प्रकीर्णाऽधिकारः/अष्टमोऽध्यायः
| ← सप्तमोऽध्यायः | प्रकीर्णाऽधिकारः अष्टमोऽध्यायः [[लेखकः :|]] |
नवमोऽध्यायः → |
अथाऽष्टमोऽध्यायः॥
पीठमानम्
अथ पीठोदयं पश्चात्थ्सानकस्य विशेषतः
भुवंगस्य समं वाथ अध्यर्थं त्रिगुणं तु वा॥ 1
परितः पावयोरस्य नीत्वावै भागमंगुलम्
ध्रुवार्चायामशेषेण षण्मानसहितं शुभम्॥ 2
वक्ष्यामि देव्योर्मानं तत्कंठान्तं नासिकान्तकम्
हन्वस्तं बाहुसीमान्तं नाभ्यन्तं वाऽध कारयेत्॥ 3
चतुर्धैकांशकं वापि तृतीयैकांशकं तु वा
ध्रुवार्चायां विशेषेण पीठमेवं प्रकल्पयेत्॥ 4
चतुरश्रं सुवृत्तं वा दळैष्षोडशभिर्युतम्
स्थानकं चाऽसनं वाऽपि यानकं वा समाचरेत्॥ 5
गर्भागारत्रिभागैकं चतुरश्रं त्रिमेखलम्
तस्योर्ध्ववेदिविस्तारं चतुरंगुलमेव हि॥ 6
उत्सेधं तस्य चार्धन्तुपरितश्चतुरंगुलम्
विस्तारोत्सेधमानन्तु मध्येनिम्नं षडंगुलम्॥ 7
उदीच्यान्तु प्रतीच्यान्तु वारिमार्गन्तु कारयेत्
प्राङ्मुखोदङ्मुखं सूत्रं दश सप्त समर्चयेत्॥ 8
मध्ये कलापदं ब्राह्मं परितो दैविकं तथा
वैदाथिकाऽशीतिपदं मानुषं च तथैव च॥ 9
पदं स्यात् षण्नवतिकं षष्टिःपैशाचिकं भवेत्
अर्चास्थानं तु ब्रह्मांशं त्रिधा कृत्य च दैविकम्॥ 10
तथैव पश्चिमे भागे मध्ये वा स्थानकाय च
असनं वाऽपि च तधा देवमानुषमध्यमे॥ 11
शयानं मानुषे पीठे स्थापयित्वा विशेषतः
ध्रुवार्चने विशेषेण नागसूत्रान् समर्प्य च॥ 12
कोष्टमेकान पंचाशद्भवति ब्राह्ममंदिरम्
दैविकं चाऽष्टभागन्तु मानुषं चार्त्विजं पदम्॥ 13
शेषं पैशाचमेवं स्याच्छान्तिपौष्टिकदैविकम्
ब्रह्मस्थाने विशेषण स्थापयेद्योगवीरकौ॥ 14
भोगमेव ध्रुवार्चायां देवमानुषमध्यमे
वीरकं स्थापयेद्विद्वान् पैशाचे क्रमशस्सुधीः॥ 15
ग्राममध्ये ध्रुवार्चायां स्थापये द्भोगमेव तु
योगपीठे ध्रुवार्चा चेत्तद्ग्रामस्य विपद्भवेत्॥ 16
अन्येषां तु ध्रुवार्चायां भोगं वा योगमेव वा
आलयोद्दक्षिणे वाऽपि वूर्वे वाऽपि प्रपां तथा॥ 17
वेदिं तन्मध्यमे कुर्याद्बिंबाध्यर्धप्रमाणतः
सभ्याग्निकुंडं तत्प्राच्यां स्नानवेदिं तथोत्तरे॥ 18
भूमियज्ञं च कृत्वातु पर्यग्नि प्रोक्षणं चरेत्
कलशैस्सप्तभिस्स्नाप्य वेद्यामारोपयेत्तथा॥ 19
आच्छाद्य नववस्त्रेण कौतुकं बर्धयेत्तथा॥
प्राक्षीरश्शाययेत्तत्र श्रीभूम्योरुभयोरपि॥ 20
महाकायकृते बेरे प्रोक्षयेत्पंचगव्यकैः
अन्यत्सर्वक्रियां कृत्वाहौत्रशंसनमाचरेत्॥ 21
आदिमूर्त्यादि सर्वास्तमावाहनमथाऽचरेत्॥
अवाहनक्रमेणैव निरुप्याऽज्याऽहुतीर्यतेत्॥ 22
वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं तथैव च
श्रीभूसूक्तं ततो हुत्वा ब्राह्मं रौद्रंतथैवच 23
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं विनीय च
स्नात्वा प्रभाते त्वाचार्यो देवमुत्थाप्य चादरात्॥ 24
गर्भागारं प्रविश्यैव स्थापिते विहितेऽपि वा
न्यस्य पीठन्तु तन्मध्ये रत्नादीन्विन्यसेत्तदा॥ 25
ध्रुवसूक्तेन संस्थाप्य अतो देवादिमुच्चरन्
तत्तन्मंत्रेण देव्यादीन् स्थापयेद्विहिते पदे॥ 26
विधिना चाऽष्टबन्धन्तु संयोज्यैव तु पूरयेत्
अन्तहोमं ततो हुत्वा दद्यादाचार्यदक्षिणाम्॥ 27
शिल्बिनं च समाहूय शर्करां लेपयेत्क्रमात्
शिलाप्रतिष्ठा चैवं स्याद्दारुसंग्रहणं ततः॥ 28
दारुसंग्रहणम्
चन्दनं खदिरं तालमसनं रक्तचन्दनम्
राजानं चिरिबिल्वंच अशोकं स्तिमितं तथा॥ 29
खादिरं धन्विनं चैवशिरीषं पद्मकं तथा
इत्येवमादयो वृक्षा गृह्यन्ते बेरकर्मणि॥ 30
- * * *
चंडालस्थानपार्श्वे तु दुष्टप्राणिनिषेविते
मातृस्थानसमुद्बूते? श्मशाने देवमंदिरे॥ 31
कूपवापीतटाकान्ते मुनिवासे सहाऽलये
योगस्थानपदे धर्मशालायां मार्गमध्यमे॥ 32
प्रेतभूतालये चोरसत्त्वानां च निषेविते
प्रस्थानशलभस्थाने कल्पाऽस्धिनिलयेऽपि च? 33
सौष्टाभूतसमुद्भूतदेशे? रौणिक देशके
एवं स्थाने समुद्भूतं न गृह्णन्ति द्रुमं ततः॥ 34
पादानपावनं तर्धि मशनेर्यातिपीडनम्
असाक्षिकं सर्पनिलयं बहुवल्मीक संयुतम्॥ 35
सुजनं तरुणं रूक्षं बहुपक्षसमाकुलम्
अस्थिरं बहुचक्रं च सुशाखं चैकशाखिनम्॥ 36
कर्मान्तरगृहितं च कर्मान्तरप्रयोजनम्
एवमीदृग्विधं वृक्षं वर्जयेद्बेरकर्मणि॥ 37
- * * *
आमूलाग्रं समं वृत्तमृजुं चैव प्रदक्षिणम्
विस्तारयामसंपन्नं शुभायैव समायुतम्॥ 38
सुमध्यवयसोपेतं कालपुष्पफलप्रदम्
ईदृग्विधं महावृक्षं शूलार्थं परिगृह्णते॥ 39
एवं लक्षण संपन्नं द्रुमं गत्वा प्रसन्नधीः
तन्मूले गोमयेनाऽपि लेपयेच्चतुरश्रकम्॥ 40
दिव्यलक्षणसंयुक्तं द्रुमं कृत्वा प्रदक्षिणम्
`वनराजेभ्य' इत्युक्त्वापायसं च बलिं ददेत्ः 41
परशं च समादाय सेचयेत्पंचगव्यकैः
मूलमंत्रं जपित्वा तु ध्मायेद्विष्णुं परात्परम्॥ 42
परशुंच समादाय भेदयेत्तु विचक्षणः
पयः परिस्रवे तत्र शुभमेवं विधीयते॥ 43
शोणितप्रस्रवे तत्र निर्दशेदशुभं पुनः
पूर्वं तुपतनं शस्तमाग्नेय्यां तु भयावहम्॥ 44
याम्यायां मरणं विंद्यान्नैर्ऋत्यां व्याधिमादिशेत्
पश्मिमेतु जनानां तु क्षुत्पिपासाविवर्धनं॥ 45
वायव्ये च भवेल्लाभ उत्तरे धनधान्यकं
ऐशान्यां शान्तिकं तत्र सर्ववृद्धिकरं नृणाम्॥ 46
तद्वृक्षपतने कालेकोशस्सर्वोमृदुर्भवेत्
सिहव्याघ्रगजादीनां सर्वसंपत्करं भवेत्॥ 47
वृक्षाग्रं भेवयित्वा तु त्वचं सम्यग्व्यपोह्य च
प्रक्षाल्यवारिणा श्वेतचन्दनेनाऽनुलेपयेत्॥ 48
श्वेतवस्त्रेण संदेष्ट्य जयमंगलघोषणैः
रथेवा शकटे वाऽथस्कंथे वा क्षिप्य वेशयेत्॥ 49
ग्रामं प्रदक्षिणंकृत्या स्वस्तिसूक्तं समुच्चरन्
शिष्टच्छायेसमे देशेतालुकोपरिशाययेत्॥ 50
हेमरूप्यकृतं शूलं सर्वसंपत्समृद्धिदम्
लोहैरन्यैर्नकर्तव्य मभिचारस्य कारणम्॥ 51
विष्णुशूलं तु केशानां श्रेष्ठं पट्टिकमेव च
ध्येयं मेढ्रादयश्बोर्ध्वं समं भागस्य यत्त्रयम्॥ 52
ऊरुकेशान्तपर्यन्तं तस्यार्थं च तकं मुखम्
सरंध्रयवकं चोर्ध्वे मानशूलं शिरोधरम्॥ 53
हिक्कायां षड्यवं पंचांगुलं नाभ्यन्तकं मतम्
त्रयोदशांगुलयवं ततो मेढ्रन्तु नाभ्यधः॥ 54
योनेर्नाभेस्तुर्यादश्रं ब्राह्ममष्टौमतं ततः
हिक्कास्तं वैष्णवं भागं ततो वृत्तं शिवांऽशकम्॥ 55
उष्णीषं मातृकं शूलं स्थानादीनां सनातनम्
स्थानाऽसनशयानानां चतुरश्राष्टवर्तुळम्॥ 56
यथाक्रमेण युंजीयादेवं वा पूर्वमुक्तवत्
सर्वेषां देवतानां च सामान्यं च तुरश्रकम्॥ 57
चतुर्मात्रार्धविस्तारं शूलमूलविशालकम्
अग्रतारं चतुर्मात्रमष्टांऽशोनमथाऽपि वा॥ 58
द्वात्रिंशदंगुलायामं वक्षोदंडस्य चोच्यते
तर्म? विस्तृतयोर्बाह्ये मातृसूत्रसमोर्धयोः 59
वक्षोदंडायतं स्वेन मुखेन द्विगुणं मतम्
उक्त्वासमंतु बाह्यग्रेतत्सप्तांऽशविहीनकम्॥ 60
तारं सप्तांगुलं तेषां येन सार्थं त्रिमात्रकम्
षोढशाऽष्ट चतुर्मात्राऽयामतारसमन्वितम्॥ 61
कटिदंडं भवेत्तस्य पार्श्वमध्यमनिम्नकम्
कृत्वैव निम्नकं वक्षोदंडमध्ये प्रकल्पयेत्॥ 62
शेषयोर्वंशदंडे तु नाभ्यन्तं निम्नमध्यकम्
दक्षिणे मूलमध्ये तु अग्रं कुर्याद्द्वयोरपि॥ 63
वक्षोदंडस्यमूलाऽग्रे शिखा सूदस्रदायतम्
कालांगुलकलातारं कलार्धविपुलं मतम्॥ 64
एवं चतुर्भुजं कृत्वाद्विभुजे द्विशिखं तथा
चतस्रश्शिबिका स्तस्मात्तस्या मेवाऽष्टबाहुके॥ 65
यावन्तो बाहवस्तस्मिं स्तावत्यश्च शिखा मताः
अध्यर्धांगुलविस्तारं शिखाऽयामं तदेव हि॥ 66
कटिदंडं शिखाऽयामं तारे द्वित्य्रंगुले क्रमात्
विन?द्विमात्रमेव स्याद्द्विशिखं कटिदंडकम्॥ 67
श्रोणिभागादधस्तेन शेषयेद्वंशदंडकम्
ऊरुदंडालयं सप्तविंशदंगुलमुच्यते॥ 68
जानुभागं ततो जंघा प्यूर्ध्वदंडसमायता
पादभागाभवे दूरुर्जंघयोर्झानुमानकम्॥ 69
आरोप्य मानयेज्जानुदंडस्याऽसंभवादपि
पाददंडे समारोप्य मानयेत्तलतुंगकम्॥ 70
ऊरुदंडविशालं स्यान्मूलेभागं तदश्रके
कलांगुलं तदेकं स्याज्जंघामूलविशालकम् 71
कलाविशालं जंघाग्रं कलायामं दशांगुलम्
त्रिमात्रकलमूलस्य तारमग्रेऽधिकांऽगुलम्॥ 72
सप्तविंशति वाग्रोषं दंडदीर्घं ततः कला
कोर्परस्स्यात्प्रकोष्ठस्य दीर्घं दशकलांगुलम् 73
प्रकोष्ठबाह्वॆरारोप्य कोर्परं जानुवद्भवेत्
त्य्रंगुलं द्व्यंगुलं बाहुदंडमूलाऽग्रविस्तरम्॥ 74
प्रकोष्ठं दंडमूलस्य विशालं चद्विमात्रकम्
अध्यर्धांगुलमग्रस्य विशालं लक्षणाऽन्वितम्॥ 75
वक्षोदंडशिखामध्ये बाहुमूलगते शिखे
बाहुमूलगताभ्यां तु वक्षोदंडशिखागताम्॥ 76
शेषयेदग्रभागेभ्यः कोर्परे शेषयेत्ततः
प्रकोष्ठमूलगाभ्यां तु वक्षोदंडशिखागताम्॥ 77
कटिदंडोरुदंडाभ्यां तच्छेषं बाहुदंडवत्
जानुकोर्परमुद्दिष्टं तस्यतु द्विशिखेमतम्॥ 78
शेषयेन्नलकानान्तु प्रकोष्ठे तु भवेद्बुधाः
प्रसारितानां पादानां जानुसन्धौतु गृह्यताम्॥ 79
तथैव विसृजानां च बुधानां कोर्परं मतम्
स्थानादीनां क्रमास्छूलसंघातं वक्ष्यतेऽपि च॥ 80
वंशदंडं तथा वक्ष्ये दंडं च कटिदंडकम्
जानुदंडद्वयं चैव पाददंडद्वयं तथा॥ 81
बाहुदंडाश्च चत्वार श्चत्वारश्च प्रकोष्ठकाः
तथा चरणदंडौ द्वौ दंडास्सप्त दश स्मृताः॥ 82
कटिदंडार्धमारभ्य यावदासीनरपि
तारस्स्यात्पृष्ठफलका तारमूरौ च बन्धयेत्॥ 83
कटिदंडादधस्ताच्च वक्षोदंडधर स्तथा
योजयेदुपयानीलं? पृष्ठतो वृत्तमेव वा॥ 84
वंशदंडं तथा तेन क्लेशयेद्विशिखेन तु
शिखाग्रसुषीरे कीलं लोहं वा स्कामथाऽपि वा॥ 85
दार्ढ्यार्थं योजयेच्छूलं स्थितं वै शूलकर्मणि
अन्यत्कीलं तु सुषिरं कर्तव्यं कथंचन॥ 86
एवं स्थानस्य संप्रोक्तमासनस्य प्रवक्ष्यते
- * *
मेढ्रमूलादधोमूलं नाहमष्टांऽगुलं भवेत्॥ 87
भागमासनमानस्य भागं श्वभ्रप्रवेशनम्
मेढ्रसूत्रसमे सम्यक् शेषयेत्कटिदंडकम्॥ 88
कटिदंडशिखाह्यूरु दंडमूलशिखानि च
आसने शयने चैव जानुसन्धिः प्रशस्यते॥ 89
एकोनविंशतिश्शूलदंडानां तु समाकृतिः
नेष्यते कोर्परे संधिशयने दंडहस्तके॥ 90
तस्मादथ दश प्रोक्ता शूलसंख्या चतुर्भुजे
पंचाऽन्ये द्विभुजे दंड दंडा हस्ते चतुर्दश 91
दक्षिणे वक्षोदंडस्यायतमेकादशांऽगुलम्॥
- * *
शिखा पूर्ववदुद्दिष्टा बाहुमूलशिखाऽन्विता॥ 92
तयोरुपरि चाभोगं छाययेच्छास्त्रवित्तमः
कटीडंडद्वयादन्यत् स्थानस्योक्तवदाचरेत्॥ 93
उक्तं हि शयने याने वक्ष्यतेथ त्रिविक्रमम्
- * *
उद्दंडस्योरुदंडस्य शिखा भागायते स्मृते 94
तावत्यः कटिदंडस्य शिखायास्सम्यगन्वये
तदायतं तु कार्यार्थं तलदंडं तु तद्द्वितम्॥ 95
स्थितांघ्रिस्थ्सितिमान् प्रोक्तश्शेषं चेदं शयानवत्
एवमष्टभुजोपेतं चतुर्भुजसमन्विते॥ 96
शूलसंख्याऽनुरूपेण योजयेत्तु विचक्षणः
शूलं चक्रतनौ वक्रमवक्रे वक्रतां नयेत्॥ 97
- * * *
स्त्रीणां शूलविभागन्तु लक्ष्म्यादीनां प्रवक्ष्यते
नासामानविभागं च शूलदंडाऽयतं मतम्॥ 98
भागतारं भवेद्वंशं दंडं तच्चतुरश्रकम्
यदुक्तं बाहुपर्यन्तं तारं तस्माद्द्विपार्श्वयोः॥ 99
बाहुमूलविशालार्धं त्यक्त्वा यावत्तदन्तरम्
तावत्तु परमं वक्षोदंडस्यायाममुच्यते॥ 100
कच्छांशोनं कराकारं कटिदंडायतं मतम्
ऊरुतारं तु तुर्यांशा दूरुदंडविशालकम्॥ 101
जंघादंडं त्रिभागैकं तावश्चे?दष्टांशदंडकम्
मूलमेव मतं चैषामग्रमष्टांऽशहीनकम्॥ 102
पार्श्वदंडं न योक्तव्यं स्त्रीणां शूले कथं चन
पुरुषाणां प्रयोक्तव्य मध्यर्धांऽगुलिविस्तरम्॥ 103
सर्वेषामसि तालानां शूलमेवं विदुर्बुधाः
- * *
भुवंगस्य समं प्रोक्तं स्थानके पीठकोन्नतम्॥ 104
भुवंगोपरितालं स्याद्ध्रुवपीठस्य चोन्नतिः
ध्रुवबेरस्य पादस्य प्रतिदिक्चतुरंगुलम्॥ 105
विस्तारमूर्ध्ववेद्यान्तु पद्मपत्रदलै र्युतम्
मंडलं चतुरश्रं वा पीठं कुर्यात्तदर्हकम्॥ 106
दैविकं तु त्रिधा कृत्वा द्विभागं पुरतस्त्यजेत्
अपरे स्थानकं स्थाप्य मध्यभागेऽथ वा पुलः 107
देवमानुषयार्मध्ये वाऽऽसनं संप्रकल्पयेत्
किं चिद्दैविकसंयुक्ते मानुषे शयनं स्मृतम्॥ 108
एवं सम्यग्विदित्वैव मासने च प्रवक्ष्यते
ध्रुवबेरं तथा कृत्वा चोर्ध्वं सिंहासनोच्छ्रयम्॥ 109
तदर्हविस्तृतं प्रोक्त मुपधानेन संयुतम्
पादाश्रयेण पीठेन पद्माकारौ? च संयुतम् 110
यथासौंदर्यकं कृत्वा शेषं युक्त्या समाचरेत्
बेरायामं चतुर्भागं शयनोच्छ्रायमुच्यते॥ 111
तत्तुरीयांशकोत्सेधं शिरोभागे विशेषतः
पादयोरुभयोश्चैव समं तत्रैव मूह्य च॥ 112
शेषभोगं त्रिरावेष्ट्य पंचवर्णसमायुतम्
अधःपुच्छं शिरश्चोर्ध्वं सर्पदेहे तु वेष्टिते॥ 113
तदुत्संगगतं देवं शयानं संप्रचक्षते
फणानां पंचकं कुर्याद्विषवेगसमन्वितम्॥ 114
एवमेव प्रकुर्वीत स्थानाऽसनशयानकान्
पीठं कृत्वा प्रयत्नेन स्थापनारंभमाचरेत्॥ 115
- * *
अंकुरानर्पयित्वैव यागशालां प्रकल्पयेत्
शिलास्थापनसार्गेण सर्वं कृत्वाप्रयत्नतः॥ 116
अथाऽचार्यःप्रभाते तु स्नात्वा नित्यं समाप्य च
यजमानसमायुक्तो गर्भगेहं प्रविश्य च॥ 117
स्थानाऽसनशयानानां पदमुक्तं विचार्य च
पीठं तदर्हकं कुर्याद्युक्तेनैव विधानतः॥ 118
प्रतिष्ठोक्तक्रमेणैव रत्नन्यासं समाचरेत्
आचार्यस्थापकादीनामृत्विजां दक्षिणां ददेत्॥ 119
शूले सार्थं समादाय गायत्रीं वैष्णवं जपन्
स्थापयेद्देवदेवस्य शूलं देव्योस्ततःक्रमात्॥ 120
आधारदंडयोः पश्चाच्छिष्टदंडान्नियोजयेत्
पुण्याहं वाचयित्वातु सभ्यमग्निं विसृज्य च॥ 121
ततश्शिल्पिनमाहूय शास्त्रीयं प्रियदर्शनम्?
वस्त्रैराभरणैश्चाऽपि पूजयित्वाऽन्ववेक्ष्य च॥ 122
रज्जुबंधादिकं कर्म बेरोक्तं तत्र कारयेत्
अत्राऽनुक्तं ततः कुर्याच्छिल्पशास्त्रोक्तमार्गतः॥ 123
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारेऽष्टमोऽध्यायः॥