सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
सारदातिलकम् ।

विल्वैः फलैः शतो होमः श्रीकरः परिगीयते ।
कुन्दपुष्पाणि जुहुयादिच्छन् वाश्रियमुत्तमाम् ॥ ८० ॥
मनुनानेन संजतं घृतं ब्राह्मौरसः सृतम् ।
कवितामाहरेत् पुंसामनर्गलविजृम्भिणौम् ॥ ८१ ॥
वचामनेन संजप्तां भक्षयेत् प्रातरन्वहम्
सर्ववेदागमादीनां व्याख्याता जायतेऽचिरात् ॥ ८२ ॥
मनोरस्य समो नास्ति ज्ञानेश्वय्यप्रदः पुनः ।
अनन्तोऽन्यासनः सेन्दुवोज' रामाय हृन्मनुः ॥ ८३ ॥
षडक्षरोऽयमादिष्टो भजतां कामदो मणिः
ब्रह्मा प्रोक्तो मुनिम्कन्दी गायच्च देवता मनोः ॥ ८४ ॥
देशिकेन्द्रः समाख्यातो रामो राक्षसमर्दनः ।
दीर्घभाजा सयोजेन कुर्य्यादङ्गानि षट् क्रमात् ॥ ८५ ॥
ब्रह्मरन्धुवोर्मध्ये नाभ्यन्धुषु पादयोः ।
पड़तराणि विव्यस्येन्मन्त्रस्य मतुवित्तमः ॥ ८६ ॥
कालाश्श्रोवरकान्तिमनिशं बौरासनाध्यासिनं
मुद्रां ज्ञानमयीं दानमपरं हस्ताम्ब ुजं जानुनि ।
सोत पार्श्व गतां परोक्षहकरां विद्युजिमां राघव'
पश्यन्त मुकुटाङ्गदादिविविधाकल्पोळवलाई भजे ॥ ८७ ॥
वर्णलचं जपेन्मन्त्र' दर्शाशं कमलैः शुभैः ।
जुहुयादर्चिते वो ब्राह्मवान् भोजयेत्ततः ॥ ८८ ॥
पूजये वे पौठे मूर्त्ति मूलेन कल्पयेत् ।
श्री सीतायै विठान्त ेन सीतां पार्श्वगतां यजेत् ॥ ८९ ॥
अग्रे पाइये साई शरणाामि तद्बहिः ।
हनूमन्त ं ससुग्रीवं भरतं सविभीषणम् ॥ ९० ॥
लक्ष्मणाङ्गदशत्रुघ्नान् जाम्बवन्त दलेष्विमान् ।
वारयन्त' हनूमन्तमग्रतो धृतपुस्तकम् ॥ ९१ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/१६९&oldid=409615" इत्यस्माद् प्रतिप्राप्तम्