सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः पटलः ।

पता भूमिः पञ्चभूतान्येकैकाधारतो विदुः ।
शब्दस्पर्शरूपरसगन्धा भूतगुणाः स्मृताः ॥ २२ ॥
हत्त' दिवस्तत् षड्विन्दुलाञ्छितं मातरिश्वनः ।
त्रिकोणं स्वस्तिकोपेतं वरन्दुसंयुतम् ॥ २३ ॥
अम्भोजमम्भसो भूमेश्चतुरस्रं सवञ्चकम् ।
तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः ॥ २४ ॥
वर्णैः खैरञ्चितान्याहुः खखनामाहतान्यपि ।
धरादिपञ्चभूतानां निवृत्त्याद्याः कलाः स्मृताः ॥ २५ ॥
निवृत्तिः सप्रतिष्ठा स्यादिद्या शान्तिवनन्तरा ।
शान्त्यतीतेति ता ज्ञेया नाददेहसमुद्भवाः ॥ २६ ॥
पञ्चभूतात्मकं सर्व चराचरमिदं जगत् ।
अचरा बहुधा भिन्ना गिरिचादिभेदतः ॥ २७॥
चरास्तु विविधाः प्रोक्ताः स्वेदाण्डजजरायुजाः ।
खेदजा: कमिदंशाया अण्डजाः पन्नगादयः ॥ २८ ॥
जरायुजा मनुष्याद्यास्तेषु नृणां निगद्यते ।
उद्भवः पुंस्त्रियोर्योगे शुक्राच्छोणितसंयुतात् ॥ २८ ॥
विन्दुको विशेद गर्भमुसयाला क्रमादसी ।
raisfant भवेवारी भवेद्रेतोऽधिकः पुमान् ।
उभयोः समतायान्तु नघुमकमिति स्मृतम् ॥३॥
पूर्वकर्मानुरूपेण मोहपाशेन यन्वितः ।
कचिदात्मा तदा तस्मिन् जीवभावं प्रपद्यते ॥ ३१ ॥
अथ मात्रातैरवैः पानाद्यैः पोषितः क्रमात् ।
दिनात् पश्चात् ततो माखाद वर्धते तत्त्वदेववान् ॥ ३२ ॥
दोषैद्यैः सुखं प्राप्तो व्यक्तिं याति निज्ञेन्द्रियैः ।
वातपित्तकफा दोषा दूष्याः स्युः सप्तधातवः ॥ ३३ ॥
वांसमेदोऽस्थिमज्जाशक्राणि तान् विदुः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/६&oldid=409375" इत्यस्माद् प्रतिप्राप्तम्