सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८९
सप्तदशः पटलः ।

ऋषिरच भवेकामपङ्क्तिम्छन्द उदाहृतम् ॥ ६० ॥
श्रीकराख्यो हरिः प्रोक्तो देवतास्य मनीषिभिः ।
हृदयं भौषय व वासय द्वितयं शिरः ॥ ६१ ॥
शिखा प्रमर्दय युगं वर्म प्रध्वंसय इयम् ।
रच युगं सर्वे हुमन्ताः समुदीरिताः ॥ ६२ ॥
मूर्ध्नि नेत्रद्वये कण्ठे हृदयोदस्योः पुनः ।
ऊदजङ्घापदद्दन्द मन्त्रवर्णान् प्रविन्यसेत् ॥ ६३ ॥
मुखे व्यसेद ब्राह्मणोऽस्य मुखमासीदयं मनुः ।
बाहू राजन्यः कृतोऽयं न्यस्तत्र्यो बाहुयुग्मके ॥ ६४ ॥
करु तदस्य यद्वैश्य इदमूरुदये न्यसेत् ।
पाददये न्यसेन् मन्त्र' पत्रां शूद्रोऽजायत ॥ ६५ ॥
चक्रं शङ्खं गदां पद्मं हस्ताय पथ विन्यसेत् ।
इत्यं न्यासं तनौ कृत्वा देवं पूर्वोक्तमण्डपे ।
रक्तपद्मासनस्थस्य गरुडस्योपरिस्थितम् ॥ ६६ ॥
काञ्चनादिसमप्रभं कमलाननं कमलेक्षण'
चक्रशङ्गमदासरोजधरं मनोहरदर्शनम् ।
कौस्तुभातिवक्ष मुकुटाङ्गदादिविभूषण"
सायं वाहनमच्युतं हृदि भावयामि जगत्पतिम् ॥ ६७ ॥
अष्टलक्ष' जपेन्तो मन्त्रमेनं दशांशतः
विषचौरडुमोत्याभिः समिद्भिरुरुणाम्बुजैः ॥ ६८ ॥
पयोङ्कैः सर्पिषा हुत्वा गुरु सन्तोषयेः ।
मूर्ती मूलेन लप्तायां पूजयेद्दे वसन्धम् ॥ ६९ ॥
अङ्गान्यादौ समाराध्य दिपषु समर्चयेत्।
श्रियं रति धृतिं कान्तिः लोलापङ्कजधारिणीम् ॥ ७० ॥
पौतारुणश्यामनौलविदिक्क्तेषु पूजयेत् ।
वादादिका मूर्तीः पार्श्वयोर्निधियुग्मकम् ॥ ७१ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/१९२&oldid=409638" इत्यस्माद् प्रतिप्राप्तम्