सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
सारदातिलकम् ।

लोहितोऽभ्यासः सच्यो विन्दुमान् प्रथमं तवः ।
द्वितीयं बडिवीजस्था दीर्घा शान्तिः सुभूषिता ॥ ४३ ॥
तृतीयं लाडली सर्गी मन्त्रों वीजत्रयान्वितः ।
नीलकण्टालकः प्रोक्तो विषयहरः परः ॥ ४४ ॥
वयं वह्निजाया हृदयं परिकीर्त्तितम् ।
कपर्दिने युगल शिवमन्त्र [उदाहृतः ॥ ४५ ॥
नीलकण्ठाय उहन्द' शिक्षामन्त्रोऽयमीरितः ।
कालकूटपदस्यान्त े विषभक्षणडेयुतम् ॥ ४६ ॥
हुँ फट् कवचमादिष्टं विनिलकण्ठने ।
स्वाहान्तमन्त्रमेतानि पञ्चाङ्गानि मनोविंदुः ॥ ४७ ॥
मूर्ध्नि कण्ठे हृदभोजे क्रमादोजवयं न्यसेत् ।
ततः समाहितो भूत्वा नीलकण्ठं विचिन्तयेत् ॥ ४८ ॥
बालार्कायुततेजर्स धृतजटाजूटे न्दु खण्डोवल
नागेन्द्रैः कृतभूषणं जपवटी शूलं कपालं करैः ।
खट्टाङ्गं दधतं त्रिनेत्रविलसत्पश्चाननं सुन्दरं
व्याघ्रत्वक्परिधानमा निलयं श्रीनीलकण्ठ भजे ॥ ४९ ॥
लक्षत्रयं जपन्मन्त्रं तहशा ससर्पिषा ।
हविषा जुहुयात् सम्यक् संस्कृते हव्यवाहने ॥ ५० ॥
शैवे पौठे यज्ञेद्दवं मृत्युञ्जयविधानतः ।
एवं पूजादिभिः सिद्धे मनौ मन्त्री विषद्दयम् ॥ ५१ ॥
नाशयेदचिरादेव नीलकण्ठ इवापरः ।
अनुनानेन संजप्त : कुम्भस्यैः सलिलैः शुभैः ॥ ५२ ॥
अभिषिचेद्दिाक्रान्त' स विषान्मुच्यते ध्रुवम् ।
सृष्ट्वा जयेद्दिषग्रस्तं तत्क्षणात् निर्विषो भवेत् ॥ ५३ ॥
वीजाभ्यां प्रथमान्ताभ्यां पार्श्वयोर्विषमाहरेत् ।
मध्येन मध्यगं सर्वं मनानेन संहरेत् ॥ ५४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/२१५&oldid=409679" इत्यस्माद् प्रतिप्राप्तम्