वन्दनागुरुकर्पूरतमाल जलकुङ्कुमम् ।
कुमोद कुष्ठसंयुक्त भैवं गवाष्टकं विदुः ॥ ८० ॥
पाशादित्यक्षरासान्ते स्यादम्बस्य पदं पुनः ।
क्रमात् प्राणा इष्ट प्रांणास्तथा जीवं इह स्थितः ॥ ८१ ॥
अमुष्य सर्वेन्द्रियाणि भूयोऽमुष्य पदं भवेत् ।
वामनोनयन श्रोत्रप्राणप्रापपदान्यथ ॥। ८२ ॥
पश्चादिहागत्य सुखं चिरं तिहन्तु ठद्दयम् ।
अयं प्राणमनुः प्रोक्ताः सर्वजीवप्रदायकः ॥ ८३ ॥
पश्वादयत्यपनस चूत कोमलपलवैः ।
इन्द्रवन्नौसमाबद्धेः सुग्दुमधिया गुरुः ॥ ८४ ॥
कुम्भवक्तं पिधायामिन् चषकं सफलाचतम |
संस्थापयेत् फलधिया विधिवत् कल्पशाखिनाम् ॥ ८५ ॥
ततः कुम्भ' निर्मलेन चौमयुग्मन वेष्टयेत् ।
मूलेन मूर्त्तिः कृतास्मिन् छायायां कल्पशाखिनाम्॥८६॥
आवाह्य पूजयेत्तस्यां मन्त्रो मन्त्रस्य देवताम् ।
मूलमन्त्र ं समुच्चाय्ये सुषुम्नावर्त्मना सुधीः ॥ ८५ ॥
श्रानीय तेजः स्वस्थानामा सिकारम्वनिर्गतम् ।
करस्थमाटकाम्भोजे चैतन्य' पुष्पसञ्चये ॥ ८६ ॥
संयोज्य ब्रह्मरन्ध्रेण मूर्त्ति मावाहयेत् सुधीः ।
संस्थापनं विधानं सन्निरोधमतः परम् । ८७॥
सकलौकरणं पश्चादिदध्यादवगुण्ठनम् ।
मृतोकरणं कृत्वा कुर्वीत परमोक्कतम् ॥ ८८ ॥
क्रमादेतानि कुर्वीत खमुद्राभिः समाहितः ।
थोपचारान् कुर्वीत मन्त्रवित् स्वागतादिकान् ॥ ८९ ॥
खागतं कुशलप्रश्नं निगदेदग्रतो गुरुः ।
पाय पादाम्बुजे दद्याद् देवस्य हृदयामुना ॥ ९० ॥
पृष्ठम्:Sarada tilaka tantra.pdf/४२
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
चतुर्थः पटलः ।