सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
सारदातिलकम् ।

कल्पावसानं प्रविचिन्त्य देवाः कैलासनाथं श्रुतिभि: स्तुवन्ति ॥ १३६ ॥
नागानमे नागकुतोत्तरीये क्रौड़ारते देवकुमारसंधैः ।
त्वयि चणं कालहतिं विहाय तो प्रापतुः कन्दुकता मिलेन्दू ॥ १३७ ॥
मदोल्लसत्पञ्चमुखैरजस्त्रमध्यापयन्तं सकलागमार्थान् ।
देवानृषीन् भक्तजने कमिचं हेरम्ब सकरुणमाश्रयामि ॥ १३८ ॥
पादाम्बुजाभ्यामतिवामनाभ्यां कृतार्थयन्त' कृपया धरित्रीम् ।
अकारणं कारणमाप्तवाचां तं नागवत' न जहाति चेतः ॥ १३९ ॥
येनार्पितं सत्यवतीसुताय पुराणमालिख्य विषाणकोट्या ।
चन्द्रमौलेस्तनयं तपोभिराराध्यमानन्दघनं भजामि ॥ १४० ॥
पदं श्रुतीनामपदं स्तुतीनां लीलावतारं परमार्थमूर्तेः ।
नागात्मको वा पुरुषात्मको वेत्य मेथमाद्यं भज विघ्नराजम् ॥ १४१ ॥
पाशाङ्कुशौ भग्नरदं लभोट करेधानं कररन्मुक्तः ।
मुक्ताफलाः पृथुशोकरौघैः सिद्धन्तमङ्गं शिवयोर्भजामि ॥ १४२ ॥
अनेकमेकं गजमेकदन्त' चैतन्यरूपं जगदादिवीजम् ।
ब्रह्मेति यं ब्रह्मविदो वदन्ति तं शम्भुसूनुं शरणं भजामि ॥ १४३ ॥
खास्थिताया निजवल्लभाया मुखाम्ब ु जालोकनलालनेत्रम् ।
मेराननाल' मदवैभवेन रुवं भजे विश्वविमोहन तम् ॥ १४४ ॥
ये पूर्वमाराध्य गजाननं त्वां म्रर्वाणि शास्त्राणि पठन्ति तेषाम् ।
त्वत्तो नचान्यत् प्रतिपाद्यमस्ति तदस्ति चेत् सर्वमसत्यकल्प ॥ १४५ ॥
हिरस्यवर्णे नगदीशितार कविं पुराणं रविमण्डलस्थम् ।
गजाननं यं प्रविशन्ति सन्तस्तत्कालयोगैस्तमहं प्रपद्ये ॥ १४६ ॥
वेदान्तगर्त पुरुषं भजेम चानन्दमानन्दधनं हृदिस्थम् ।
गजाननं यम इसा जनानां विवान्धकारो विलयं प्रयाति ॥ १४७ ॥
अभी: समालोच्य जटाकलापे प्रशास्वई निजपुष्करेव ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/१४९&oldid=409579" इत्यस्माद् प्रतिप्राप्तम्