सामग्री पर जाएँ

पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१७२

विकिस्रोतः तः
(पृष्ठम्:TSS-001 The Daiva Of Deva - TG Sastri 1905.pdf/१७२ इत्यस्मात् पुनर्निर्दिष्टम्)
पुटमेतत् सुपुष्टितम्
१७
दैवम् ।

स्नेहने स्नेहयेत् प्रीतौ स्निह्येद् बृंहति बर्हति ।
वृद्धौ भाषार्थविषये बृंहयेद्बर्हयेदिति ॥ १९८ ॥

नुमादिनान्यभावेऽपि सादृश्यात् केऽप्यवक्षत ।
चुरादिश्चुर्युजादिर्युः स यस्माण्णिज् विभाषितः ॥ १९९ ॥

सरूपा धातवः केचिदनुक्ता अपि सन्ति चेत् ।
सन्तूक्तास्तेऽपि चात्रोक्ता न दुष्यन्त्यन्यसम्भवे ॥ २० ॥

इत्यनेकविकरणसरूपधातुव्याख्यानं देवनाम्ना विरचितं
दैवं समाप्तम् ।