ततो वच्यामि दीक्षा वास्तुयागपुरःसरम् ।
कृतेन येन मन्त्रज्ञो दीक्षायाः फलमश्र ते ॥ १॥
राक्षसं वास्तुनामानं हत्वाधिष्ठाय तत्तमुम् ।
स्थितास्त्रिपञ्चाशह वास्तेभ्यः पूर्वे बलिं हरेत् ॥ २ ॥
बलिमण्डलमेतेषां यथावदभिधीयते ।
पूर्वापरायतं सूत्रं विन्यसे दुक्तमानतः ॥ ३ ॥
तन्मध्यं किञ्चिदालम्बा मत्स्यौ द्वौ परितो लिखेत् ।
तयोर्मध्यस्थितं सूत्र विन्यसेदक्षिणोत्तरम् ॥ ४ ॥
द्वाभ्यां वाभ्यां तथाग्राभ्यां कोणेषु मकरान् लिखेत् ।
मत्स्यमध्यस्थिताग्राणि तत्र सूत्राणि पातयेत् ॥ ५ ॥
चतुरस्रं भवेत्तत्र चतुष्कोष्ठसमन्वितम् ।
तत् पुनर्विभजेन्मन्त्रौ चतुःषष्टिपदं यथा ॥ ६ ॥
ईशानाद्राचसं यावद् यावदग्नेः प्रभञ्जनम् ।
एवं सूत्रयं दद्यात् कर्णसूत्र समाहितः ॥ ७ ॥
ब्रह्माणं पूजयेदादौ मध्ये कोष्ठचतुष्टये ।
दिक्चतुष्केषु पूर्वादि यजेदय्यैमन्ततः ॥ ८ ॥
विवस्वन्तं ततो मित्र' महीधरमतः परम् ।
कोणाको षु वादिपरितः पुनः ॥ ९ ॥
सावित्र' सवितारञ्च शत्रु मिन्द्रजयं पुनः ।
रुद्र रुद्रजयं विद्वानापञ्चाप्यपवसकम् ॥ १० ॥
तत्कर्णसुत्रोभयतः कोष्ठहन्देषु देशिकः ।
सर्वं गुह्यं चार्य्यमणं जम्भकं लिपिपिज्जकम् ॥ ११ ॥
चरीञ्च विदारीञ्च पूतनामर्चयेत् क्रमात् ।
पृष्ठम्:Sarada tilaka tantra.pdf/२५
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
तृतीयः पटलः ।