सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८५
सप्तदशः पटलः ।

गुरुशब्दमयो कि तिष्ठसि पदं पुनः ।
सावदयावत्पदस्यान्त समोहितमनन्तरम् ॥ १० ॥
ततो मे सिमाभाष्य भवत्यन्त सवफट् ।
नमोऽन्तोऽयं मनुः प्रोक्को विशताक्षरसंयुतः ॥ ११ ॥
जेभिनिर्मुनिराख्यातञ्छन्दोऽस्यामितमौरितम् ।
समस्तजगतामादिर्देवता पुरुषोत्तमः ॥ १२ ॥
पुरुषोत्तम शब्दान्त वदेत् त्रिभुवनं पुनः ।
मदमादकराते हु हृदयं सकलं ततः ॥ १३ ॥
जगत्क्षोभणशब्दान्त लक्ष्मौदयितहुँ शिरः ।
मन्मथोत्तमसंयुक्तमङ्गजे कामदायिनि ॥ १४ ॥
हुँ शिखापरसोपेतसुभगान्तरसंयुतम् ।
सर्वसौभाग्यकरहॅ कवचं परिकीर्त्तितम् ॥ १५ ॥
उता सुरासुरोपेतमनुजान्वितसुन्दरोम् ।
ततः परस्तात् हृदयविदारणपदं वदेत् ॥ १६ ॥
सर्वप्रहरणवर सर्वकामिक तत्परम् ।
हन दयश्च हृदयबन्धनानि ततः परम् ॥ १७ ॥
आकर्षय पदद्दन्दमहाबल हुमन्त्रकम् ।
त्रिभुवनेश्वरपदं ततः सर्वजनं ततः ॥ १८ ॥
मनांसि इन युम्मान्तं दारय द्वितयच मे ।
वशमानय हुँ नेवं ताराद्याः फट् नमोऽन्तिकाः ॥ १९ ॥
षड़ङ्गमन्त्राः सन्दिष्टा नेत्रान्तास्तत्त्ववेदिभिः ।
त्रैलोक्यमोहनान्त हृषीकेशपदं पुनः ॥ २० ॥
पश्चादप्रतिरूपादि मन्मथानन्तरं वदेत् ।
सर्वादि स्त्रीपदं पश्चात् हृदयाकर्षणं ततः ॥ २१ ॥
आगच्छागच्छ मन्त्रोऽयं तारायो मनसान्वितः ।
अनेन मनुना कृत्वा व्यापकं न्यस बाहुषु ॥ २२ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/१८८&oldid=409634" इत्यस्माद् प्रतिप्राप्तम्