अन्येव विशदै: पुष्पः प्रतिमासं विशालधीः ॥ ४३ ॥
स भवेदन्दमात्रेण सर्वदा सम्पदां निधिः ।
वाग्भवा शम्भुवनिता रमा मकरकेतनः ॥ ४४ ॥
तार्त्तीयञ्च जगत्पार्श्वो वह्निवोजसमुज्वलः ।
अर्घोशाख्योभृगुस्त्रैहमन्त्रोऽयं द्वादशाक्षरः ॥ ४५ ॥
महालक्ष्मया समुद्दिष्टस्ताराद्यः सर्वसिद्धिदः ।
ऋषिर्ब्रह्मा समुद्दिष्टम्छन्दो गायत्त मौरितम् ॥ ४६ ॥
देवता जगतामादिर्महालक्ष्मी: समीरिता ।
हस्त संशोध्य मन्त्रेण तारादिहृदयान्तकम् ॥ ४७ ॥
वीजानां पञ्चकं न्यस्ये दङ्गुलीषु यथाक्रमम् ।
मन्त्र शेषं न्यसेन् मन्त्री तलयोरुभयोरपि ॥ ४८ ॥
मूर्द्धादिचरणं यावन्मन्त्रेण व्यापकं न्यसेत् ।
मूर्द्धाचिवचोगुह्याङ्घ्रौ पञ्चवीजानि विन्यसेत् ॥ ४९ ॥
शेषान् न्यसेत् सप्तवर्णान् हृदये सप्तधातुषु ।
अङ्गानि पञ्चभिर्डी रस्त्रं शिष्टाक्षरैर्भवेत् ॥ ५० ॥
ज्ञानेश्वर्य्यादिभिर्युक्त चतुर्थ्यन्तैः सजातिभिः ।
ज्ञानसैर्यशक्ती च बलवीर्थे सतेजसी ॥ ५१ ॥
ज्ञानैश्वर्य्यादयः प्रोक्ताः षट्क्रमादङ्गदेवताः ।
एवं न्यस्तशरौरोऽसौ स्मरेदुद्यानमद्भुतम् ॥ ५२ ॥
चम्पकाशोकपुत्रागपाटलैरुपशोभितम् ।
लवङ्गमालतीविल्वदेवदारुनमरुभिः ॥ ५३ ॥
मन्दारपारिजाताः : कल्पवृक्षैः सुपूजितैः ।
चन्दनैः कर्णिकारैश्च मातुलुङ्गैश्व मष्डुलैः ॥ ५४ ॥
दाड़िमोलकुचाङ्कोलैः पूगैः कुरुवकैरपि ।
कदलीकुन्दमन्दारनारिकेलैरलङ्कृतम् ॥ ५५ ॥
अन्यैः सुगन्धिपुष्पादेवः वृक्षपण्डेश्व मण्डितम् ।
पृष्ठम्:Sarada tilaka tantra.pdf/८३
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
सारदातिलकम् ।