नग्नो नावतरेदम्भस्त लाभ्यक्तो न भचयेत् ।
हरिद्रां न मुखे लिम्प व सध्यादशचिः कचित् ॥ १५७ ॥
ना विलिखेद भूमिं न विल्ल' द्रोणमम्बुजम् ।
न धारयेत् मूर्ध्नि चैव नाद्यात् तैलञ्च केवलम् ॥ १५८ ॥
मलिनो न भवेज्जातु कुत्सिताब न भक्षयेत् ।
द्रोणपङ्कजविल्वानि पद्भ्यां जातु न लङ्घयेत् ॥ १५९ ॥
महादेवीमिन्द्रवल्लीं श्रीदेवी विष्णुवल्लभाम् ।
कन्या॑ जम्बूप्रवालञ्च धारयेन्मूर्ध्नि सर्वदा ॥ १६० ॥
इत्याचारपरो नित्य विष्णुभक्तो हृदव्रतः ।
श्रियमाप्नोति महतों' देवानामपि दुर्लभाम् ॥ १६१ ॥
इति सारदातिलके अष्टमः पटलः ।
नवमः पटलः ।
अथ वच्ये जगधात्रीमधुना भुवनेश्वरीम् !
ब्रह्मादयोऽपि यां ज्ञात्वा तेभिरे श्रियमूर्जिताम् ॥ १ ॥
नकुलोऽग्निमारुढ़ो वामनेत्राईचन्द्रवान् ।
वीजं तस्या यथाख्यातं सेवितं सिद्धिकाङ्क्षिभिः ॥ २ ॥
ऋषि: शक्तिर्भवेच्छन्दो गायत्री देवता मनोः ।
कथिता स्वरसङ्घ ेन सेविता भुवनेश्वरी ॥ ३ ॥
षड्दीर्घयुक्तवीजे न कुर्य्यादङ्गानि षट् क्रमात् ।
संहारमृष्टिमार्गेण माहकान्यस्तविग्रहः ॥ ४ ॥
मन्त्रन्यासं ततः कुर्य्याद देवताभावसिद्धये ।
हृल्लेखां मूर्ध्नि वदने गगणां हृदयाम्बुजे ॥ ५ ॥
रक्त करालिकां गुह्ये महोच्छन्नां पदइये ।
माग्दक्षिणे देव्याः पश्चिमेषु मुखेषु च ॥ ६ ॥