सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
सारदातिलकम् ।

हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् ।
शिखा दशमाख्याता तावद्धिः कवचं वृतम् ॥ ६ ॥
वसुवर्षेः स्मृतं नेत्र' मासा पैरखमीरितम् ।
मूर्द्धनेनास्यकण्ठेषु हन्नाभ्यरुक्षु क्रमात् ॥ ७ ॥
जानुजापहन्द रुद्रभिन्नाचरेत् ।
पत्रभित्र पुन: षद्भिर्द्धाभ्यामष्टभिरचरैः ॥ ८ ॥
चतुर्वर्णैः षड्वर्णैश्च करणैः करणैः पुनः ।
चतुर्भिः षड्भिरतिभ्यां वर्णभेदोऽयमीरितः ॥ ९ ॥
सजलधनसमाभं भौमदंष्ट्र विनेत्री
भुजगधरमघोरं रक्तवस्त्राङ्गरागम् ।
पशुडमरुखङ्गान् खटकं वाणचापौ
त्रिशिखनरकपाले बिम्बतं भावयामि ॥ १० ॥
अभिचारे ग्रहध्वंसे कृष्णवर्षो भवेत् प्रभुः ।
वश्ये कुसुम्भसङ्गाशी मुक्तौ चन्द्रसमप्रभः ॥ ११ ॥
लक्षमेकं जपे सिक्के खिलैः शुभैः ।
तद्दशांशं प्रजुहुयान्मन्त्री मन्त्रस्य सिद्धये ॥ १२ ॥
शैवै संपूजयेत् पौठे षट्कोणस्तम्भपङ्कजे ।
पूजां केशरेषु कृत्वा पत्र ेषु तत्परम् ॥ १३ ॥
परशुं डमरुं खड्गं खेटं बायश्च कार्मुकम् ।
शूलं कपालं प्रयजे दष्टास्वाध्यस्य देशिकः ॥ १४ ॥
दलाग्रेषु ततः पूज्या ब्रह्माद्याः प्रोक्तलक्षणाः ।
लोकेशान् पूजयेत् सम्यगायुधैः स्वैः समन्वितान् ॥ १५ ॥
इति पूजादिभिः सिद्धे मन्त्रेणानेन साधकः ।
इष्टा प्रयोगान् कुर्वीत सिद्धान्तोऽयं न संशयः ॥ १६ ॥
क्रमं सर्पिरपामार्गतिलसर्पपपायसैः ।
सालः सहस्रं प्रत्येकं यामिन्यां सुतात् सुधीः ॥ १७ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/२२३&oldid=409687" इत्यस्माद् प्रतिप्राप्तम्