सारदातिलकम् ।
प्रथमः पटलः ।
नित्यानन्दवपुर्निरन्तरमलत्पञ्चाशदर्यैः क्रमात्
व्याप्त' येन चराचरात्मकमिदं शब्दार्थरूपं जगत् ।
शब्दब्रह्म यचिरे सुकृतिनः चैतन्यमन्तर्गत
तोऽव्यादनिशं शशाङ्कमदनं वाचामधीशं महः ॥ १ ॥
अन्तःमितोल्लसितमिन्दुकलावतंस -
मिन्दीवरोदरसहोदरनेत्रशोभि ।
हेतुस्त्रिलोकविभवस्य नवेन्दुमौले.
रन्तःपुरं दिशतु मङ्गलमादरादः ॥ २ ॥
संसारसिन्धोस्तरणैक हेतून् दधे गुरून् मूर्ध्नि शिवखरूपान् ।
जांसि येषां पदपङ्गजानां तौर्थाभिषेकश्रियमावहन्ति ॥३॥
सारं वक्ष्यामि तन्त्राणां सारदातिलकं शुभम् ।
धर्मार्थकाममोक्षाणां प्रातः प्रथमकारणम् ॥ ४ ॥
शब्दार्थसृष्टिर्मुनिभिकन्दोभिर्देवतैः सह ।
fafa naraणां तम्बेऽस्मिन्नभिधीयते ॥ ५ ॥
निर्गुणः सगुणखेति शिवो ज्ञेयः सनातनः ।
निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः ॥ ६ ॥
सच्चिदानन्दविभवात् सकलात् परमेश्वरात् ।
बमच्छतिस्ततो नादो मादा हिन्दुसमुद्भवः
परः शक्तिमयः साक्षात् विधासौ भिद्यते पुनः ।
विन्दुनादो वीजमिति तस्य भेदाः समीरिताः ।
॥