सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
सारदातिलकम् ।

स्वाहान्तोऽयं मनुः प्रोक्तः षड्भिः कौमोदकौप्रियः ॥ ४७ ॥
अशान्ते कटयुगं षष्ठोऽयं मनुरीरितः ।
संवर्त्तकान्त मुषलं प्रोथय द्वितयं पुनः ॥ ४८ ॥
फट हिठान्तो मन्त्रोऽयं सप्तमः परिकीर्त्तितः ।
पाशबन्धद्वयं पश्चादाकर्षय पदद्वयम् ॥ ४९ ॥
वह्निजायावधिः सदुभिरष्टमो मन्त्र ईरितः ।
लोकेशान् पूजयेत् पश्चाद्दज्जाद्ये रायुधैः सह ॥ ५० ॥
इत्थं समवेत्रित्यं यथावत् पुरुषोत्तमम् ।
आप्नोति महतीं लक्ष्मों सौभाग्यमतुलं यशः ॥ ५१ ॥
आयुरारोग्यमैश्वय्र्यमनोऽभीष्टानि विन्दति ।
हारिकुसुमेदेवमर्चयित्वा यथाविधि ॥ ५२ ॥
शशिनेर्जुहुयादष्टोत्तरसहस्रकम् ।
मासमाचेण वशगास्तस्य स्युः सकला नृपाः ॥ ५३ ॥
हुत्वा विवफलैः पर्क : श्रियं विन्द दनिन्दिताम् ।
प्रफुल्लैररुणाम्भोजैस्तामेव लभते पुनः ॥ ५४ ॥
हत्वा ज्योतिष्मतीतैलं सहस्रं वसुसंख्यकम् ।
सुभगो जायते सम्यक् सर्वेषां नात्र संशयः ॥ ५५ ॥
विधानेनासुना मन्त्री महारोगात् प्रमुच्यते ।
अश्वत्थनमिधो होम: पराहतधनावहः ॥ ५६ ॥
श्राज्यात दूर्वा हो मेन मुच्यते महतो भयात् ।
यस्य नामयुतं मन्त्रं जपेदयुतसंख्या ॥ ५७॥
स भवेद्दासवत्तस्य नात्र कार्या विचारणा ।
बहुना किमिहोन मनुना साधकोत्तमः ॥ ५८ ॥
साधयेदखिलान् कामान् साचादिष्णुरिवापरः ।
उतिष्ठ वर्णमाभाष्य श्रोक्रोधो हुताशनः ॥ ५९ ॥
जिया धर्मन्तो वखचरसमन्वितः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/१९१&oldid=409637" इत्यस्माद् प्रतिप्राप्तम्