सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
सारदातिलकम् ।

एतच्यामाकदूर्वा च विष्णुक्रान्ताभिरीरितम् ।
सुधामन्त्रेण वदने दद्यादाचमनीयकम् ॥ ९१ ॥
जाती लवङ्गककोचेस्तदुन तम्त्रवेदिभिः ।
अर्घ्यं दिशेत्ततो मूर्ति शिरोमण देशिकः ॥ ९२॥
गन्धपुष्पाञ्चलयवकुशाग्रतिलसर्षपैः ।
सर्वैः सर्वदेवानामेतदय मुदीरितम् ॥ ९३ ॥
सुधामनुं ततः कुर्य्याधुपर्क मुखाम्बुजे ।
श्राज्य दधिमधूमिश्रमेतदुक्त मनीषिभिः ॥ ९४ ॥
तेनैव मनुना कुर्य्यादह्निराचमनीयकम् ।
गन्धाह्निः कारयेत् खानं वाससी परिक्षापयेत् ॥ ९५ ॥
दहित भारावाभरणैः सह ।
न्यासक्रमेण मनुना पुटितैर्माटकाचरैः ॥ ९६ ॥
अभ्यर्थ देवं गन्धायं रङ्गादीन् पुनरर्चयेत् ।
गन्धचन्दन कर्पूरकालागुरुभिरीरितः ॥ ९७ ॥
कमले करवीरे हे कुमुदे तुलसीयम् ।
जातीय केतके हे कतारं चम्पकोत्पले ॥ ९८ ॥
कुन्दमन्दारपुनागपाटलानागचम्पकस् ।
श्रारग्वधं कर्णिकारं पावन्ती नवमालिका ॥ ९९ ॥
सौगन्धिकं सकोरटं पलाशाभोमसिकाः ।
स्तरं सर्जक विषमर्जुनं सुनिपुष्यकम् ॥ १०० ॥
अन्यान्यपि सुगन्धीनि पुष्पपत्राषि देशिकैः ।
उपदिष्टानि पूजायामाददीत विचक्षणः ॥ १०१ ॥
मलिनं भूमिस्पृष्टं कृमिकेशादिदूषितम् ।
अनसंस्पृष्टमाघ्रातं त्यजेत् पर्युषितं गुरुः ॥ १०२ ॥
देवस्य मस्तकं कुर्य्यात् कुसुमोपचितं सदा ।
पूजाकाले देवताया नोपरि वामसेत् करम् ॥ १०३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/४३&oldid=409417" इत्यस्माद् प्रतिप्राप्तम्