सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
षोडशः पटलः ।

नित्यं महाहवेदिष्ट वत्सराजनधान्यवान् ॥ ५४ ॥
रक्त स्त्रिमधुरोपेतैः पद्मर्भानुसहस्रकम् ।
जुहुयामहतीं लक्ष्मीमायुर्वश्यमवाङ्गयात् ॥ ५५ ॥
लाजास्त्रिमधुरोपेतान् प्रातःकालेषु जुष्श्वतः ।
कन्यासिद्दिर्भवेत् पश्चात् कन्यायाः सहरों भवेत् ॥ ५६ ॥
दूर्वापयोष्टताभ्यो ह्यष्टोत्तरशतं सुधीः ।
अन्वहं जुहुयात् सम्यक्दौर्घमायुरवाप्नुयात् ॥ ५७ ॥
तस्य रोगाः प्रणश्यन्ति धृत्या द्रोहादिभिः सह ।
सपञ्चगव्यां जुहुयादपामार्गस्य मध्वरीम् ॥ ५८ ॥
नित्य' सहस्रमानेन सप्ताहं विजितेन्द्रियः ।
होमोऽयं सर्वथा भूतत्यरोगान् प्रयाशयेत् ॥ ५९ ॥
सतिलैराज्यपामार्गहविरा यथाक्रमम् ।
द्विसहस्रं प्रजुहुयात् क्षुद्ररोगग्रहान् जयेत् ॥ ६० ॥
फ्योक्तैरमृताखण्डैस्त्रिसहस्र' 'चतुर्गुणम् ।
अनेन विहितो होमो ग्रहज्वरविनाशनः ॥ ६१ ॥
नृसिंहशक्तिवीजे द शूले तारगते लिखेत्।
तत्र ग्रहात्त संस्थाप्य अपेमन्तं षडक्षरम् ।
श्रविश्य सद्यस्तं मुचेत् यतः वन्दन् भयाकुलः ॥ ६२ ॥
आलिख्याग्निपुरद्दथं तदुदरे शक्ति ससाध्यां लिखेत्
षट्कोणेषु षडक्षरास्यथ मनोः कित्कसंस्थान् खरान् ।
पत्रष्वष्टसु मन्तराजविहितान् वर्णान् क्रमाई दश:
कायर्णेः पुनराकृतं चितिपुरे कोणेषु चिन्तामणिम् ॥ ६३ ॥
नरसिंहमिदं यन्त्रं लिखितं भूर्जपत्रके ।
विधृतं शिरसा शीर्षं रोमभूतज्वरान् हरेत् ॥ ६४ ॥
बहुना किमिहोक्तेन मन्त्रैरेतैरुदीरितैः ।
मो नास्ति मनुः कश्विच्चापानुग्रहकारकः ॥ ६५ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/१८०&oldid=409626" इत्यस्माद् प्रतिप्राप्तम्