रदर्श्य च 208
`तदस्य प्रिय'मित्युक्त्वा हविरुष्णं निवेदयेत्
`सुभूस्स्वयंभूं'त्युक्त्वा अपूपं च निवेदयेत्॥ 209
पृथुकादीनि चान्यानि `विश्वभेषज'मन्त्रतः
अपक्वानि च वस्तूनि सर्वमष्टाक्षरेण तु॥ 210
`इदं विष्णु'स्समुच्चार्य पानीयं स्वादु शीतलम्
निवेदयित्वा गंडूषं पाद्यमाचमनं ददेत्, 211
`घृतात्ब'रीति मंत्रेण मुखवासं प्रदापयेत्
विष्णुगायत्रीमुच्चार्य दद्यात्पुष्पांजलिं ततः॥ 212
नित्याग्निकुंडे छुल्ल्यां वा परिषिच्य च पावकम्
चरुणाज्येन जुहुयास्मूर्तिमंत्रैःक्रमाद्बुधः 213
देव्यादिभ्यस्तथा हुत्वा वैष्णवं च यजेत्क्रमात्
पुष्पन्यासोक्तदेवेभ्यः पाषन्दानां तथैव च॥ 214
त्रिकालेषूत्तमं प्रोक्तमधमं प्रातरेवहि
प्रातर्मध्याह्नयोश्चैव मध्यमं होमलक्षणम्॥ 215
रक्षेदग्निमविच्छिन्नमशक्तो यश्च रक्षितम्
समिध्यात्मनि वाऽरोप्य प्रणीयाहरहर्यजेत्॥ 216
- * *
ततोयात्रासनं विद्वान् संकल्प्य विधिना बुधः
प्रोक्ष्याऽलंकृत्य चादाय रथं वा चतुरन्तरम् 217
बलिबेरं समारोप्य सर्वालंकारसंयुतम्
`रथन्तरं' समुच्चार्य तत्र कार्यं समाचरेत्॥ 218
`योगेशं परंब्रह्माणं परमात्मानमित्यपि
भक्तवत्सल'मित्युक्त्वा मूर्तिमंत्रैस्तथा हरिम् 219
नाराचरज्ज्वा नुदृढं बन्धयेद्रहसिक्रमात्
`विष्णुस्त्वा'मिति मन्त्रेण पादौ सृष्ट्वा नमेन्मुहुः 220
`सोमं राजान'मुच्चार्य छत्रं मूर्धनि धारयेत्
`मरुतः परमा'त्मेति पार्श्वयोश्चामरे ददेत् 221
`वायुप'रीति मंत्रेण व्यजनैर्वीजयेद्धरिम्
तथान्यैस्सुमहाहैन्श्च युक्तोदिव्यपरिच्छदैः॥ 222
घंटारवेण संयुक्तं शंखभेरीनिनादितैः
भेरीमृदंगपणवनिस्साळैः काहळैरपि॥ 223
मर्दलैर्दिव्यवाद्यैश्च लयश्रुतिसमन्वितैः
उपतिष्ठेज्जगद्योनिं नारायणमनामयम् 224
शिष्यमाहूय तत्काले सोष्णिषं सोत्तरीयकम्॥
ऊर्ध्वेपुष्पं च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः 225
तस्योष्णीषोपरिस्थाप्य बलिपात्रं विचक्षणः
अलंकृत्य च माल्याद्यैःपूजयेत्ताक्षन्य्वत्स्मरेत् 226
वाहयित्वा बलिं तेन बलिपात्रेण चैव हि
सर्वद्वारेषु सर्वत्र पुष्पन्यासोक्तमागन्तः॥ 227
पूर्वान्तमुत्तरान्तं च निक्षिपेत्तु बलिं क्रमात्
तोयं पुष्पं बलिं तोयं चत्वारस्तत्र विग्रहाः 228
ततो देवं समानीय क्रममाणाश्शनैश्सनैः
वाहका वाहयेयुस्तं रथं सर्वंगसुन्दरम्॥ 229
क्रमेण नम्रकायस्तु क्षिपेच्छिष्यो बलिं क्रमात्
बलिं दत्पाऽग्रतो गच्छेद्देवेन सह वा पृथक् 230
ततो देवं क्रमान्नीत्वा प्रादक्षिण्यक्रमेण वै
तत्काले तु बलिर्देय स्तत्क्रमस्तुप्रवक्ष्यते॥ 231
- * *
मणिकं च ततस्सन्ध्यां प्रधमद्वारपालकौ
तापसं सिद्धिदं चैव द्वितीय द्वारपालकौ 232
न्यक्षेन्द्रावन्तराले च यथाविधि समर्चयेत्
प्रथमावरणद्वारे किष्किन्धं तीर्धमेव च 233
द्दितीयावरणद्वारे गणेशं शेषमर्चयेत्
तृतीयावरणद्वारे शंखपद्मनिधी तथा॥ 234
तुहिणं च बलिंदं च चतुर्थावरणे तथा
पंचमावरणे चैव खड्गं शाङंन् समर्चयेत्॥ 235
षष्ठे चावरण शंखचक्रचूडौ समर्चयेत्
चंडं तथा प्रचंडं च सप्तमाऽवरणेऽर्चयेत्॥ 236
सोपानमध्ये श्रीभूतं गरुडं च समर्चयेत्
हवीरक्षकमग्निं च आग्नेय्यां सम्यगर्चयेत् 237
विमानदक्षिणे पार्श्वे विवस्वन्तं यमं तथा
नैर्ऋत्यां वाद्यऽरक्षं च निर्ऋतिं च समर्चयेत्॥ 238
पश्चिमे मित्रमभ्यर्च्येत्तथा वरुणमेव च
वायव्यामर्चयेच्चैव पुष्पेशमरुतौ तथा॥ 239
उत्तरस्यां तु क्षत्तारं कुबेरं च समर्चयेत्
ईशानं भास्करं चैव तथैशान्ये समर्चयेत्॥ 240
भूतपीठे समभ्यर्च्य चक्रं चैव ध्वजं तथा
शंखं यूथाधिपं चैव अक्षहन्तं तथार्चयेत्॥ 241
पीठस्य दक्षिणे भागे `ये भूता' इति मन्त्रतः
भूतयक्षपिशाचेभ्यो बलिशेषं तु निर्वपेत्॥ 242
पादौ प्रक्षाळ्य चाचम्य तत्र कार्यं समाचरेत्
नृत्तगेयादियुक्तं तु दिव्यस्तोत्रैस्समन्वितम् 243
प्रदक्षिणत्रयं कृत्वा भ्रामयित्वा जगद्गुरुम्
सोपानमध्ये संस्थाप्य रज्जुबन्धं विसृज्य च॥ 244
जयशब्दैस्तथामन्त्रैर्दद्यान्नी राजनं ततः
ततो देवं समादाय स्वस्थाने तु निवेशयेत्॥ 245
विष्णुसूक्तं समुच्चार्य प्रणामं मुहुराचरेत्
दद्यात्पुष्पांजलिं चैव द्वादशाऽष्टषडक्षरैः 246
पौरुषं सूक्तमुच्चार्य प्रणवं च समुच्चरन्
मुखवासं समर्प्यैव शक्तितो दक्षिणां ददेत्॥ 247
- * *
ततःपतद्ग्रहात्तीर्थमादायैव तु पूजकः
त्रिःपिबेन्नियतो भूत्वा तुळसीमपि भक्षयेत्॥ 248
- * *
प्रत्यूषश्च प्रभातश्च मध्याह्नश्चाऽपराह्मकः
सायंकालो निशीथश्च पूजाकालान्तु षट् स्मृताः 249
प्रातःकालेर्चनं कुर्याज्जपहोमाभिवृद्धये
राजराष्ट्राऽभिवृद्ध्यर्थं मध्याह्नार्चनमिष्यते॥ 250
सायंकालेऽर्चनं चैव सर्वसस्याऽभिवृद्धये
उषःकालाऽर्चनं प्रोक्तं प्रजापशुविवृद्धये॥ 251
अपराह्णार्चनं चैव दैत्यनाशनहेतवे
अर्धरात्राऽर्चनं प्रोक्तं चतुष्पादभिवृद्धये॥ 252
एवं षट्कालपूजायां फलमुक्तं विशेषतः
षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा 253
पूजनं देवदेवस्य त्वैहिकामुष्मिकप्रदम्
- * *
षट्काल पूजने कुर्यादादावाहनंबुधः॥ 254
तथान्त्य वेलार्चनायां कुर्यादुद्वासनं परम्
उपसन्ध्यासु देवेशमासनाद्यष्टविग्रहैः॥ 255
समभ्यर्च्य हविर्दद्याद्विना होमं बलिं तथा
पुष्पन्यासं च होमं च परिवारार्चनं बलिम् 256
नित्ययात्रोत्सवं चैवेत्युपसन्ध्यासु वर्जयेत्
त्रिकालमर्चनेऽन्यत्र म्नपनं प्रातरेव ही॥ 257
प्रोक्षणं चान्यकाले तु मन्त्रेणेत्याह पूजनम्
शिष्याणामप्यभावे तु वर्षाद्युपहतौ तथा॥ 258
तथा वाद्याद्यभावे वा बलिकाले समागते
तदा देवांत्समावाह्य द्वाराग्रे निक्षिपेद्बलिम्॥ 259
- * *
`सूर्यस्त्वा'मन्त्रमुच्चार्य कवाटं बन्धयेत्ततः
- * *
मध्याह्ने चैव सायाह्ने काले काले तथाऽचरेत्॥ 260
तथैवोद्घटयेत्काले सर्वं पूर्ववदर्चनम्
पुष्पं द्वारार्चितं शोध्य पुनर्द्वारे समर्चयेत्॥ 261
ध्रुवपीठेतु पुष्पाणि न शोध्यानि पुनःपुनः
तानि पुष्पाण्यनुद्धृत्य तदूर्ध्वे न्यासमाचरेत्, 262
सायार्चने तु तानि स्युनिन्र्माल्यानि न चान्यतः
कौतुकाद्यर्चितं पुष्पमादाय विधिना बुधः 263
पीठे पार्श्वे निधायान्यैरर्चयेत्तु नवैर्नवैः
- * *
अन्त्यवेलार्चनान्ते तु संकल्ब्य शयनासनम्॥ 264
विमुच्य वस्त्रमाल्यादीन् सूक्ष्मवस्त्रं समर्प्य च
अभ्यर्च्य पुष्बगंधाद्यैर्देवदेवं श्रियःपतिम्॥ 265
सर्वौषधिविमिश्रं च कषायं तोयमेव च
निवेद्य देवदेवस्य मुखवासंप्रदापयेत्॥ 266
`यद्वैष्णव'मिति प्रोच्य मृदुवाद्यैर्मनोरमैः
दिव्योपधानसहिते दिव्यालंकारशोभिते 267
परिष्कृते वितानाद्वैर्दिव्यधूपै स्सुधूपिते
महाहान्स्तरणोपेते शयने शाययेद्धरिम्॥ 268
श्रीभूम्यौ च समादाय तन्मन्त्राभ्यां क्रमाद्गुरुः
शाययेद्देवपाशेन्व् तु `ध्रुवन्त'इति चोच्चरेत्॥ 269
`अरिचितस्सुष्टुतश्चाऽसि सुपर्णगरुडध्वज
चक्रपाणे महाबाहो यथेष्टं वस ओं नमः'॥ 270
इति मंत्रं समुच्चार्य भक्त्या परमाया युतः
प्रातरावाहितां शक्तिं ध्रुवबेरेऽवरोपयेत्॥ 271
प्रदक्षिणं प्रणामं च कृत्वा मंत्रेण देशिकः
स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा॥ 272
व्यापकत्रयमन्त्रैश्च तथा `विष्णोर्नुका'दिभिः
`अतो देवा'दिभिर्मंत्रैर्मंत्रैरन्यैश्च वैष्णवैः 273
एकाक्षरादिसूक्तैश्च द्वादशाऽष्टषडक्षरैः
मुहुःपुष्पाजलिं दत्वाक्षामयेद्दोषसंचयम्॥ 274
- * *
अथ वक्ष्ये विशेषेण पूजनं चौत्सवादिषु
ब्रह्मस्थानं कौतुकस्य पूर्वमेव समीरितम्॥ 275
पाशन्व्योःकौतुकस्याऽथ स्थापयेत्स्नापनौत्सवौ
उत्तरे कौतुकस्यैव बलिबेरस्य संस्थितिः॥ 276
गर्भालयस्य संकोचे त्वथ वा मुखमंडपे
अन्तरालेऽथ वा स्थाप्य पूजयेत्स्नापनौत्सवौ 277
स्नापनौत्सवयोःकुर्यात्पूर्वोक्तार्चनमुत्तमम्
आसनाद्युपचारांश्च कल्पयेत् षोडशाऽथ वा 278
त्रयोदशोपचारैश्च शान्तं सम्यक्समर्चयेत्
नवोपचारैरभ्यर्च्येदनपायिगणां स्तथा॥ 279
द्वारदेवान् द्वारपालान् लोकपालांस्तथैव च
अष्टोपचारैरभ्यर्च्येन्मूर्तिमंत्त्रॆस्समाचरेत्॥ 280
इतरान् परीवारांश्च यजेत् षोडशविग्रहैः
तथैव पाकलक्ष्म्याश्च द्वारलक्ष्म्याश्च कारयेत्॥ 281
श्रीवत्सलक्ष्म्याश्च तथा देवेन सह चाऽचरेत्
- * *
अवतारप्रतिष्ठायां ध्रुवर्चां वाऽथ कारयेत्॥ 282
त्रिविक्रमप्रतिष्ठायां ध्रुवार्चामर्चयेत्ततः॥ 282 1/2
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारेऽष्टादशोऽध्यायः ।